कलाविलासः (क्षेमेन्द्रविरचितः)
कलाविलासः क्षेमेन्द्रः १९२९ |
[१]महाकविश्रीक्षेमेन्द्रविरचितः
कलाविलासः।
प्रथमः सर्गः।
अस्ति विशालं कमलाललितपरिष्वङ्गमङ्गलायतनम् ।
श्रीपतिवक्षःस्थलमिव रनोज्ज्वलमुज्ज्वलं नगरम् ॥१॥
मणिभूबिम्बितमुक्ताप्रलम्बनिवहेन यत्र शेषाहिः ।
भवनानि बिभर्ति सदा बहुधात्मानं विभज्येव ॥ २ ॥
विघ्नोऽभिसारिकाणां भवनगणस्फाटिकप्रभानिकरः ।
यत्र विराजति रजनीतिमिरपटप्रकटलुण्ठाकः ॥ ३ ॥
यत्र त्रिनयननयनज्वलनज्वालावलीशलभवृत्तिः ।
जीवति मानसजन्मा शशिवदनावदनकान्तिपीयूपैः ॥ ४ ॥
रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र ।
श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्यनिलाः ॥ ५ ॥
नवबिसकिसलयकवलनकषायकलहंसकलरवो यत्र ।
कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः ॥ ६ ॥
नृत्यन्मुग्धमयूरा मरकतधारागृहावली सततम् ।
सेन्द्रायुधधननिवहा प्रावृण्मूर्तेव यत्रास्ते ॥ ७ ॥
शशिकिरणप्रावरणस्फाटिकहर्म्येषु हरिणशावाक्ष्यः ।
यत्र विभान्ति सुधाम्बुधिमुग्धतरङ्गोत्थिता इवाप्सरसः ॥ ८ ॥
तत्रामूदभिभूतप्रभूतमायानिकायशतधूर्तः ।
तिलकादिग्रन्थसमाप्तिष्वनन्तराजस्य वर्णनं कृतमस्ति ।. अनन्तराजस्य राज्यकालस्तु
१०२८ मितात्स्रिस्तसंवत्सरादारम्य १०८० मितसंवत्सरपर्यन्तमासीत्, तस्मिन्नव समये
मालवाधीशो भोजराजोऽप्यासीत् ।. " स च भोजनरेन्द्रश्च दानोत्कर्मेण विश्रुतौ । सूरी
तस्मिन्क्षणे तुल्यं द्वावास्तां कविबान्धवो" ॥ इति राजतरङ्गिणी (७।२५९)। सोऽन-
न्तराज इत्यर्थः क्षेमेन्द्रेण बहयो ग्रन्था विरचिताः,तन्मध्यादद्यावधि ज्ञाता ग्रन्यास्त्वेते-
(१) अमृततरङ्गकाव्यम्, (२) औचित्यविचारचर्चा, (३) कनकजानकी, (४) कलाविलासः
(५) कविकण्ठाभरणम्, (६) चतुर्वर्गसंग्रहः, (७) चारुचर्या, (८) चित्रभारतनाटकम् (९)
दशावतारचरितकाव्यम्, (१०) देशोपदेशः, (११) नीतिकल्पतरुः, (१२) पद्मकादम्बरी,
(१३) पवनपश्चाधिका, (१४) बृहत्कथामञ्जरी, (१५) बोधिसत्त्वावदानकल्पलता, (१६)
भारतमञ्जरी, (१७) मुक्तावली, (१८) राजावली, (१९) रामायणमञ्जरी, (२०) लावण्य-
वती, (११) लोकप्रकाशकोषः, (२२) वात्स्यायनसूत्रका(सा)रः, (२३) व्यासाष्टकम् ,
(२४) शाशिवंशमहाकाव्यम् , (२५) समयमातृका, (२६) मुक्ततिलकम, (२७) सेन्य-
सेवकोपदेशः, (२८) हस्तिजनप्रकाशः।
सकलकलानिलयानां धुर्यः श्रीमू[२]लदेवाख्यः ॥ ९ ॥
नानादिग्देशागतधूर्तैरुपजीव्यमानमतिविभवः ।
स प्राप विपुलसंपदमात्मगुणैश्चक्रवर्तीव ॥ १० ॥
भुक्तोत्तरं सहृदयैरा[३]स्थानीसंस्थितं कदाचित्तम् ।
अभ्येत्य [४]सार्थवाहो दत्तमहार्होपहारमणिकनकः ॥ १२ ॥
प्रणतो हिरण्यगुप्तः सहितः पुत्रेण चन्द्रगुप्तेन ।
प्राप्तासनसत्कारः प्रोवाच मुहू विश्रान्तः ॥ १२ ॥ (युग्मम्)
अतिपरिचयसप्रतिभा तव पुरतो मादृशामियं वाणी ।
प्राम्याङ्गनेव नगरे न तथा प्रागल्भ्यमायाति ॥ १३ ॥
पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते ।
तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥ १४ ॥
आजन्मार्जितबहुविधमणिमौक्तिककनकपूर्णकोषस्य ।
एको ममैष सूनुः संजातः पश्चिमे वयसि ॥ १५ ॥
मोहस्थानं बाल्यं यौवनमपि मदनमानसोन्मादम् ।
अनिलावलोलनलिनीदलजलचपलाश्व वितचयाः ।। १६ ॥
हारिण्यो हरिणदृशः सततं भोगाञ्जमधुकरा धूर्ताः ।
पतिता परम्परैषा दोषाणां मम सुतस्यास्य ॥ १७ ।। (युग्मम्)
धूर्तकरकन्दुकानां वारवधूचरणनूपुरमणीनाम् ।
धनिकगृहोत्पन्नानां मुक्तिनास्त्येव मुग्धानाम् ॥ १८ ॥
अज्ञातदेशकालाश्चपलमुखाः पङ्गयोऽपि सप्लुतयः ।
नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥ १९ ॥
१. मूलदेवनामा कश्चिदतिप्राचीनः कालशासप्रवर्तक आसीत्, अस्यैष कणीसुतः
कलाङ्करः, मूलभद्रः, एतान्यपि नामान्तराणि सन्ति. सुबन्धुप्रणीतायां वासवत्ताया वास-
वदत्तस्वयंवरवर्णने 'तत्र च केचित्कला*रा इव विजितनगरमण्डनाः' इत्यस्ति त*कायां
'कलाङ्करा इव मूलदेवा 'इव । “कर्णीस्तो मूलदेवो मूलभद्रः कलाङ्कुर इति हारावली ’
इत्यादि वर्तते। कादम्बरीकथायां विन्ध्याटवीवर्णने 'कर्णीसुतकथैव संनिहितविपुकाबला'
इत्याद्यस्ति कथासरित्सागरे च नवाशीतितमे चतुर्विंशोत्तरशततमे च तरङ्गे मूलदेवकथा
बर्तते ।. तत्र च विक्रमादित्यसमायां मूलदेन आसीदित्यादि वर्षितमस्ति .
२. समा. ३.**.
आश्रितजनतनयोऽयं तव विद्वन्निजसुताधिकः सत्यम् ।
न यथा प्रयाति नाशं तथास्य बुद्धिंं प्रयच्छ पराम् ॥ २० ॥
इति विनयनम्रशिरसा तेन वचो युक्तमुक्तमवधार्य ।
तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौष्ठाग्रः ॥ २१ ॥
आस्तामेष सुतस्ते मम भवने निज इव प्रयत्नपरः
ज्ञास्यति मयोपदिष्टं शनकैः सकलं कलाहृदयम् ॥ २२ ॥
इति तस्य शासनेन स्वसुतं निःक्षिप्य तद्गृहे मतिमान् ।
नत्वाथ सार्थवाहः प्रययौ निजमन्दिरं मुदितः ॥ २३ ॥
अथ शिथिलकिरणजाले धूसरकान्तिर्नि[५]रम्बरस्तरणिः ।
अभवदहश्यः शनकैर्धूर्तैरिव निर्जितः कित[६]वः ॥२४॥
अस्तमिते दिवसकरे तिमिर[७]भरद्विरदसंसक्ता ।
सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ संध्या ॥ २५ ॥
त्यक्तापि प्रतिदिवसं दिवसद्युतिरनुजगाम दिवसकरम् ।
न तु रक्तापि हि संध्या हृदयं जानाति कः स्त्रीणाम् ॥ २६ ॥
गगनाङ्गणकमलवने संध्यारागे गते शनैः कापि ।
अप्राप्तस्थितिविकलं बभ्राम [८]भ्रमरविभ्रमं तिमिरम् ॥ २७ ॥
तीक्ष्णांशुविरहमो[९]हैस्तिमिरैरिव मीलिता बभूव मही।
तीव्रोऽपि जनस्य सदायातः खलु वल्लभो भवति ॥ २८॥
रजनी रराज सिततरतारकमुक्ताकलापकृतशोभा ।
शबररमणीव परिचिततिमिरमयूरच्छदाभरणा ॥ २९ ॥
अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः ।
कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ ३० ॥
मन्मथसितातपत्रं दिग्वनितास्फटिकदर्पणो विमलः ।
विरराज रजनिरमणीसिततिलको यामिनीनाथः ॥ ३१॥
१. अम्बंर वस्त्रमाकाश्च. २. धूतकारः, ३. तिमिरसमूह एप हस्ती. ४. भ्रमरसहशम्
५. मोहैरिव तिमिरैरित्यन्वयः मोहस्य कृष्णवर्णत्वं कविसंप्रदायसिद्धम्.
निजकरमृणालवल्लीवलयविलासी ललास सितकान्तिः ।
गगनतटिनीतटान्ते रजनिकरो राजहंस इव ॥ ३२ ॥
श्यामा शुशुभे शशिना तया मनोभूर्मधूत्सवस्तेन ।
मदमुदितमानसानां तेनापि मृगीशां लीला ॥ ३३ ॥
धूर्ताः समृद्धिसचिवा विच्छायां पद्मिनीं परित्यज्य ।
फुल्लानि विविशुरलयः सानन्दाः कुमुदवृन्दानि ॥ ३४ ॥
[१०]ज्योत्स्नाभस्मस्मेरा सुललितशशिशकलपेशलकपाला ।
तारास्थिपटलहारा शुशुभे कापालिकीव निशा ॥ ३५ ॥
तस्मिन्प्रौढनिशाकरकिरणप्रकरप्रकाशिताशेषे ।
निजमणिभवनोद्याने निर्वर्तितभावनासमाधानः ॥ ३६॥
स्फटिकासनोपविष्टः सह शशिना निर्विभागमित्रेण ।
कन्दलिमुख्यैः शिष्यैः परिवारितपादपीठान्तः ॥ ३७ ॥
प्रोवाच मूलदेवो वीक्ष्य 'चिरं सार्थवाहसुतमग्रे।
कुर्वन्दशनमयूखैर्लज्जालीनामिव ज्योत्स्नाम् ॥ ३८ ॥ (विशेषकम्)
शृणु पुत्र वञ्चकानां सकलकलाहृदयसारमतिकुटिलम् ।
ज्ञाते भवन्ति यस्मिन्क्ष[११]णरुचिचपलाः श्रियोऽप्यचलाः ॥ ३९ ॥
एकोऽस्मिन्मवगहने तृणपल्लववलयजालसंच्छन्नः ।
कूपः पतन्ति यस्मिन्मुग्धकुरका निरालम्बे ॥ ४० ॥
सोऽयं निधानकुम्भो दम्भो नाम खभावगम्भीरः ।
कुटिलैः कुहकभुजंगैः संवृतवदनः सितो लोके ॥ ४१ ॥
मायारहस्यमन्त्रश्चिन्तामणिरीप्सितार्थानाम् ।
दम्भः प्रभावकारी धूर्तानां श्रीवशीकरणम् ॥ ४२ ॥
मत्स्यस्येवाप्सु सदा दम्भस्य ज्ञायते गतिः केन ।
नास्य करौ न च पादौ न शिरो दुर्लक्ष्य एवासौ ॥ ४३ ॥
१. 'ज्योत्स्ना भस्मच्छुरणधला बिव्रती तारकास्थीनन्तर्धानस्यसनरसिका रात्रिकापा- दिकीयम् ।द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकमाले न्यस्तं सिद्धाज्ञानपरिमलम् xxx xx । इति काव्यप्रकाशोदाहृतं रूपकालांकारोदाहरणपथमनुकरोतीयमार्यां २.xxx
मन्त्रबलेन भुजंगा मुग्धकुरङ्गाश्च कूटयन्त्रेण ।
स्थलजालेन विहंगा गृह्यन्ते मानवाश्च दम्भेन ।। ४४ ॥
जनहृदयविप्रलम्भो मायास्तम्भो जगज्जयारम्भः ।
जयति सदानुपलम्भो मायारम्भोदयो दम्भः ॥ ४५ ॥
सततावर्तभ्रान्ते दुःसहमायासहस्रकुटिलारे ।
मूलं दम्भो नाभिर्विपुलतरे चक्रिकाचके ॥ ४६ ॥
नयननिमीलनमूलः सुचिरं स्रानार्द्रचूलजलसिक्तः ।
दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः ॥ ४७ ॥
व्रतनियमैर्बकदम्भः संवृतनियमैश्च कूर्मजो दम्भः ।
निभृतगतिनयननियमैर्घोरो मार्जारजो दम्भः ॥ ४८॥
बकदम्भो दम्भपतिर्दम्भनरेन्द्रश्च कूर्मजो दम्भः ।
मार्जारदम्म एष प्राप्तो दम्भेषु चक्रवर्तित्वम् ॥ ४९ ॥
नीचनखश्मश्रुकचचूली जटिलः प्रलम्बकूर्चो वा ।
बहुमृत्तिकापिशाचः परिमितभाषी प्रयत्नपादत्रः ॥५०॥
स्थूलग्रन्थिपवित्रकपृष्ठार्पितहेमवाल्लीकः ।
कक्षार्पितपटपल्लवरुद्धभुजो भाण्डहस्त इव ॥ ५१ ॥
अङ्गुलिभङ्गविकल्पनविविधविवादप्रवृत्तपाण्डित्यः ।
जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥ ५२ ॥
साभिनयाञ्चितचुलकैराचमनैः सुचिरमज्जनैस्तीर्थे ।
संरुद्धसकललोकः पुनः पुनः कर्णकोणसंस्पर्शी ॥ ५३॥
सीत्कृतदन्तनिनादावेदितहेमन्तदुःसहस्रानः ।
विस्तीर्णतिलकचर्चासूचितसर्वोपचारसुरपूजः ॥ ५४ ॥
शिरसा बिभर्ति कुसुमं विनिपतितां काकदृष्टिमित्र रचयन् ।
एवंरूपः पुरुषो यो यः स स दाम्भिको ज्ञेयः ॥ ५५ ॥
निर्गुणलोकप्रणतः सगुणे स्तब्धः स्वबन्धुषु द्वेषी ।
परजनकरुणाबन्धुः कीर्त्यर्थी दाम्भिकी धूर्तः ॥ ५६ ॥
कार्योपयोगकाले प्रणतशिराश्चाटुशतकारी ।
सभ्रूभङ्गो मौनी कृतकार्यो दाम्भिकः क्रूरः ॥ ५७ ॥
स्तम्भितविबुधसमृद्धिदैत्यो योऽभूत्पुरा जम्भः ।
दम्भः सोऽयं निवसति भूमितले भूतदेहेषु ॥ ५८ ॥
शुचिदम्भः शमदम्भः स्नातकदम्भः समाधिदम्भश्च ।
निःस्पृहदम्भस्य तुलां यान्ति तु नैते शतांशेन ॥ ५९॥
शौचाचारविवादी मृत्क्षयकारी स्वबान्धवस्पर्शी।
शुचिदम्भेन जनोऽयं विश्वामित्रत्वमायाति ॥ ६० ॥
संहृतबहुविधसत्त्वो निःक्षेपद्रविणवारिबहुतृष्णः ।
सततमहिंसादम्भी बडवाग्निः सर्वभक्षोऽयम् ॥ ११ ॥
मुण्डो जटिलो नमशनी दण्डी कषायचीरी वा।
भस्मस्मेरशरीरो दिशि दिशि भोगी विञृम्भते दम्भः ॥ ६२ ॥
खल्वाटः स्थूलवपुः शुष्कतनुर्मुनिसमानरूपो वा।
शाटकवेष्टितशीर्षश्वैत्योन्नतशिखरवेष्टनो वापि ॥ ६३ ॥
लोभः पितातिवृद्धो जननी माया सहोदरः कूट।
कुटिलाकृतिश्च गृहिणी पुत्रो दम्भस्य हुंकारः ॥ ६४ ॥
भगवान्पुरा स्वयंभूः कृत्वा भुवनानि भूतसर्ग च ।
विरतव्यापारतया सुचिरं चिन्तान्वितस्तस्थौ ॥ ६५ ॥
दृश्य स मर्त्यलोके दिव्यदृशा मानुषान्निरालम्बान् ।
आर्जवयोगविशेषादप्राप्तधनादिसंभोगान् ॥ ६६ ॥
मीलितनयनः क्षिप्रं स्थित्वा मायामये समाधाने ।
असूजन्नृणां विभूत्यै दम्भ संभावनाधारम् ॥ ६७ ॥
बिभ्राणः कुशपूलीं पुस्तकमाले कमण्डलुं शून्यम् ।
निजहृदयकुटिलशृङ्गं दण्डं कृष्णाजिनं स्वनित्रं च ॥६८॥
स्थूलतरकुशपवित्रकलाञ्छितकर्णः पवित्रपाणिश्च ।
सुव्यक्तमुण्डमस्तककुशवेष्टितचूलसूलसितकुसुमः ॥ ६९ ॥
काष्ठस्तब्धग्रीवो जपचपलौष्ठः समाधिलीनाक्षः ।
रुद्राक्षवलयहस्तो मृत्परिपूर्ण वहनमात्रम् ॥ ७० ॥
नयनाञ्चलैः सकोपैर्भ्रुकुटीहुंकारवदनसंज्ञाभिः ।
बहुविधकदर्थनाभिः कथिताखिलहृदयवाञ्छितो मौनी ॥ ७१ ॥
रक्षन्परसंस्पर्शं शौचार्थी ब्रह्मलोकेऽपि ।
दम्भः पुरोऽस्य तस्थावुस्थित एवासनाकाङ्क्षी ॥ ७२ ॥
आकल्पेन सुमहता सहसास्य वशीकृताः परं तेन ।
सप्तर्षयोऽपि तस्मै प्रणतारतस्थुः कृताञ्जलयः ॥ ७३ ॥
तं दृष्ट्वा परमेष्ठी लीलाकृतसकलसर्गवर्गोऽपि ।
गौरवविस्मयहर्षौर्निःस्पन्दान्दोलितस्तस्थौ ॥ ७४ ॥
तस्यातितीव्रनियमाद्ग्रस्तेऽगस्त्येऽतिविस्मयेनेव ।
अल्पतपोव्रतलज्जाकुञ्चितपृष्ठे वसिष्ठे च ॥ ७५ ॥
अतिसरलनिजमुनित्रतपरिगतकुत्से च कूणिते कौत्से ।
डम्बररहितात्मतपोनिरादरे नारदे विहिते ॥ ७६ ॥
निजजानुसंधिशिखरे जमदग्नौ ममवदने च ।
त्रस्ते विश्वामित्रे वलितगले गालवे भृगौ मग्ने ॥ ७७ ॥
सचिरोत्थितमतिकोपादासनकमले निविष्ठदृष्टिं च ।
शूलप्रोतमिवाग्रे निःस्पन्दममन्दगर्वगुरुगात्रम् ॥ ७८ ॥
ज्ञात्वा तमासनार्थिनमवदद्देवश्चतुर्मुखः प्रीत्या ।
विकसन्निजदशनरुचा विहसन्निव वाहनं हंसम् ॥ ७९ ॥
उपविश पुत्र ममाङ्के नियमेन महीयसातिचित्रेण ।
अर्होऽसि गुणगणोद्भतगौरवसंवादिनानेन ॥ ८० ॥
इत्युक्तो विश्वसृजा तस्याकमशङ्कया ससंकोचः ।
अभ्युक्ष्य वारिमुष्ट्या कृच्छ्रेणोपाविशद्दम्भः ।। ८१ ॥
दम्भ उवाच -नोच्चैर्वाच्यमवश्यं यदि वाच्यं हस्तपद्मेन ।
आच्छाध वक्ररन्द्रं स्पृष्टो न स्मां य[१२]षास्वातांशैः।। ८२ ॥
१. मुखमारुतः
तत्तस्य शौचमतुलं दृष्ट्वा स्मेराननो ब्रह्मा ।
दम्भोऽसीति जगाद पायो हस्ताग्रमाकम्प्य ॥ ८३ ॥
उत्तिष्ठ सकलजलनिधिपरिखावलिमेखलां महीमखिलाम् ।
अवतीर्य भुङ्क्ष्व व भोगान्विबुधैरपि तत्त्वतो न विज्ञातः ॥ ८४ ॥
इत्यादराद्विसृष्टो विधिना संसारसागरगतानाम् ।
कण्ठे शिलां निबध्नन्मर्त्यानामवततार महीम् ।। ८५॥
अथ मर्त्यलोकमेत्य भ्रान्त्वा दम्भो वनानि नगराणि ।
विनिवेश्य गौडविषये निजजयकेतुं जगाम दिशः ॥ ८६ ॥
वचने बाहीकानां व्रतनियमे प्राच्यदाक्षिणात्यानाम् ।
अधिकारे कीराणां दम्भः सर्वत्र गोडानाम् ॥ ८७ ॥
एते दम्भसहायाः प्रतिग्रहश्राद्धसिद्धचूर्णेन ।
कुर्वन्ति ये प्रभाते यतस्ततो भस्मना तिलकम् ॥ ८८॥
तुर्णं सहस्रभागैर्भुवनतले संविभज्य भूतानि ।
मूर्तः सततं निवसति दम्भो वदनेऽधिकरणभट्टानाम् ॥ ८९ ॥
गुरुहृदयमविशदग्रे बालकहृदयं तपस्विहृदयं च ।
कुटिलं नियोगिहृदयं दीक्षितहृदयं स्वयं दम्भः ॥ ९० ॥
तदनु च गणकचिकित्सकसेवकवणिजां सहेमकाराणाम् ।
नटभटगायनवाचकचनचराणां च हृदयानि ॥ ९१ ॥
अंशैः प्रविश्य हृदयं विविधविकारैः समस्तजन्तूनाम् ।
दम्भो विवेश पश्चादन्तरमिह पक्षिवृक्षाणाम् ॥ ९२ ॥
मत्स्यार्थी चरति तपः सुचिरं निःस्पन्द एकपादेन ।
तीर्थेषु बकतपस्वी तेन विहंगागतो दम्भः ॥ ९३ ॥
विपुलजटावल्कलिनः शीतातपवातकर्शिताः सततम् ।
वृक्षा जलार्थिनी यद्दम्भस विजृम्भितं तदपि ॥ ९४ ॥
एवं विचारणीयः सर्वगतः सर्वहृत्सदा दम्भः । .
ज्ञाते तस्मिन्विविधे विफला मायाविनां माया ॥ ९५॥
।
दम्भविकारः पुरतो वञ्चकचक्रस्य कल्पवृक्षोऽयम् ।
वामनदम्भेन पुरा हरिणा त्रैलोक्यमाक्रान्तम् ॥ ९६ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे दम्भाख्यानं नाम प्रथमः सर्गः ।
द्वितीयः सर्गः।
लोमः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् ।
कार्याकार्यविचारो लोभाकृष्टस्य नास्त्येव ॥१॥
मायाविनिमयविभ्रमनिह्नववैचित्यकूटकपटानाम् ।
संचयदुर्गपिशाचा: सर्वहरो मूलकारणं लोभः ॥२॥
सत्त्वपशमतपोभिः सत्वनैः शास्त्रवेदिभिर्विजितः ।
लोभोऽव[१३]टं प्रविष्टः कुटिलं हृदयं कि[१४]राटानाम् ॥ ३ ॥
क्रयविक्रयकूटतुलालाघवनिःक्षेपरक्षणव्याजैः ।
एते हि दिवसचौरा मुष्णन्ति मुदा जनं वणिजः ॥ ४ ॥
हृत्वा धनं जनानां दिनमखिलं विविधकूटमायाभिः ।
वितरति गृहे किराटः कष्टेन [१५]वैराटकत्रितयम् ॥ ५॥
आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् ।
दष्ट इव कृष्णसर्पैः पलायते दानधर्मेभ्यः॥ ६ ॥
द्वादश्यां पितृदिवसे संक्रमणे सोमसूर्ययोर्ग्रहणे ।
सुचिरं स्नानं कुरुते न ददाति कपर्दिकामेकाम् ॥ ७ ॥
दत्या दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा ।
चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥ ८॥
न ददाति प्रतिवचन विक्रयकाले शठो वणिङ्भौनी ।
निःक्षेपपाणिपुरुषं दृष्ट्वा संभाषणं कुरुते ॥ ९॥
उत्तिष्ठति नमति वणिक्पृच्छति कुशलं ददाति च खानम् ।
निःक्षेपपाणिपुरुषं दृष्ट्वा धर्म्यां कथां कुरुते ॥ १० ॥
१. गर्तम्, २. वैश्यजातिविशेषाणाम्. ३. गृहव्ययार्थमतिखल्यं ददातीति भावर,
कश्चिद्वदति तमेत्य द्रविणं निःक्षिप्य हन्त गन्तासि ।
प्रातः परं प्रभाते वि[१६]ष्टिदिनं किं करोम्यद्य ॥ ११ ॥
तच्छुत्वा विकसितहदृग्वदति स मिथ्यैव नाटयन्खेदम् ।
कार्ये प्रसारिताक्षः पुनः पुनः पार्श्वमवलोक्य ॥ १२ ॥
त्वधीनं स्थानमिदं किं तु चिरं न्यासपालनं कठिनम् ।
विषमौ च देशकालौ साधोस्तव तदपि दासोऽहम् ॥ १३ ॥
भद्रा न दूषितैषा निःक्षेपक्षेमकारिणी शस्ता ।
इत्यनुभूतं बहुशः कार्यज्ञैस्त्वं तु जानासि ॥ १४ ॥
विष्टिदिने किमपि पुरा न्यस्तं केनापि मिश्रेण ।
तूर्णं पुनश्च शनकैनीतं क्षेमेण [१७]कुशलेन ॥ १५ ॥
इत्यादि मुग्धबुद्धेरसमञ्जसवर्णनं रहः कृत्वा :
गृह्णाति कनकनिकरं नृत्यस्तत्तन्मनोरथैः पापः ॥ १६ ॥
तत्संचूर्णनजातैः क्रियविक्रयलाभराशिभिरनन्तैः ।
भाण्डप्रतिमाण्डचयैरुपहसति धनाधिनाथं सः ॥ १७ ॥
पूर्णाः कदर्यवणिजां निःसंभोगा निधानधनकुम्भाः।
सीदन्ति कुचतटा इव दुःखफाला बालविधवानाम् ॥ १८ ॥
दानोपभोगविरहितहिरण्यरक्षाकृतक्षणाः सततम् ।
संसारजीर्णमन्दिरविषममहामूषका वणिजः ॥ १९ ॥
अटति समुत्कटवेष्टितविकटपटस्फुरफटाटोपः ।
कुटिल कण्टकनिचितः पुरपतिनामा निधिव्यालः ॥२०॥
अथ पुरुषः स दिगन्तंभ्रान्त्वा केनापि दैवयोगेन ।
नष्टधनो जनरहिता प्राप्तः सुचिरान्निजं देशम् ॥ २१ ॥
पृच्छति कमपि सशङ्कः स किराटः क्व नु तु गतो महासत्त्वः
तमुपेत्य वदति कश्चित्तस्याद्य सखे विभूतिरन्यैव ।। २२॥
विवित्तवांशुकमुगमदचन्दनकर्पूरमरिचपूगफले ।
खटिकाहस्तः स सदा गणयति कोटीर्सुहूर्तेव ॥ २२ ॥
१. भद्रानस्वकदुष्टकरणयुकं दिनभू. २. कुशलेनेत्यधिकमिव भाति
अस्मिन्मेरुविशाले वरभवने रुचिरमित्तिकृतचित्रे ।
पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र ॥ २४ ॥
श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा ।
द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् ।। २५ ॥
तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय ।
नोच्छ्वसिति नष्टचेष्टस्ताडित इव मूर्ध्नि वज्रेण ॥ २६ ॥
उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः ।
तं याचते स पुरुषो द्रविणं खं प्रकटिताभिख्यः ॥ २७ ॥
तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्तात्र्पः ।
वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः ॥२८॥
कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः ।
अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन ॥२९॥
पश्यत कष्टमनिष्टः कलिकालः कीदृशोऽयमायातः ।
मत्तोऽर्थमेष वाञ्छति लोको जानाति या सर्वम् ॥ ३० ॥
हरगुप्तकुलेऽस्माकं निःक्षेपग्रहणमप्यसंभाव्यम् ।
किं पुनरपह्न्वोद्गतधोरमहापातकस्पर्शः ॥ ३१ ॥
तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् ।
कथय दिनं तदिबसे लिखितं सर्वं स्वयं पश्य ॥ ३२॥
वृद्धोऽहं न्यस्तभरः पुत्रे सर्वं ममास्ति लिखितं हि ।
इति तेन विनष्टधृतिः स विष्टस्तत्सुतान्तिकं प्राप्तः ॥ ३३ ॥
तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् ।
इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव ॥ ३४ ॥
राजकुलद्वारगते तसिन्प्राप्तप्रवासदत्तार्थे ।
सहते नरपतिकोपं त्यजति किराटो न रूपकस्यांशम् ॥ ३५॥
परिपीडितः स राज्ञा विविधैरपि यातनाशस्त्रैः ।
मम हस्ते निक्षिप्तं किंचिन्नास्तीति वक्त्येव ॥ ३६ ॥
५ प्र. गु.
एवं स्वभावलुब्धा भवन्ति धनलवणवारिबहुतृष्णाः ।
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ ३७॥
देवं धनाधिनाथं वैश्रवणं सकलसंपदां निलयम् ।
शुक्रः प्रोवाच पुरा वित्तार्थी बालमित्रमभ्येत्य ।। ३८ ॥
पूर्णः सखे तवायं विभवो विजितामरासुरैश्वर्यः ।
हर्षं विदधाति परं सुहृदां शोकं च शत्रूणाम् ॥ ३९ ॥
त्वयि सुहृदि वित्तनाथे निःस्वोऽहं बहुकुटुम्बसंभारः ।
समदुःखसुखं मित्रं स्वाधीनतयोदितं प्रशंसन्ति ॥ ४० ॥
यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् ।
अभिजातवंशजानां सुहृदुपभोग्याः श्रियो महताम् ॥ ४१ ॥
उपनतमतिपुण्यचयैः संपूर्ण रक्षितं च यत्नेन ।
संपदि विपदि त्राणं भवति निधानं च मित्रं च ॥ ४२ ॥
इत्युक्तः सप्रणयं दैत्याचार्येण निर्जने धनदः ।
तमुवाच विचिन्त्य चिरं संरुद्धः सेहलोमाभ्याम् ॥ ४३ ॥
जानामि बालमित्रं त्वामहमत्यन्तसंभृतस्नेहम् ।
किं तु न जीवितजीवं द्रविणलवं त्यक्तुमीशोऽस्मि ॥ ४४ ॥
त्नेहार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्राणि ।
दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥ ४५ ॥
अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थानाम् ।
योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ ४६ ॥
इत्याशापरिहारैः प्रत्याख्यातो धनाधिनाथेन ।
भग्नमुखो ललितमतिर्लज्जावक्रो थयौ शुक्रः ॥ ४७ ॥
स विचिन्त्य गृहे सुचिरं सचिवैः सह मायया महायोगी ।
हर्तुं द्रविणमशेषं विवेश हृदयं वनेशस्स ४८॥
शुक्राविष्टशरीरो वैश्रवणः सकलमद्भुतत्यागः ।
तत्कृतसंकेतेभ्यः प्रददौ वित्तं द्विजातिभ्यः ॥ ४९ ॥
कौबेरं धनमखिलं हृत्वा यातेऽथ दानवाचार्ये ।
सुचिरं धनाधिनाथः शुशोच विज्ञाय तां मायाम् ॥ ५० ॥
हस्तन्यस्खललाटः सह [१८]शङ्खमुकुन्दकुन्दपद्माद्यैः ।
संचिन्त्य शुक्रविकृतिं स जगादोणं विनिःश्वस्य ॥ ५१ ॥
सुहृदा मर्मज्ञेन व्याजान्मायाविनातिलुब्धेन ।
धूर्तेन वञ्चितोऽहं दैत्याश्रयदुर्जयेन शुक्रेण ॥ ५२ ॥
अधुना द्रव्यविहीनः क्षणेन तृणलाघवं प्राप्तः ।
कथयामि कस्य दुःखं करोमि किं वा क गच्छामि ॥ ५३ ॥
धनरहितं त्यजति जनो जनरहितं परिभवाः समायान्ति ।
परिभूतस्य शरीरे व्यसनविकारो महाभारः ॥ ५४ ॥
दयितेषु शरीरवतां बत धर्मलतालवालेषु ।
द्रविणेषु जीवितेषु च सर्वं याति प्रयातेषु ॥ ५५ ॥
विद्वान्सुभगो मानी विश्रुतकर्मा कुलोन्नतः शूरः ।
वित्तेन भवति सर्यो विचविहीनस्तु सद्गुणोऽप्यगुणः ॥ ५६ ॥
इति दुःसहधनविरहक्लेशानलशोषिताशयो वनपः ।
सुचिरं विमृश्य सचिवैर्देवं शर्वं ययौ शरणम् ।। ५७ ॥
प्राक्प्रतिपत्नसखोऽसौ विश्वशरण्यो महेश्वरस्तेन ।
विज्ञप्तो निजवृत्तं दूतं विससर्ज शुक्राय ॥ ५८ ॥
दूताहूतं सहसा प्राप्तं शुक्रं [१९]धनप्रभाशुकम् ।
अञ्जलिविरचितमुकुटं प्रोवाच पुरःस्थितं पुरजित् ॥ ५९ ॥
मित्रमयं द्रविणपतिर्भवता बत वञ्चितः कृतज्ञेन ।
मित्रद्रोहे प्रसरति नहि नाम जनः कृतघ्नोऽपि ।। ६०॥
अगणितयशसा त्यक्तस्थितिना क्रियतेऽथ याकृतज्ञेन ।
स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥ ६१॥
एतरिकं श्रुतसदृशं त्वह्व्रतयोग्यं कुलानुरूपं वा ।
कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ॥ ६२ ॥
१. शङ्खादयो निधयः कुबेरसमीपे तिष्ठन्ति.
२. धनप्रातिजनितकान्त्या शुक्रं शुक्लम्,देवीप्यमानमिति यावत्
किमयं सुनयाभ्यासः प्रशमो वा गुरुजनोपदेशो वा ।
मतिविभवः सहजो वा वञ्चकतां येन यातोऽसि ।। ६३ ॥
कस्य न दयितं वित्तं चित्तं हियते न कस्य वित्तेन ।
किंतु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ।। ६४ ॥
मा मा मलिनय विमलं भृगुकुलममलं मलेन लोभेन ।
लोभजलदो हि शत्रुर्विशदयशोराजहंसानाम् ॥ ६५ ॥
त्यक्त्वा कीर्तिमनन्तामनिलाकुलतृणलवोपमानर्थान् ।
गृह्णाति यः स मध्ये धूर्तानां कदृशो धूर्तः ॥ ६६ ॥
उत्सृज्य साधुवृत्तं कुटिलधिया वञ्चितः परो येन ।
आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥ ६७ ॥
नियता दूषितयशसां बत किसलयकोमला प्रकृत्यैव ।
अपवादविषतरूत्थैरामोदैर्मूर्छिता लक्ष्मीः ॥ ६८॥
नहि नाम सज्जनानां शुद्धयशःस्फटिकदर्पणो विमलः ।
परिभवदुःखितजनतानिःश्वासमलिनतामेति ॥ ६९ ॥
असमञ्जसमतिमलिनं मोहाद्व्याक्तिं समागतं कर्म ।
तस्य विशुद्धिः क्रियतां परवित्तसमर्पणेनैव ॥ ७० ॥
अपवादधूलिधूसरममलयशो मृज्यतां स्वहस्तेन ।
अस्मद्वचनं क्रियतां परधनमुत्सृज्यतामेतत् ॥ ७१ ॥
इत्युक्तः सानुनयं त्रिभुवनगुरुणापि देवदेवेन ।
परधननिबद्धतृष्णः प्रोवाच कृताञ्जलिः शुक्रः ।। ७२ ॥
भगवन्भवतः शासनममरेन्द्रकिरीटकोटिविश्रान्तम् ।
लक्षयति को नु मोहाद्दौर्गत्यं सत्त्वहारि यदि न स्यात् ॥ ७३ ॥
यस्य क्षीणस्य गृहे भृत्या दाराः सुताश्च सीदन्ति ।
कार्याकार्यविचारो द्रविणादानेषु कस्तस्य ॥ ७४ ॥
मित्रमयं धननाथो विपदि त्राणं विचिन्तितः सततम् ।
वृद्धिं यातः सुमहानाशाबन्धश्च मे हृदये ॥ ७५ ॥
अभ्येत्य याचितोऽपि त्यक्त्वा लजां मया विगतलजः ।
चिच्छेदेष ममाशां सहसा प्रतिषेधशस्त्रेण ॥ ७६ ॥
तेन प्रहतमशस्त्रं दाहोऽनग्निश्च निर्विषं मरणम् ।
विहितं शठेन मोहादाशाभङ्गः कृतो येन ॥ ७७ ॥
तस्मान्ममैष शत्रुः सुकृतसमं शत्रुवञ्चनापापम् ।
रिक्तस्य निरपवादो व्याजेनोपार्जितोऽप्यर्थः ॥ ७८ ॥
अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् ।
वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥ ७९ ॥
संभाषिणमसकृद्दैत्यगुरुं प्रार्थित पुनर्बहुशः ।
कवलीचकार सहसा प्रतिषेधरुषा विरूपाक्षः ॥ ८० ॥
जठरान्तरे पुरारेः प्रलयानलविपुलभीषणाभोगे ।
प्रक्काथ्यमानकायः शुक्रथुक्रोश साक्रोशः ॥ ८१॥
त्यज धनमिति विषमदृशा पुनः पुनः प्रेरितोऽवदच्छुक्रः ।
निधनं ममास्तु भगवन्धनदधनं न त्यजामि किंचिदपि ॥ ८२ ॥
अथ धारणाप्रवृद्धज्वलनज्वालासहस्रविकराले ।
शुक्रश्चुकोश भृशं धोरगमीरे हरोदरे पतितः ॥ ८३ ॥
तमुवाच देवदेवस्त्यज दुर्ग्रहदग्ध परवित्तम् ।
अस्मिन्नुदरमहोदधिवडवाग्नौ मा गमः प्रलयम् ॥ ८४ ॥
सोऽवददतिशयतापस्फुटितास्थिवसाप्रवाहबहलाग्नो ।
परमिह मरणं श्रेयो द्रविणकणं न त्यजामि सोच्छ्वासः ॥ ८५ ॥
पुनरपि घोरतरोद्गतकालानलघारणानलज्वलितः ।
शुक्रश्चक्रे देव्याः स्तोत्रं क्षणलेशशेषायुः ॥ ८६ ॥
स्तोत्रपदाराधितया गौर्या प्रणयप्रसादिते रुद्रे ।
तद्वचसा लब्धधृतिः शुक्रद्वारेण निर्ययौ शुक्रः ॥ ८७ ॥
एवं खभावलुब्धास्तीव्रतरां यातनामपि सहन्ते ।
न तु संत्यजन्ति वित्तं कौटिल्यमिवाधमः सहजम् ॥ ८८ ॥
तस्माल्लोभसमुत्था कपटकला कुटिलवर्तिनी माया ।
लुब्धहृदयेषु निवसति नालुब्धो वञ्चनां कुरुते ॥ ८९ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे लोभवर्णनं नाम द्वितीयः सर्भः।
तृतीयः सर्गः ।
कामः कमनीयतया किमपि निकामं करोति संमोहम् ।
विषमिव विषमM सहसा मधुरतया जीवनं हरति ॥१॥
एते हि कामकलिताः परिमललीनालिवलयहुंकारैः ।
सूचितदानाः करिणो बध्यन्ते क्षिप्रसबलाभिः ॥ २ ॥
पादाघातशितानुशघटनानिगडादिसंरोधम् ।
विषयमुषितः करीन्द्रः किं न स्मरवञ्चितः सहते ॥ ३॥
दीर्घव्यसननिरुद्धो भ्रूभङ्गज्ञो विधेयतां यातः ।
विषयविवशो मनुष्य केलिशिखण्डीव नृत्यते स्त्रीभिः ॥ ४ ॥
रक्ताकर्षणसक्ता मायाभिर्मोहतिमिररजनीषु ।
नार्यः पिशाचिका इव हरन्ति हृदयानि मुग्धानाम् ॥ ५ ॥
रागिमृगवागुराणां हृदयद्विपबन्धशृङ्खलौघानाम् ।
व्यसननववल्लरीणां स्त्रीणां नहि मुच्यते वशगः ॥ ६ ॥
संसारचित्रमायां [२०]शम्बरमायां विचित्तिमायां च ।
यो जानाति जितात्मा सोऽपि न जानाति योषितां मायाम् ॥ ७ ॥
कुसुमसुकुमारदेहा वज्रशिलाकठिनहृदयसद्भावाः ।
जनयन्ति कस्य नान्तर्विचित्रचरिताः स्त्रियो मोहम् ॥ ८॥
अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः ।
वञ्चकवचनासक्ता नार्यः सद्भावशङ्किन्यः ॥९॥
जातः स एव लोके बहुजनदृष्टा विलासकुटिलाङ्गी ।
धैर्यध्वंसपताका यस्य न पली प्रमुर्गेहे ॥१०॥
विजितस्य मदविकारैः स्त्रीभिर्मूकस्य नष्टसंज्ञस्य ।
गृहधूलिपटलभखिलं वदने निःक्षिप्यते भर्तुः ॥ ११ ॥
१ शम्बरो विचित्तिश्चातीव मायानिपुणो दैत्यौ
कृतकापरिस्फुटाक्षरकामकलाभिः स्वभावमुग्धेव ।
तिलकाय चन्द्रबिम्बं मुग्धपतिं याचते प्रौढा ॥ १२॥
खैरविहारगतागतसिन्नायास्तीर्थदर्शनव्याजैः ।
भर्ता विलासविजितश्चरणौ मृद्गाति चपलायाः ॥ १३ ॥
नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् ।
रमयति सुरतेनान्यं स्त्री बहुरूपा खभावेन ॥ १४ ॥
निजपतिचपलकुरङ्गी परतरुभृङ्गी स्वभावमातङ्गी।
मिथ्याविभ्रमभृङ्गी कुटिलभुजंगी निजा कस्य ॥ १५ ॥
बहुविधतरुणनिरर्गलसंभोगसुखार्थभोगिनी वेश्या ।
धन्येति वदन्ति सदा सोच्छ्वासा निर्जने नार्यः ॥ १६ ॥
चपला तिष्ठति हर्म्ये गायति रथ्यावलोकिनी स्वैरम् ।
धावत्यकारणं वा हसति स्फटिकाश्ममालेय ॥ १७॥
पशुरिव वक्तुं कर्तुं किंचिदयं मम पतिर्न जानाति ।
उक्त्वेति गृहे स्वजनं पुरुषव्यापारमङ्गना कुरुते ॥ १८ ॥
प्रत्युत्थानं कुरुते व्यवहारगतागतैः स्वयं याति ।
उच्चैर्वदति च गेहे गृहिणी जीवन्मृतस्यैव ॥ १९ ॥
ईर्प्यालुवृद्धभार्या सेवकपत्नि नियोगिभार्या वा ।
कारुकुशीलबनारी लुब्धवधूः सार्थवाहवनिता वा ॥ २० ॥
गोष्टीविहरणशीला तरुणजने वत्सला प्रकृत्यैव ।
परगुणगणने सक्ता निजपतिदोषाभिधायिनी सततम् ॥ २१ ॥
अल्पधना बहुभोगा रूपवती विकृतरूपभार्या वा ।
मुग्धवधूः सकलकलामानवती नीचसंगमोद्विग्ना ॥ २२ ॥
द्यूतमधुपानसक्ता दीर्घकथागीतरागिणी कुशला ।
बहुपुंश्चलीवयस्या शूरजने प्रकृतिपक्षपातैव ॥ २३ ॥
त्यक्तगृहव्यापारा बहुविधवेषा निरर्गलाभ्यासा ।
प्रत्युत्तरसप्रतिभा सत्यविहीना स्वभावनिर्लजा ॥ २४ ॥
कुशलानामयवार्ताप्रश्नपरा प्रीतिपेशलालापा ।
विजने विविधक्रीडाडम्बरशौण्डा प्रकाशसावित्री ॥ २५ ॥
ऋतुतीर्थसुरनिकेतनगणकभिषग्बन्धुगेहगमनपरा ।
भोजनपानबहुव्यययात्रोत्सवकारिणी स्वतज्रेव ॥ २६ ॥
भिक्षुकतापसभक्ता खजनविरक्ता मनोरमासक्ता ।
दर्शनदीक्षारक्ता दयितविरक्ता समाधिसंयुक्ता ॥ २७ ॥
गोष्ठीरञ्जनमित्रा विज्ञेया नष्टचारित्रा ॥ २८ ॥ (कुलकम्)
सततानुरक्तदोषा मोहितजनता बहुग्रहाश्चपलाः ।
संध्याः स्त्रियः पिशाच्यो रक्तच्छायाहराः क्रूराः ॥ २९ ॥
कस्य न वाहनयोग्या मुग्धधियस्तुच्छसाधने लग्नाः ।
प्रीततया प्रशमरुचश्चपलासु स्त्रीषु येऽदान्ताः ॥ ३० ॥
शृङ्गारशौर्यकत्थनमसमञ्जसदानवर्णना विविधाः ।
एतावदेव तासाममन्त्रयन्त्रं वशीकरणम् ॥ ३१ ॥
कलिकालतिमिररजनीरजनिचरीणां सहस्रमायानाम् ।
स्त्रीणां नृशंसचरितैः कस्य न संजायते कम्पः ॥ ३२ ॥
निर्जितधनपतिविभवो बभूव भुवि विश्रुतो वणिङ्नाथः।
धनदत्तो नाम पुरा रत्नारामाश्रयः पयोधिरिव ॥ ३३ ॥
तस्याभवद्विभूतिर्मूर्तेव मनोभुवः सुललिताङ्गी ।
तनया नयनविलासैर्विजिताशा वसुमती नाम ॥ ३४ ॥
प्रददौ स तामपुत्रः पुत्रपदे विनिहितां प्रियां पुत्रीम् ।
वणिजे विभवकुलोदयतुल्याय समुद्रदत्ताय ॥ ३५ ॥
रममाणः स तया सह हरिणाक्ष्या श्वशुरमन्दिरे सुचिरम् ।
प्रययौ कदाचिदग्ग्रे द्वीपायातस्य सार्थस्य ।। ३६ ॥
पत्यौ याते तरुणी जनकगृहे हर्म्यशिखरमारूढा ।
विललास विलासमही केलिविलोला सखीभिः सा ॥ ३७ ॥
सौधे मन्मथरूपं पृथुनयना पथि बदर्श पुरुष सा ।
यं दृष्ट्रव गतास्याः कापि धृतिः कुमतिकुपितेव ॥ ३८ ॥
सा तेन चपलनयना सहसा मुषितेव हारितविचारा ।
अभवदशक्ता नितरां संवरणे स्मरविकारस्य ॥ ३९ ॥
शीलं पालय चपले मा पातय निम्नगेव कुलकूलम् ।
इति तामवददिवोच्चैः कम्पाकुलमुखरमेखला सुचिरम् ॥ ४० ॥
सा कृत्वा विदितकयां रहसि सखीमानिनाय तं तरुणम् ।
चलितं हि कामिनीनां धतुं शक्नोति कश्चित्तम् ॥४१॥
काम कामविकासैः सुरतविलासैः सुनर्मपरिहासैः ।
सहजप्रेमनिवासैर्मुमुदे सा खैरिणी तेन ॥ १२ ॥
अथ कृतनिजधनकृत्यस्त्वरितं दयिताविलोकनोत्कण्ठः ।
अविशत्समुद्रदत्तः श्वशुरावासं महारम्भः ॥ ४३ ॥
विपुलमहोत्सवलीलाव्यग्रजनैर्भोगसंपदां निचयैः ।
अतिवाह्य दिनं दयितासहितः शय्यागृहं स ययौ ॥ ४४ ॥
विरचितवरतरशयने बद्धविताने मनोरमस्थाने ।
जृम्भितसौरभधूपे सुरगृहरूपे प्रदीप्तमणिदीपे ॥ ४५ ॥
तत्र स मधुमदविलुलितलोचनकमलां प्रियां समालिङ्ग्य ।
मदगज इव नवनलिनीं भेजे रतिलालसः शय्याम् ॥ ४६॥
सापि हृदयान्तरस्थितपरपुरुषध्यानबद्धलक्षैव ।
तस्थौ निमीलिताक्षी ध्यानपरा योगिनीव चिरम् ॥ ४७ ॥
आलिङ्गनपरिचुम्बननीविविमोक्षेषु बहुतरोच्छ्वासा ।
पत्यौ संकुचिताङ्गी ससार तमेव शीलहरम् ॥ ४८॥
प्रणयकुपितेति मत्वा मुग्धपतिस्तां समुंद्रदत्तोऽपि ।
प्रणिपत्य चाटुकारैः किमपि ययाचे प्रसादाय ॥ ४९ ॥
परपुरुषरागिणीनां विमुखीनां प्रणयकामवामानाम् ।
पुरुपपशवो विमूढा रज्यन्ते योपितामधिकम् ॥ ५० ॥
किं क्रियते कामोऽयं परगतकामः स्वतन्त्रकामश्च ।
धनशतरक्तायामपि संध्यायां भास्करो रागी ॥ ५१ ॥
गूढोपवननिकुञ्ज न्यस्तं सा वल्लभं ससंकेतम् ।
संचिन्त्य चिरं स्वपतिं विषमिव संमूर्छिता मेने ॥ ५२ ॥
निद्रामुद्रितनयने प्रणयश्रान्ते समुद्रदत्ते सा ।
उत्थाय रचितवेषा शनकैर्गमनोन्मुखी तस्थौ ॥ ५३ ॥
चौरः क्षणे च तस्मिन्मधुमत्तजन प्रविश्य तद्भवनम् ।
गमनोत्सुकामपश्यन्मुखराभरणामलक्ष्यस्ताम् ॥ ५४ ॥
अत्रान्तरे शशाङ्कः शनकैः सुरराजवल्लभां ककुभम् ।
चकित इवाशु चकम्पे मीलिततारां समालिङ्ग्य ॥ ५५ ॥
संकोचितकमलायाः कुमुदविजृम्भाविराजमानायाः ।
प्रससार तुहिनकिरणो यामिन्याः कपटहास इव ॥ ५६ ॥
रविपरितापश्रान्तां वीक्ष्य दिवं प्रसरदिन्दुसानन्दाम् ।
जहसुरिव कुमुदवृन्दैरलिकुलहुंकारनिर्भरा वाप्यः ॥ ५७ ॥
जग्राह रजनिरमणी शशिकरहृततिमिरकञ्चुकावरणा ।
लज्जान्वितेव पुरतः कुमुदामोदाकुलालिपटलपटम् ॥ ५८ ॥
सुसजनेऽथ निशाधे चन्द्रालोके च विघुलतां याते ।
तमसीव निर्विशङ्का सा शनकैरुपवनं प्रययौ ॥ ५९ ॥
अथ सा विवेश विवशा विषमशरप्लोपिता निजोपवनम् ।
छन्नं भूषणलोभादनुयाता विस्मितेन चौरेण ॥ ६० ॥
तत्र ददर्श विभूषितमुज्ज्वलललितांशुकं लसत्कुसुमम् ।
शङ्काजनकं विपिने पक्षिभिरुपलक्षितं दयितम् ॥ ६१ ॥
हृदयदयितावियोगज्वलनज्वालावलीतप्तम् ।
दिङ्मुखविलसितरुचिना चन्द्रेण करानलैर्दिग्धम् ॥ ६२ ॥
चिरसंकेवस्थित्या मुक्ताशं प्रियतमापुनर्मिलने ।
वृक्षालम्बितवल्लीवलयालम्बेन विगलितप्राणम् ॥ ६३ ॥
तं दृष्दैव विलीना विलपन्ती व्यसनशोकसंत्रासैः ।
निपपात वल्लरीव क्कणदसिवलयाकुला तन्वी ॥ ६४ ॥
संमोहमीलिताक्षी स्थित्वा सुचिरं महीं सप्नालिङ्ग्य ।
शनकैरवाप्तजीवा विललाप लघुस्वरैः स्वैरम् ॥ ६५ ॥
हा हा नयनानन्द क्व नु ते विशदेन्दुसुन्दरं वदनम् ।
द्रक्ष्यामि भन्दपुण्या किमिदं क्वाहं क्व मे कान्तः ॥ ६६ ॥
इति तरुणकरुणमबला विलप्य पाशं विमुच्य यत्नेन ।
अङ्के धृत्वास्य मुखं चुचुम्ब जीवं क्षिपन्तीव ॥ ६७ ॥
सा तस्य वदनकमलं निजवदने मोहिता कृत्वा ।
ताम्बूलगर्भमकरोत्प्रकटितसाकाररागेव ॥ ६८ ॥
अथ तस्याः कुसुमोत्करमृगमदधूपादिसौरभाहूतः ।
आविश्य शवशरीरं नासां चिच्छेद वेतालः ॥ ६९ ॥
सा प्राप्य चापलोचितमनयफलं छिन्ननासिका गत्वा ।
भवनं प्रविश्य भर्तुरतारं हाहेति चुक्रोश ॥ ७० ॥
प्रतिबुद्धे सकलजने नादत्रस्ते समुद्रदत्ते च ।
सा नासिका गमेयं भर्त्रा छिन्नेति चक्रन्द ॥ ७१ ॥
श्वशुरादिबन्धुवर्गैः पृष्टः कुपितैः समुद्रदत्तोऽपि ।
विक्रीतः परदेशे मूक इबोचे न किंचिदपि ॥ ७२ ॥
अथ चास्य सुप्रभाते बन्धुभिरावेदिते नृपसमायाम् ।
तत्राभून्नृपकोपो बहुधनदण्डः समुद्रदत्तस्य ॥ ७३ ॥
चौरोऽपि निखिलवृत्तं प्रत्यक्षमवेक्ष्य विस्मयाविष्टः ।
आवेद्य भूपपुरतः प्राप्य च वलयादिसत्कारम् ॥ ७४ ॥
उद्याने शववदने तस्यास्तां नासिकां च संदर्श्य ।
निष्कारणसुहृदुचितां शुद्धिं विदधे समुद्रदत्तस्य ॥ ७५ ॥
इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः ।
यो नाम वेत्ति रामाः स स्त्रीभिर्नैव वञ्चयते मतिमान् ॥ ७६ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे कामवर्णनं नाम तृतीयः सर्गः।
चतुर्थः सर्गः।
तत्रापि वेशयोषाः कुटिलतराः कूटरागहतलोकाः ।
कपटचरितेन यासां वैश्रवणः [२१]श्रमणतामेति ॥ १ ॥
हारिण्यश्चटुलतरा बहुलतरङ्गाश्च निम्नगामिन्यः ।
नद्य इव जलधिमध्ये वेश्याहृदये कलाश्चतुःषष्टिः ॥ २ ॥
वेशकला नृत्यकला गीतकला वक्रवीक्षणकला च ।
कामपरिज्ञानकला ग्रहणकला मित्रवञ्चनकला च ॥ ३ ॥
पानकला केलिकला सुरतकलालिङ्गानान्तरकला च ।
चुम्बनकला परकला निर्लज्जावेगसंभ्रमकला च ॥४॥
ईर्ष्याकलिकेलिकला रुदितकला मानसंक्षयकला च ।
स्वेदभ्रमकम्पकला पुनरेकान्तप्रसाधनकला च ॥ ५ ॥
नेत्रनिमीलननिःसहनिस्पन्दकला मृतोपमकला च ।
विरहासहरागकला कोपप्रतिषेधनिश्चयकला च ॥६॥
निजजननीकलहकला सद्धुहगमनोत्सवेक्षणकला च ।
हरणकला जातिकला केलिकला चौरपार्थिवकला च ॥ ७ ॥
गौरवशैथिल्यकला निष्कारणदोपभाषणकला च ।
शूलकलाभ्यङ्गकला निद्राक्षिरजस्वलाम्बरकला च |॥ ८॥
रूक्षकला तीक्ष्णकला गलहस्तगृहार्गलार्पणकला च ।
संत्यक्तकामुकाहृतिदर्शनयात्रास्तुतिकला च ॥ ९॥
तीर्थोपवनसुरालयविहरणहेलाकला गृहकाला च।
वश्यौषधमन्त्रकला वृक्षकला केशरञ्जनकला च ॥ १० ॥
भिक्षुकतापसबहुविधपुण्यकला द्वीपदर्शनकला च ।
खिन्ना कलात्रिषष्ट्या पर्यन्ते कुट्टनीकला वेश्या ॥ ११ ॥
अज्ञातनामवर्णेष्वात्मापि ययार्प्यते धनांशेन ।
तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥ १२ ॥
१. श्रमणो बाद्धभिक्षुः वेश्यानुरागी धनाधिनापोऽपि भिक्षुकत्वं प्रामोतीति मायः
निखिलजनवञ्चनार्जितमलिनधनं रागदग्धहृदयानाम् ।
स्वादति गुणगणभग्नो नमो हीनोऽथवा कश्चित् ॥ १३ ॥
नीचस्तुरगारोहो हस्तिपकः स्वलतरोऽथवा शिल्पी ।
वञ्चितसकलजनानां तासामपि वल्लभो भवति ॥ १४ ॥
राजा विक्रमसिंहो बलवद्भिर्भूमिपैः पुरा विजितः ।
मानी ययौ विदर्भान्गुणयशसा मत्रिणा सहितः ॥ १५ ॥
तत्र स वेश्याभवनं प्रविश्य मु भुवि विश्रुतां विलासवतीम् ।
भेजे गणिकां बहुधनभोग्यामप्यल्पविभवोऽपि ॥ १६ ॥
तं राजलक्षणोचितभाजानुभुजं विलोक्य पृथुसत्त्वम् ।
विविधमणिकनककोषं चक्रे सा तद्व्ययाधीनम् ॥ १७ ॥
सहजमनुरागमद्भुतमौचित्यं वीक्ष्य भूपतिस्तस्याः ।
विस्सयविवशः प्रेम्णा जगाद विजने महामात्यम् ।। १८ ॥
चित्रमियं बहु वित्तं क्षपयति वेश्यापि मत्कृते तृणवत् ।
प्रीतिपदवी विसृष्टो वेश्यानां धननिबन्धनो रागः ॥ १९ ॥
मिथ्या धनलवलोमादनुरागं दर्शयन्ति बन्धक्यः ।
तदपि धनं विसृजति या कस्तस्याः प्रेमिण संदेहः ॥२०॥
इति वचनं भूमिपतेः श्रुत्वा मन्त्री विहस्य सासूयः ।
तमुवाच करय राजन्वेश्याचरितेऽस्ति विश्वासः ॥ २१ ॥
एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः ।
वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥ २२ ॥
प्रथमसमागमसुखदा मध्ये व्यसनप्रवासकारिण्यः ।
पर्यन्ते दुःखफलाः पुंसामाशाश्च वेश्याश्च ॥ २३ ॥
अद्यापि हरिहरादिमिरमरैरपि तत्त्वतो न विज्ञाताः।
भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥ २४ ॥
इति सचिवयचो नृपतिः श्रुत्वा कृत्वा च संविदं तेन ।
मिथ्याभृतमात्मानं चके वेश्यापरीक्षायै ॥ २५ ॥
६ प्र्अ. गु.
तस्मिन्कु[२२]णपशरीरे विन्यस्ते मन्त्रिणा चितावह्नौ ।
सहसैव विलासक्ती वह्निभुवं भूषिता प्रययौ ॥ २६ ॥
तां प्रबलज्वलितोज्ज्वलवहिज्वालानिपातसावेगाम् ।
दोर्भ्यामालिङ्ग्य नृपो जीवामीत्यभ्यधान्मुदितः ॥ २७ ॥
तत्तस्याः प्रेम दृढं सत्यं च विचार्य संभृतस्नेहः ।
राजा निनिन्द मन्त्रिणमसकद्वेश्यागुणाभिमुखः ॥ २८ ॥
अथ वेश्याधनसंचयमात्माधीनं महीपतिर्विपुलम् ।
आदाय गजतुरंगमभटविकटामाददे सेनाम् ॥ २९ ॥
संभृतविपुलबलौधैर्जित्वा वसुधाधिपान्स भूपालः ।
निजमाससाद मण्डलमिन्दुरिवानन्दकृत्पूर्णः ॥ ३० ॥
सा चान्तःपुरकान्तामूर्ध्नि कृता भूभुजा विलासवती।
शुशुभे श्रीरिव चामरपवनाकुलितालका तन्वी ॥ ३१ ॥
साथ कदाचिन्नरपतिमेकान्ते विरचिताञ्जलिः प्रणता।
ऊचे नाथ मया त्वं कल्पतरुः सेवितश्चिरं दास्या॥ ३२ ॥
यदि नाम कुत्रचिदहं याता ते हेतुतां विभो लक्ष्म्याः ।
तन्मम सफलामाशामर्हसि कर्तुं प्रसादेन ॥ ३३ ॥
पुण्यफलपाप्यानां हृतपररजसां स्वभावविमलानाम् ।
तीर्थानामिव महतां नहि नाम समागमो विफलः ॥ ३४॥
अभवन्मम कोऽपि युवा दयितो धनजीविताधिकः प्रणयी ।
बद्धः स विदर्भपुरे दैववशाञ्चोररूपेण ॥ ३५ ॥
तन्मुक्तये मया त्वं शक्कतरः सेवितो महीनाथः ।
अधुना क्रियतामुचितं सत्त्वस्य कुलस्य शौर्यस्य ॥ ३६ ॥
इति वचनामवाप्तो विस्मित इव तद्वचो नृपः श्रुत्था ।
सुचिरं विलोक्य वसुधां सस्मारामात्यवचनं सः ।। ३७ ॥
१. शवशरीरे.
अथ तां तथैव राजाश्वास्य विदर्भेषु भूभुजं जित्वा ।
बन्धनमुक्तेनास्याश्चोरेण समागमं चक्रे ॥ ३८ ॥ .
इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः ।
तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥ ३९ ॥
वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः ।
रक्षादयित्तश्चान्यो वेश्यानां नर्मदयितोऽन्यः ॥ ४० ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे वेश्यावृत्तं नाम चतुर्थः सर्गः ।
षष्टमः सर्गः।
मोहो नाम जनानां सर्वहरो हरति बुद्धिमेवादौ ।
गूढतरः स च निवसति [२३]कायस्थानां मुखे च लेखे च ॥ १ ॥
चन्द्रकला इव पूर्णा निष्पन्ना सस्यसंपत्तिः ।
प्रस्ता क्षणेन दृष्टा निःशेषा दिविर[२४]राहुकलयैव ॥ २॥
ज्ञाताः संसारकला योगिभिरपयातसंमोहैः ।
न ज्ञाता दिविरकला केनापि बहुप्रयत्नेन ॥ ३ ॥
कूटकलाशतशिबिरैर्जनधनविवरैः क्षयक्षपातिमिरैः ।
दिविरैरेव समस्ता प्रस्ता जनता न कालेन ॥ ४ ॥
एते हि कालपुरुषाः पृथुदण्डनिपातहतलोकाः ।
गणनागणनपिशाचाश्चरन्ति [२५]भूर्जध्वजा लोके ॥ ५॥
१. कायस्थपदं राज्याधिकारिमात्रोपलक्षकम् । राज्याधिकारिणो हि प्रायः प्रजाः पी-
यन्ति, कायस्थाश्च विशेषेण। तथा हि याज्ञवल्क्यमुनिनाप्यभाणि-'चाटतस्करदुर्वृ-
त्तमहासाहसिकाअदिभिः । पीज्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥' (१ । ३३६).
कायस्थः 'कायय' इति प्रसिद्धो जातिविशेषः, २. दिविर इति कायस्थस्यैव संज्ञान्त-
रम्, 'विना मद्यं विना मांसं परखरहणं विना । विना परापकारेण दिविरो दिवि रो-
दिति ॥' इति लक्ष्यान्तरं च. ३. पूर्वकाले दक्षिणदेशेषु तालपत्रे, , उत्तरदेशेषु च भू-
र्जपन्ने, राज्यव्यवहारमायव्ययादि च लिखन्ति स कायस्थाः. अत एव भूर्जथ्यजा.
इति रूपकम्. कालपुरुषहस्तेषु च ध्वजैर्भाव्यम्,
कस्तेषां विश्वास यममहिषविषाणकोटि कुटिलानाम् ।
व्रजति न यस्य विषक्तः कण्ठे पाशः कृतान्तस्य ॥ ६॥
कलमाग्रनिर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणैः ।
कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राज्यश्रीः ॥ ७ ॥
अङ्कन्यासैर्विषमैर्मायावनितालकावलीकुटिलैः ।
को नाम जगति चरितैः कायस्थैर्मोहितो न जनः ॥ ८॥
मायाप्रपञ्चसंचयवञ्चितविश्वैर्विनाशितः सततम् ।
विषयग्रामग्रासैः कायस्थैरिन्द्रियैर्लोकः ॥ ९ ॥
कुटिला लिपिविन्यासा दृश्यन्ते कालपाशसंकाशाः ।
कायस्थभूर्जशिखरे मण्डललीना इव व्यालाः ॥ १० ॥
एते हि चित्रगुप्ताश्चित्रधियो गुप्तकारिणो दिविराः।
रेखामात्रविनाशात्सहितं कुर्वन्ति ये रहितम् ॥ ११ ॥
लोके कलाः प्रसिद्धाः स्वल्पतराः संचरन्ति दिविराणाम् ।
गूढकलाः किल तेषां जानाति कलिः कृतान्तो वा ॥ १२ ॥
वक्रलिपिन्यासकला सकलाङ्कनिमीलनकला च ।
सततप्रवेशसंग्रहलोककला व्ययविवर्धनकला च ॥ १३ ॥
ग्राह्यपरिच्छेदकला देयधनादानकारणकला च ।
शेषस्य विवेककला संकलिताराशिसर्वभक्षणकला च ॥१४॥
उत्पन्नगोपनकला नष्टविशीर्णप्रदर्शनकला च ।
क्रयमाणैभरणकला योजनचर्यादिभिः क्षयकला च ॥ १५ ॥
निःशेषभूर्जदाहादागमनाशश्च पर्यन्ते ।
येन विना धनहारी भूर्जग्रणे निरालोकः ॥ १६ ॥
सकलङ्कस्य क्षयिणो नवनवरूपस्य वृद्धिमाजश्च ।
दिविरस्य कलाः कुटिलाः षोडश दोषाकरस्सैताः ॥ १७ ॥
कूटस्थाः कायस्थाः सर्वनकारेण सिद्धमत्रेण ।
गुरव इव विदितमाया वृत्तिच्छेदं क्षणेन कुर्वन्ति ॥ १८॥
हारितधनपशुवसनश्चौर्यभयाद्बन्धुभिः परित्यक्तः ।
बभ्राम महीमखिलां तीनव्यसनः पुरा कि[२६]तवः ॥ १९ ॥
स कदाचिदाप पुण्यैरुज्जयिनीं तत्र मज्जनं कृत्वा ।
विचरन्विजने पुरहरमन्दिरमवलोकयामास ॥ २०॥
शून्यायतने गत्वा वरदं देवं सदा महाकालम् ।
उपलेपनकुसुमफलैर्निर्व्यापारः सिषेवे सः ॥२१॥
स्तोत्रजपगीतदीपैर्विपुलध्यानैर्निशासु निर्निद्रः ।
तस्थौ तत्र च सुचिरं दुःसहदौर्गत्यनाशाय ॥ २२ ॥
तस्य कदाचिद्भत्त्या शुभशतकृतथा प्रसादितः सहसा ।
भवभयहारी भगवान्भूतपतिः संबभाषे तम् ॥ २३ ॥
पुत्र गृहाणेत्युक्ते देवेन कपालमालिना शिखरे ।
एकं कपालमसकृच्चक्रे संज्ञां पुरारातेः ॥ २४ ॥
अर्धोक्ते स्थगिततरः संपीडनसंज्ञया कपालस्य ।
तूष्णीं बभूव रुद्रो दारिद्र्यात्कि कतवपुण्यानाम् ॥ २५ ॥
स्नातुं याते तसिन्विजने देवः कपालमवदत्तम् ।
दन्तांशुपटलपालीं गङ्गामिव दर्शयन्नग्रे ॥ २६ ॥
अस्य कितवस्य साधोर्भक्तस्य चिरस्थितस्य वरदाने ।
कस्मात्त्वया ममैषा विहिता संपीडनैः संज्ञा ॥ २७ ॥
इति भगवता कपालं पृष्टं प्रोवाच समितं शनकैः ।
विषमनयनोष्मविगलन्मौलीन्दुसुधारसैर्जीवत् ॥ २८ ॥
शृणु भगवन्येन मया विज्ञप्तोऽसि खभावसरलात्मन् ।
सुलभोऽपि बोध्यते वा निष्कारणमीश्वरः केन ॥ २९॥
एष कितवोऽतिदुःखी दारिद्र्याद्विरतसकलनिजकृत्यः ।
दुःखी भवति तपस्वी धनरहितः सादरो भवति ।
भ्रष्टाधिकारविभवः सर्वप्रणतः प्रियंवदो भवति ।। ३१॥
१. द्यूतकारः
अर्चयति देवविप्रान्नपति गुरून्वेत्ति निर्धनो मित्रम् ।
कठिनोऽपि लोह पिण्डस्तप्तः कर्मण्यतामेति ॥ ३२ ॥
व्यसनपरितप्तहृदय स्तिष्ठति सर्वः सदाचारे ।
विभवमदमोहितानां कर्मस्मरणे कथा कैव ॥ ३३ ॥
ऐश्वर्यार्थी भगवन्नाशापाशेन लम्बमानोऽसौ।
कुरुते पर सपयाँ प्राप्ताओं दृश्यते न पुनः ॥ ३४ ॥
स्वार्थार्थिनः प्रयत्ताः प्राप्तार्थाः सेवकाः सदा विफलाः ।
नहि नाम जगति कश्चित्कृतकार्यः सेवको भवति ॥ ३५ ॥
देव प्रासादेऽस्मिन्फलजलकुसुमादिभोगसामग्रीम् ।
पूर्णे जाते कितवे विजने नान्ये करिष्यन्ति ॥ ३६ ॥
तस्मात्पुण्यायतने कितवं संरक्ष सेवकं सततम् ।
वरदानमस्स भगवन्निर्वासनमात्मपूजायाः ॥ ३७ ॥
श्रुत्वैतद्वक्रतरं वचनं पृथुविस्मयस्मेरः ।
तं पप्रच्छ पिनाकी कस्त्वं तत्वेन मे कथय ॥ ३८ ॥
इति पृष्टं पुनरूचे सपदि कपालं विचिन्त्य सद्भावम् ।
मगधेनामहमभवं कायस्थकुले स्वकर्मणो विमुखः ॥ ३९ ॥
स्नानजपव्रतनिरतस्तीर्थरतो विदितसकलशास्त्रार्थः ।
त्यक्त्या भागीरथ्यां शरीरकं त्वत्पदं प्राप्तः ॥ ४० ॥ (युग्मम् ।
आकर्ण्यैवं भगवानूचे कायस्थ एवं सत्यं त्वम् ।
चित्रं कौटिल्यकलां न त्यजसि कपालशेषोऽपि ॥ ४१ ॥
इत्युक्त्वा स्मितकिरणैः कुर्वन्नाशालताः कुसुमशुभ्राः ।
स्नात्वागताय तस्मै कितवाय बरं ददौ वरदः ॥ ४२ ॥
कृत्वा तकितवहितं पश्यत एवाशु तस्य शशिमौलिः ।
निष्कासितवास्तच्छिर उत्तमतममालिकापङ्क्तेः ॥ ४३ ॥
इत्येवं कुटिलकलां सहजां मलिनां जनक्षये निरताम् ।
यमदंष्ट्रामिव मुञ्चति कायस्थो नास्थिशेषोऽपि ॥ ४४ ॥
सुस्थः को नाम जनः सतताशुचिभावदूषितकलानाम् ।
दोषकृतां शकृतामिव कायस्थानामवष्टम्मैः॥४५॥
असुररचितप्रयत्नाद्विज्ञाता दिविरवञ्चना येन ।
संरक्षिता मतिमता रत्नवती वसुमती तेन ।। ४६ ॥
इति महाकविश्रीक्षेगेन्द्रविरचिते कलाविलासे कायस्थचरितं नाम पञ्चमः सर्गः ।
पष्ठः सर्गः ।
एकः सकलजनानां हृदयेपु कृतास्पदो मदः शत्रुः ।
येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥१ ॥
विजितात्मनां जनानामभवद्यः कृतयुगे दमो नाम ।
सोऽयं विपरीततया मदः स्थितः कलियुगे पुंसाम् ॥ २ ॥
मौनं वदननिकूणनमूर्ध्वेक्षणमन्यलक्ष्यता चाक्ष्णोः ।
गात्रविलेपनवेष्टनमग्र्यं रूपं मदस्यैतत् ॥ ३ ॥
शौर्यमदो रूपमदः शृङ्गारमदः कुलोन्नतिमदश्च ।
विभवमदमूलजाता मदवृक्षा देहिनामेते ॥४॥
शूलारूढसमानो वातस्तन्धोपमोऽथ भूतसमः ।
बहुभोगे विभवमदः प्रथमज्वरसंनिपातसमः ॥ ५ ॥
शौर्यमदो भुजदर्शी रूपमदो दर्पणादिदर्शी च ।
काममदः स्त्रीदर्शी विभवमदश्चैव जात्यन्धः ॥ ६ ॥
अन्तः सुखरसमूर्छामीलितनयनः समाहितध्यानः ।
धनमद एष नराणामात्मारामोपमः कोऽपि ॥ ७ ॥
उन्मादयत्यविषये विविधविकारः समस्तगुणहीनः ।
मूढमदस्त्वन्योऽयं जयति विचित्रो निरालम्बः ॥ ८॥
स्तम्भान्न पश्यति भुवं खेचरदर्शी सदा तपखिमदः ।
भक्तिमदोऽद्भुतकारी विस्मृतदेहश्चलः प्रकृत्यैव ॥९॥
आकोपरक्तनयनः परवाङ्मात्रासह मकापी च ।
विषमः श्रुतमदनामा धातुक्षोभो नृणां मूर्तः ॥१०॥
सततभ्रुकुटिकरालः परुषाक्रोशी हठाभिघातपरः ।
अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥ ११ ॥
पूर्वपुरुषप्रतापप्रथितकथाविस्मृतान्यनिजकृत्यः ।
कुलमद एकः पुंसां सुदीर्घदर्शी महाज्ञानः॥ १२ ॥
वर्जितसकलस्पर्शः सर्वाशुचिभावनानिरालम्बः ।
आकाशेऽपि सलेपः शौचमदो नित्यसंकोचः ॥ १३ ॥
सावधयः सर्वमदा निजनिजमूलक्षये विनश्यन्ति ।
वरमद एकः कुटिलो विजृम्भते निरवधिर्भोगी ॥ १४ ॥
पानमदस्तु जघन्यः सर्वजुगुप्सास्पदं महामोहः ।
क्षणिकोऽपि हरति सहसा वर्षसहस्रार्जितं शीलम् ॥ १५ ॥
विद्यापति विप्रजने गवि हस्तिनि कुक्कुरे श्वपाके च ।
मद्यमदः समदर्शी स्वपरविभागं न जानाति ॥ १६ ॥
विगलितसदसद्भेदः समकाञ्चनलोष्टपाषाणः ।
प्राप्तो योगिदशामपि नरके क्षीबः स्वयं पतति ॥ १७ ॥
रोदिति विहसति गायति विलपत्युच्चैरुपैति संमोहम् ।
भजते विविधविकारान्संसारादर्शमण्डलः क्षीबः ॥ १८ ॥
परपतिचुम्बनसक्तां पश्यति दयितां न याति संतापम् ।
क्षीबोऽतिगाढरागं पीत्वा मधु वीतरागः किम् ।। १९॥
विसृजति वसनं दूरे व्यसनं गृह्णाति दुःसहं क्षीबः ।
अञ्जलिपात्रे पिबति च निजमूत्रविजृम्भितं चन्द्रम् ॥ २० ॥
च्यवनः पुरा महर्षियौवनमश्विप्रयोगतो लब्ध्वा ।
यज्ञे खयं कृतज्ञस्तौ चक्रे सोमपानाहौँ ॥ २१ ॥
क्रुद्धस्तमेत्य शक्रः प्रोवाच मुने न जानासि ।
भिषजावपङ्क्तियोग्यौ सोमार्हावश्विनौ यज्ञे ॥ २२ ॥
इति बहुशः सुरपतिना प्रतिषिद्धोऽपि स्वतेजसा च्यवनः ।
न चचाल निश्चितामा निजकृत्यादश्विनोः प्रीत्या ॥ २३ ॥
तत्कोपोघतवज्र्ं जम्भारेरायतं भुजस्तम्भम् ।
अस्तम्भयन्मुनीन्द्रः प्रभावसंभावनापात्रम् ॥ २४ ॥
असृजञ्च तद्वधाय प्रलम्बकालोपमं चतुर्दष्ट्रम् ।
योजनसहस्रविपुलं कृत्यारूपं महासुरं घोरम् ॥ २५ ॥
तेनाविष्टः सहसा भीतो वज्री तमाययौ शरणम् ।
सोमोऽस्तु देवभिषजोरिति चोवाच प्रणष्टधृतिः ॥ २६ ॥
मुनिरपि करुणासिन्धुर्भीतं प्रणतं महेन्द्रमावास्य ।
मदमुत्ससर्ज घोरं द्यूतस्त्रीपानमृगयासु ॥ २७ ॥
सोऽयमसुरः प्रमाथी मुनिना क्रुद्धेन निर्मितो हृदये।
निवसति शरीरभाजां स्तम्भाकारो गुणैर्बद्धः ॥ २८॥
मौने श्रीमत्तानां निःस्पन्ददृशि प्रवृद्धविभवानाम् ।
भ्रूभङ्गमुखविकारे धनिकानां भ्रूयुगे विटादीनाम् ॥ २९ ॥
जिह्वासु दूतविदुषां रूपवतां दशनवसनकेशेषु ।
वैद्यानामोष्ठपुटे ग्रीवायां गुणिनियोगिगणकानाम् ॥ ३०॥
स्कन्धतटे सुभटानां हृदये वणिजां करेषु शिल्पवताम् ।
गलपत्राङ्गुलिभङ्गे छात्राणां स्तनतटेषु तरुणीनाम् ॥ ३१ ॥
उदरे श्राद्धार्हाणां जङ्घासु च लेखहारपुरुषाणाम् ।
गण्डेषु कुञ्जराणां बर्हे शिखिनां गतेषु हंसानाम् ॥ ३२ ॥
इत्येवं मदनामा महामहो बहुविकारदृढमोहः ।
अङ्गे काष्ठीभूतो वसति सदा सर्वभूतानाम् ॥ ३३ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे मदवर्णनं नाम षष्ठः सर्गः ।
सप्तमः सर्गः।
अर्थों नाम जनानां जीवितमखिलक्रियाकलापस्य ।
तमपि हरन्त्यतिधूर्ताः श्लक्ष्णगला गायना लोके ।। १ ॥
निःशेष कमलाकरकोषं जग्ध्वापि कुमुदमाखाध ।
क्षीणा गायनभृङ्गा मातङ्गप्रणयतां यान्ति ॥ २ ॥
घटपटशकटस्कन्धा बहुडिम्भा मुक्तकेशककलापाः ।
एते योनिपिशाचा भूपभुजो गायना लोके ॥ ३ ॥
तमसि वराकश्चौरो हाहाकारेण याति संत्रस्तः ।
गायनचौरः प्रकटं हाहाकृत्वैव हरति सर्वस्वम् ॥ ४ ॥
पापायधधनिनिगमसा धाधामामासमासगाधामा ।
कृत्वा स्वरपदपाली गायनघूर्ताश्चरन्त्येते ॥ ५ ॥
कुटिलावर्तभ्रान्तैर्वेषविकारैश्च मुखविकारैश्च ।
गायति गायनसंघो मर्दलहस्तश्चिरं मौनी ॥ ६ ॥
आमन्त्रणजयशब्दैः प्रतिपदहुंकारधर्धरारावैः ।
खयमुक्तसाधुवादैरन्तरयति गायनो गीतम् ॥ ७ ॥
जलपतिते सत्तुकणे मत्स्यैभुक्तेऽस्ति कापि धर्माप्तिः ।
गायनदचासु पर कोटिष्वपि नास्ति फललेशः ॥ ८॥
मुग्धधनानां विधिना रुद्धानामन्धकूपकोषेषु ।
विहितो विवृतमहास्यो गायननामा प्रणालौधः ॥९॥
नैतत्प्रकटितदशना गायनधूर्ताः सदैव गायन्ति ।
एते गतानुगतिकान्हसन्ति धूर्ता गृहीतार्थान् ॥ १० ॥
प्रातर्गायनधूर्ता भवन्ति धीराः सहारकेयूराः ।
मध्याहे द्यूतजिता नग्ना भग्ना निराधाराः ॥ ११ ॥
स्तुतिवागुरानिबद्धैर्वचनशरैः : कपटकूटरचनाभिः ।
गीतैर्गायनलब्धा मुग्धमृगाणां हरन्ति सर्वखम् ॥ १२ ॥
नष्टखरपदगीतैः क्षणेन लक्षाणि गायनो लब्ध्वा ।
दास्याः सुतेन दत्तं किमिति वदन्दुःखितो याति ॥ १३ ॥
वर्जितसाधुद्विजवरवृद्धायाः सकलशोककलितायाः।
शापोऽयमेव लक्ष्म्या गायनभोज्यैव यत्सततम् ॥ १४ ॥
देवः पुरा सुराणामधिनाथो नारदं चिरायातम् ।
पप्रच्छ लोकवृत्तं महीतले भूमिपालानाम् ॥ १५ ॥
सोऽवददवनिपतीनां जयिनां बहुदानधर्मयज्ञानाम् ।
चरता मया नृलोके सुरपतियोग्याः श्रियो दृष्टाः ॥ १६ ॥
ते तु त्या स्पर्धन्ते विभवैर्वरुणं धनाधिनाथं च ।
शतमखसंज्ञामसकृद्बहुतरयज्ञा हसन्त्येव ।। १७ ॥
श्रुत्वा तन्मुनिवचनं जातद्वेषः शतक्रतुः कोपात् ।
हर्तुं धनं पिशाचान्विससर्ज भुवं नरेन्द्राणाम् ॥ १८ ॥
ते गीतनाममन्त्राः सुरपतिदिष्टाः पिशाचसंघाताः ।
हर्तुं सकलनृपाणां धनमखिलं भूतलं प्रययुः ॥ १९ ॥
मायादासः प्रथमं डम्बरदासश्च वज्रदासश्च ।
क्षयदासलुण्ठदासौ खरहरदासः प्रसिद्धदासश्च ॥ २० ॥
वाडवदासश्चाष्टौ ते गत्या मर्त्यलोकमतिभयदाः।
विवृतास्वघोरकुहरा गायनसृष्टिं ससर्जुरतिविकटाम् ॥ २१ ॥
थैरेतैर्हृतविभवा दिशि दिशि हृतसकललोकसर्वस्वाः ।
यज्ञादिषु भूपतयो जाताः शिथिलोद्यमाः सर्वे ॥ २२॥
एतेऽपि कर्णविवरैः प्रविश्य गीतच्छलेन भूपानाम् ।
सहसा हरन्ति हृदयं कर्णपिशाचा महाघोराः ॥ २३ ॥
तस्मादेषां राष्ट्रे न ददाति विकारिणां प्रवेशं यः ।
तस्य सकलार्थसंपद्यज्ञवत् भूमिरा[२७]धीना ॥ २४ ॥
नटनर्तकचक्रचराः कुशीलवाश्चारणा विटाश्चैव ।
ऐश्वर्यशालिशलमाश्चरन्ति तेभ्यः श्रियं रक्षेत् ॥ २५ ॥
गायनसंघस्यैक्यादुत्तिष्ठति गीतनिःस्वनः सुमहान् ।
अस्थाने दचाया लक्ष्म्या इव संभ्रमाक्रन्दः ॥ २६ ॥
इति महाकविधीक्षेमेन्द्रविरचिते कलाविलासे गायनवर्णनं नाम सप्तमः सर्गः ।
अष्टमः सर्गः।
तत्रापि हेमकारा हरणकलायोगिनः पृथुध्यानाः।
ये धाम्नि बहुललक्ष्म्याः शून्यत्वं दर्शयन्त्येव ॥१॥
१. आ समन्तादधीना
सारं सकलधनानां संपरसु विभूषणं विपदि रक्षा ।
एते हरन्ति पापाः सततं तेजः परं हेम ॥ २॥
सहसैव दूषयन्ति स्पर्शेन [२८]सुवर्णमुपहतच्छायम् ।
नित्याशुचयः पापाश्चण्डाला हेमकाराश्च ॥ ३ ॥
मसृणकषाश्मनि निकषो मन्दरुचिक्रमगता कला तेषाम् ।
येषां परुषकषाश्मनि विक्रयकालेऽपि लाभकला ॥४॥
सोपस्नेहः खेद्यः सिक्थकमुद्रोऽपि वालुकाप्रायः ।
सोष्मा च युक्तिभेदात्तुलोपलानां कलाः पञ्च ॥ ५ ॥
द्विपुटा स्फोटविपाका सुवर्णरसपायिनी सुताम्रकला ।
सीसमलकाचचूर्णग्रहणपरा षट्कला मूषा ॥ ६ ॥
वक्रमुखी विषमपुटा सुविरतला न्यस्तपारदा मृद्वी ।
पक्षकटा ग्रन्थिमती सिक्थकला बहुगुणा पुरोनम्रा ॥ ७ ॥
वातभ्रान्ता तन्वी गुर्वी वा परुषवातधृतचूर्णा ।
निर्जीवना सजीवा षोडश हेमस्तुलासु कलाः ॥ ८॥
मन्दः सावेगो वा मध्यच्छिन्नः सशब्दफूल्कारः ।
पाती शीकरकारी फूत्कारः षट्कलस्तेषाम् ॥ ९ ॥
ज्वालावलयी धूमो विस्फोटी मन्दकः स्फुलिङ्गी च ।
पूर्वधृतताम्रचूर्णस्तेषामपि षट्कलो वह्निः ॥१०॥
प्रश्नः कथा विचित्रा कण्डूयनमंशुकान्तराकृष्टिः ।
दिनवेलार्क निरीक्षणमतिहासो मक्षिकाक्षेपः ॥ ११ ॥
कौतुकदर्शनमसकृत्स्वजनकलिः सलिलपात्रमङ्गश्च ।
बहिरपि गमनं बहुशो द्वादश चेष्टाकलास्तेषाम् ॥ १२ ॥
घटितस्योपरि पाकः कृत्रिमवर्णप्रकाशनोत्कर्षी ।
तनुगोमयाग्निमध्ये लवणक्षारानुलेपेन ॥ १३ ॥
सामान्यलोहपात्राद्भूमिन्यस्तेऽपि [२९]कान्तलोहतले ।
धावति वदनेन तुला रिक्तापि मुहुः सुपूर्णेव ॥ १४ ॥
१ सुवर्ण शोभनवणं ब्राह्मणादिकं कनक्म् । २ क्रान्तिसारनाम्ना प्रसिद्धो लोहविशेष:
प्रतिबद्धे जतुयोग्ये प्रक्षिप्त निगूढकनककणम् ।
तुलितं पूरणकाले सुखेन हतु समायाति ॥ १५॥
उज्ज्वलनेऽपि च तेषां पातनमतिसुकरमश्मकाले च ।
सदृशविचित्राभरणे परिवर्तनलाधवप्रसारश्च ॥ १६ ॥
पूर्णादाने घटने नेक्षा माषार्पणं प्रभायोगः ।
कालाहरणविनाशः प्रतिपूरणयाचनं बहुश्लेषः ॥ १७ ॥
एकादश युक्तिकलास्तेषामेताः समासेन ।
एकैव कला महती निशि गमनं सर्वमादाय ॥ १८ ॥
एता हेमकराणां विचारलभ्याः कलाश्चतुःषष्टिः ।
अन्या गूढाश्च कलाः सहस्रनेत्रोऽपि नो वेत्ति ॥ १९ ॥
मेरुः स्थितोऽतिदूरे मनुष्यभूमि चिरात्परित्यज्य ।
भीतोऽवश्यं चौर्याद्धोराणां हेमकाराणाम् ॥ २० ॥
कनकशिलाशतसंधिप्रसृतमहाविवरकोटिसंघातैः
उत्कीर्णनिखिलशिखरः पुरा कृतो मूषकैर्मेरुः ॥ २१ ॥
तत्राखिलाखुसेनानिखातनखरावलेखनोत्खातैः ।
शिथिलितमूलः सहसा बभूव मेरुः पुरा नियतम् ॥ २२ ॥
मूषकनखरोत्खातः सुमेरुरुञ्चैस्तरां शुशुभे ।
उद्धतसुवर्णधूलीपटलैः कपिला बमुः ककुभः ॥ २३ ॥
तसिञ्जर्जरशिखरे विवरोदरदलितकनककूटतटे ।
कल्पान्तागमशङ्का मयमाविरभूदमर्त्यानाम् ॥ २४ ॥
आह च दिव्यदृशा तद्विलोक्य सर्वं सुरानथागस्त्यः ।
एते ते ब्रह्मा निशाचरास्त्रिदशसंगरे निहताः ॥ २५ ॥
जाता मूषकरूपा मेरुनिपाते कृतारम्माः ।
वध्याः पुनरपि भवतामाश्रमभङ्गान्मुनीनां च ॥ २६ ॥
श्रुत्वैतन्मुनिवचनं धूमेन बिलावली समापूर्य ।
शापेन पूर्वदग्धाञ्जग्धुस्त्रिदशा महामूषान् ॥ २७ ॥
७ प्र गु
एते त एव मूषाः सुवर्णकाराः क्षितौ पुनर्जाताः।
जन्माभ्यासादनिशं काञ्चनचूर्णं निकर्षन्ति ॥ २८ ॥
तस्मान्महीपतीनामसंभवे गरदचोरदस्यूनाम् ।
एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ।। २९ ।।
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे सुवर्णकारोत्पत्तिर्नामाष्टमः सर्गः।
नवमः सर्गः।
वञ्चकमाया महती महीतले जलधिमेखले निखिले ।
नष्टधियां मत्स्यानां जालाली धीवरैर्विहिता ॥१॥
सर्वस्वमेव परमं प्राणा येषां कृते प्रयत्नोऽयम् ।
वैद्या वेद्या: सततं येषां हस्ते स्थितास्तेऽपि ॥ २॥
एते हि देहदाहाद्विरहा इव दुःसहा भिषजः ।
ग्रीष्मदिवसा इवोग्रा बहुतृष्णाः शोषयन्त्येव ॥ ३ ॥
विविधौषधपरिवर्तैर्योगैर्जिज्ञासया स्वविद्यायाः ।
हत्या नृणां सहस्रं पश्चाद्वैद्यौ भवेत्सिद्धः ॥ ४ ॥
विन्यस्य राशि चक्रं ग्रहचिन्तां नाटयन्मुखविकारैः ।
अनुवदति चिराद्गणको यत्किंचित्प्रा[३०]श्नि केनोक्तम् ॥ ५ ॥
गणयति गगने गणकश्चन्द्रेण समागमं विशाखायाः।
विविधभुजंगक्रीडासक्तं गृहिणीं न जानाति ॥६॥
प्रथम स्ववित्तमखिलं कनकार्थी भस्मसात्कृत्वा ।
पश्चात्सवनान् रसिकान्विनाशयत्येष वर्णिकानिपुणः ॥ ७॥
शतवेधि सिद्धो मे सहस्रवेधी रसोऽपि निर्यातः ।
इति वदति धातुवादी नग्नो मलिनः कृशो रूक्षः ॥ ८॥
ताम्रघटोपमशीर्षो धूर्ती हि रसायनी जराजीर्णः ।
केशोत्पादनकथया खल्वाटानेव मुष्णाति ॥९॥
प्रह्लादनशुचितारकशम्बररमणीजनेऽपि बद्धाशः।
बिल्वादिमिरतिकामी हुत्वा धूमान्धतामेति ॥ १०॥
१. प्राश्निकः कार्यार्थं प्रश्नकर्ता
खेचर्यः सुस्वसाध्या यत्नाद्यदि लभ्यते नमःकुसुमम् ।
उक्ताः प्रयोगविद्भिर्मशकास्थिषु सिद्धयो बहुधा ॥ ११ ॥
कृष्णाश्वशकूद्वर्त्या पश्यति गगने सुरेन्द्रभवनानि ।
मण्डूकवसालिप्तो भवति पुमान्वल्लभोऽप्सरसाम् ।। १२ ॥
इत्युक्त्वा पुनराशां दिशि दिशि विलसन्ति धूर्तसंघाताः।
यैर्विविधसिद्धिलुब्धाः क्षिप्ताः शतशो नराः श्वभ्रे ॥ १३ ॥
वश्याकर्षणयोगी पथि पथि रक्षां ददाति नारीणाम् ।
रतिकामतन्त्रमूलं मूलं मन्त्रं न जानाति ॥ १४ ॥
बहवो रथ्यागुरवो लघुदीक्षाः स्वल्पयोगमुत्पाद्य ।
व्याधा इव वर्धन्ते मुग्धानां द्रविणदारहराः ॥ १५ ॥
हस्तस्या धनरेखा विपुलतरास्याः पतिश्च चलचित्तः ।
मृद्गाति कुलवधूनामित्युक्त्वा कमलकोमलं पाणिम् ॥ १६ ॥
बद्धेऽङ्गुष्ठे सलिले पश्यति विविधं जनभ्रमं कन्या ।
न प्राप्यते च चोरो मोहोऽसाविन्द्रजालस्य ॥ १७ ॥
खादति पिनति च धूर्तः प्रलापकारी नृणां तलाघातैः ।
चेटावेशं कृत्वा निर्मम्रक्षुद्रधूपेन ॥ १८ ॥
कक्षपुटे नागार्जुनलिखिता युक्तिर्विधीयतां धूपे ।
यो हर्तुं मोहानिति धूर्तोऽग्नौ क्षिपति परवित्तम् ॥ १९ ॥
यक्षीपुत्राश्चोरा विज्ञेयाः कूटधूपकर्तारः ।
येषां प्रत्यक्षफलं दारिद्र्यं राजभङ्गश्च ॥ २० ॥
बहुतरधनेन वणिजा पुत्री सा पुत्रवद्गृहीतैव ।
मदधीनेति कथाभिः कन्यार्थं भुज्यते धूर्तैः ॥ २१ ॥
चिन्त्यः स्वेङ्गितवादी मर्मज्ञो हृदयचौर एवासौ ।
तिष्ठति परप्रयुक्तो मिथ्याबधिरोऽथवा मूकः ॥ २२ ॥
भस्मस्मेरा वेश्या वृद्धाः श्रमणाः सदैवता गणिकाः ।
एताः कुलनारीणां चरन्ति धनशीलहारिण्यः ॥ २३ ॥
विधवा तरुणी सघना वाञ्छिति दिव्यं भवद्विधं रमणम् ।
धूर्ती जडमित्युक्त्वा सर्वस्वं तस्य भक्षयति ॥ २४ ॥
प्रत्यहवेतनयुक्ताः कर्मसु ये कारुशिल्पिनो धूर्ताः।
विलसन्ति कर्मविघ्नैर्विज्ञेयाः कालचौरास्ते ॥ २५ ॥
अक्षव्याजैर्विविधैर्गणनाहस्तादिलाधवैर्निपुणाः ।
धूर्ताश्चरन्ति गूढं प्रसिद्धकितवा विदेशेषु ॥ २६ ॥
भोजनमात्रोत्पत्तिर्बहुव्ययो द्यूतमद्यवेश्याभिः ।
विज्ञेयो गृहचौरो बन्धुजनो वेश्मदासो वा ॥ २७॥
कृतकं शास्त्रमसत्यं साक्षादृष्टश्च केन परलोकः ।
इति वदति यः स शङ्क्यो निरङ्कुशो मत्तमातङ्गः ॥ २८ ॥
बहुलाभलुब्धमनसां हरन्ति ये दुःसहेन लाभेन ।
ऋणधनमधिकविदग्धा विज्ञेया लाभचोरास्ते ॥ २९ ॥
अधिकरणाम्बुधिमध्ये ज्वलन्ति वडवामयः सततभक्षाः |
जनधनधनमनसो ये भट्टाख्या न्यायचोरास्ते ॥ ३० ॥
विभवाम्भोरुहमधुपा दुःसहविपदनिलवेगविमुखा ये ।
सुहृदस्ते सुखचौराश्चरन्ति लक्ष्मीलताहताः ॥ ३१ ॥
यद्यत्किंचिदपूर्व परिचरितं कल्पनादसंबद्धम् ।
वर्णयति हर्षकारी बहुवचनः कर्णचौरीऽसौ ॥ ३२ ॥
दोषेषु गुणस्तुतिभिः श्रद्धामुत्पाद्य चतुरवचना ये ।
कुर्वन्त्यभिनवसृष्टिं स्थितिचौरास्ते निराचाराः ॥ ३३ ॥
आत्मगुणख्यातिपराः परगुणमाच्छाद्य विपुलयत्नेन ।
प्रभवन्ति परमधूर्ता गुणचौरास्ते विमूढहृदयेषु ॥ ३४ ॥
वल्लमतामुपयाताः परवाल्लभ्य विचित्रपैशुन्यैः ।
ये नाशयन्ति धूर्ता मात्सर्याद्धृत्तिचौरास्ते ॥ ३५ ॥
शमदमभक्तिविहीनस्तीब्रब्रतदुर्ग्रहप्रस्तः ।
प्रभिभवति प्रतिपत्त्या साधुजनं. कीर्तिचौरोऽसौ ॥ ३६ ॥
देशान्तरसंभविभिर्मिोंगवरैर्वर्णनारम्यैः ।
येऽपि नयन्ति विदेशं पशुसदृशान्देशचौरास्ते ॥ ३७॥
नानाहासविकारैर्बहुवैदग्ध्यैः सनर्भवैचित्र्यैः ।
रमयति दिवसमशेषं प्रकृतिव्यापारचौरोऽसौ ॥ ३८ ॥
भक्षितनिजबहुविभवाः परविभवक्षपणदीक्षिताः पश्चात् ।
अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश्चिन्त्याः ॥ ३९ ॥
अतिशुचितया न वित्तं गृह्णाति करोति चाग्र्यमधिकारम् ।
यो नियमसलिलमत्स्यः परिहार्यो निःस्पृहनियोगी ॥ ४०॥
रथ्यावणिजः पापाः स्वयमेत्य गृहेषु यत्प्रयच्छन्ति ।
तत्स्वकरार्पितमखिलं भवति परं काचशकलमपि ॥ ४१॥
छन्दानुबर्तिनो ये श्वभ्रापातेऽपि साधुवादपराः ।
सर्वस्वहारिणस्ते मधुरा विषवद्विशन्त्यन्तः ॥ ४२ ॥
तव नरपतिः प्रसादी गुणगणनपरः परं विजने ।
उक्त्वेति राजदासैः सेवकलोकः सदा मुषितः ॥ ४३ ॥
स्वप्ने भयाजस्ता दृष्टा श्रीस्र्वद्धहं प्रविष्टा सा ।
मासोपवासतुष्ट देवी श्रीः सादरा प्राह ॥४४॥
मद्भक्तस्ते दास्पति सर्वं तत्वं मया लब्धः ।
इत्युक्त्वा सरलानां विलसन्ति गृहे गृहे धूर्ताः ॥ ४५ ॥
पुरविप्लवनगरोदययज्ञविवाहोत्सवादिजनसहे ।
प्रविशन्त्रि बन्धुवेषाः परेऽपि सर्वापहाराय ॥ ४६॥
परिजनपानावसरे पिबति न मद्यं निशासु जागर्ति ।
ध्यानपरः सेवार्थीं किमपि च कर्तुं कृतोद्योगः ॥ ४७॥
न ददाति प्रतिवचनं ददाति वा गद्गदाक्षरैर्विषमम् ।
नष्टमुखः सोच्छ्वासः प्रवेपते तत्क्षणं चोरः ॥ ४८ ॥
यश्चाधिकपरिशुद्धिं प्रार्थयते रटति यश्च साटोपः ।
घोरापहवकारी शङ्कायतनं स पापः स्यात् ॥ ४९ ॥
प्रत्यक्षेऽपि परोक्षे कृतमकृतं कथितमप्यनुक्तं च ।
यः कुरुते निर्विकृतिः स परं पुंसां भयस्थानम् ॥ ५० ॥
कृतकृतकमुग्धभावः षण्ड इव स्त्रीस्वभावसंलापः ।
विचरति यः स्त्रीमध्ये स कामदेवो गृहे धूर्तः ॥ ५१ ॥
सततमधोमुखदृष्टिः सति विभवे मलिनदशनवसनश्च ।
विलिखन्कौषनियुक्तः कोषगृहे मूषकश्चिन्त्यः ॥ ५२ ॥
तिष्ठति यः सकलदिनं गृहदासः प्रीतवेश्ममवनेषु ।
गृहदीर्घकथाः कथयन्स चरः सर्वात्मना त्याज्यः ॥ ५३ ॥
निन्द्ये बहुदण्डार्हें कर्मणि यः सर्वथा प्रतारयति ।
आजीवभीतिभोज्यस्तेन निबद्धः स्थिरो राशिः ॥ ५४ ॥
दृष्ट्वा गुह्यमशेषं तस्य रहसंच लीलया लब्ध्वा ।
धूर्तेन मुग्घलोकस्तेन शिलापट्टके लिखितः ॥ ५५ ॥
राजविरुद्धं द्रव्यं [३१]रूपं वा कूटलेख्यमन्यद्वा ।
निःक्षिप्य यात्यलक्ष्यं धूर्तो धनिनां विनाशाय ॥ ५६ ॥
क्षुद्रः क्षीणोऽपि गृहे लब्धावादः कृतो धनैर्येन ।
शस्त्रविषपाशहस्तः स[३२]पाशहस्तो धृतस्तेन ।। ५७ ॥
लज्जाधनः कुलीनः संभावितशुद्धशीलमर्यादः ।
नारीक्रियते धूर्तैः प्रायेण सगर्भनारीभिः ॥ ५८ ॥
दृष्टाभिरदृष्टाभिः क्रूराभिः कृतकवचनमुद्राभिः ।
धूर्ती मुष्णाति वधूं मुग्धां विप्रोषिते पत्यौ ॥ ५९ ॥
सजनेऽपि साधुवेषा विधृताभरणाश्च हेलया धूर्ताः ।
धीरा हरन्ति सकलं दृष्टे हासोऽन्यथा लाभः ॥ ६०.॥
[३३]देशे कृत्वा स्फीते कुम्भघनो डम्बरैर्गृहं पूर्णम् ।
निःक्षेपलक्षहारी वर्षेण पलायते धूर्तः ॥ ६१ ।।
१. राजकीयटङ्कशालातोऽन्यस्थले स्वगृहादौ निर्मितं रजतमुद्रादि.
२. पाशहस्तो यमः
३.यथा मरुस्थलादिदेशवासिनः केचिद्वाणिजो देशान्तरे गस्ता महताडम्बारेण धनवात्त्वख्या-
[३४]शुचितरकनकविभूषणतनुवस्त्राः संभ्रमेण पूज्यन्ते ।
रिपुभमग्नराजपुत्रव्याजेन गृहे गृहे धूर्ताः ॥ ६२ ॥
आदाय देशवृषभं पुण्यं छागं च धूर्तविक्रीतम् ।
मुग्धस्य दुःखपाकः समर्घलाभोदितो हर्षः ॥ ६३ ॥
साधिक्षेपत्यागो महतां संपत्सु यः कृतासूयः ।
तस्मै भयेन वित्तं रिक्तोऽपि ददाति यत्नेन ॥ ६४॥
निःसारभूर्जसारैः : कृत्वा युक्तं महासार्थम् ।
धूर्ती दिशि दिशि विचरन्धनिकसहस्राणि मुष्णाति ॥ ६५ ॥
धूर्ती वसन्विदेशेषूद्दिश्य सुरापगागयायात्राम् ।
मृतबन्धूनामर्थे द्रविणं गृहाति मुग्धेभ्यः ॥ ६६ ॥
मुष्णाति [३५]सार्थरमणी शाटीमादाय निद्रया मुग्धान् ।
धूर्तेन [३६]कूटरूपं दत्त्वा निशि बञ्चते सापि ॥ ६७ ॥
बधिरं वा मूकं वा वणिजं निःक्षिप्य भाण्डशालायाम् ।
धूर्तो नयति त्वरया बहुमूल्यं वर्णकद्रव्यम् ।। ६८॥
किंचित्परिचयमात्रैः किंचिद्धार्ष्ट्यैः सकल्पनैः किंचित् ।
किंचिद्विवादकलहैः सर्वज्ञो वञ्चकश्चरति ॥ ६९ ॥
मिथ्याडम्बरधनिकः पुस्तकविद्वान्कथाज्ञानी ।
वर्णनशूरश्चपलश्चतुर्मुखो जृम्भते धूर्तः ।। ७० ॥
सर्वावयवविधूननकृतसंकेतान्विसृज्य गेहेषु ।
भोक्तुं व्रजति दिगन्तान्स्वेच्छाचारी महाधूर्तः ।। ७१ ॥
शतवार्षिकमामलकं मुक्त्वा श्रीपर्वतादहं प्राप्तः।
धूतों वदति गुरूणां पुरतः शकुनं सरामीति ।। ७२ ॥
वि संपाय बहूनां निःक्षेपधनानि भक्षयित्वा कुम्मादिषु गुप्ततया संस्थाप्य पश्चात् 'दिवाला निष्कासनं कुर्वन्ति.।
१. यथाधुनापि केचित् "दिल्लीबादशाहशाहजादा" नाममा, केन्धिन लिखनऊनवाच
'-
तनूजन्मानो भूत्वा मुग्धधनिकान्वश्वयन्तः परिभ्रमन्ति ।. २. वेश्या. । ३. 'खोटा रुपया'
इति प्रसिद्धं कांस्यादिनिर्भितं रूपकम् ।
एता लेशेन मया कथिता मायाश्चतुःषष्टिः ।
को वेद वञ्चकानां मायानां शतसहस्राणि ॥ ७३ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे नानाधूर्तवर्णनं नाम नवमः सर्गः।
दशमः सर्गः।
एता वञ्चकमाया विज्ञेया न तु पुनः खयं सेव्याः ।
धर्म्यः कलाकलापो विदुधामयमीप्सितो भूत्यै ॥१॥
धर्मस्य कला ज्येष्ठा भूतदयाख्या परोपकारश्च ।
दानं क्षमानसूया सत्यमलोभः प्रसादश्च ॥ २ ॥
अर्थस्य सदोत्थानं नियमपरीपालनं कियाज्ञानम् ।
स्थानत्यागः पटुतानुद्वेगः स्त्रीष्वविश्वासः ॥ ३ ॥
कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः ।
नानाविधाश्च लीलाश्चित्तज्ञानं च कान्तानाम् ॥ ४॥
मोक्षस्य विवेकरतिः प्रशमस्तृष्णाक्षयश्च संतोषः ।
सङ्गत्यागः खलयस्थान परमप्रकाशश्च ॥५॥
एताश्चतुष्टयकला द्वात्रिंशत्क्रमधृताः समस्ता वा।
संसारवञ्चकानां विद्या विद्यावतामेव ॥ ६ ॥
मात्सर्यस्य त्यागः प्रियवादित्वं सधैर्यमक्रोधः ।
वैराग्यं च परार्थे सुखस्य सिद्धाः कलाः पञ्च ॥ ७॥
सत्सङ्गः कामजयः शौचं गुरुसेवन सदाचारः ।
श्रुतममलं यशसि रतिर्मूलकलाः सप्त शीलस्य ॥ ८॥
तेजः सत्त्वं बुद्धिर्व्यवसायो नीतिरिङ्गितज्ञानम् ।
प्रागल्भ्यं सुसहायः कृतज्ञता मन्त्ररक्षणं त्यागः ॥९॥
अनुरागः प्रतिपत्तिमित्रार्जनमानृशंस्यमस्तम्भः ।
आश्रितजनवात्सल्यं सप्तदश कलाः प्रभावस्य ॥१०॥ (युग्मम्)
मौनमलौल्यमयाच्ञा मानस्य च जीवितं कलात्रितयम् ।
एताः का विदग्धैः स्वगताः कार्याश्चतुःषष्टिः ॥ ११॥
शक्तविरोधे गमनं तत्प्रणतिर्वा बलोदये वैरम् ।
आर्तस्य धर्मचर्या दुःखे धैर्य सुकेष्वनुत्सेकः ॥ १२ ॥
विमवेषु संविभागः सत्सु रतिर्मन्त्रसंशये प्रज्ञा ।
निन्द्येषु पराङ्मुखता भेषजमेतत्कलादशकम् ॥ १३ ॥
गुरुवचनं सत्यानां कार्याणां गोद्विजातिसुरपूजा ।
लोभः पापतमानां क्रोधः सर्वोपतापजनकानाम् ॥ १४ ॥
प्राज्ञः सर्वगुणानां यशस्विता विपुलवित्तविभवानाम् ।
सेवा दुःखतमानामाशा पृथुकालभुजगपाशानाम् ॥ १५ ॥
दानं रत्ननिधीनां निर्वैरत्वं सुखप्रदेशानाम् ।
याच्ञा मानहराणां दारिद्यं चोपतापसार्थानाम् ॥ १६ ॥
धर्मः पाथेयानां सत्यं मुखपद्मपावनकराणाम् ।
व्यसनं रोगगणानामालस्यं गृहसमृद्धिनाशानाम् ॥ १७ ॥
निःस्पृहता श्लाघ्यानां प्रियवचनं सर्वमधुराणाम् ।
दर्पस्तिमिरकराणां दम्भः सर्वोपहासपात्राणाम् ॥ १८॥
अद्रोहः शौचानामचापलं व्रतविशेषनियमानाम् ।
पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशंसचरितानाम् ॥ १९ ॥
कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्यनाम् ।
माया मोहमतीनां कृतघ्नता नरकपातहेतूनाम् ॥ २० ॥
मदनश्छलचौराणां स्त्रीवचनं ज्ञाति मेदानाम् ।
क्रूरचण्डालानां मायावी कलियुगावताराणाम् ॥ २१ ॥
शास्त्र मणिदीपानामुपदेशश्चाभिषेकाणाम् ।
वृद्धवं क्लेशानां रोगित्वं मरणतुल्यदुःखानाम् ॥ २२ ॥
स्नेहो विषमविषाणां वेश्यारागो विसर्पकुष्ठानाम् ।
भार्या गृहसाराणां पुत्रः परलोकबन्धूनाम् ॥ २३ ॥
शत्रुः शस्यशतानां दुष्पुत्रः कुलविनाशानाम् ।
तारुण्यं रमणीनां रूपं रुचिरोपचारवेषाणाम् ॥ २४॥
संतोषो राज्यानां सत्सङ्गश्चक्रवर्ति विभवानाम् ।
चिन्ता शोषकराणां विद्वेषः कोटराग्निदाहानाम् ॥ २५ ॥
मैत्री विस्रम्भानां नियन्त्रणता महार्ह भोगानाम् ।
संकोचो व्याधीनां कौटिल्यं निर्जलान्धुकूपानाम् ॥ २६ ॥
आर्जवममलकराणां विनयो वररत्नमुकुटानाम् ।
द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् ॥ २७ ॥
त्यागो मणिवलयानां श्रुतमुज्ज्वलकर्णरत्नानाम् ।
खलमैत्री चपलानां दुर्जनसेवा वृथाप्रयासानाम् ॥ २८ ॥
निर्वृतिरुद्यानानां प्रियदर्शनममृतवर्षाणाम् ।
तत्त्वरतिर्लभ्यानां मूर्खसमा सद्विवेकनाशानाम् ॥ २९ ॥
कुलजः सफलतरूणां सौभाग्यं कृतयुगावताराणाम् ।
राजकुलं शङ्क्यानां स्त्रीहृदयं प्रकृतिकुटिलानाम् ॥ ३०॥
औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानाम् ।
कन्या शोककराणां बुद्धिविहीनोऽनुकम्प्यानाम् ॥ ३१ ॥
विभवः सौभाग्यानां जनरागः कीर्तिकन्दानाम् ।
मद्यं वेतालानां मृगया गजगहनयक्षाणाम् ॥ ३२ ॥
प्रशमः स्वास्थ्यकराणामात्मरतिस्तीर्थसेवानाम् ।
लुब्धः फलरहितानामाचारविवर्जितः श्मशानानाम् ॥ ३३ ॥
नीतिः स्त्रीरक्षाणामिन्द्रियविजयः प्रभावाणाम् ।
इर्ष्या यक्ष्मशतानामयशः कुस्थानमरणानाम् ॥ ३४ ॥
माता मजल्यानां जनकः सुकृतोत्सवोपदेशानाम् ।
घातस्तीक्ष्णतराणां छेदस्तीक्ष्णासिशस्त्राणाम् ॥ ३५ ॥
प्रणतिर्मन्युहराणां सौहार्दं कृच्छ्र्या~ञ्चानाम्म् ।
मानः पुष्टिकराणां कीर्तिः संसारसाराणाम् ॥ ३६॥
प्रमुभक्तिींतीनां युधि निधनं सौल्यवीथीनाम् ।
विनयः कल्याणानामुत्साहः सर्वसिद्धीनाम् ॥ ३७॥
पुण्यं प्राप्यतमानां ज्ञानं परमप्रकाशानाम् ।
कीर्तिः संसारेऽसिन्सा[३७]रतरा सर्वलोकानाम् ॥ ३८ ॥ (कुलकम् )
ज्ञेयः कलाकलापे कुशलः सर्जार्थतत्त्वविज्ञानी ।
प्रवरतरो लोकेऽस्मिन्ब्राह्मण इव सर्ववर्णानाम् ॥ ३९ ॥
इत्युक्तं शतमेतद्यो वेत्ति शुभाशुभोदयकलानाम् ।
तस्यैव व्यवहारे दृष्टा दृष्टप्रयोजना लक्ष्मीः ॥ ४०॥
उक्त्वेति मूलदेवो विसृज्य शिष्यान्कृतोचिताचारः ।
किरणकलिकाविकासां निनाय निजमन्दिरे रजनीम् ॥ ४१ ॥
केलीमयः सितविलासकलाभिरामः
सर्वाश्रयान्तरकलाप्रकटप्रदीपः ।
लोकोपदेशविषयः सुकथाविचित्रो
भूयात्सतां दयित एष कलाविलासः ॥ ४२ ॥
कलाविलासः क्षेमेन्द्रप्रतिभाम्भोधिनिर्गतः।
शशीव मानसानन्दं करोतु सततं सताम् ॥ १३ ॥
इति महाकविधीक्षेमेन्द्रविरचिते कलाविलासे सकलकलानिरूपणं नाम दशमः सर्गः ।