कथासरित्सागरः/लम्बकः ८/तरङ्गः ४

विकिस्रोतः तः
Jump to navigation Jump to search


ततः प्रातः समं सैन्यैः स सुमेरुतपोवनात् ।
तस्मात्सूर्यप्रभः प्रायाच्छ्रुतशर्मजिगीषया ।। १
तन्निवासस्य निकटं त्रिकूटाद्रेरवाप्य च ।
आवासितोऽभूत्तत्रस्थं बलेनोत्सार्य तद्बलम् ।। २
आवासिते च तत्रास्मिन्ससुमेरुमयादिके ।
आस्थानस्थे त्रिकूटेशसंबन्धी दूत आययौ ।। ३
स चागत्य जगादैवं सुमेरुं खेचरेश्वरम् ।
श्रुतशर्मपिता राजा तव संदिष्टवानिदम् ।। ४
दूरस्थस्य न तेऽस्माभिराचारो जातुचित्कृतः ।
अद्यास्मद्विषयं प्राप्तः स त्वं प्राघुणिकैः सह ।। ५
तदातिथ्यमिदानीं वो विधास्यामो यथोचितम् ।
श्रुत्वैतं शत्रुसंदेशं सुमेरुः प्रत्युवाच तम् ।। ६
साधु नास्मत्समं पात्रमतिथिं प्राप्स्यथापरम् ।
आतिथ्यं न परे लोके दास्यतीहैव तत्फलम् ।। ७
तदिमे वयमातिथ्यं क्रियतामित्युदाहृते ।
सुमेरुणा तथैवागात्स दूतः स्वं प्रभुं प्रति ।। ८
अथोन्नतप्रदेशस्थास्ते तु सूर्यप्रभादयः ।
सैन्यानि ददृशुः स्वानि निविष्टानि पृथक्पृथक् ।। ९
ततः सुनीथः पितरं स्वमुवाच मयासुरम् ।
प्रविभागं रथादीनामस्मत्सैन्येऽत्र शंस नः ।। १०
एवं करोमि शृणुतेत्युक्त्वाङ्गुल्या निदर्शयन् ।
दानवेन्द्रः स सर्वज्ञो वक्तुमेवं प्रचक्रमे ।। ११
असौ सुबाहुर्निर्घातो मुष्टिको गोहरस्तथा ।
प्रलम्बश्च प्रमाथश्च कङ्कटः पिङ्गलोऽपि च ।। १२
वसुदत्तादयश्चैते राजानोऽर्धरथा इमे ।
अङ्कुरी सुविशालश्च दण्डिभूषणसोमिलाः ।। १३
उन्मत्तको देवशर्मा पितृशर्मा कुमारकः ।
एते सहरिदत्ताद्याः सर्वे पूर्णरथा मताः ।। १४
प्रकम्पनो दर्पितश्च कुम्भीरो मातृपालितः ।
महाभटः सोग्रभटो वीरस्वामी सुराधरः ।। १५
भण्डीरः सिंहदत्तश्च गुणवर्मा सकीटकः ।
भीमो भयंकरश्चेति सर्वेऽमी द्विगुणा रथाः ।। १६
विरोचनो वीरसेनो यज्ञसेनोऽथ खुज्जरः ।
इन्द्रवर्मा शबरकः क्रूरकर्मा निरासकः ।। १७
भवेयुस्त्रिगुणा एते रथा राजसुताः सुत ।
सुशर्मा बाहुशाली च विशाखः क्रोधनोऽप्ययम् ।। १८
प्रचण्डश्चेत्यमी राजपुत्रा रथचतुर्गुणाः ।
जुञ्जरी वीरवर्मा च प्रवीरवर एव च ।। १९
सुप्रतिज्ञोऽमरारामश्चण्डदत्तोऽथ जालिकः ।
त्रयः सिंहभटव्याघ्रभटशत्रुभटा अपि ।। २०
राजानो राजपुत्राश्च रथाः पञ्चगुणा अमी ।
उग्रवर्मा त्वयं राजपुत्रः स्यात्षड्गुणो रथः ।। २१
राजपुत्रो विशाखश्च सुतन्तुः सुगमोऽपि च ।
नरेन्द्रशर्मा चेत्येते रथाः सप्तगुणा मताः ।। २२
महारथः पुनरयं सहस्रायुनृपात्मजः ।
महारथानां यूथस्य शतानीकस्त्वयं पतिः ।। २३
सुभासहर्षविमलाः सूर्यप्रभवयस्यकाः ।
महाबुद्ध्यचलाख्यौ च प्रियंकरशुभंकरौ ।। २४
एते महारथा यज्ञरुचिधर्मरुची तथा ।
एवं विश्वरुचिर्भासः सिद्धार्थश्चेत्यमी त्रयः ।। २५
सूर्यप्रभस्य सचिवाः स्युर्महारथयूथपाः ।
प्रहस्तश्च महार्थश्च तस्यातिरथयूथपौ ।। २६
यूथपौ रथयूथानां प्रज्ञाढ्यस्थिरबुद्धिकौ ।
दानवः सर्वदमनस्तथा प्रमथनोऽप्यसौ ।। २७
धूमकेतुः प्रवहणो वज्रपञ्जर एव च ।
कालचक्रो मरुद्वेगो रथातिरथपा अमी ।। २८
प्रकम्पनः सिंहनादो रथारिरथयूथपौ ।
महामायः काम्बलिकः कालकम्पनकोऽप्ययम् ।। २९
प्रहृष्टरोमा चेत्येते चत्वारोऽप्यसुराधिपाः ।
पुत्रातिरथयूथाधिपतीनामधिपा इमे ।। ३०
सूर्यप्रभसमश्चायं प्रभासः सैन्यनायकः ।
सुमेरुतनयश्चैष श्रीकुञ्जरकुमारकः ।। ३१
द्वौ महारथयूथाधिपतियूथाधिपाविमौ ।
इत्येतेऽस्मद्बलेऽन्ये च शूराः स्वैः स्वैर्बलैर्वृताः ।। ३२
परसैन्येऽधिकाः सन्ति तथाप्यस्मद्बलस्य ते ।
न पर्याप्ता भविष्यन्ति सप्रसादे महेश्वरे ।। ३३
इति यावत्सुनीथं तं ब्रवीति स मयासुरः ।
श्रुतशर्मपितुः पार्श्वाद्दूतोऽन्यस्तावदाययौ ।। ३४
स चोवाच त्रिकूटाधिपतिरेवं ब्रवीति वः ।
सङ्ग्रामो नाम शूराणामुत्सवो हि महानयम् ।। ३५
तस्यैषा संकटा भूमिस्तस्मादागम्यतामितः ।
यामः कलापग्रामाख्यं प्रदेशं विपुलान्तरम् ।। ३६
एतच्छ्रुत्वा सुनीथाद्याः सैन्यैः सह तथेति ते ।
सर्वे कलापग्रामं तं सूर्यप्रभयुता ययुः ।। ३७
श्रुतशर्मादयस्तेऽपि तथैव समरोन्मुखाः ।
तमेव देशमाजग्मुर्विद्याधरबलैर्वृताः ।। ३८
श्रुतशर्मबले दृष्ट्वा गजान्सूर्यप्रभादयः ।
आनाययन्गजानीकं स्वं विमानाधिरोपितम् ।। ३९
ततः सेनापतिश्चक्रे सेनायां श्रुतशर्मणः ।
दामोदरो महासूचिव्यूहं विद्याधरोत्तमः ।। ४०
तत्र पार्श्वे स्वयं तस्थौ श्रुतशर्मा समन्त्रिकः ।
अग्रे दामोदरश्चासीदन्यत्रान्ये महारथाः ।। ४१
सैन्ये सूर्यप्रभस्यापि प्रभासोऽनीकिनीपतिः ।
अर्धचन्द्रं व्यधाद्व्यूहं मध्ये तस्याभवत्स्वयम् ।। ४२
स कुञ्जरकुमारश्च प्रहस्तश्चास्य कोणयोः ।
सूर्यप्रभसुनीथाद्यास्तस्थुः सर्वेऽत्र पृष्ठतः ।। ४३
सुमेरौ तत्समीपस्थे ससुवासकुमारके ।
आहन्यन्त रणातोद्यान्युभयोरपि सैन्ययोः ।। ४४
तावच्च गगनं देवैः सङ्ग्रामं द्रष्टुमागतैः ।
सेन्द्रैः सलोकपालैश्च साप्सरस्कैरपूर्यत ।। ८५५
आययौ चात्र विश्वेशः शंकरः पार्वतीयुतः ।
देवताभिर्गणैर्भूतैर्मातृभिश्चाप्यनुद्रुतः ।। ४६
आगाच्च भगवान्ब्रह्मा सावित्र्यादिभिरन्वितः ।
मूर्तैर्वेदैश्च शास्त्रैश्च निखिलैश्च महर्षिभिः ।। ४७
आजगाम च देवीभिर्लक्ष्मीकीर्तिजयादिभिः ।
धृतचक्रायुधो देवः पक्षिराजरथो हरिः ।। ४८
सभार्यः कश्यपोऽप्यागादादित्या वसवोऽपि च ।
यक्षराक्षसनागेन्द्राः प्रह्लादाद्यास्तथासुराः ।। ४९
तैरावृते नभोभागे शस्त्रसंपातदारुणः ।
प्रावर्तत महानादः सङ्ग्रामः सेनयोस्तयोः ।। ५०
दिक्चक्रे बाणजालेन घनेनाच्छादिते तदा ।
अन्योन्यशरसंघर्षजातानलतडिल्लते ।। ५१
शस्त्रक्षतगजाश्वौघरक्तधारावपूरिताः ।
वीरकायवहद्ग्राहा निर्ययुः शोणितापगाः ।। ५२
नृत्यतां तरतां रक्ते नदतां चोत्सवाय सः ।
शूराणां फेरवाणां च भूतानां चाभवद्रणः ।। ५३
शान्ते तुमुलसङ्ग्रामे निहतासंख्यसैनिके ।
लक्ष्यमाणे विभागे च शनैः स्वपरसैन्ययोः ।। ५४
प्रतिपक्षप्रवीराणां प्रयुद्धानां सुमेरुतः ।
नामादौ श्रूयमाणे च क्रमास्सूर्यप्रभादिभिः ।। ५५
पूर्वं सुबाहोर्नृपतेर्विद्याधरपतेस्तथा ।
अट्टहासाभिधानस्य द्वन्द्वयुद्धमभूद्द्वयोः ।। ५६
सुचिरं युध्यमानस्य तस्य विद्धस्य सायकैः ।
अट्टहासोऽर्धचन्द्रेण सुबाहोरच्छिनच्छिरः ।। ५७
दृष्ट्वा सुबाहुं निहतं मुष्टिकोऽभ्यापतत्क्रुधा ।
सोऽपि तेनाट्टहासेन हृदि बाणहतोऽपतत् ।। ५८
मुष्टिके निहते क्रुद्धः प्रलम्बो नाम भूपतिः ।
अभिधाव्याट्टहासं तं शरवर्षैरयोधयत् ।। ५९
अट्टहासोऽपि तत्सैन्यं हत्वा हत्वा च मर्मणि ।
प्रलम्बमपि तं वीरं रथपृष्ठे न्यपातयत् ।। ६०
वीक्ष्य प्रलम्बं निहतं मोहनो नाम भूपतिः ।
संनिपत्याट्टहासं तं ताडयामास सायकैः ।। ६१
ततोऽट्टहासस्तं छिन्नकोदण्डं हतसारथिम् ।
दृढप्रहाराभिहतं पातयामास मोहनम् ।। ६२
दृष्ट्वाट्टहासेन हतांश्चतुरश्चतुरेण तान् ।
श्रुतशर्मबलं हर्षादुन्ननाद जयोन्मुखम् ।। ६३
तद्दृष्ट्वा कुपितो हर्षः सूर्यप्रभवयस्यकः ।
ससैन्यमभ्यधावत्तमट्टहासं ससैनिकः ।। ६४
निवार्य च शरैस्तस्य शरान्सैन्यं निहत्य च ।
व्यापाद्य सारथिं द्विस्त्रिर्धनुश्छित्त्वा च सध्वजम् ।। ६५
हर्षो यदट्टहासस्य निर्बिभेद शरैः शिरः ।
तेनासौ रुधिरोद्गारी निपपात रथाद्भुवि ।। ६६
अट्टहासे हते तादृक्क्षोभोऽभूदत्र संयुगे ।
क्षणादर्धावशेषं तद्येन जज्ञे बलद्वयम् ।। ६७
निपेतुरेव निहतास्तत्राश्वगजपत्तयः ।
रणमूर्धनि चोत्तस्थुः कबन्धा एव केवलम् ।। ६८
ततो विकृतदंष्ट्राख्यो हर्षं विद्याधरेश्वरः ।
एत्याट्टहासनिधनक्रुद्धो बाणैरवाकिरत् ।। ६९
हर्षोऽपि तस्य निर्धूय शरान्सध्वजसारथीन् ।
हत्वा रथाश्वांश्चिच्छेद शिरो ललितकुण्डलम् ।। ७०
हते विकृतदंष्ट्रे तु चक्रवाल इति श्रुतः ।
राजा विद्याधरो हर्षमभ्यधावदमर्षितः ।। ७१
स युध्यमानमवधीदसकृच्छिन्नकार्मुकम् ।
चक्रवालो युधि श्रान्तं हर्षं शीर्णापरायुधम् ।। ७२
तत्क्रोधादेत्य नृपतिः प्रमाथस्तमयोधयत् ।
सोऽप्यहन्यत तेनाथ चक्रवालेन संयुगे । । ७३
तथैव तेन चात्रान्येऽप्येकशो धाविताः क्रमात् ।
चत्वारश्चक्रवालेन राजमुख्या निपातिताः ।। ७४
कङ्कटश्च विशालश्च प्रचण्डश्चाङ्कुरी तथा ।
तद्दृष्ट्वाभ्यपतत्क्रोधान्निर्घातो नाम तं नृपः ।। ५
तौ चक्रवालनिर्घातौ युध्यमानौ चिरं क्रमात् ।
अन्योन्यचूर्णितरथावभूतां पादचारिणो ।। ७६
असिचक्रधरौ द्वावप्याकोपमिलितौ च तौ ।
खड्गाहतिद्विधाभूतमूर्धानौ भुवि पेततुः ।। ७७
विपन्नौ वीक्ष्य तौ वीरौ विषण्णेऽपि बलद्वये ।
रणाग्रमाययौ विद्याधरेन्द्रः कालकम्पनः ।। ७८
राजपुत्रोऽभ्यधावच्च तं प्रकम्पननामकः ।
स कालकम्पनेनात्र क्षणात्तेन न्यपात्यत ।। ७९
तस्मिन्निपतिते तस्य पञ्चान्येऽभ्यपतन्रथाः ।
जालिकश्चण्डदत्तश्च गोपकः सोमिलोऽपि च ।। ८०
पितृशर्मा च सर्वे ते शरांस्तस्मिन्सहामुचन् ।
स तु पञ्चापि तान्कालकम्पनो विरथीकृतान् ।। ८१
जघान युगपद्विध्यन्नाराचैर्हृदि पञ्चभिः ।
प्रणेदुः खेचरास्तेन व्यषीदन्मनुजासुराः ।। ८२
ततोऽभ्यधावन्नपरे चत्वारस्तं रथाः समम् ।
उन्मत्तकः प्रशस्तश्च विलम्बकधुरंधरौ ।। ८३
स तानप्यवधीत्कालकम्पनो लीलयाखिलान् ।
तथैव धावितानन्यान्षड्रथान्निजघान सः ।। ८४
तेजिकं गेयिकं चैव वेगिलं शाखिलं तथा ।
भद्रंकरं दण्डिनं च भूरिसैन्यान्महारथान् ।। ०५
अपरांश्च पुनः पञ्च सोऽवधीन्मिलितान्युधि ।
भीमभीषणकुम्भीरविकटान्सविलोचनान् ।। ८६
तद्दृष्ट्वा कदनं कालकम्पनेन कृतं रणे ।
अधावत्सुगणो नाम राजपुत्रोऽस्य संमुखः ।। ८७
स तेन तावद्विदधे समं युद्धमुभावपि ।
हताश्वसारथी यावद्विरथौ तौ बभूवतुः ।। ८८
ततस्तं खड्गयुद्धेन सुगणं पादचारिणम् ।
स कालकम्पनः पादचार्येव भुवि जघ्निवान् ।। ८९
तावच्च मानुषैर्विद्याधराणां सममाहवम् ।
असंभाव्यं विलोक्येव खिन्नोऽस्तं प्रययौ रविः ।। ९०
रक्ताम्बुपूरभरितं न परं समराङ्गणम् ।
यावत्संध्याकृतपदं ययौ व्योमापि शोणताम् ।। ९१
कबन्धैः सह भूतेषु संध्यानृत्तोद्यतेष्वथ ।
संहृत्य युद्धं ययतुः स्वनिवेशाय ते बले ।। ९२
श्रुतशर्मबले तस्मिन्दिने वीरा हतास्त्रयः ।
त्रयस्त्रिंशत्प्रवीरास्तु बले सौर्यप्रभे हताः ।। ९३
तेन बान्धवमित्त्रादिनिधनेन सुदुर्मनाः ।
सूर्यप्रभस्त्रियामां तामासीदन्तःपुरैर्विना ।। ९४
अनिद्र एव सचिवैः सह सङ्ग्रामसंकथाः ।
तास्ताः कुर्वन्निनायैतां पुनर्युद्धोन्मुखो निशाम् ।। ९५
तद्भार्याश्च मिलन्ति स्म हतबान्धवदुःखिताः ।
एकत्र तस्यां रजनावन्योन्याश्वासनागताः ।। ९६
रुदितावसरेऽप्यत्र कथा नानाविधा व्यधुः ।
स्त्रीणां न स क्षणो यत्र न कथा स्वपराश्रया ।। ९७
तत्प्रसङ्गेन तत्रैका राजपुत्रीदमब्रवीत् ।
आश्चर्यमार्यपुत्रोऽद्य कथं सुप्तो निरङ्गनः ।। ९८
तच्छ्रुत्वा व्याजहारान्या सङ्ग्रामे स्वजनक्षयात् ।
दुःखितो ह्यार्यपुत्रोऽद्य रमते स्त्रीजने कथम् ।। ९९
ततोऽपरा ब्रवीति स्म प्राप्नोत्यभिनवां यदि ।
वरकन्यां स तद्दुःखं विस्मरत्यधुनैव तत् ।। १००
अथेतराब्रवीन्मैव यद्यपि स्त्रीषु लम्पटः ।
तथापि न स दुःखेऽस्मिन्नीदृशः स्यात्तथाविधः ।। १०१
इति तासु वदन्तीषु जगादैका सविस्मयम् ।
ब्रूत स्त्रीलम्पटः कस्मादार्यपुत्रो बतेदृशः ।। १०२
आहितास्वपि भार्यासु भूयसीषु नवा नवाः ।
अनिशं राजपुत्रीर्यत्स गृह्णन्नैव तुष्यति ।। १०३
एतच्छ्रुत्वा विदग्धैका तासु नाम्ना मनोवती ।
उवाच श्रूयतां येन राजानो बहुवल्लभाः ।। १०४
देशरूपवयश्चेष्टाविज्ञानादिविभेदतः ।
भिन्ना गुणा वरस्त्रीणां नैका सर्वगुणान्विता ।। १०५
कर्णाटलाटसौराष्ट्रमध्यदेशादिदेशजाः ।
योषा देशसमाचारै रञ्जयन्ति निजैर्निजैः ।। १०६
काश्चिद्धरन्ति सुदृशः शारदेन्दुनिभैर्मुखैः ।
अन्याः कनककुम्भाभैः स्तनैरुन्नतसंहतैः ।। १०७
स्मरसिंहासनप्रख्यैरपरा जघनस्थलैः ।
इतराश्चेतरैरङ्गैः स्वसौन्दर्यमनोरमैः ।।
काचित्काञ्चनगौराङ्गी प्रियङ्गुश्यामलापरा ।
अन्या रक्तावदाता च दृष्ट्वैव हरतीक्षणे ।। १०९
काचित्प्रत्यग्रसुभगा काचित्संपूर्णयौवना ।
काचित्प्रौढत्वसुरसा प्रसरद्विभ्रमोज्जवला ।। ११०
हसन्ती शोभते काचित्काचित्कोपेऽपि हारिणी ।
व्रजन्ती गजवत्कापि हंसवत्कापि राजते ।। १११
आलपन्त्यमृतेनेव काचिदासिञ्चति श्रुतिम् ।
सभ्रूविलास पश्यन्ती स्वभावाद्भाति काचन ।। ११२
नृत्तेन रोचते काचित्काचिद्गीतेन राजते ।
वीणादिवादनज्ञानेनान्या कान्ता च रोचते ।। ११३
काचिद्बाह्यरताभिज्ञा काचिदाभ्यन्तरप्रिया ।
प्रसाधनोज्ज्वला काचित्काचिद्वैदग्ध्यशोभिता ।। ११४
भर्तृचित्तग्रहाभिज्ञा चान्या सौभाग्यमश्नुते ।
कियद्वा वच्मि बहवोऽप्यन्येऽन्यासां पृथग्गुणाः ।। ११५
तदेवमिह कस्याश्चिद्गुणः कोऽपि वरस्त्रियः ।
न तु सर्वगुणाः सर्वास्त्रिलोक्यामपि काश्चन ।। ११६
अतो नानारसास्वादलब्धकक्ष्याः किलेश्वराः ।
आहृत्याप्याहरन्त्येव भार्या नवनवाः सदा ।। ११७
उत्तमास्तु न वाञ्छन्ति परदारान्कथंचन ।
तन्नार्यपुत्रस्यैष स्याद्दोषो नेर्ष्या च नः क्षमा ।। ११८
एवमाद्या मनोवत्या प्रोक्ताः सूर्यप्रभाङ्गनाः ।
अन्या मदनसेनाद्यास्तथैवोचुः कथाः क्रमात् ।। ११९
ततोऽतिरसतश्च ता विगतयन्त्रणानर्गलाः परस्परमुपादिशन्सुरतकार्यतन्त्राण्यपि ।
प्रसङ्गमिलिताः कथाप्रसरसक्तचित्ता मिथस्तदस्ति न किमप्यहो यदिह नोद्वमन्ति स्त्रियः ।। १२०
अथ कथमपि दीर्घा सा कथा चात्र तासामवसितिमुपयाता सा च रात्रिः क्रमेण ।
तिमिरविगमवेलावेक्षणैकाभिकाङ्क्षो रिपुबलविजिगीषोस्तत्र सूर्यप्रभस्य ।। १२१
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके चतुर्थस्तरङ्गः ।