कलाविलासः

विकिस्रोतः तः
Jump to navigation Jump to search
क्षेमेन्द्र कलाविलास


सर्गः १[सम्पाद्यताम्]

अस्ति विशालं कमलालुलितपरिष्वङ्गमङ्गलायतनम् ।
श्रीपतिवक्षःस्थलमिव रत्नोज्ज्वलमुज्ज्वलं नगरम् ॥ १.१ ॥
मणिभूबिम्बितमुक्ताप्रलम्बनिवहेन यत्र शेषाहिः ।
भवनानि बिभर्ति सदा बहुधात्मानं विभज्येव ॥ १.२ ॥
विघ्नोऽभिसारिकाणां भवनगणः स्फाटिकप्रभाविकटः ।
यत्र विराजति रजनीतिमिरपटप्रकटलुण्ठाकः ॥ १.३ ॥
यत्र त्रिनयननयनज्वलनज्वालावलीशलभवृत्तिः ।
जीवति मानसजन्मा शशिवदनावदनकान्तिपीयूषैः ॥ १.४ ॥
रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र ।
श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्यनिलाः ॥ १.५ ॥
नवबिसकिसलयकवलनकषायकलहंसकलरवो यत्र ।
कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः ॥ १.६ ॥
नृत्यन्मुग्धमयूरा मरकतधारागृहावली सततम् ।
सेन्द्रायुधधननिवहा प्रावृण्मूर्तेव यत्रास्ते ॥ १.७ ॥
शशिकिरणप्रावरणस्फाटिकहर्म्येषु हरिणशावाक्ष्यः ।
यत्र विभान्ति सुधाम्बुधिदुग्धतरङ्गित्थिता इवाप्सरसः ॥ १.८ ॥
तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्तः ।
सकलकलानिलयानां धुर्यः श्रीमूलदेवाख्यः ॥ १.९ ॥
नानादिग्देशागतधूर्तैरुपजीव्यमानमतिविभवः ।
स प्राप विपुलसंपदमात्मगुणैश्चक्रवर्तीव ॥ १.१० ॥
भुक्तोत्तरं सहृदयैरास्थानीसंस्थितं कदाचित्तम् ।
अभ्येत्य सार्थवाहो दत्तमहार्होपहारमणिकनकः ॥ १.११ ॥
प्रणतो हिरण्यगुप्तः सहितः पुत्रेण चन्द्रगुप्तेन ।
प्राप्तासनसत्कारः प्रोवाच म्हूर्तविश्रान्तः ॥ १.१२ ॥
अतिपरिचयसप्रतिभा तव पुरतो मादृशामियं वाणी ।
ग्राम्याङ्गनेव नगरे न तथा प्रगल्भ्यमायाति ॥ १.१३ ॥
पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते ।
तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥ १.१४ ॥
आजन्मार्जितबहुविधमणिमौक्तिककनकपूर्णकोषस्य ।
एको ममैष सूनुः संजातः पश्चिमे वयसि ॥ १.१५ ॥
मोहस्थानं बाल्यं यौवनमपि मदनमानसोन्मादम् ।
अनिलावलोलनलिनीदलजलचपलाश्च वित्तचयाः ॥ १.१६ ॥
हारिण्यो हरिणदृशः सततं भोगाब्जमधुकरा धूर्ताः ।
पतिता परंपरैषा दोषाणां मम सुतस्यास्य ॥ १.१७ ॥
धूर्तकरकन्दुकानां वारवधूचरणनूपुरमणीनाम् ।
धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥ १.१८ ॥
अज्ञातदेशकालाश्चपलमुखाः पङ्गवोऽपि सप्लुतयः ।
नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥ १.१९ ॥
आश्रितजनतनयोऽयं तव विद्वन्निजसुताधिकः सत्यम् ।
न यथा प्रयाति नाशं तथास्य बुद्धिं प्रयच्छ पराम् ॥ १.२० ॥
इति विनयनम्रशिरसा तेन वचो युक्तमुक्तमवधार्य ।
तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौष्ठाग्रः ॥ १.२१ ॥
आस्तामेष सुतस्ते मम भवने निज इव प्रयत्नपरः ।
ज्ञास्यति मयोपदिष्टं शनकैः सकलं कलाहृदयम् ॥ १.२२ ॥
इति तस्य शासनेन स्वसुतं निःक्षैप्य तद्गृहे मतिमान् ।
नत्वाथ सार्थवाहः प्रययौ निजमन्दिरं मुदितः ॥ १.२३ ॥
अथ शिथिलकिरणजालो धूमरकान्तिर्निरम्बरस्तरणिः ।
अभवददृक्ष्यः शनकैः धूर्तैरिव निर्जितः कितवः ॥ १.२४ ॥
अस्तमिते दिवसकरे तिमिरभरद्विरदसंसक्ता ।
सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ सन्ध्या ॥ १.२५ ॥
त्यक्तापि प्रतिदिवसं दिवसद्युतिरनुजगाम दिवसकरम् ।
न तु रक्तापि हि सन्ध्या हृदयं जानाति कः स्त्रीणाम् ॥ १.२६ ॥
गगनाङ्गणकमलवने सन्ध्यारागे गते शनैः क्वापि ।
अप्राप्तस्थितिविकलं बभ्राम भ्रमरविभ्रमं तिमिरम् ॥ १.२७ ॥
तीक्ष्णांशुविरहमोहैः तिमिरैरिव मीलिता बभूव मही ।
तीव्रोऽपि जनस्य सदायातः खलु वल्लभो भवति ॥ १.२८ ॥
रजनी रराज सिततरतारकमुक्ताकलापकृतशोभा ।
शबररमणीव परिचिततिमिरमयूरच्छदाभरणा ॥ १.२९ ॥
अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः ।
कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ १.३० ॥
मन्मथसितातपत्रं दिग्वनितास्फटिकदर्पणो विमलः ।
विरराज रजनिरमणीसिततिलको यामिनीनाथः ॥ १.३१ ॥
निजकरमृणालवल्लीवलयविलासी ललास सितकान्तिः ।
गगनतटिनीतटान्ते रजनिकरो राजहंस इव ॥ १.३२ ॥
श्यामा शुशुभे शशिना तया मनोभूर्मधूत्सवस्तेन ।
मदमुदितमानसानां तेनापि मृगीदृशां लीला ॥ १.३३ ॥
धूर्ताः समृद्धिसचिवा विच्छायां पद्मिनीं परित्यज्य ।
फुल्लानि विविशुरलयः सानन्दाः कुमुदवृन्दानि ॥ १.३४ ॥
ज्योत्स्नाभस्मस्मेरा सुललितशशिशकलपेशलकपाला ।
तारास्थिपटलहारा शुशुभे कापालिकीव निशा ॥ १.३५ ॥
तस्मिन्प्रौढनिशाकरकिरणप्रकरप्रकाशिताशेषे ।
निजमणिभवनोद्याने निर्वर्तितभावनासमाधानः ॥ १.३६ ॥
स्फटिकासनोपविष्टः सह शशिना निर्विभागमित्रेण ।
कन्दलिमुख्यैः शिष्यैः परिवारितपादपीठान्तः ॥ १.३७ ॥
प्रोवाच मूलदेवो वीक्ष्य चिरं सार्थवाहसुतमग्रे ।
कुर्वन्दशनमयूखैः लज्जालीनामिव ज्योत्स्नाम् ॥ १.३८ ॥
शृणु पुत्र वञ्चकानां सकलकलाहृदयसारमतिकुटिलम् ।
ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियोऽप्यचलाः ॥ १.३९ ॥
एकोऽस्मिन्भवगहने तृणपल्लववलयजालसंच्छन्नः ।
कूपः पतन्ति यस्मिन्मुग्धकुरङ्गा निरालम्बे ॥ १.४० ॥
सोऽयं निधानकुम्भो दम्भो नां स्वभावगम्भीरः ।
कुटिलैः कुहकभुजंगैः संवृतवदनः स्थितो लोके ॥ १.४१ ॥
मायारहस्यमन्त्रश्चिन्तामणिरीप्सितार्थानाम् ।
दम्भः प्रभावकारी धूर्तानां श्रीवशीकरणम् ॥ १.४२ ॥
मत्स्यास्येवाप्सु सदा दम्भस्य ज्ञायते गतिः केन ।
नास्य करौ न च पादौ न शिरो दुर्लक्ष्य एवासौ ॥ १.४३ ॥
मन्त्रबलेन भुजंगा मुग्धकुरङ्गाश्च कूटयन्त्रेण ।
स्थलजालेन विहङ्गा गृह्यन्ते मानवाश्च दम्भेन ॥ १.४४ ॥
जनहृदयविप्रलम्भो मायास्थम्भो जगज्जयारम्भः ।
जयति सदानुपलम्भो मायारम्भोदयो दम्भः ॥ १.४५ ॥
सततावर्तभ्रान्ते दुःसहमायासहस्रकुटिलारे ।
मूलं दम्भो नाभिर्विपुलतरे चक्रिकाचक्रे ॥ १.४६ ॥
नयननिमीलनमूलः सुचिरं स्नानार्द्रचूलजलसिक्तः ।
दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः ॥ १.४७ ॥
व्रतनियमैर्बकदम्भः संवृतनियमैश्च कूर्मजो दम्भः ।
निभृतगतिनयननियमैर्घोरो मार्जारजो दम्भः ॥ १.४८ ॥
बकदम्भो दम्भपतिर्दम्भनरेन्द्रश्च कूर्मजो दम्भः ।
मार्जारदम्भ एव प्राप्तो दम्भेषु चक्रवर्तित्वम् ॥ १.४९ ॥
नीचनखश्मश्रुकचश्चूली जटिलः प्रलम्बकूर्चो वा ।
बहुमृत्तिकापिशाचः परिमितभाषी प्रयत्नपादत्रः ॥ १.५० ॥
स्थूलग्रन्थिपवित्रकपृष्ठार्पितहेमवल्लीकः ।
कक्षार्पितपतपल्लवरुद्धभुजो भाण्डहस्त इव ॥ १.५१ ॥
अङ्गुलिभङ्गविकल्पन विविधविवादप्रवृत्तपाण्डित्यः ।
जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥ १.५२ ॥
साभिनयाञ्चितचुलकैराचमनैः सुचिरमज्जनैस्तीर्थे ।
संरुद्धसकललोकः पुनः पुनः कर्णकोणसंस्पर्शी ॥ १.५३ ॥
सीत्कृतदन्तनिनादावेदितहेमन्तदुःसहस्नानः ।
विस्तीर्णतिलकचर्चासूचितसर्वोपचारसुरपूजः ॥ १.५४ ॥
शिरसा बिबर्ति कुसुमं विनिपतितां काकदृष्टिमिव रचयन् ।
एवं रूपं पुरुषो यो यः स स दाम्भिको ज्ञेयः ॥ १.५५ ॥
निर्गुणलोकप्रणतःसगुणे स्तब्धः स्वबन्धुषु द्वेषी ।
पुरजनकरुणाबन्धुः कीर्त्यार्थी दांभिको धूर्तः ॥ १.५६ ॥
कार्योपयोगकाले प्रणतशिराश्चाटुशतकारी ।
सभ्रूभङ्गो मौनी कृतकार्यो दाम्भिकः क्रूरः ॥ १.५७ ॥
स्तम्भितविबुधसमृद्धिर्दैत्यो योऽभूत्पुरा जम्भः ।
दम्भः सोऽयं निवसति भूमितले भूतदेहेषु ॥ १.५८ ॥
शुचिदम्भः शमदम्भः स्नातकदम्भः समाधिदम्भश्च ।
निःस्पृहदम्भस्य तुलां यान्ति तु नैते शतांशेन ॥ १.५९ ॥
शौचाचारविवादी मृत्क्षयकारी स्वबान्धवस्पर्शी ।
शुचिदम्भेन जनोऽयं विश्वामित्रत्वमायाति ॥ १.६० ॥
संहृतबहुविधसत्त्वो निःक्षेपद्रविणवारिबहुतृष्णः ।
सततमहिंसादम्भो वडवाग्निः सर्वभक्षोऽयम् ॥ १.६१ ॥
मुण्डो जटिलो नग्नश्छत्री दण्डी कषायचारी वा ।
भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥ १.६२ ॥
खल्वाटः स्थूलवपुः शुष्कतनुर्मुनिसमानरूपो वा ।
शाटकवेष्टितशीर्षश्चैत्योन्नतशिखरवेष्टनो वापि ॥ १.६३ ॥
लोभः पितातिवृद्धो जननी माया सहोदरः कूटः ।
कुटिलाकृतिश्च गृहिणी पुत्रो दम्भस्य हुंकारः ॥ १.६४ ॥
भगवान्पुरा स्वयंभूः कृत्वा भुवनानि भूतसर्गं च ।
विरतव्यापारतया सुचिरं चिन्तान्वितस्तस्थौ ॥ १.६५ ॥
दृष्ट्वा स मर्त्यलोके दिव्यदृशा मानुषान्निरालम्बान् ।
आर्जवयोगविशेषादप्राप्तधनादिसंभोगान् ॥ १.६६ ॥
मीलितनयनः क्षैप्रं स्थित्वा मायामये समाधाने ।
असृजन्नृणां (नॄणां?) विभूत्यै दम्भं संभावनाधारम् ॥ १.६७ ॥
बिभ्राणः कुशपूलीं पुस्तकमाले कमण्डलुं शून्यम् ।
निजहृदयकुटिलशृङ्गं दण्डं कृष्णाजिनं खनित्रं च ॥ १.६८ ॥
स्थूलतरकुशपवित्रकलाञ्छितकर्णः पवित्रपाणिश्च ।
सुव्यक्तमुण्डमस्तककुशवेष्टितचूलमूलसितकुसुमः ॥ १.६९ ॥
काष्ठस्तब्धग्रीवो जपचपलोष्ठः समाधिलीनाक्षः ।
रुद्राक्षवलयहस्तो मृत्परिपूर्णं वहन्पात्रम् ॥ १.७० ॥
नयनाञ्चलैः सकोपैर्भ्रुकुटीहुंकारवदनसंज्ञाभिः ।
बहुविधकदर्थनाभिः कथिताखिलहृदयवाञ्छितो मौनी ॥ १.७१ ॥
रक्षन्परसंस्पर्शं शौचार्थी ब्रह्मलोकेऽपि ।
दम्भः पुरोऽस्य तस्थावुत्थित एवासनाकाङ्क्षी ॥ १.७२ ॥
आकल्पेन सुमहता सहसास्य वशीकृताः परं तेन ।
सप्तर्षयोऽपि तस्मै प्रणतास्तस्थुः कृताञ्जलयः ॥ १.७३ ॥
तं दृष्ट्वा परमेष्ठी लीलाकृतसकलसर्गवर्गोऽपि ।
गौरवविस्मयहर्षैर्निःस्पन्दान्दोलितस्तस्थौ ॥ १.७४ ॥
तस्यातितीव्रनियमाद्ग्रस्तेऽगस्त्येऽतिविस्मयेनेव ।
अल्पतपोव्रतलज्जाकुञ्चितपृष्ठे वसिष्ठे च ॥ १.७५ ॥
अतिसरलनिजमुनिव्रतपरिगतकुत्से च कूणिते कौत्से ।
डम्बररहितात्मतपोनिरादरे नारदे विहिते ॥ १.७६ ॥
निजजानुसंधिशिखरे जमदग्नौ मग्नवदने च ।
त्रस्ते विश्वामित्रे वलितगुले गालवेभृगौ मग्ने ॥ १.७७ ॥
सुचिरोत्थितमतिकोपादासनकमले निविष्टदृष्टिं च ।
शूलप्रोतमिवाग्रे निःस्पन्दममन्दगर्वगुरुगात्रम् ॥ १.७८ ॥
ज्ञात्वा तमासनार्थिनमवदद्देवश्चतुर्मुखः प्रीत्या ।
विकसन्निजदशानरुचा विहसन्निव वाहनं हंसं ॥ १.७९ ॥
उपविश पुत्र ममाङ्के नियमेन महीयसातिचित्रेण ।
अर्होऽसि गुणगणोद्गतगौरवसंवादिनानेन ॥ १.८० ॥
इत्युक्तो विश्वसृजा तस्याङ्कमशङ्कया ससंकोचः ।
अभ्युक्ष्य वारिमुष्ट्या कृच्छ्रेणोपाविशद्दम्भः ॥ १.८१ ॥
दम्भ उवाच ॥ नोच्चैर्वाच्यमवश्यं यदि वाच्यं हस्तपद्मेन ।
आच्छाद्य वक्त्ररन्ध्रं स्पृष्टो न स्यां यथास्यवातांशैः ॥ १.८२ ॥
तत्तस्य शौचमतुलं दृष्ट्वा स्मेराननो ब्रह्मा ।
दम्भोऽसीति जगाद प्रायो हस्ताग्रमाकम्प्य ॥ १.८३ ॥
उत्तिष्ठाळ्सकलजलनिधिपरिखावलिमेखलां महीमखिलाम् ।
अवतीर्य भुङ्क्ष्वा भोगान्विबुधैरपि तत्त्वतो न विज्ञातः ॥ १.८४ ॥
इत्यादराद्विसृष्टो विधिना संसारसागरगतानाम् ।
कण्ट्ःे शीलां निबध्नन्मर्त्यानामवततार महीम् ॥ १.८५ ॥
अथ मर्त्यलोकमेत्य भ्रान्त्वा दम्भो वनानि नगराणि ।
विनिवेश्य गौडविषये निजजयकेतुं जगाम दिशः ॥ १.८६ ॥
वचने बाह्लीकानां व्रतनियमे प्राच्यदाक्षैणात्यानां ।
अधिकारे वीराणां दम्भः सर्वत्र गौडानाम् ॥ १.८७ ॥
एते दम्भसहायाः प्रतिग्रहश्राद्धसिद्धचूर्णेन ।
कुर्वन्ति ये प्रभाते यतस्ततो भस्मना तिलकम् ॥ १.८८ ॥
तूर्णं सहस्रभागैर्भुवनतलए संविभज्य भूतानि ।
मूर्तः सततं निवसति दम्भो वदनेऽधिकरणभट्टानाम् ॥ १.८९ ॥
गुरुहृदयमविशादग्रे बालकहृदयं तपस्विहृदयं च ।
कुटिलं नियोगिहृदयं दीक्षैतहृदयं स्वयं दम्भः ॥ १.९० ॥
तदनु च गणकचिकित्सकसेवकवणिजां सहेमकाराणाम् ।
नटभटगायनवाचकचक्रचराणां च हृदयानि ॥ १.९१ ॥
अंशैः प्रविश्य हृदयं विविधविकारैः समस्तजन्तूनाम् ।
दम्भो विवेश पश्चादन्तरमिह पक्षैवृक्षाणाम् ॥ १.९२ ॥
मत्स्यार्थी चरति तपः सुचिरं निःस्पन्द एकपादेन ।
तीर्थेषु बकतपस्वी तेन विहङ्गान्गतो दम्भः ॥ १.९३ ॥
विपुलजटावल्कलिनः शीतातपवातकर्शिताः सततम् ।
वृक्षा जलार्थिनो यद्दम्भस्य विजृम्भितं तदपि ॥ १.९४ ॥
एवं विचारणीयः सर्वगतः सर्वहृत्सदा दम्भः ।
ज्ञाते तस्मिन्विविधे विफला मायाविनां माया ॥ १.९५ ॥
दम्भविकारः पुरतो वञ्चकचक्रस्य कल्पवृक्षोऽयम् ।
वामनदम्भेन पुरा हरिणा त्रैलोक्यमाक्रान्तम् ॥ १.९६ ॥


सर्गः २[सम्पाद्यताम्]

लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् ।
कार्याकार्यविचारो लोभाकृष्टस्य नास्त्येव ॥ २.१ ॥
मायाविनिमयविभ्रमनिह्नववैचित्यकूटकपटानाम् ।
सञ्चयदुर्गपिशाचः सर्वहरो मूलकारणां लोभः ॥ २.२ ॥
सत्त्वप्रशमतपोभिः सत्त्वधनैः शास्त्रवेदिभिर्विजितः ।
लोभोऽवटं प्रविष्टः कुटिलं हृदयं किराटानाम् ॥ २.३ ॥
क्रयविक्रयकूटतुलालाघवनिःक्षेपरक्षणव्याजैः ।
एते हि दिवसचौरा मुष्णन्ति मुदा जनं वणिजः ॥ २.४ ॥
हृत्वा धनं जनानां दिनमखिलं विविधकूटमायाभिः ।
वितरति गृहे किराटः कष्टेन वराटकत्रितयम् ॥ २.५ ॥
आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् ।
दष्ट इव कृष्णसर्पैः फलायते दानधर्मेभ्यः ॥ २.६ ॥
द्वादश्यां पितृदिवसे संक्रमणे सोमसूर्ययोर्ग्रहणे ।
सुचिरं स्नानं कुरुते न ददाति कपर्दिकामेकाम् ॥ २.७ ॥
दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा ।
चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥ २.८ ॥
न ददाति प्रतिवचनं विक्रयकाले शठो वणिङ्मौनी ।
निःक्षेपपाणिपुरुषं दृष्ट्वा संभाषणां कुरुते ॥ २.९ ॥
उत्तिष्ठति नमति वणिक्पृच्छति कुशलं ददाति च स्थानं ।
निःक्षेपपाणिपुरुषं दृष्ट्वा धर्म्यां कथां कुरुतेक ॥ २.१० ॥
कश्चिद्वदति तमेत्य द्रविणं निःक्षिप्य हन्त गन्तास्मि ।
भ्रातः परं प्रभाते विष्टिदिनं किं करोम्यद्य ॥ २.११ ॥
तच्छ्रुत्वा विकसितदृग्वदति स मिथ्यैव नाटयन्खेदम् ।
कार्ये प्रसारिताक्षः पुनः पुनः पार्श्वमवलोक्य ॥ २.१२ ॥
त्वदधीनं स्थानमिदं किं तु चिरं न्यासपालनं कठिनम् ।
विषमौ च देशकालौ साधोस्तव तदपि दासोऽहम् ॥ २.१३ ॥
भद्राळ् न दूषितैषा निःक्षेपक्षेमकारिणी शस्ता ।
इत्यनुभूतं बहुशः कार्यज्ञैस्त्वं तु जानासि ॥ २.१४ ॥
विष्टिदिने किमपि पुराळ्न्यस्तं केनापि मित्रेण ।
तूर्णं पुनश्च शनकैर्नीतं क्षेमेण कुशलेन ॥ २.१५ ॥
इत्यादि मुग्धबुद्धेरसमन्न्जसवर्णनं रहः कृत्वा ।
गृह्णाति कनकनिकरं नृत्यंस्तत्तन्मनोरथैः पापः ॥ २.१६ ॥
तत्संचूर्णनजातैः क्रयविक्रयलाभराशिभिरनन्तैः ।
भाण्डप्रतिभाण्डचयैरुपहसति धनाधिनाथं सः ॥ २.१७ ॥
पूर्णाः कदर्यवणिजां निःसंभोगा निधानधनकुम्भाः ।
सीदन्ति कुचतटा इव दुःखफला बालविधवानाम् ॥ २.१८ ॥
दानोपभोगविरहितहिरण्यरक्षाकृतक्षणाः सततम् ।
संसारजीर्णमन्दिरविषयविषममहामूषका वणिजः ॥ २.१९ ॥
अटति समुत्कटवेष्टितविकटपटस्फुटफटाटोपः ।
कुटिलः कण्टकनिचितः पुरपतिनामा विधिव्यालः ॥ २.२० ॥
अथ पुरुषः स दिगन्तं भ्रान्त्वा केनापि दैवयोगेन ।
नष्टधनो जनरहितः प्राप्तः सुचिरान्निजं देशम् ॥ २.२१ ॥
पृच्छति कमपि सशङ्कः स किराटः क्व नु गतो महासत्त्वः ।
तमुपेत्य वदति कश्चित्तस्याद्य सखे विभूतिरन्यैव ॥ २.२२ ॥
विविधनवांशुकमृगमदचन्दनकर्पूरमरिचपूगफलैः ।
खटिकाहस्तः स सदा गणयति कोटीर्मुहूर्तेन ॥ २.२३ ॥
अस्मिन्मेरुविशाले वरभवने रुचिरभित्तिकृतचित्रे ।
पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र ॥ २.२४ ॥
श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा ।
द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् ॥ २.२५ ॥
तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय ।
नोच्छ्वसिति नष्टचेतस्ताडित इव मूर्ध्नि वज्रेण ॥ २.२६ ॥
उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः ।
तं याचते स पुरुषो द्रविणं स्वं प्रकटिताभिक्यः ॥ २.२७ ॥
तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्ताग्रः ।
वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः ॥ २.२८ ॥
कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः ।
अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन ॥ २.२९ ॥
पश्यत कष्ठमनिष्टः कलिकालः कीदृशोऽयमायातः ।
मत्तोऽर्थमेष वाञ्छति लोको जानाति वा सर्वम् ॥ २.३० ॥
हरगुप्तकुलेऽस्माकं निःक्षेपग्रहणमप्यसंभाव्यम् ।
किं पुनरपह्नवोद्गतघोरमहापातकस्पर्शः ॥ २.३१ ॥
तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् ।
कथय दिनं तद्दिवसे लिखितं सर्वं स्वयं पश्य ॥ २.३२ ॥
वृद्धोऽहं न्यस्तभरः पुत्रे सर्वं ममास्ति लिखितं हि ।
इति तेन विनष्टधृतिः स विसृष्टस्तत्सुतान्तिकं प्राप्तः ॥ २.३३ ॥
तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् ।
इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव ॥ २.३४ ॥
राजकुलद्वारगते तस्मिन्प्राप्तप्रवासदत्तार्थे ।
सहते नरप्तिकोपं त्यजति किराटो न रूपकस्यांशम् ॥ २.३५ ॥
परिपीडितः स राज्ञा विविधैरपि यातनौशस्त्रः ।
मम हस्ते निःक्षिप्तं किंचिन्नास्तीति वक्त्येव ॥ २.३६ ॥
एवं स्वभावलुब्धास्व भवन्ति धनलवणवारिबहुतृष्णाः ।
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ २.३७ ॥
देवं धनाधिनाथं वैश्रवणं सकलसंपदां निलयम् ।
शुक्रः प्रोवाच पुरा वित्तार्थी बालमित्त्रमभ्येत्य ॥ २.३८ ॥
पूर्णः सखे तवायं विभवो विजितामरासुरैश्वर्यः ।
हर्षं विदधाति परं सुहृदां शोकं च शत्रूणाम् ॥ २.३९ ॥
त्वयि सुहृदि वित्तनाथे निःस्वोऽहं बहुकुटुम्बसंभारः ।
समदुःखसुखं मित्त्रं स्वाधीनतयोदितं प्रशंसन्ति ॥ २.४० ॥
यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् ।
अभिजातवंशजानां सुहृदुपभोग्याः श्रियो महताम् ॥ २.४१ ॥
उपनतमतिपुण्यचयैः संपूर्णं रक्षितं च यत्नेन ।
संपदि विपदि त्राणं भवति निधानं च मित्त्रं च ॥ २.४२ ॥
इत्युक्तः सप्रँयं दैत्याचार्येण निर्जने धनदः ।
तमुवाच विचिन्त्य चिरं संरुद्धः स्नेहलोभाभ्याम् ॥ २.४३ ॥
जानानमि बालमित्त्रं त्वामहमत्यन्तसंभृतस्नेहम् ।
किं तु न जीवितजीवं द्रविणलवं त्यक्तुमीशोऽस्मि ॥ २.४४ ॥
स्नेहार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्त्राणि ।
दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥ २.४५ ॥
अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थानाम् ।
योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ २.४६ ॥
इत्याशापरिहारैः प्रत्याख्यातो धनाधिनाथेन ।
भग्नमुखो लुलितमतिर्लज्जावक्त्रो ययौ शुक्रः ॥ २.४७ ॥
स विचिन्त्य गृहे सुचिरं सचिवैः सह मायया महायोगी ।
हर्तुं द्रविणमशेषं विवेश हृदयं धनेशस्य ॥ २.४८ ॥
शुक्राविष्टशरीरो वैश्रवणः सकलमद्बुतत्यागः ।
तत्कृतसंकेतेभ्यः प्रददौ वित्तं द्विजातिभ्यः ॥ २.४९ ॥
कौबेरं धनमखिलं हृत्वा यातेऽथ दानवाचार्ये ।
सुचिरं धनाधिनाथः शुशोच विज्ञाय तां मायाम् ॥ २.५० ॥
हस्तन्यस्तललाटः सह शङ्खमुकुन्दपद्माद्यैः ।
संचिन्त्य शुक्रविकृतिं स जगादोष्णं विनिःश्वस्य ॥ २.५१ ॥
सुहृदा मर्मज्ञेन व्याजान्मायाविनातिलुब्धेन ।
धूर्तेन वञ्चितोऽहं दैत्याश्रयदुर्जयेन शुक्रेण ॥ २.५२ ॥
अधुना द्रव्यविहीनः क्षणेन तृणलाघवं प्राप्तः ।
कथयामि कस्य दुःखं करोमि किं वा क्व गच्छामि ॥ २.५३ ॥
धनरहितं त्यजति जनो जनरहितं परिभवाः समायान्ति ।
परिभूतस्य शरीरे व्यसनविकारो महाभारह् ॥ २.५४ ॥
दयितेषु शरीरवतां बत धर्मलतालवालेषु ।
द्रविणेषु जीवितेषु च सर्वं याति प्रयातेषु ॥ २.५५ ॥
विद्वान्सुभगो मानी विश्रुतकर्मा कुलोन्नतः शूरः ।
वित्तेन भवति सर्वो वित्तहीनस्तु सद्गुणोऽप्यगुणः ॥ २.५६ ॥
इति दुःसहधनविरहक्लेशानलशोषिताशयो धनपः ।
सुचिरं विमृष्य सचिवैर्देवं शर्वं ययौ शरणम् ॥ २.५७ ॥
प्राक्प्रतिपन्नसखोऽसौ विश्वशरण्यो महेश्वरस्तेन ।
विज्ञप्तो निजव्र्त्तं दूतं विससर्ज शुक्राय ॥ २.५८ ॥
दूताहूतं सहसा प्राप्तं शुक्रं धनप्रभाशुक्रम् ।
अञ्जलिविरचितमुकुटं प्रोवाच पुरःस्थितं पुरजित् ॥ २.५९ ॥
मित्त्रमयं द्रविणपतिर्भवता बत वञ्चितः कृतज्ञेन ।
मित्त्रद्रोहे प्रसरति न हि नाम जनः कृतघ्नोऽपि ॥ २.६० ॥
अगणितयशसा त्यक्तस्थितिना क्रियतेऽथ याकृतज्ञेन ।
स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥ २.६१ ॥
एतत्किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा ।
कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ॥ २.६२ ॥
किमयं सुनयाभ्यासः प्रशमो वा गुरुजनोपदेशो वाळ् ।
मतिविभवः सहजो वा वञ्चकतां येन यातोऽसि ॥ २.६३ ॥
कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन ।
किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ॥ २.६४ ॥
मा मा मलिनय विमलं भृगुकुलममलं मलेन लोभेन ।
लोभजलदो हि शत्रुर्विशदयशोराजहंसानाम् ॥ २.६५ ॥
त्यक्त्वा कीर्तिमनन्तामनिलाकुलतृणलवोपमानर्थान् ।
गृह्णाति यः स मध्ये धूर्तानां कीदृशो धूर्तः ॥ २.६६ ॥
उत्सृज्य साधुवृत्तं कुतिलाधिया वञ्चितः परो येन ।
आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥ २.६७ ॥
नियता दूषितयशसां बत किसलयकोमला प्रकृत्यैव ।
अपवादविषतरूत्थैरामोदैर्मूर्छिता लक्ष्मीः ॥ २.६८ ॥
न हि नाम सज्जनानां शुद्धयशःस्फटिककदर्पणो विमलः ।
परिभवदुःखितजनतानिःश्वासैर्मलिनतामेति ॥ २.६९ ॥
असमञ्जसमतिमलिनं मोहद्व्यक्तिं समागतं कर्म ।
तस्य विशुद्धिः क्रियतां परवित्तसमर्पणेनैव ॥ २.७० ॥
अपवादधूलिधूसरममलयशो मृज्यतां स्वहस्तेन ।
अस्मद्वचनं क्रियतां परधनमुत्सृज्यतामेतत् ॥ २.७१ ॥
इत्युक्तः सानुनयं त्रिभुवनगुरूणापि देवदेवेन ।
परधननिबद्धतृष्णः प्रोवाच कृताञ्जलिः शुक्रः ॥ २.७२ ॥
भगवन्भवतः शासनममरेन्द्रकिरीटकोटिविश्रान्तम् ।
लङ्घयति को नु मोहाद्दौर्गत्यं सत्त्वहारि यदि न स्यात् ॥ २.७३ ॥
यस्य क्षीणस्य गृहे भृत्या दाराः सुताश्च सीदन्ति ।
कार्याकार्यविचाऋओ द्रविणादानेषु कस्तस्य ॥ २.७४ ॥
मित्रमयं धननाथो विपदि त्राणं विचिन्तितः सततम् ।
वृद्धिं यातः सुमहानाशाबन्धश्च मे हृदये ॥ २.७५ ॥
अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मयाळ्विहतलज्जः ।
चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण ॥ २.७६ ॥
तेन प्रहतमशस्त्रं दाहोऽनग्निश्च निर्विषं मरणम् ।
विहितं शठेन मोहादाशाभङ्घः कृतो येन ॥ २.७७ ॥
तस्मान्ममैष शत्रुः सुकृतसम शात्रुवञ्चनापापम् ।
रिक्तस्य निरपवादो व्याजेनोपार्जितोऽप्यर्थः ॥ २.७८ ॥
अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् ।
वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥ २.७९ ॥
इति संभाषिणमसकृद्दैत्यगुरुं प्रार्थितं पुनर्बहुशाः ।
कवलीचकार सहसा प्रतिषेधरुषा विरूपाक्षः ॥ २.८० ॥
जठरान्तरे पुरारेः प्रलयानलविपुलभीषणाबोगे ।
प्रक्वाथ्यमानकायः शुक्रश्चुक्रोश साक्रोशः ॥ २.८१ ॥
त्यज धनमिति विषमदृशा पुनः पुनः प्रेरितोऽवदच्छुक्रः ।
निधनं ममास्तु भगवन्धनदधनं न त्यजामि किंचिदपि ॥ २.८२ ॥
अथ धारणाप्रवृद्धज्वलनज्वालासहस्रविकराले ।
शुक्रश्चुक्रोश भृशं घोरगभीरे हरोदरे पतितः ॥ २.८३ ॥
तमुवाच देवेदेवस्त्यज्य दुर्ग्रहदग्ध परवित्तम् ।
अस्मिन्नुदरमहोदधिवडवाग्नौ मा गमः प्रलयम् ॥ २.८४ ॥
सोऽवददतिशयतापस्फुटितास्थिवसाप्रवाहबहलाग्नौ ।
परमिह मरणं श्रेयो द्रविणकणं न त्यजामि सोच्छ्वासः ॥ २.८५ ॥
पुनरपि घोरतरोद्गतकालानलधारणानलज्वलितः ।
शुक्रश्चक्रे देव्याः स्तोत्रं क्षणलेशशेषायुः ॥ २.८६ ॥
स्तोत्रपदाराधितया गौर्या प्रणयप्रसादिते रुद्रे ।
तद्वचसा लब्धधृतिः शुक्रद्वारेण निर्ययौ शुक्रः ॥ २.८७ ॥
एवं स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते ।
न तु संत्यजन्ति वित्तं कौटिल्यमिवाधमः सहजम् ॥ २.८८ ॥
तस्माल्लोभसमुत्था कपटकला कुटिलवर्तिनी माया ।
लुब्धहृदयेषु निवसति नालुब्धो वञ्चनं कुरुते ॥ २.८९ ॥


सर्गः ३[सम्पाद्यताम्]

कामः कमनीयतया किमपि निकामं करोति संमोहम् ।
विषामिव विषमं सहसा मधुरतया जीवनं हरति ॥ ३.१ ॥
एते हि कामकलिताः परिमललीनालिवलयहुंकारैः ।
सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः ॥ ३.२ ॥
पादाघाताः शिताङ्कुशघटना निगडादिसंरोधम् ।
विषयमुषितः करीन्द्रः किं न स्मरवञ्चितः सहते ॥ ३.३ ॥
दीर्घव्यसननिरुद्धो भ्रूभङ्गज्ञो विधेयतां यातः ।
विषयविवशो मनुष्यः केलिशिखण्डीव नर्त्यते स्त्रीभिः ॥ ३.४ ॥
रक्ताकर्षणसक्ता मायाभिर्मोहतिमिररजनीषु ।
नार्यः पिशाचिका इव हरन्ति हृदयानि मुग्धानाम् ॥ ३.५ ॥
रागिमृगवागुराणां हृदयद्विपबन्धशृङ्खलौघानाम् ।
व्यसननववल्लरीणां स्त्रीणां न मुच्यते वशगः ॥ ३.६ ॥
संसारचित्रमायां शम्बरमायां विचित्तिमायां च ।
यो जानाति जितात्मा सोऽपि न जानाति योषितां मायाम् ॥ ३.७ ॥
कुसुमसुकुमारदेहा वज्रशिलाकठिनह्र्दयसद्भावाः ।
जनयन्ति कस्य नान्तर्विचित्रचरिताः स्त्रियो मोहम् ॥ ३.८ ॥
अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः ।
वञ्चनवचनासक्ता नार्यः सद्भावशङ्किन्यः ॥ ३.९ ॥
जातः स एव लोके बहुजनदृष्टा विलासकुटिलाङ्गी ।
धैर्यध्वंसपताका यस्य न पत्नी प्रभुर्गेहे ॥ ३.१० ॥
विजितस्य मदविकारैः स्त्रीभिर्मूकस्य नष्टसंज्ञस्य ।
गृहधूलिपटलमखिलं वदने निःक्षिप्यते भर्तुः ॥ ३.११ ॥
कृतकापरिस्फुटाक्षरकामकलाभिः स्वभावमुग्धेव ।
तिलकाय चन्द्रबिम्बं मुग्धपतिं याचते प्रौढ ॥ ३.१२ ॥
स्वैरविहारगतागतखिन्नायास्तीर्थदर्शनव्याजैः ।
भर्ता विलासविजितश्चरणौ मृद्नाति चपलायाः ॥ ३.१३ ॥
नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् ।
रमयति सुरतेनान्यं स्त्री बहुरूपा स्वभावेन ॥ ३.१४ ॥
निजपयिचपलकुराङ्गी परतरुभृङ्गी स्वभावमातङ्गी ।
मिथ्याविभ्रमभृङ्गी कुटिलभुजङ्गी निजा कस्य ॥ ३.१५ ॥
बहुविधतरुणनिरर्गलसंभोगसुखार्थभोगिनी वेश्या ।
धन्येति वदन्ति सदा सोच्छ्वासा निर्जने नार्यः ॥ ३.१६ ॥
चपला तिष्ठति हर्म्ये गायति रथ्यावलोकिनी स्वैरम् ।
धावत्यकारणं वाळ्हसति स्फटिकाश्ममालेव ॥ ३.१७ ॥
पशुरिव वक्तुं कर्तुं किंचिदयं मम पतिर्न जानाति ।
उक्त्वेति गृहे स्वजनं पुरुषव्यापारमङ्गना कुरुते ॥ ३.१८ ॥
प्रत्युत्थानं कुरुते व्यवहारगतागतैः स्वयं याति ।
उच्चैर्वदति च गृहे गृहिणी जीवन्मृतस्यैव ॥ ३.१९ ॥
ईर्ष्यालुवृद्धभार्या सेवकपत्नी नियोगिभार्या वा ।
कारुकुशीलवनारी लुब्धवधूः सार्थवाहवनिता वा ॥ ३.२० ॥
गोष्ठीविहरणशीला तरुणजने वत्सला प्रकृत्यैव ।
परगुणगणने सक्ता निजपतिदोषाभिधायिनी सततम् ॥ ३.२१ ॥
अल्पधना बहुभोगा रूपवती विकृतरूपभार्या वा ।
मुग्धवधूः सकलकलामानवती नीचसंगमोद्विग्ना ॥ ३.२२ ॥
द्यूतमधुपानसक्ता दीर्घकथागीतरागिणी कुशला ।
बहुपुंश्चलीवयस्या शूरजने प्रकृतिपक्षपातैव ॥ ३.२३ ॥
त्यक्तगृहव्यापारा बहुविधवेषा निरर्गलाभ्यासा ।
प्रत्युत्तरसप्रतिभा सत्यविहीना स्वभावनिर्लज्जा ॥ ३.२४ ॥
कुशलानामयवार्ताप्रश्नपरा प्रीतिपेशलालापा ।
विजने विविधकृईडाडम्बरशौण्डा प्रकाशसावित्री ॥ ३.२५ ॥
क्रतुतीर्थसुरनिकेतनगणकभिषग्बन्धुगेहगमनपरा ।
भोजनपानबहुव्यययात्रोत्सवकारिणी स्वतन्त्रेव ॥ ३.२६ ॥
भिक्षुतापसभक्ता स्वजनविरक्ता मनोरमासक्ता ।
दर्शनदीक्षारक्ता दयितविरक्ता समाधिसंयुक्ता ॥ ३.२७ ॥
गोष्ठीरञ्जनमित्रा विज्ञेया नष्टचारित्रा (कुलकम्) ॥ ३.२८ ॥
सततानुरक्तदोषा मोहितजनता बहुग्रहाश्चपलाः ।
संध्याः स्त्रियः पिशाच्यो रक्तच्छायाहराः क्रूराः ॥ ३.२९ ॥
कस्य न वहनयोग्यो मुग्धधियस्तुच्छसाधने लग्नाः ।
प्रीततया प्रशमरुचश्चपलासु स्त्रीषु येऽदान्ताः ॥ ३.३० ॥
शृङ्गारशौर्यकत्थनमसमञ्जसदानवर्णना विविधाः ।
एतावदेव तासाममन्त्रयन्त्रं वशीकरणम् ॥ ३.३१ ॥
कलिकालतिमिररजनीरजनिचरीणां सहस्रमायानाम् ।
स्त्रीणां नृशम्सचरितैः कस्य न संजायते कम्पः ॥ ३.३२ ॥
निर्जितधनपतिविभवो बभूव भुवि विश्रुतो वणिङ्नाथः ।
धनदत्तो नाम पुरा रत्नानामाश्रयः पयोधिरिव ॥ ३.३३ ॥
तस्याभवद्विभूतिर्मूर्तेव मनोभुवः सुललिताङ्गी ।
तनया नयनविलासैर्विजिताशा वसुमती नाम ॥ ३.३४ ॥
प्रददौ स तामपुत्रः पुत्रपदे विनिहितां प्रियां पुत्रीं ।
वणिजे विभवकुलोदयतुल्याय समुद्रदत्ताय ॥ ३.३५ ॥
रममाणः स तया सह हरिणाक्ष्या श्वसुरमन्दिरे सुचिरम् ।
प्रययौ कदाचिदग्रे द्वीपायातस्य सार्थस्य ॥ ३.३६ ॥
पत्यौ याते तरुणी जनकगृहे हर्म्यशिखरमारूढा ।
विललास विलासमही केलिविलोला सखीभिः सा ॥ ३.३७ ॥
सौधे मन्मथरूपं पृथुनयना पथि ददर्श पुरुषं सा ।
यं दृष्त्वैव गतास्याः क्वापि धृतिः कुमतिकुपितेव ॥ ३.३८ ॥
सा तेन चपलनयना सहसा मुषितेव हारितविचारा ।
अभवदशक्ता नितरां संवरणे स्मरविकारस्य ॥ ३.३९ ॥
शीलं पालस्य चपले मा पातय निम्नगेव कुलकूलम् ।
इति ताम्वददिवोच्चैः कम्पाकुलमुखरमेखला सुचिरम् ॥ ३.४० ॥
सा कृत्वाळ्विदितकथां रहसि सखीमानिनाय तं तरुणम् ।
चलितं हि कामिनीनां धर्तुं शक्नोति कश्चित्तम् ॥ ३.४१ ॥
कामं कामविकासैः सुरतविलासैः सुनर्मपरिहासैः ।
सहजप्रेमनिवासैर्मुमुदे सा स्वैरिणी तेन ॥ ३.४२ ॥
अथ कृतनिजधनकृत्यस्त्वरितं दयिताविलोकनोत्कण्ठः ।
अविशत्समुद्रदत्तः श्वशुरावासं महारम्भः ॥ ३.४३ ॥
विपुलमहोत्सवलीलाव्यग्रजनैर्भोगसंपदां निचयैः ।
अतिवाह्य दिनं दयितासहितः शय्यागृहं स ययौ ॥ ३.४४ ॥
विरचितवरतरशयने बद्धविताने मनोरमस्थाने ।
जृम्भितसौरभधूपे सुरगृहरूपे प्रदीप्तमणिदीपे ॥ ३.४५ ॥
तत्र स मधुमदविलुलितलोचनकमलां प्रियां समालिङ्ग्य ।
मदगज इव नवनलिनीं भेजे रतिलालसः शय्याम् ॥ ३.४६ ॥
सापि हृदयान्तरस्थितपरपुरुषध्यानबद्धलक्षैव ।
तस्थौ निमीलिताक्षी ध्यानपरा योगिनीव चिरम् ॥ ३.४७ ॥
आलिङ्गनपरिचुम्बननीविविमोक्षेषु बहुतरोच्छ्वासा ।
पत्यौ सङ्कुचिताङ्गी सस्मार तमेव शीलहरम् ॥ ३.४८ ॥
प्रणयकुपितेति मत्वा मुग्धपतिस्तां समुद्रदत्तोऽपि ।
प्रणिपत्य चाटुकारैः किमपि ययाचे प्रसादाय ॥ ३.४९ ॥
परपुरुषरागिणीनां विमुखीनां प्रणयकामवामानाम् ।
पुरुषपशवो विमूढा रज्यन्ते योषितामधिकम् ॥ ३.५० ॥
किं क्रियते कामोऽयं परगतकामः स्वतन्त्रकामश्च ।
धनशतरक्तायामपि संध्यायां भास्करो रागी ॥ ३.५१ ॥
गूढोपवननिकुञ्जे न्यस्तं सा वल्लभं ससंकेतम् ।
संचिन्त्य चिरं स्वपतिं विषमिव संमूर्छिता मेने ॥ ३.५२ ॥
निद्रामुद्रितनयने प्रणयश्रान्ते समुद्रदत्ते सा ।
उत्थाय रचितवेषा शनकैर्गमनोन्मुखी तस्थौ ॥ ३.५३ ॥
चौरः क्षणे च तस्मिन्मुग्धमत्तजनं प्रविश्य तद्भवनम् ।
गमनोत्सुकामपश्यन्मुखराभरणामलक्ष्यस्ताम् ॥ ३.५४ ॥
अत्रान्तरे शशाङ्कः शनकैः सुरराजवल्लभां ककुभम् ।
चकित इवाशु चकम्पे मीलिततरां समालिङ्ग्य ॥ ३.५५ ॥
संकोचितकमलायाः कुमुदविजृम्भाविराजमानायाः ।
प्रससार तुहिनकिरणो यामिन्याः कपटहास इव ॥ ३.५६ ॥
रविपरितापश्रान्तां वीक्ष्य दिवं प्रसरदिन्दुसानन्दाम् ।
जहसुरिव कुमुदवृन्दैरलिकुलकुंकारनिएभरा वाप्यः ॥ ३.५७ ॥
जग्राह रजनिरमणी शशिकरहृततिमिरकञ्चुकावरणा ।
लज्जान्वितेव पुरतः कुमुदामोदाकुलालिपटलपटम् ॥ ३.५८ ॥
सुप्तजनेऽथ निशार्धे चन्द्रालोके च विपुलतां याते ।
तमसीव निर्विशङ्का साळ्शनकैरुपवनं प्रययौ ॥ ३.५९ ॥
अथ सा विवेश विवशा विषमशरप्लोषिता निजोपवनम् ।
छन्नं भूषणलोभादनुयाता विस्मितेन चौरेण ॥ ३.६० ॥
तत्र ददर्श विभूषितमुज्ज्वलललितांशुकं लसत्कुसुमम् ।
शङ्काजनकं विपिने पक्षिभिरुपलक्षितं दयितम् ॥ ३.६१ ॥
हृदयदयितावियोगज्वलनज्वालावलीतप्तम् ।
दिङ्मुखविलसितरुचिना चन्द्रेण करानलैर्दग्धम् ॥ ३.६२ ॥
चिरसङ्केतस्थित्या मुक्ताशं प्रियतमापुनर्मिलने ।
वृक्षालम्बितवल्लीवलयालम्बेन विगलितप्राणम् ॥ ३.६३ ॥
तं दृष्ट्वैव विलीना विलपन्ती व्यसनशोकसंत्रासैः ।
निपपात वल्लरीव क्वणदलिवलयाकुला तन्वी ॥ ३.६४ ॥
संमोहमीलिताक्षी स्थित्वा सुचिरं महीं समालिङ्ग्य ।
शनकैरवाप्तजीवा विललाप लघुस्वरैः स्वैरम् ॥ ३.६५ ॥
हा हा नयनानन्द क्व नु ते विशदेन्दुसुन्दरं वदनम् ।
द्रक्ष्यामि मन्दपुण्या किमिदं क्वाहं क्व मे कान्तः ॥ ३.६६ ॥
इति तरुणकरुणमबला विलप्य पाशं विमुच्य यत्नेन ।
अङ्के धृत्वास्य मुखं चुचुम्ब जीवं क्षिपन्तीव ॥ ३.६७ ॥
सा तस्य वदनकमलं निजवदने मोहिता कृत्वा ।
ताम्बूलगर्भमकरोत्प्रकटितसाकाररागेव ॥ ३.६८ ॥
अथ तस्याः कुसुमोत्करमृगमदधूपादिसौरभाहूतः ।
आविश्य शवकशरीरं नासां चिच्छेद वेतालः ॥ ३.६९ ॥
सा प्राप्य चापलोचितमनयफलं छिन्ननासिका गत्वा ।
भवनं प्रविश्य भर्तुस्तारं हाहेति चुक्रोश ॥ ३.७० ॥
प्रतिबद्धे सकलजने नादत्रस्ते समुद्रदत्ते च ।
सा नासिका ममेयं भर्त्रा छिन्नेति चक्रन्द ॥ ३.७१ ॥
श्वशुरादिबन्धुवर्गैः पृष्टः कुपितैः समुद्रदत्तोऽपि ।
विक्रीतः परदेशे मूक इवोचे न किंचिदपि ॥ ३.७२ ॥
अथ चास्य सुप्रभाते बन्धुभिरावेदिते नृपसभायाम् ।
तत्राभून्नृपकोपो बहुधनदण्डः समुद्रदत्तस्य ॥ ३.७३ ॥
चौरोऽपि निखिलवृत्तं प्रत्यक्षमवेक्ष्य विस्मयाविष्टः ।
आवेद्य भूपपुरतः प्राप्य च कलयादिसत्कारम् ॥ ३.७४ ॥
उद्याने शववदने तस्यास्तां नासिकां च संदर्श्य ।
निष्कारणसुहृदुचितां शुद्धिं विदधे समुद्रदत्तस्य ॥ ३.७५ ॥
इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः ।
यो नाम वेत्ति स स्त्रीभिर्नैव वञ्च्यते मतिमान् ॥ ३.७६ ॥


सर्गः ४[सम्पाद्यताम्]

तत्रापि वेशयोषाः कुटिलतराः कूटरागहृतलोकाः ।
कपटचरितेन यासां वैश्रवणः श्रमणतामेति ॥ ४.१ ॥
हारिण्यश्चटुलतरा बहुलतरङ्गाश्च निम्नगामिन्यः ।
नद्य इव जलधिमध्ये वेश्याहृदये कलाश्चतुःषष्टिः ॥ ४.२ ॥
वेशकला नृत्यकला गीतकला वक्रवीक्षणकला च ।
कामपरिज्ञानकला ग्रहणकला मित्रवञ्चनकला च ॥ ४.३ ॥
पानकला केलिकला सुरतकलालिङ्गनान्तरकला च ।
चुम्बनकला परकला निर्लज्जावेगसंभ्रमकला च ॥ ४.४ ॥
ईर्ष्याकलिकेलिकला रुदितकला मानसंक्षयकला च ।
स्वेदभ्रमकम्पकला पुनरेकान्तप्रसाधनकला ॥ ४.५ ॥
नेत्रनिमीलननिःसहनिस्पन्दकला मृतोपमकला च ।
विरहासहरागकला कोपप्रतिषेधनिश्चयकला च ॥ ४.६ ॥
निजजननीकलहकला सद्गृहगमनोत्सवेक्षणकला च ।
हरणकला जातिकला केलिकला चौरपार्थिवकला च ॥ ४.७ ॥
गौरवशैथिल्यकला निष्कारणदोषभाषणकला च ।
शूलकलाभ्यङ्गकला निद्राक्षिरजस्वलाम्बरकला च ॥ ४.८ ॥
रूक्षकला तीक्ष्णकला गलहस्तगृहार्गलार्पणकला च ।
संत्यक्तकामुकाहृतिदर्शनयात्रास्तुतिकला च ॥ ४.९ ॥
तीर्थोपवनसुरालयविहरणहेलाकला गृहकला च ।
वश्यौषधमन्त्रकला वृक्षकला केशरञ्जनकला च ॥ ४.१० ॥
भिक्षुकतापसबहुविधपुण्यकला द्वीपदर्शनकला च ।
खिन्ना कलात्रिषष्ट्या पर्यन्ते कुट्टनीकला वेश्या ॥ ४.११ ॥
अज्ञातनामवर्णेषु आत्मापि ययार्प्यते धनांशेन ।
तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥ ४.१२ ॥
निखिलजनवञ्चनार्जित मलिनधनं रागदग्धह्र्दयानाम् ।
खादति गुणगणभग्नो नग्नो हीनोऽथवा कश्चित् ॥ ४.१३ ॥
नीचस्तुरगारोहो हस्तिपकः खलतरोऽथवा शिल्पी ।
वञ्चितसकलजनानां तासामपि वल्लभो भवति ॥ ४.१४ ॥
राजा विक्रमसिंहो बलवद्भिर्भूमिपैः पुरा विजितः ।
मानी ययौ विदर्भान्गुणयशसा मन्त्रिणा सहितः ॥ ४.१५ ॥
तत्र स वेश्याभवनं प्रविश्य भुवि विश्रुतां विलासवतीम् ।
भेजे गणिकां बहुधनभोग्यामप्यल्पविभवोऽपि ॥ ४.१६ ॥
तं राजलक्षणोचितभाजनानुभुजं विलोक्यपृथुसत्त्वम् ।
विविधमणिकनककोषं चक्रे सा तद्व्ययाधीनम् ॥ ४.१७ ॥
सहजमनुरागमद्रुतमौचित्यं वीक्ष्य भूपतिस्तस्याः ।
विस्मयविवशः प्रेम्णा जगाद विजने महामात्म्यम् ॥ ४.१८ ॥
चित्रमियं बहु वित्तं क्षपयति वेश्यापि मत्कृते तृणवत् ।
प्रीतिपदवीविसृष्टो वेश्यानां धननिबन्धनो रागः ॥ ४.१९ ॥
मिथ्या धनलवलोभादनुरागं दर्शयन्ति बन्धक्यः ।
तदपि धनं विसृजति या कस्तस्याः प्रेम्णि संदेहः ॥ ४.२० ॥
इति वचनं भूमिपतेः श्रुत्वा विहस्य सासूयः ।
तमुवाच कस्य राजन् वेश्याचरितेऽस्ति विश्वासः ॥ ४.२१ ॥
एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः ।
वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥ ४.२२ ॥
प्रथमसमागमसुखदा मध्ये व्यसनप्रवासकारिण्यः ।
पर्यन्ते दुःखफलाः पुंसामाशाश्च वेश्याश्च ॥ ४.२३ ॥
अद्यापि हरिहरादिभिः अमरैरपि तत्त्वतो न विज्ञाताः ।
भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥ ४.२४ ॥
इति सचिववचो नृपतिः श्रुत्वा कृत्वा च संविदं तेन ।
मिथ्यामृतमात्मानं चक्रे वेश्यापरीक्षायै ॥ ४.२५ ॥
तस्मिन्कुणपशरीरे विन्यस्ते मन्त्रिणा चित्तावह्नौ ।
सहसैव विलासवती वह्निभुवं भूषिता प्रययौ ॥ ४.२६ ॥
तां प्रबलज्वलितोज्ज्वलवह्निज्वालानिपातसावेगाम् ।
दोर्भ्यामालिङ्ग्य नृपो जीवामीत्यभिधान्मुदितः ॥ ४.२७ ॥
तत्तस्याः प्रेम दृढं सत्यं च विचार्य संभृतस्नेहः ।
राजा निनिन्द मन्त्रिणमसकृद्वेश्यगुणाभिमुखः ॥ ४.२८ ॥
अथ वेश्याधनसंचयमात्माधीनं महीपतिर्विपुलम् ।
आदाय गजतुरंगमभटविकटामाददे सेनाम् ॥ ४.२९ ॥
सम्भृतविपुलबलौघैः जित्वा वसुधाधिपान्स भूपालः ।
निजमाससाद मण्डलमिन्दुरिवानन्दकृत्पूर्णः ॥ ४.३० ॥
सा चान्तःपुरकान्तामूर्ध्नि कृत्वा भूभुजा विलासवती ।
शुशुभे श्रीरिव चामरपवनाकुलितालका तन्वी ॥ ४.३१ ॥
साथ कदाचिन्नरपतिमेकान्ते विरचिताञ्जलिः प्रणता ।
ऊचे नाथ मया त्वं कल्पतरुः सेवितश्चिरं दास्या ॥ ४.३२ ॥
यदि नाम कुत्रचिदहं याता ते हेतुतां विभो लक्ष्म्याः ।
तन्मम सफलामाशामर्हसि कर्तुं प्रसादेन ॥ ४.३३ ॥
पुण्यफलप्राप्यानां हृतपररजसां स्वभावविमलानाम् ।
तीर्थानामिव महतां न हि नाम समागमो विफलः ॥ ४.३४ ॥
अभवन्मम कोऽपि युवा दयितो धनजीविताधिकः प्रणयी ।
बद्धः स विदर्भपुरे दैववशाच्चोररूपेण ॥ ४.३५ ॥
तन्मुक्तये मया त्वं शक्ततरः सेवितो महीनाथः ।
अधुना क्रियतामुचितं सत्त्वस्य कुलस्य शौर्यस्य ॥ ४.३६ ॥
इति वञ्चनामवाप्तो विस्मित इव तद्वचो नृपः श्रुत्वा ।
सुचिरं विलोक्य वसुधां सस्मारामात्यवचनं सः ॥ ४.३७ ॥
अथ तां तथैव राजाश्वास्य विदर्भेषु भूभुजं जित्वा ।
बन्धनमुक्तेनास्याश्चोरेण समागमं चक्रे ॥ ४.३८ ॥
इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः ।
तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥ ४.३९ ॥
वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः ।
रक्षादयितश्चान्यो वेश्यानां नर्मदयितोऽन्यः ॥ ४.४० ॥


सर्गः ५[सम्पाद्यताम्]

मोहो नाम जनानां सर्वहरो हरति बुद्धिमेवादौ ।
गूढतरः स च निवसति कायस्थानां मुखे च लेखे च ॥ ५.१ ॥
रौद्रकला इव पूर्णा निष्पन्ना सस्यसंपत्तिः ।
ग्रस्ता क्षणेन दृष्टा निःशेषा दिविरराहुकलयेव ॥ ५.२ ॥
ज्ञाताः संसारकला योगिभिरपयातरागसंमोहैः ।
न ज्ञाता दिविरकला केनापि बहुप्रयत्नेन ॥ ५.३ ॥
कूटकलाशतशिबिरैः जनधनविवरैः क्षयक्षपातिमिरैः ।
दिविरैरेव समस्ता ग्रस्ता जनता न कालेन ॥ ५.४ ॥
एते हि कालपुरुषाः पृथुतरदण्डप्रपातहतलोकाः ।
गणनागणनपिशाचाः चरन्ति भूर्जध्वजा लोके ॥ ५.५ ॥
कस्तेषां विश्वासं यममहिषविषाणकोटिकुटिलानाम् ।
व्रजति न यस्य विषक्तः कण्ठे पाशः कृतान्तेन ॥ ५.६ ॥
कलमाग्रनिर्गतमषी बिन्दुव्याजेन साञ्जनाश्रुकणैः ।
कायस्थखन्यमाना रोदिति खिन्नेव राज्यश्रीः ॥ ५.७ ॥
अङ्कन्यासैर्विषमैः मायावनितालकावलीकुटिलैः ।
को नाम जगति रचितैः कायस्थैर्मोहितो न जनः ॥ ५.८ ॥
मायाप्रपञ्चसंचयवञ्चितविश्वैर्विनाशितः सततम् ।
विषयग्रामग्रासैः कायस्थैरिन्द्रियैर्लोकः ॥ ५.९ ॥
कुटिला लिपिविन्यासा दृश्यन्ते कालपाशसंकाशाः ।
कायस्थभूर्जशिखरे मण्डललीना इव व्यालाः ॥ ५.१० ॥
एते हि चित्रगुप्ताः चित्रधियो गुप्तहारिणो दिविराः ।
रेखामात्रविनाशात्सहितं कुर्वन्ति ये रहितम् ॥ ५.११ ॥
लोके कलाः प्रसिद्धाः स्वल्पतराः संचरन्ति दिविराणाम् ।
गूढकलाः किल तेषां जानाति कलिः कृतान्तो वा ॥ ५.१२ ॥
वक्रलिपिन्यासकला सकलाङ्कनिमीलनकला ।
सततप्रवेशसंग्रहलोपकला व्ययविवर्धनकला च ॥ ५.१३ ॥
ग्राह्यपरिच्छेदकला देयधनादानकारणकला च ।
उत्कोचैर्हरणकला पर्यन्तभुवं पलायनकला च ॥ ५.१४ ॥
शेषस्थविवेककला चलराशिसमग्रभक्षणकला च ।
उत्पन्नगोपनकला नष्टविशीर्णप्रदर्शनकला च ॥ ५.१५ ॥
क्रयमाणैर्भरणकला योजनचर्यादिभिः क्षयकला च ।
एकत्र पञ्चदश्यां लुण्ठिचिकित्सासमासनकला च ॥ ५.१६ ॥
निःशेषभूर्जदाहादागमनाशश्च पर्यन्ते ।
येन विना व्यवहारी भूर्याग्रहणे निरालोकः ॥ ५.१७ ॥
सकलङ्कस्य क्षयिणो नवनवरूपस्य वृद्धिभाजश्च ।
दिविरस्य कलाः कुटिलाः षोडश दोषाकरस्यैताः ॥ ५.१८ ॥
कूटस्थाः कायस्थाःसर्वनकारेण सिद्धमन्त्रेण ।
गुरव इव विदितमायावृत्तिच्छेदं क्षणेन कुर्वन्ति ॥ ५.१९ ॥
हारितधनपशुवसनः चौर्यभयाद्बन्धुभिः परित्यक्तः ।
बभ्राम महीमखिलां तीव्रव्यसनः पुरा कितवः ॥ ५.२० ॥
स कदाचिदेत्य पुण्यैः उज्जयिनीं तत्र मज्जनं कृत्वा ।
विचरन्विजने पुरहरमन्दिरमवलोकयामास ॥ ५.२१ ॥
शून्यायतने गत्वा वरदं देवं सदा महाकालम् ।
उपलेपनकुसुमफलैः निर्व्यापारः सिषेवे सः ॥ ५.२२ ॥
स्तोत्रजपगीतदीपैः विपुलध्यानैर्निशासु निर्निद्रः ।
तस्थौ तत्र स सुचिरं दुःसहदौर्गत्यनाशाय ॥ ५.२३ ॥
तस्य कदाचिद्भक्त्या शुभशतकृतया प्रसादितः सहसा ।
भवभयहारी भगवान् भूतपतिः संबभाषे तम् ॥ ५.२४ ॥
पुत्र गृहाणेत्युक्ते देवेन कपालमालिकाशिखरे ।
एकं कपालमसकृत्चक्रे संज्ञां पुरारातेः ॥ ५.२५ ॥
अर्धोक्ते स्थगितवरः संपीडनसंज्ञया कपालस्य ।
तूष्णीं चकार रुद्रो दारिद्र्यात्कितवपुण्यानाम् ॥ ५.२६ ॥
स्नातुं याते तस्मिन् विजने देवः कपालमवदत्तत् ।
दन्तांशुपटलपालीं गङ्गामिव दर्शयन्नग्रे ॥ ५.२७ ॥
अस्य कितवस्य साधोः भक्तस्य चिरस्थितस्य वरदाने ।
कस्मात्त्वया ममैषा विहिता संपीडनैः संज्ञा ॥ ५.२८ ॥
इति भगवता कपालं पृष्टं प्रोवाच सस्मितं शनकैः ।
विषमनयनोष्मविगलन्मौलीन्दुसुधारसैर्जीवत् ॥ ५.२९ ॥
शृणु भगवन्येन मया विज्ञप्तोऽसि स्वभावसरलात्मन् ।
सुलभोऽपि बोध्यते वा निष्कारणमीश्वरः केन ॥ ५.३० ॥
एष कितवोऽतिदुःखी दारिद्र्याद्विरतसकलनिजकृत्यः ।
प्रासादेऽस्मिन्रचयति लेपनबलिकुसुमधूपार्घम् ॥ ५.३१ ॥
दुःखी भवति तपस्वी धनरहितः सादरो भवति धर्मे ।
भ्रष्टाधिकारविभवः सर्वप्रणतः प्रियंवदो भवति ॥ ५.३२ ॥
अर्चयति देवविप्रान् जपति चिरं वेत्ति निर्धनो मित्रम् ।
कठिनोऽपि लोहपिण्डः तप्तः कर्मण्यतामेति ॥ ५.३३ ॥
व्यसनपरितप्तहृदयः तिष्ठति सर्वः सदाचारे ।
विभवमदमोहितानां कर्मस्मरणे कथा कैव ॥ ५.३४ ॥
ऐश्वर्यार्थी भगवन्न्र्थी आशापाशेन लम्बमानोऽसौ ।
कुरुते परां सपर्यां प्राप्तार्थो दृश्यते न पुनः ॥ ५.३५ ॥
स्वार्थार्थिनः प्रयत्ता प्राप्तार्थाः सेवकाः सदा विफलाः ।
न हि नाम जगति कश्चित्कृतकार्यः सेवको भवति ॥ ५.३६ ॥
देव प्रासादेऽस्मिन् फलजलकुसुमादिभोगसामग्रीम् ।
पूर्णे याते कितवे विजने नान्ये करिष्यन्ति ॥ ५.३७ ॥
तस्मात्पुण्योपनतं कितवं संरक्ष सेवकं सततम् ।
वरदानमस्य भगवन्निर्वासनमात्मपूजायाः ॥ ५.३८ ॥
श्रुत्वैतद्वक्रतरं वचनं पृथुविस्मयस्मेरः ।
तं पप्रच्छ पिनाकी कस्त्वं तत्त्वेन किं कर्म ॥ ५.३९ ॥
इति पृष्टं पुनरूचे सपदि कपालं विचिन्त्य सद्भावम् ।
मगधानामहमभवं कायस्थकुले स्वकर्मणो विमुखः ॥ ५.४० ॥
स्नानजपव्रतनिरतः तीर्थरतो विदितसर्वशास्त्रार्थः ।
त्यक्त्वा भागीरथ्यां शरीरकं त्वत्पदं प्राप्तः ॥ ५.४१ ॥
आकर्ण्यवं भगवानूचे कायस्थ एव सत्यं त्वम् ।
चित्रं कौटिल्यकलां न त्यजसि कपालशेषोऽपि ॥ ५.४२ ॥
इत्युक्त्वा स्मितकिरणैः कुर्वन्नाशालताः कुसुमशुभ्राः ।
स्नात्वागताय तस्मै कितवाय वरं ददौ वरदः ॥ ५.४३ ॥
कृत्वा तत्कितवहितं पश्यत एवाशु तस्य शशिमौलिः ।
निष्कासितवांस्तच्छिर उत्तमतममुण्डमालिकापङ्क्तेः ॥ ५.४४ ॥
इत्येवं कुटिलकलां सहजां मलिनां जनक्षये निरताम् ।
यमदंष्ट्रामिव मुञ्चति कायस्थो नास्थिशेषोऽपि ॥ ५.४५ ॥
सुस्थः को नाम जनः सतताशुचिभावदूषितकलानाम् ।
दोषकृतां शकृतामिव कायस्थानामवष्टम्भैः ॥ ५.४६ ॥
असुररचितप्रयत्नाद्विज्ञाता दिविरवञ्चना येन ।
संरक्षैता मतिमता रत्नवती वसुमती तेन ॥ ५.४७ ॥


सर्गः ६ मदवर्णनम्[सम्पाद्यताम्]

एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः ।
येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥ ६.१ ॥
विजितात्मनां जनानामभवद्यः कृतयुगे दमो नाम ।
सोऽयं विपरीततया मदः स्थितः कलियुगे पुंसाम् ॥ ६.२ ॥
मौनं वदननिकूणनमूर्ध्वेक्षणमन्यलक्ष्यता चाक्ष्णोः ।
गात्रविलेपनवेष्टनमग्र्यं रूपं मदस्यैतत् ॥ ६.३ ॥
शौर्यमदो रूपमदः शृङ्गारमदः कुलोन्नतिमदश्च ।
विभवमदमूलजाता मदवृक्षा देहिनामन्ते ॥ ६.४ ॥
शूलारूढसमानो वातस्तब्धोपमोऽथ भूतसमः ।
बहुभोगे विभवमदः प्रशमज्वरसंनिपातसमः ॥ ६.५ ॥
शौर्यमदो भुजदर्शी रूपमदो दर्पणादिदर्शी च ।
काममदः स्त्रीदर्शी विभवमदस्त्वेष जात्यन्धः ॥ ६.६ ॥
अन्तःसुखरसमूर्च्छामीलितनयनः समाहितध्यानः ।
धनमद एष नराणामात्मारामोपमः कोऽपि ॥ ६.७ ॥
उन्मादयत्यविषये विविधविकारः समस्तगुणहीनः ।
मूढमदस्त्वन्योऽयं जयति विचित्रो निरालम्बः ॥ ६.८ ॥
स्तम्भान्न पश्यति भुवं खेचरदर्शी सदा तपस्विमदः ।
भक्तिमदोऽद्भुतकारी विस्मृतदेहश्चलः प्रकृत्यैव ॥ ६.९ ॥
आकोपरक्तनयनः परवाङ्मात्रासहः प्रलापी च ।
विषमः श्रुतमदनामा धातुक्षोभो नृणां मूर्तः ॥ ६.१० ॥
सततभ्रुकुटिकरालः परुषाक्रोशी हठाभिघातपरः ।
अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥ ६.११ ॥
पूर्वपुरुषप्रतापप्रथितकथाविस्मृतान्यनिजकृत्यः ।
कुलमद एकः पुंसां सुदीर्घदर्शी महाज्ञानः ॥ ६.१२ ॥
वर्जितसकलस्पर्शः सर्वाशुचिभावनान्निरालम्बः ।
आकाशेऽपि सलेपः शौचमदो नित्यसंकोचः ॥ ६.१३ ॥
सावधयः सर्वमदा निजनिजमूलक्षये विनश्यन्ति ।
वरमद एकः कुटिलो विजृम्भते निरवधिर्भोगी ॥ ६.१४ ॥
पानमदस्तु जघन्यः सर्वजुगुप्सास्पदं महामोहः ।
क्षणिकोऽपि हरति सहसा वर्षसहस्रार्जितं शीलम् ॥ ६.१५ ॥
विद्यावति विप्रवरे गवि हस्तिनि भूपतौ श्वपाके च ।
मद्यमदः समदर्शी स्वपरविभागं न जानाति ॥ ६.१६ ॥
विगलितसदसद्भेदः समकाञ्चनलोष्टपाषाणः ।
प्राप्तो योगिदशामपि नरके क्षीबः स्वयं पतति ॥ ६.१७ ॥
रोदिति गायति विहसति गायति विलपत्युच्चैरुपैति संमोहम् ।
भजते विविधविकारान् संसारादर्शमण्डलः क्षीबः ॥ ६.१८ ॥
परपतिचुम्बनसक्तां पश्यति दयितां न याति संतापम् ।
क्षीबोऽतिगाढरागं पीत्वा मधु वीतरागः किम् ॥ ६.१९ ॥
विसृजति वसनं दूरे व्यसनं गृह्णाति दुःसहं क्षीबः ।
अञ्जलिपात्रे पिबति च निजमूत्रविजृम्भितं चन्द्रम् ॥ ६.२० ॥
च्यवनः पुरा महर्षिः यौवनमश्विप्रयोगतो लब्ध्वा ।
यज्ञे स्वयं कृतज्ञः तौ चक्रे सोमपानार्हौ ॥ ६.२१ ॥
क्रुद्धस्तमेत्य शक्रः प्रोवाच मुने न वेत्सि किमपि त्वम् ।
भिषजावपङ्क्तियोग्यो सोमार्हावश्विनौ यस्य ॥ ६.२२ ॥
इति बहुशः सुरपतिना प्रतिषिद्धोऽपि स्वतेजसा च्यवनः ।
न चचाल निश्चितात्मा निजकृत्यादश्विनोः प्रीत्या ॥ ६.२३ ॥
तत्कोपोद्यतवज्रं जम्भारेरायतं भुजस्तम्भम् ।
अस्तम्भयन्मुनीन्द्रः प्रभावसंभावनापात्रम् ॥ ६.२४ ॥
असृजच्च तद्वधाय प्रलम्बकायोपमं चतुर्दंष्ट्रम् ।
योजनसहस्रविपुलं कृत्यारूपं महासुरं घोरम् ॥ ६.२५ ॥
तेनाविष्टः सहसा भीतो वज्री तमाययौ शरणम् ।
सोमोऽस्तु देवभिषजोः इति चोवाच प्रणष्टधृतिः ॥ ६.२६ ॥
मुनिरपि करुणासिन्धुः भीतं प्रणतं महेन्द्रमाश्वास्य ।
मदमुत्ससर्ज घोरं द्यूतस्त्रीपानमृगयासु ॥ ६.२७ ॥
सोऽयमसुरः प्रमाथी मुनिना क्रुद्धेन निर्मितो हृदये ।
निवसति शरीरभाजां स्तम्भाकारो गुणैर्बद्धः ॥ ६.२८ ॥
मौने श्रीमत्तानां निःस्पन्ददृशि प्रवृद्धविभवानाम् ।
भ्रूभङ्गमुखविकारे धनिकानां भ्रूयुगे विटादीनाम् ॥ ६.२९ ॥
जिह्वासु दूतविदुषां रूपवतां दशनवसनकेशेषु ।
वैद्यानामोष्ठपुटे ग्रीवायां गुणिनियोगिगणकानाम् ॥ ६.३० ॥
स्कन्धतटे सुभटानां हृदये वणिजां करेषु शिल्पवताम् ।
गलपत्राङ्गुलिभङ्गे छात्राणां स्तनतटेषु तरुणीनाम् ॥ ६.३१ ॥
उदरे श्राद्धार्हाणां जङ्घासु च लेखहारपुरुषाणाम् ।
गण्डेषु कुञ्जराणां बर्हे शिखिनां गतेषु हंसानाम् ॥ ६.३२ ॥
इत्येवं मदनामा मदाग्रहो बहुविकारदृढमोहः ।
अङ्गे काष्ठीभूतो वसति सदा सर्वभूतानाम् ॥ ६.३३ ॥


इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे मदवर्णननाम षष्ठः सर्गः


सर्गः ७ गायनवर्णनम्[सम्पाद्यताम्]

अर्थो नाम जनानां जीवितमखिलक्रियाकलापस्य ।
तमपि हरन्त्यतिधूर्ताः श्लक्ष्णगला गायना लोके ॥ ७.१ ॥
निःशेषं कमलाकरकोषं जग्ध्वापि कुमुदमास्वाद्य ।
क्षीणा गायनभृङ्गा मातङ्गप्रणयतां यान्ति ॥ ७.२ ॥
घटपटशकटस्कन्धा बहुडिम्भा मुक्तकेशककलापाः ।
एते योनिपिसाचा भूपभुजो गायना लोके ॥ ७.३ ॥
तमसि वराकश्चौरो हाहाकारेण याति संत्रस्तः ।
गायनचौरः प्रकटं हाहाकृत्वैव हरति सर्वस्वम् ॥ ७.४ ॥
पा पा ध ध नि नि ग म सा धा धा मा मा स मा स गा धा मा ।
कृत्वा स्वरपदपालीं गायनधूर्ताश्चरन्त्येते ॥ ७.५ ॥
कुटिलावर्तभ्रान्तैः वेषविकारैश्च मुखविकारैश्च ।
गायति गायनसंघो मर्दलहस्तश्चिरं मौनी ॥ ७.६ ॥
आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः ।
स्वयमुक्तसाधुवादैः अन्तरयति गायनो गीतम् ॥ ७.७ ॥
जलपतिते सक्तुकणे मत्स्यैर्भुक्तेऽस्ति कापि धर्माप्तिः ।
गायनदत्तासु परं कोटिष्वपि नास्ति फललेशः ॥ ७.८ ॥
मुग्धधनानां विधिना रुद्धानामन्धकूपकोषेषु ।
विहितो विवृतमहास्यो गायननामा प्रणालौघः ॥ ७.९ ॥
नैतत्प्रकटितदशना गायनधूर्ताः सदैव गायन्ति ।
एते गतानुगतिकान् हसन्ति धूर्ता गृहीतार्थान् ॥ ७.१० ॥
प्रातर्गायनधूर्ता भवन्ति धीराः सहारकेयूराः ।
मध्याह्ने द्यूतजिता नग्ना भग्ना निराधाराः ॥ ७.११ ॥
स्तुतिवागुरानिबद्धैः वचनशरैः कपटकूटरचनाभिः ।
गीतैर्गायनलुब्धा मुग्धमृगाणां हरन्ति सर्वस्वम् ॥ ७.१२ ॥
नष्टस्वरपदगीतैः क्षणेन लक्षानि गायनो लब्ध्वा ।
दास्याः सुतेन दत्तं किमिति वदर्दुःखितो याति ॥ ७.१३ ॥
वर्जितसाधुद्विजवरवृद्धायाः सकलशोककलितायाः ।
शापोऽयमेव लक्ष्म्या गायनभोज्यैव यत्सततम् ॥ ७.१४ ॥
देवः पुरा सुराणामधिनाथो नारदं चिरायातम् ।
पप्रच्छ लोकवृत्तं महीतले भूमिपालानाम् ॥ ७.१५ ॥
सोऽवदरवनिपतीनां जयिनां बहुदानधर्मयज्ञानाम् ।
चरता मया नृलोके सुरपतियोग्याः श्रियो दृष्टाः ॥ ७.१६ ॥
ते तु त्वां स्पर्धन्ते विभवैर्वरुणं धनाधिनाथं च ।
शतमखसंज्ञामसकृद्बहुतरयज्ञा हसन्त्येव ॥ ७.१७ ॥
श्रुत्वा तर्मुनिवचनं जातद्वेषः शतक्रतुः कोपात् ।
हर्तुं धनं पिशाचान् विससर्ज भुवं नरेन्द्राणाम् ॥ ७.१८ ॥
ते गीतनाममन्त्राः सुरपतिदिष्टाः पिशाचसंघाताः ।
हर्तुं सकलनृपाणां धनमखिलं भूतलं प्रययुः ॥ ७.१९ ॥
मायादासः प्रथमं डम्बरदासश्च वज्रदासश्च ।
झ्[क्ष्?]अयदासलुण्ठदासौ खरहरदासः प्रसिद्धदासश्च ॥ ७.२० ॥
वाडवदासश्चाष्टौ ते गत्वा मर्त्यलोकमतिभयदाः ।
विवृतास्यघोरकुहरा गायनसृष्टिं ससर्जुरतिविकटाम् ॥ ७.२१ ॥
यैरेतैर्हृतविभवा दिशि दिशि हृत[?]सकललोकसर्वस्वाः ।
यज्ञादिषु भूपतयो जाताः शिथिलोद्यमाः सर्वे ॥ ७.२२ ॥
एते हि कर्णविवरैः प्रविश्य गीतच्छलेन भूपानाम् ।
सहसा हरन्ति हृदयं कर्णपिशाचा महाघोराः ॥ ७.२३ ॥
तस्मारेषां राष्ट्रे न ददाति विकारिणां प्रवेशं यः ।
तस्य सकलार्थसंपद्यज्ञवती भूमिराधीना ॥ ७.२४ ॥
नटनर्तकचक्रचराः कुशीलवाश्चारणा विटाश्चैव ।
ऐश्वर्यशालिशलभाः चरन्ति तेभ्यः श्रियं रक्षेत् ॥ ७.२५ ॥
गायनसंघस्यैक्यादुत्तिष्ठति गीतनिःस्वनः सुमहान् ।
अस्थाने दत्ताया लक्ष्म्या इव संभ्रमाक्रन्दः ॥ ७.२६ ॥


सर्गः ८[सम्पाद्यताम्]

तत्रापि हेमकारा हरणकलायोगिनः पृथुध्यानाः ।
ये धाम्नि बहुललक्ष्म्याः शून्यत्वं दर्शयन्त्येव ॥ ८.१ ॥
सारं सकलधनानां संपत्सु विभूषणं विपदि रक्षा ।
एते हरन्ति पापाःॢ सततं तेजः परं हेम ॥ ८.२ ॥
सहसैव दूषयन्ति स्पर्शेन सुवर्णमुपहतच्छायाम् ।
नित्याशुचयः पापाः चण्डाला हेमकाराश्च ॥ ८.३ ॥
मसृणकषाश्मनि निकषो मन्दरुचिक्रमगता कला तेषाम् ।
येषां परुषकषाश्मनि विक्रयकालेऽपि लाभकला ॥ ८.४ ॥
सोपस्नेहः स्वेद्यः सिक्थकमुद्रोऽपि बालुकाप्रायः ।
सोष्मा च युक्तिभेदात्तुलोपलानां कलाः पञ्च ॥ ८.५ ॥
द्विपुटा स्फोटविपाका सुवर्णरसपायिनी सुताम्रकला ।
सीसमलकाचचूर्णग्रहणपरा षट्कला मूषा ॥ ८.६ ॥
वक्रमुखी विषमपुटा सुषिरतला न्यस्तपारदा मृद्वी ।
पक्षकटा ग्रन्थिमती सिक्थकला बहुगुणा पुरोनम्रा ॥ ८.७ ॥
वातभ्रान्ता तन्वी गुर्वी वा परुषवातधृतचूर्णा ।
निर्जीवना सजीवा षोडश हेम्नस्तुलासु कलाः ॥ ८.८ ॥
मन्दः सावेगो वा मध्यच्छिन्नः सशब्द्ल्फूत्कारः ।
पाती शीकरकारी फूत्कारः षट्कलास्तेषाम् ॥ ८.९ ॥
ज्वालावलयी धूमो विस्फोटी मन्दकः स्फुलिङ्गी च ।
पूर्वधृतताम्रचूर्णस्तेषामपि षट्कलो वह्निः ॥ ८.१० ॥
प्रश्नः कथा विचित्रा कण्डूयनमंशुकान्तराकृष्टिः ।
दिनवेलार्कनिरीक्षणमतिहासो मक्षिकाक्षेपः ॥ ८.११ ॥
कौतुकदर्शनमसकृत्स्वजनकलिः सलिलपात्रभङ्गश्च ।
बहिरपि गमनं बहुशो द्वादश चेष्टाकलास्तेषाम् ॥ ८.१२ ॥
घटितस्योपरि पाकः कृत्रिमवर्णप्रकाशनोत्कर्षी ।
तनुगोमयाग्निमध्ये लवणक्षारानुलेपेन ॥ ८.१३ ॥
सामान्यलोहपात्राद्भूमिन्यस्तेऽपि कान्तलोहतले ।
धावति वदनेन तुला रिक्तापि मुहुः सुपूर्णेव ॥ ८.१४ ॥
प्रतिबद्धे जतुयोग्ये प्रक्षिप्तनिघूढकनककणम् ।
तुलितं पूरणकाले सुखेन हर्तुं समायाति ॥ ८.१५ ॥
उज्ज्वलनेऽपि च तेषां पातनमतिसुकरमश्मकाले च ।
सदृशविचित्राभरणे परिवर्तनलाघवप्रसारश्च ॥ ८.१६ ॥
पूर्णादाने घटने नेक्षा माषार्पणं प्रभायोगः ।
कालाहरणविनाशः प्रतिपूरणयाचनं बहुश्लेषः ॥ ८.१७ ॥
एकादश युक्तिकालस्तेषामेताः समासेन ।
एकैव कला महती निशि गमनं सर्वमादाय ॥ ८.१८ ॥
एता हेमकाराणां विचारलभ्याः कलाश्चतुःषष्टिः ।
अन्या गूढाश्च कलाः सहस्रनेत्रोऽपि नो वेत्ति ॥ ८.१९ ॥
मेरुः स्थितोऽतिदूरे मनुष्यभूमिं चिरात्परित्यज्य ।
भीतोऽवश्यं चौर्याद्घोराणां हेमकाराणाम् ॥ ८.२० ॥
कनकशिलाशतसंधिप्रसृतमहाविवरकोटिसंघातैः ।
उत्कीर्णनिखिलशिखरः पुरा कृतो मूषकैर्मेरुः ॥ ८.२१ ॥
तत्राखिलाखुसेनानिखातनखरावलेखनोत्खातैः ।
शिथिलितमूलः सहसा बभूव मेरुः पुरा नियतम् ॥ ८.२२ ॥
मूषकनखरोत्खातः सुमेरुरुच्चैस्तरां शुशुभे ।
उद्धतसुवर्णधूलीपटलैः कपिला बहुः ककुभः ॥ ८.२३ ॥
तस्मिञ्जर्जरशिखरे विवरोदरदलितकनककूटतटे ।
कल्पान्तागमशङ्काभयमाविरभूदमर्त्यानाम् ॥ ८.२४ ॥
आह च दिव्यदृशा तद्विलोक्य सर्वं सुरानाथागस्त्यः ।
एते ते ब्रह्मघ्ना निशाचारास्त्रिदशसंगरे निहताः ॥ ८.२५ ॥
जाता मूषकरूपा मेरुनिपाते कृतारम्भाः ।
वध्याः पुनरपि भवतामाश्रमभङ्गान्मुनीनां च ॥ ८.२६ ॥
श्रुत्वैतन्मुनिवचनं धूमेन बिलावलीं समापूर्य ।
शापेन पूर्वदग्धाञ्जग्धुस्त्रिदशा महामूषान् ॥ ८.२७ ॥
एते त एव मूषाः सुवर्ण्काराः क्षितौ पुनर्जाताः ।
जन्माभ्यासादनिशं काञ्चनचूर्णं निकर्षन्ति ॥ ८.२८ ॥
तस्मान्महीपतीनामसंभवे गरदचोरदस्यूनाम् ।
एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ॥ ८.२९ ॥


सर्गः ९ नानाधूर्तवर्णनम्[सम्पाद्यताम्]

वाञ्चकमाया महती महीतले जलधिमेखले निखिले ।
नष्टधियां मत्स्यानां जालाली धीवरैर्विहिता ॥ ९.१ ॥
सर्वस्वमेव परमं प्राणा येषां कृते प्रयत्नोऽयम् ।
वैद्या वेद्याः सततं येषां हस्ते स्थितास्तेऽपि ॥ ९.२ ॥
एते हि देहदाहाद्विरहा इव दुःसहा भिषजः ।
ग्रीष्मदिवसा इवोग्रा बहुतृष्णः शोषयन्त्येव ॥ ९.३ ॥
विविधौषधपरिवतैर्योगैः जिज्ञासया स्वविद्यायाः ।
हत्वा नृणां सहस्रं पश्चाद्वैद्यो भवेत्सिद्धः ॥ ९.४ ॥
विन्यस्य राशिचक्रं ग्रहचिन्तां नाटयर्मुखविकारैः ।
अनुवदति चिरार्गणको यत्किंचित्प्राश्निकेनोक्तम् ॥ ९.५ ॥
गणयति गगने गणकः चन्द्रेण समागमं विशाखायाः ।
विविधभुजंगक्रीडासक्तां गृहिणीं न जानाति ॥ ९.६ ॥
प्रथमं स्ववित्तमखिलं कनकार्थी भस्मसात्कृत्वा ।
पश्चात्सधनान्रसिकान् विनाशयत्येष वर्णिकानिपुनः ॥ ९.७ ॥
शतवेधी सिद्धो मे सहस्रवेधी रसोऽपि निर्यातः ।
इति वदति धातुवादी नग्नो मलिनः कृशो रूक्षः ॥ ९.८ ॥
ताम्रघटोपमशीर्षो धूर्तो हि रसायनी जराजीर्णः ।
केशोत्पादनकथया खल्वाटानेव मुष्णाति ॥ ९.९ ॥
प्रह्लादनशुचितारकशम्बररमणीजनेऽपि बद्धाशः ।
बिल्वादिभिरतिकामी हुत्वा धूमान्धतामेति ॥ ९.१० ॥
खेचर्यः सुखसाध्या यत्नाद्यदि लभ्यते नभःकुसुमम् ।
उक्ताः प्रयोगविद्भिः मशकास्थिषु सिद्धयो बहुधा ॥ ९.११ ॥
कृष्णाश्वशकृद्वृत्या पश्यति गगने सुरेन्द्रभवनानि ।
मण्डूकवसालिप्तो भवति पुमार्वल्लभोऽप्सरसाम् ॥ ९.१२ ॥
इत्युक्त्वा पुनराशां दिशि दिशि विलसन्ति धूर्तसंघाताः ।
यैर्विविधसिद्धिलुब्धाः क्षैप्ताः शतशो नराः श्वभ्रे ॥ ९.१३ ॥
वश्याकर्षणयोगी पथि पथि रक्षां ददाति नारीणाम् ।
रतिकामतन्त्रमूलं मूलं मन्त्रं न जानाति ॥ ९.१४ ॥
बहवो रथ्यागुरवो लघुदीक्षाः स्वल्पयोगमुत्पाद्य ।
व्याधा इव वर्धन्ते मुग्धानां द्रविणदारहराः ॥ ९.१५ ॥
हस्तस्था धनरेखा विपुलतरास्या पतिश्च चलचित्तः ।
मृद्नाति कुलवधूनामित्युक्त्वा कमलकोमलं पाणिम् ॥ ९.१६ ॥
बद्धेऽङ्गुष्ठे सलिले पश्यति विविधं जनभ्रमं कन्या ।
न प्राप्यते च चोरो मोहोऽसाविन्द्रजालस्य ॥ ९.१७ ॥
खादति पिबति च धूर्तः प्रलापकारी नृणां तलाघातैः ।
चेटावेशं कृत्वा निर्मन्त्रक्षुद्रधूपेन ॥ ९.१८ ॥
कक्षपुटे नागार्जुनलिखिता युक्तिर्विधीयतां धूपे ।
यो हर्तुं मोहादिति धूर्तोऽग्नौ क्षिपति परवित्तम् ॥ ९.१९ ॥
यक्षीपुत्राश्चोरा विज्ञेयाः कूटधूपकर्तारः ।
येषां प्रत्यक्षफलं दारिर्द्यं राजभङ्गश्च ॥ ९.२० ॥
बहुतरधनेन वणिजा पुत्री सा पुत्रवर्गृहीतैव ।
मदधीनेति कथाभिः कन्यार्थं भुज्यते धूर्तः ॥ ९.२१ ॥
चिन्त्यः स्वेङितवादी मर्मज्ञो हृदयचौर एवासौ ।
तिष्ठति परप्रयुक्तो मिथ्याबधिरोऽथवा मूकः ॥ ९.२२ ॥
भस्मस्मेरा वेश्या वृद्धाः श्रमणाः सदैवता गणिकाः ।
एताः कुलनारीणां चरन्ति धनशीलहारिण्यः ॥ ९.२३ ॥
विधवा तरुणी सधना वाञ्चति दिव्यं भवद्विधं रमणम् ।
धूर्तो जडमित्युक्त्वा सर्वस्वं तस्य भक्षयति ॥ ९.२४ ॥
प्रत्यहवेतनयुक्ताः कर्मसु ये कार्य्शिल्पिनो धूर्ताः ।
विलसन्तिकर्मविघ्नैः विज्ञेयाः कालचौरास्ते ॥ ९.२५ ॥
अक्षव्याजैर्विविधैः गणनहस्तादिलाघवैर्निपुणाः ।
धूर्ताश्चरन्ति गूढं प्रसिद्धकितवा विदेशेषु ॥ ९.२६ ॥
भोजनमात्रोत्पत्तिः बहुव्ययो द्यूतमद्यवेश्याभिः ।
विज्ञेयो गृहचौरो बन्धुजनो वेश्मदासो वा ॥ ९.२७ ॥
कृतकं शास्त्रमसत्यं साक्षार्दृष्टश्च केन परलोकः ।
इति वदति यः स शङ्क्यो निरङ्कुशो मत्तमातङ्गः ॥ ९.२८ ॥
बहुलाभलुब्धमनसां हरन्ति ये दुःसहेन लाभेन ।
ऋणधनमधिकविदग्धा विज्ञेया लाभचोरास्ते ॥ ९.२९ ॥
अधिकरणाम्बुधिमध्ये ज्वलन्ति वडवाग्नयः सततभक्षाः ।
जनधनघनमनसो ये भट्टाख्या न्यायचोरास्ते ॥ ९.३० ॥
विभवाम्भोरुहमधुपा दुःसहविपदनिलवेगविमुखा ये ।
सुहृदस्ते सुखचौराः चरन्ति लक्ष्मीलताहूताः ॥ ९.३१ ॥
यद्यत्किंचिरपूर्वं परिचरितं कल्पनादसंबद्धम् ।
वर्णयति हर्षकारी बहुवचनः कर्णचौरोऽसौ ॥ ९.३२ ॥
दोषेषु गुणस्तुतिभिः श्रद्धामुत्पाद्य चतुरवचना ये ।
कुर्वन्त्यभिनवसृष्टिं स्थितिचौरास्ते निराचाराः ॥ ९.३३ ॥
आत्मगुणख्यातिपराः परगुणमाच्छाद्य विपुलयत्नेन ।
प्रभवन्ति परमधूर्ता गुणचौरास्ते विमूढहृदयेषु ॥ ९.३४ ॥
वल्लभतामुपयाताः परवाल्लभ्यं विचित्रपैशुन्यैः ।
ये नाशयन्ति धूर्ता मात्सर्यार्वृत्तिचौरास्ते ॥ ९.३५ ॥
शमदमभक्तिविहीनस्तीव्रव्रतदुर्ग्रहग्रस्तः ।
अभिभवति प्रतिपत्त्या साधुजनं कीर्तिचौरोऽसौ ॥ ९.३६ ॥
देशान्तरसंभविभिः भोगवरैर्वर्णनारम्यैः ।
येऽपि नयन्ति विदेशं पशुसदृशार्देशचौरास्ते ॥ ९.३७ ॥
नानाहासविकारैः बहुवैदग्ध्यैः सनमवैचिर्त्यः ।
रमयति दिवसमशेषं प्रकृतिव्यापारचौरोऽ सौ ॥ ९.३८ ॥
भक्षैतनिजबहुविभवाः परविभवक्षपणदीक्षैताः पश्चात् ।
अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश्चिन्त्याः ॥ ९.३९ ॥
अतिशुचितया न वित्तं गृह्णाति करोति चाग्र्यमधिकारम् ।
यो नियमसलिलमत्स्यः परिहार्यो निःस्पृहनियोगी ॥ ९.४० ॥
रथ्यावणिजः पापाः स्वयमेत्य गृहेषु यत्प्रयच्छन्ति ।
तत्स्वकरार्पितमखिलं भवति परं काचशकलमपि ॥ ९.४१ ॥
छन्दानुवर्तिनो ये श्वभ्रापातेऽपि साधुवादपराः ।
सर्वस्वहारिणस्ते मधुरा विषव्द्विशन्त्यन्तः ॥ ९.४२ ॥
तव नरपतिः प्रसादी गुणगणनपरः परं विजने ।
उक्त्वेति राजदासैः सेवकलोकः सदा मुषितः ॥ ९.४३ ॥
स्वप्ने मयाब्जहस्ताळ्दृष्टा श्रीस्त्वद्गृहं प्रविष्टा सा ।
मासोपविष्टतुष्टा देवी श्रीः सादरा प्राह ॥ ९.४४ ॥
मद्भक्तस्ते दास्यति सर्वं तत्त्वं मया लब्धः ।
इत्युक्त्वा सरलाणां विलसन्ति गृहे गृहे धूर्ताः ॥ ९.४५ ॥
पुरविप्लवनगरोदययज्ञविवाहोत्सवादिजनसंघे ।
प्रविशन्ति बन्धुवेषाः परेऽपि सर्वापहाराय ॥ ९.४६ ॥
परिजनपानावसरे पिबति न मद्यं निशासु जागर्ति ।
ध्यानपरः सेवार्थी किमपि च कर्तुं कृतोद्योगः ॥ ९.४७ ॥
न ददाति प्रतिवचनं ददाति वा गद्गदाक्षरैर्विषमम् ।
नष्टमुखः सोच्छ्वासः प्रवेपते तत्क्षणं चोरः ॥ ९.४८ ॥
यश्चाधिकपरिशुद्धिं प्रार्थयते रटति यश्च साटोपह् ।
घोरापह्नवकारी शङ्कायतनं स पापः स्यात् ॥ ९.४९ ॥
प्रत्यक्षेऽपि परोक्षे कृतमकृतं कथितमप्यनुक्तं च ।
यः कुरुते निर्विकृतिः स परं पुंसां भयस्थानम् ॥ ९.५० ॥
कृतकृतकमुग्धभावः षण्ढ इव स्त्रीस्वभावसंलापः ।
विचरति यः स्त्रीमध्ये स कामदेवो गृहे धूर्तः ॥ ९.५१ ॥
सततमधोमुखदृष्टिः कोषगृहे मूषकश्चिन्त्यः ।
विलिखन्कोषनियुक्तः कोषगृहे मूषकश्चिन्त्यः ॥ ९.५२ ॥
तिष्ठति यः सकलदिनं गृहदासः प्रीतवेश्मभवनेषु ।
गृहदीर्घकथाः कथयन्स चरः सर्वात्मना त्याज्यः ॥ ९.५३ ॥
निन्द्ये बहुदण्डार्हे कर्मणि यः सर्वथा प्रतारयति ।
आजीवभीतिभोज्यस्तेन निबद्धः स्थिरो राशिह् ॥ ९.५४ ॥
दृष्ट्वा गुह्यमशेषं तस्य रहस्यं च लीलया लब्ध्वा ।
धूर्तेन मुग्ध्लोकस्तेन शिलापट्टके लिखितः ॥ ९.५५ ॥
राजविरुद्धं द्रव्यं रूपं वा कूटलेख्यमन्यद्वा ।
निःक्षिप्य यात्यलक्ष्यं धूर्तो धनिनां विनाशाय ॥ ९.५६ ॥
क्षुद्रः क्षीनोऽपि गृहे लब्धास्वादः कृतो धनैर्येन ।
शस्त्रविषपाशहस्तः स पाशहस्तो धृतस्तेन ॥ ९.५७ ॥
लज्जाधनः कुलीनः संभावितशुद्धशीलमर्यादह् ।
नारीक्रियते धूर्तैः प्रायेण सगर्भनारीभिः ॥ ९.५८ ॥
दृष्टाभिरदृष्टाभिः क्रूराभिः कृतकवचनमुद्राभिः ।
धूर्तो मुष्णाति वधूं मुग्धां विप्रोषिते पत्यौ ॥ ९.५९ ॥
सजनेऽपि साधुवेषा विधृताभरणाश्च हेलया धूर्ताः ।
धीरा हरन्ति सकलं दृष्टे हासोऽन्यथाळ्लाभः ॥ ९.६० ॥
देशे कृत्वा स्फीते कुम्भधनो डम्बरैर्गृहं पूर्णम् ।
निःक्षेपलक्षहारी वर्षेण पलायते धूर्तः ॥ ९.६१ ॥
शुचितरकनकविभूषणतनुवस्त्राः संभ्रमेण पूज्यन्ते ।
रिपुभग्नराजपुत्रव्याजेन गृहे गृहे धूर्ताः ॥ ९.६२ ॥
आदाय देववृषभं पुण्यं छागं धूर्तविक्रीतं ।
मुग्धस्य दुःखपाकः समर्घलाभोदितो हर्षः ॥ ९.६३ ॥
साधिक्षेपत्यागो महतां संपत्सु यः कृतासूयः ।
तस्मै भयेन वित्तं रिक्तोऽपि ददाति यत्नेन ॥ ९.६४ ॥
निःसारभूर्जसारैः कृत्वा युक्तं महासार्थम् ।
धूर्तो दिशि दिशि विंचरन्धनिकसहस्राणि मुष्णाति ॥ ९.६५ ॥
धूर्तो वसन्विदेशेषूद्दिश्य सुरापगागयायात्राम् ।
मृतबन्धूनामार्थे द्रविणं गृह्णाति मुग्धेभ्यः ॥ ९.६६ ॥
मुष्णाति सार्थरमणी शाटीमादाय निद्रया मुग्धान् ।
धूर्तेन कूटरूपं दत्त्वा निशि वञ्च्यते सापि ॥ ९.६७ ॥
बधिरं वाळ्मूकं वाळ्वणिजं निःक्षिप्य भाण्डशालायाम् ।
धूर्तो नयति त्वरया बहुमूल्यं वर्णकद्रव्यम् ॥ ९.६८ ॥
किंचित्परिचयमात्रैः किंचिद्धार्ष्ट्यैः सकल्पनैः किंचित् ।
किंचिद्विवादकलहैः सर्वज्ञो वञ्चकश्चरति ॥ ९.६९ ॥
मिथ्याडम्बरधनिकः पुस्तकविद्वान्कथाज्ञानी ।
वर्णनशूरश्चपलः चतुर्मुखो जृम्भते धूर्तः ॥ ९.७० ॥
सर्वावयवविधूननकृतसंकेतान् विसृज्य गेहेषु ।
भोक्तुं व्रजति दिगन्तान्स्वेच्छाचारी महाधूर्तः ॥ ९.७१ ॥
शतवार्षिकमामलकं भुक्त्वा श्रीपर्वतादहं प्राप्तः ।
धूर्तो वदति गुरूणां पुरतः शकुनं स्मरामीति ॥ ९.७२ ॥
एता लेशेन मया कथिता मायाश्चतुःषष्टिः ।
को वेद वञ्चकानां मायानां शतसहस्राणि ॥ ९.७३ ॥


इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे नानाधूर्तवर्णनं नाम नवमः
सर्गः


सर्गः १०[सम्पाद्यताम्]

एता वञ्चकमाया विज्ञेया न तु पुनः स्वयं सेव्याः ।
धर्म्यः कलाकलापो विदुषामयमीप्सितो भूत्यैः ॥ १०.१ ॥
धर्मस्य कला ज्येष्ठा भूतदयाख्या परोपकारश्च ।
दानं क्षमानसूया सत्यमलोभः प्रसादश्च ॥ १०.२ ॥
अर्थस्य सदोत्थानं नियमपरीपालनं क्रियाज्ञानम् ।
स्थानत्यागः पटुतानुद्वेगः स्त्रीष्वविश्वासः ॥ १०.३ ॥
कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः ।
नानाविधाश्च लीलाश्चित्तज्ञानं च कान्तानाम् ॥ १०.४ ॥
मोक्षस्य विवेकरतिः प्रशमस्तृष्णाक्षयश्च संतोषः ।
सङ्गत्यागः स्वलयस्थानं प्रमप्रकाशश्च ॥ १०.५ ॥
एताश्चतुष्टयकला द्वात्रिंशत्क्रमधृताः समस्ता वा ।
संसारवञ्चकानां विद्या विद्यावतामेव ॥ १०.६ ॥
मात्सर्यस्य त्यागः प्रियवादित्वं सधैर्यमक्रोधः ।
वैराग्यं च परार्थे सुखस्य सिद्धाः कलाः पञ्च ॥ १०.७ ॥
सत्सङ्गः कामजयः शौचं गुरुसंवेन सदाचारः ।
श्रुतममलं यशसि रतिर्मूलकलाः सप्त शीलस्य ॥ १०.८ ॥
तेजः सत्त्वं बुद्धिर्व्यवसायो नीतिरिङ्गितज्ञानम् ।
प्रागल्भ्यं सुसहायः कृतज्ञता मन्त्ररक्षणं त्यागः ॥ १०.९ ॥
अनुरागः प्रतिपत्तिर्मित्रार्जनमानृशंस्यमस्तम्भः ।
आश्रितजनवात्सल्यं सप्तदशकलाः प्रभावस्य ॥ १०.१० ॥
मौनमलौल्यमयाच्ञा मानस्य च जीवितं कलात्रितयम् ।
एताः कला विदग्धैः स्वगताः कार्याश्चतुःषष्टिः ॥ १०.११ ॥
शक्तविरोधे गमनं तत्प्रणतिर्वा बलोदये वैरम् ।
आर्तस्य धर्मचर्याळ्दुःखे धैर्यं सुखेष्वनुत्सेकः ॥ १०.१२ ॥
विभवेषु संविभागः सत्सु रतिर्मन्त्रसंशये प्रज्ञा ।
निन्द्येषु पराङ्मुखता भेषजमेतत्कलादशकम् ॥ १०.१३ ॥
गुरुवचनं सत्यानां कार्याणां गोद्विजातिसुरपूजा ।
लोभः पापतमानां क्रोधः सर्वोपतापजनकानाम् ॥ १०.१४ ॥
प्राज्ञ सर्वगुणानां यशस्विता विपुलवित्तविभावानाम् ।
सेवा दुःखतमानामाशा पृथुकालभुजगपाशानाम् ॥ १०.१५ ॥
दानं रत्ननिधीनां निर्वैरत्वं सुखप्रदेशानाम् ।
याच्ञा मानहराणां दारिद्र्यं चोपतापसार्थानाम् ॥ १०.१६ ॥
धर्मः पथेयानां सत्यं मुखपद्मपावनकराणाम् ।
व्यसनं रोगगणानामालस्यं गृहसमृद्धिनाशानाम् ॥ १०.१७ ॥
निःस्पृहता श्लाघ्यानां प्रियवचनं सर्वमधुराणाम् ।
दर्पस्तिमिरकराणां दम्भः सर्वोपहासपात्राणाम् ॥ १०.१८ ॥
अद्रोहः शौचानामचापलं व्रतविशेषनियमानाम् ।
पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशम्सचरितानाम् ॥ १०.१९ ॥
कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्नानाम् ।
माया मोहमतीनां कृतघ्नता नरकपातहेतूनाम् ॥ १०.२० ॥
मदनश्चलचौराणां स्त्रीवचनं ज्ञातिभेदानाम् ।
क्रूरश्चण्डालानां मायावी कलियुगावताराणाम् ॥ १०.२१ ॥
शास्त्रं मणिदीपानामुपदेशश्चाभिषेकाणाम् ।
वृद्धत्वं क्लेशानां रोगित्वं मरणतुल्यदुःखानाम् ॥ १०.२२ ॥
स्नेहो विषमविषाणां वेश्यारागो विसर्पकुष्ठानाम् ।
भार्या गृहसाराणां पुत्रः परलोकबन्धूनाम् ॥ १०.२३ ॥
शात्रुः शल्यशतानां दुष्पुत्रः कुलविनाशानाम् ।
तारुण्यं रमणीनां रूपं रुचिरोपचारवेषाणाम् ॥ १०.२४ ॥
संतोषो राज्यानां सत्सङ्गश्चक्रवर्तिविभावानाम् ।
चिन्ता शोषकराणां विद्वेषः कोटराग्निदाहानाम् ॥ १०.२५ ॥
मैत्री विस्रम्भानां निर्यन्त्रणता महार्हभोगानाम् ।
संकोचो व्याधीनां कौटिल्यं निर्जलान्धकूपानाम् ॥ १०.२६ ॥
आर्जवममलकराणां विनयो वररत्नमुकुटानाम् ।
द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् ॥ १०.२७ ॥
त्यागो मणिवलयानां श्रुतमुज्ज्वलकर्णरत्नानाम् ।
खलमैत्री चपलानां दुर्जनसेवा वृथाप्रयासानाम् ॥ १०.२८ ॥
निर्वृतिरुद्यानानां प्रियदर्शनममृतवर्षाणाम् ।
तत्त्वरतिर्लभ्यानां मूर्खसभा सद्विवेकनाशानाम् ॥ १०.२९ ॥
कुलजः सफलतरूणां सौभाग्यं कृतयुगावताराणाम् ।
राजकुलं शङ्क्यानां स्त्रीहृदयं प्रकृतिकुटिलानाम् ॥ १०.३० ॥
औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानाम् ।
कन्याळ्शोककराणां बुद्धिविहीनोऽनुकम्प्यानाम् ॥ १०.३१ ॥
विभवः सौभाग्यानां जनरागः कीर्तिकन्दानाम् ।
मद्यं वेतालानां मृगया गजगहनयक्षाणाम् ॥ १०.३२ ॥
प्रशमः स्वास्थ्यकराणामात्मरतिस्तीर्थसेवानाम् ।
लुब्धः फलरहितानामाचारविवर्जितः श्मशानानाम् ॥ १०.३३ ॥
नीतिः स्त्रीरक्षणानामिन्द्रियविजयः प्रभावाणाम् ।
ईर्ष्या यक्ष्मशतानामयशः कुस्थमरणानाम् ॥ १०.३४ ॥
माता मङ्गल्यानां जनकः सुकृतोत्सवोपदेशानाम् ।
घातस्तीक्ष्णतराणां छेदस्तीक्ष्णासिशस्त्राणाम् ॥ १०.३५ ॥
प्रणतिर्मन्युहराणां सौहार्दं कृच्छ्रयाच्ञानाम् ।
मानः पुष्टिकराणां कीर्तिः संसारसाराणाम् ॥ १०.३६ ॥
प्रभुभक्तिर्नीतानां युधि निधनं सौख्यवीथीनाम् ।
विनयः कल्याणानामुत्साहः सर्वसिद्धीनाम् ॥ १०.३७ ॥
पुण्यं प्राप्यतमानां ज्ञानं परमप्रकाशानाम् ।
कीर्तिः सम्सारेऽस्मिन् सारतरा सर्वलोकानाम् ॥ १०.३८ ॥
ज्ञेयः कलाकलापे कुशलः सर्वार्थतत्त्वविज्ञानी ।
प्रवरतरो लोकेऽस्मिन् ब्राह्मण इव सर्ववर्णानाम् ॥ १०.३९ ॥
इत्युक्तं शतमेतद्यो वेत्ति शुभाशुभोदयकलानाम् ।
तस्यैव व्यवहारे दृष्टा दृष्टप्रयोजना लक्ष्मीः ॥ १०.४० ॥
उक्त्वेति मूलदेवो विसृज्य शिष्यान्कृतोचिताचारः ।
किरणकलिकाविकासां निनाय निजमन्दिरे रजनीम् ॥ १०.४१ ॥
केलीमयः स्मितविलासकलाभिरामः सर्वाश्रयान्तरकलाप्रकटप्रदीपः ।
लोकोपदेशविषयः सुकथाविचित्रो भूयात्सतां दयित एष कलाविलासः ॥ १०.४२ ॥
कलाविलासः क्षेमेन्द्रप्रतिभाम्भोधिनिर्गतः ।
शशीव मानसानन्दं करोतु सततं सताम् ॥ १०.४३ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे सकलकलानिरूपणं नाम दशमः सर्गः

स्रोतः[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=कलाविलासः&oldid=308320" इत्यस्माद् प्रतिप्राप्तम्