कथासरित्सागरः/लम्बकः ८/तरङ्गः २
अथ तत्रैकदास्थानस्थिते चन्द्रप्रभे नृपे ।
सूर्यप्रभे च तत्रस्थे समग्रसचिवान्विते ।। १
सिद्धार्थोदीरितकथाप्रसङ्गेन मये स्मृते ।
अकस्मादत्र वसुधा सभामध्ये व्यदीर्यत ।। १
ततो भूविवरादादौ सशब्दः सुरभिर्मरुत् ।
आविरासीत्ततः पश्चादुज्जगाम मयासुरः ।। ३
कृष्णोन्नतशिरःशृङ्गज्वलत्केशमहौषधिः ।
रक्ताम्बरोच्छलद्धातुर्निशायामिव पर्वतः ।। ४
यथार्हकृतपूजश्च राज्ञा चन्द्रप्रभेण सः ।
रत्नासनोपविष्टः सन्दानवेन्द्रोऽभ्यभाषत ।। ५५
भुक्ता भोगा इमे भौमा भवद्भिरधुना च वः ।
कालोऽन्येषां तदुद्योगे मतिं कुरुत सांप्रतम् ।। ६
दूतान्प्रेष्यानयध्वं स्वान्नृपान्संबन्धिबान्धवान् ।
ततो विद्याधरेन्द्रेण मिलिष्यामः सुमेरुणा ।। ७
जेष्यामः श्रुतशर्माणं प्राप्स्यामः खचरश्रियम् ।
सुमेरुश्च सहायत्वे बन्धुबुद्ध्या स्थितोऽत्र नः ।। ८
रक्षेः सूर्यप्रभं दद्यास्त्वं चैतस्मै निजां सुताम् ।
इत्यादावेव देवेन स ह्यादिष्टः पिनाकिना ।। ९
एवं मयासुरेणोक्ते प्रहस्तादीन्स खेचरान् ।
चन्द्रप्रभः प्रहितवान्दूतान्सर्वमहीभृताम् ।। १०
सूर्यप्रभश्च विद्याभिः स्वभार्यामन्त्रिणोऽखिलान् ।
संविभेजे मयादेशात्संविभक्ता न ये पुरा ।। ११
तावच्चात्र स्थितेष्वेव प्रभाभासितदिङ्मुखः ।
अवतीर्याम्बरतलान्नारदो मुनिराययौ ।। १२
गृहीतार्घोपविष्टश्च स चन्द्रप्रभमब्रवीत् ।
प्रेषितोऽहमिहेन्द्रेण तेन चोक्तमिदं तव ।। १३
ज्ञातं मया यद्युष्माभिर्महेश्वरनिदेशतः ।
मयासुरसखैः सूर्यप्रभस्याज्ञानमोहितैः ।। १४
अस्य मर्त्यशरीरस्य संसाधयितुमिष्यते ।
सर्वविद्याधराधीशचक्रवर्तिपदं महत् ।। १ रु
तदयुक्तं यदस्माभिर्दत्तं हि श्रुतशर्मणे ।
विद्याधरकुलाब्धीन्दोस्तच्च तस्य क्रमागतम् ।। १६
अस्माकं प्रातिपक्ष्येण धर्मबाधेन चैव यत् ।
कुरुध्वे तद्विनाशाय निश्चितं वः प्रकल्पते ।। १७
पूर्वं च रुद्रयज्ञेन यजमानो भवान्मया ।
प्राग्यजस्वाश्वमेधेनेत्युक्ते च कृतवान्न तम् ।। १८
तद्देवाननपेक्ष्यैव रुद्रप्रत्याशयैकया ।
यदाचरथ दर्पेण भवतां न शिवाय तत् ।। १९
इत्युक्ते शक्रसंदेशे नारदेन विहस्य तम् ।
मयोऽवादीन्न साधूक्तं सुरेन्द्रेण महामुने ।। २०
सूर्यप्रभस्य मर्त्यत्वं यद्वक्ति तदपार्थकम् ।
तद्दामोदरसङ्ग्रामे न ज्ञातं तेन तस्य किम् ।। २१
मर्त्या एव हि सत्त्वाढ्याः सर्वसिद्ध्यधिकारिणः ।
ऐन्द्रं न साधितं पूर्वं पदं किं नहुषादिभिः ।। २२
यच्चाह दत्तमस्माभिः साम्राज्यं श्रुतशर्मणे ।
क्रमागतं च तत्तस्येत्येतदप्यसमञ्जसम् ।। २३
दाता महेश्वरो यत्र प्रामाण्यं तत्र कस्य किम् ।
ज्येष्ठागतं हिरण्याक्षस्येन्द्रत्वं च कथं हृतम् ।। २४
यच्चापरं प्रातिपक्ष्यमधर्मं चाह तन्मृषा ।
स एव हि हठात्स्वार्थे प्रातिपक्ष्यं करोति नः ।। २५
कश्चाधर्मो जिगीषामो वयं हि परिपन्थिनम् ।
न हरामो मुनेर्भार्यां ब्रह्महत्यां न कुर्महे ।। २६
यश्चाश्वमेधाकरणं देवावज्ञां च जल्पति ।
तदसदुद्रयज्ञे हि विहितेऽन्यैः किमध्वरैः ।। २७
अर्चिते देवदेवे च शंभौ देवो न कोऽर्चितः ।
यच्चाहैकैव रुद्रास्था न शिवेति तदप्यसत् ।। २८
किं तत्र देवनिवहैरन्यैर्यत्रोद्यतो हरः ।
रवावभ्युदितेऽन्यानि किं तेजांसि चकासति ।। २९
तदेतद्देवराजाय सर्वं वाच्यं त्वया मुने ।
वयं च प्रस्तुतं कुर्मः स यद्वेत्ति करोतु तत् ।।
एवं मयासुरेणोक्तो नारदर्षिस्तथेति तम् ।
प्रतिसंदेशमादाय ययौ सुरपतिं प्रति ।। ३१
गते तस्मिन्मुनौ सोऽत्र तं चन्द्रप्रभभूपतिम् ।
शक्रसंदेशसाशङ्कमुवाचैवं मयासुरः ।। ३२
न शक्राद्वो भयं कार्यं स च स्याच्छ्रुतशर्मणः ।
पक्षे देवगणैः सार्धमस्मद्द्वेषेण संयुगे ।। ३३
तदसंख्या महाराज प्रह्लादाधिष्ठिता वयम् ।
युष्मत्पक्षे स्थिता एव सहिता दैत्यदानवैः ।। ३४
कृतप्रसादे चास्माकमुद्युक्ते त्रिपुरान्तके ।
वराकस्यापरस्यास्ति कस्य शक्तिर्जगत्त्रये ।। ३५
तद्वीराः कुरुतोद्योगं कार्येऽस्मिन्नित्युदीरिते ।
मयेन हृष्टाः सर्वे ते तत्तथैवेति मेनिरे ।। ३६
अथ दूतोक्तसंदेशात्सर्वे तत्राययुः क्रमात् ।
नृपा वीरभटाद्यास्ते ये चान्ये मित्त्रबान्धवाः ।। ३७
कृतोचितसपर्येषु ससैन्येष्वेषु राजसु ।
पुनश्चन्द्रप्रभं भूपमुवाचैवं मयासुरः ।। ३८
कुरुध्वमद्य रुद्रस्य रात्रौ राजन्महाबलिम् ।
ततो यथाहं वक्ष्यामि तथा सर्वं विधास्यथ ।। ३९
एतन्मयवचः श्रुत्वा राजा चन्द्रप्रभोऽथ सः ।
रुद्रस्य बलिसंभारं कारयामास तत्क्षणम् ।। ४०
ततो गत्वाटवीं रात्रौ मये कर्मोपदेष्टरि ।
चन्द्रप्रभः स्वयं चक्रे बलिं रुद्रस्य भक्तितः ।। ४१
होमकर्मप्रवृत्ते च राज्ञि तस्मिन्नशङ्कितम् ।
साक्षादाविरभूत्तत्र नन्दी भूतगणाधिपः ।। ४२
सोऽर्चितो विधिवद्राज्ञा प्रहृष्टेनेदमब्रवीत् ।
मन्मुखेनेदमादिष्टं स्वयं देवेन शंभुना ।। ४३
अपि शक्रशतान्माभूद्भयं वो मत्प्रसादतः ।
सूर्यप्रभश्चक्रवर्ती भवितैव द्युचारिणाम् ।। ४४
इत्युक्तशंकरादेशो गृहीतबलिभागकः ।
नन्दीश्वरो भूतगणैः सह तत्र तिरोदधे ।। ०५५
ततश्चन्द्रप्रभो जातप्रत्ययस्तनयोदये ।
बलिं समाप्य होमान्ते विवेश समयः पुरम् ।। ४६
प्रातश्च देव्या पुत्रेण राजभिः सचिवैर्युतम ।
एकान्तत्वं च तं चन्द्रप्रभभूपं मयोऽभ्यधात् ।। ४७
शृणु राजन्रहस्यं ते वच्म्यद्य चिररक्षितम् ।
त्वं दानवः सुनीथाख्यो मम पुत्रो महाबलः ।। ४८
सूर्यप्रभः सुमुण्डीकसंज्ञकश्च तवानुजः ।
देवाहवे हतौ जातौ पितापुत्रौ युवामिह ।। ४९
211
तद्दानवशरीरं ते संरक्ष्य स्थापितं मया ।
आलिप्य युक्त्या दिव्याभिरोषधीभिर्वृतेन च ।। ५०
तस्मात्प्रविश्य विवरं पातालमुपनम्य च ।
प्रविश स्वं शरीरं तद्युक्त्या मदुपदिष्टया ।। ५१
तच्छरीरप्रविष्टश्च तेजोवीर्यबलाधिकः ।
तथा भविष्यसि यथा जेष्यसि द्युचरान्रणे ।। ५२
सूर्यप्रभस्त्वनेनैव कान्तेन वपुषा चिरम् ।
सुमुण्डीकावतारोऽयं भविता खेचरेश्वरः ।। ५३
एतन्मयासुराच्छ्रुत्वा तथेत्यङ्गीचकार सः ।
राजा चन्द्रप्रभो हृष्टः सिद्धार्थस्त्विदमुक्तवान् ।। ५४
अन्यदेहप्रविष्टः किं किमयं पञ्चतां गतः ।
इति भ्रान्तौ तदास्माकं का धृतिर्दानवोत्तम ।। ५५
किं चैष विस्मरत्यस्मांस्तदा देहान्तराश्रितः ।
परलोकगतो यद्वत्ततः कोऽयं वयं च के ।। ५६
एतत्सिद्धार्थतः श्रुत्वा स जगाद मयासुरः ।
प्रविशन्तमिमं तस्मिञ्छरीरे योगयुक्तितः ।। ५७
स्वतन्त्रं यूयमागत्य साक्षात्तत्रैव पश्यत ।
न चैवं विस्मरत्येष युष्माञ्शृणुत कारणम् ।। ५८
अस्वतन्नो मृतोऽन्यत्र गर्भे यो जायते न सः ।
किंचित्स्मरत्यन्तरितः क्लेशैस्तैर्मरणादिभिः ।। ५९
स्वातन्त्र्येण तु योऽन्यस्मिञ्शरीरे योगयुक्तितः ।
अन्तःकरणमाविश्य प्रविशेदिन्द्रियाणि च ।। ६०
अविप्लुतमनोबुद्धिर्गृहादिव गृहान्तरम् ।
सहसा स स्मरत्येव ज्ञानी योगेश्वरोऽखिलम् ।। ६१
तस्माद्विकल्पो मा भूद्वः प्रत्युतैष नृपो महत् ।
दिव्यं शरीरमाप्नोति जरारोगविवर्जितम् ।। ६२
यूयं च दानवाः सर्वे प्रविश्यैव रसातलम् ।
सुधापानेन नीरोगदिव्यदेहा भविष्यथ ।। ६३
एतन्मयासुरवचः श्रुत्वा सर्वे तथेति ते ।
तत्प्रत्ययपरित्यक्तशङ्कास्तत्प्रतिपेदिरे ।। ६४
तद्वाक्येन च सोऽन्येद्युर्मिलिताखिलराजकः ।
चन्द्रप्रभश्चन्द्रभागैरावत्योः संगमं ययौ ।। ६५
तत्रावस्थाप्य नृपतीन्बहिर्निक्षिप्य तेषु च ।
सूर्यप्रभावरोधांस्तानुपेत्य मयदर्शितम् ।। ६६
विवेश विवरं तोये सह सूर्यप्रभेण सः ।
चन्द्रप्रभः समं देव्या सिद्धार्थाद्यैश्च मन्त्रिभिः ।। ६७
प्रविश्य गत्वा दीर्घं च तेनाध्वानं ददर्श सः ।
दिव्यं देवकुलं तच्च सर्वैः सह विवेश तैः ।। ६८
तावच्च ये स्थितास्तत्र राजानो विवराद्बहिः ।
तेषां विद्याधरा व्योम्ना सैन्यैः सह समापतन् ।। ६९
ते तान्संस्तभ्य मायाभिर्भार्याः सूर्यप्रभस्य ताः ।
अहरंस्तत्क्षणं चैवमुदगाद्भारती दिवः ।। ७०
श्रुतशर्मन्नरे पाप यद्येताश्चक्रवर्तिनः ।
भार्याः स्प्रक्ष्यसि तत्सद्यः ससैन्यो मृत्युमाप्स्यसि ।। ७१
तस्मान्मातृवदेतास्त्वं पश्यन्रक्षेः सगौरवम् ।
अधुनैव न हत्वा त्वां यदेता मोचिता मया ।। ७२
तत्रास्ति कारणं किंचित्तत्तिष्ठन्त्वत्र संप्रति ।
इत्युक्ते दिव्यया वाचा खेचरास्ते तिरोदधुः ।। ७३
राजानस्ते च नीतास्ता दृष्ट्वा वीरभटादयः ।
आसन्नन्योन्ययुद्धेन देहत्यागे कृतोद्यमाः ।। ७४
नैतासामस्ति विध्वंसः प्राप्स्यथैताः सुताः पुनः ।
तत्साहसं न युष्माभिः कार्यं कल्याणमस्तु वः ।। ७५
इति वाङ्नाभसी तेषां तमुद्योगं न्यवारयत् ।
ततः प्रतीक्षमाणास्ते तस्थुस्तत्रैव भूभुजः ।। ७६
अत्रान्तरे च पाताले तस्मिन्देवकुले स्थितम् ।
सर्वैर्वृतमवोचत्तमेवं चन्द्रप्रभं मयः ।। ७७
राजन्नेकमना भूत्वा शृण्विदानीमनुत्तमम् ।
उपदेक्ष्यामि ते योगमन्यदेहप्रवेशदम् ।। ७८
इत्युक्त्वाख्याय सांख्यं च योगं च सरहस्यकम् ।
युक्तिं देहान्तरावेशे तस्मादुपदिदेश सः ।। ७९
जगाद च स योगीन्द्रः सैषा सिद्धिरिदं च तत् ।
ज्ञानं स्वातन्त्र्यमैश्वर्यमणिमादिनिकेतनम् ।। ८०
अत्रैश्वर्ये स्थिता मोक्षं न वाञ्छन्ति सुरेश्वराः ।
एतदर्थं जपतपःक्लेशमन्येऽपि कुर्वते ।। ८१
संप्राप्तमपि नेच्छन्ति स्वर्गभोगं महाशयाः ।
तथा च श्रूयतामत्र कथां वः कथयाम्यहम् ।। ८२
आसीत्कोऽपि पुराकल्पे कालो नाम महाद्विजः ।
स कला पुष्करे तीर्थे जपं चक्रे दिवानिशम् ।। ८३
जपतस्तस्य तत्रागाद्दिव्यं वर्षशतद्वयम् ।
ततोऽस्य शिरसोऽच्छिन्नमर्चिराविरभून्महत् ।। ८४
येन सूर्यायुतेनेव प्रोद्गतेनाम्बरे गतिः ।
सिद्धादीनां निरुद्धाभूज्जज्वाल च जगत्त्रयम् ।। ८५
ब्रह्मन्यस्ते वरोऽभीष्टस्तं गृहाण ज्वलन्त्यमी ।
लोकास्त्वदर्चिषेत्यूचुर्ब्रह्मेन्द्राद्या उपेत्य तम् ।। ८६
जपादन्यत्र मा भून्मे रतिरित्येव एव मे ।
वरो नान्यद्वृणे किंचिदिति तान्प्रत्युवाच सः ।। ८७
निर्बन्धं तेषु कुर्वत्सु ततो गत्वापि दूरतः ।
उत्तरे हिमवत्पार्श्वे जपन्नासीत्स जापकः ।। ८८
तत्राप्यसह्यं तत्तेजः सविशेषं क्रमाद्यदा ।
तदा विघ्नाय तस्येन्द्रः प्रजिघाय सुराङ्गनाः ।। ८९
स धीरो लोभयन्तीस्ता न तृणायाप्यमन्यत ।
निसृष्टार्थं ततस्तस्मै मृत्युं विससृजुः सुराः ।। ९०
उपेत्य स तमाह स्म ब्रह्मन्मर्त्यैरियच्चिरम् ।
न जीव्यते तदात्मानं त्यज मा लङ्घय स्थितिम् ।। ९१
तच्छ्रुत्वा स द्विजोऽवादीद्यदि पूर्णो ममावधिः ।
आयुषस्तत्र कस्मान्मां नयसे किं प्रतीक्षसे ।। ९२
स्वयं च नाहमात्मानं त्यजेयं पाशहस्त रे ।
आत्मघाती भवेयं च शरीरं कामतस्त्यजन् ।। ९३
इत्युक्तवन्तं तं नेतुं प्रभावान्नाशकद्यदा ।
तदा पराङ्मुखो मृत्युर्जगाम स यथागतम् ।। ९४
ततो विजितकालं तं काल सानुशयो द्विजम् ।
बलादुत्क्षिप्य बाहुभ्यां निनायेन्द्रः सुरालयम् ।। ९५
तत्र तद्भोगविमुखो जपादविरमंश्च सः ।
देवावतारितो भूयस्तमेवागाद्धिमालयम् ।। ९६
तत्रापीन्द्रादयो भूयो वरार्थं बोधयन्ति तम् ।
यावत्तावन्नृपस्तेन मार्गेणेक्ष्वाकुराययौ ।। ९७
स तद्बुद्ध्वा यथावस्तु जापकं तमभाषत ।
देवेभ्यश्चेन्न गृह्णासि वरं मत्तो गृहाण भोः ।। ९८
तच्छ्रुत्वा स विहस्यैनं जापकोऽभ्यवदन्नृपम् ।
त्वं शक्तो वरदाने मे त्रिदशेभ्योऽप्यगृह्णतः ।। ९९
इत्यूचिवांसं तं विप्रमिक्ष्वाकुः प्रत्युवाच सः ।
शक्तो न तेऽहं शक्तस्त्वं मम तद्देहि मे वरम् ।। १००
ततः स जापकोऽवादीद्यत्तेऽभीष्टं वृणीष्व तत् ।
दास्याम्येवेति तच्छ्रुत्वा राजान्तर्विममर्श सः ।। १०१
अहं ददामि विप्रोऽयं गृह्णातीत्युचितो विधिः ।
विपरीतमिदं गृह्णाम्यहमेष ददाति यत्।। १०२
इति यावत्स नृपतिर्विचिकित्सन्विलम्बते ।
तावद्विवदमानौ द्वौ तत्र विप्रावुपेयतुः ।। १०३
तौ तं दृष्ट्वा नृपं तस्य पुरो न्यायार्थमूचतुः ।
एकोऽब्रवीत्प्रदत्ता मे गौरनेन सदक्षिणा ।। १०४
तां मे प्रतिददानस्य हस्ताद्गृह्णात्यसौ न किम् ।
अथापरोऽभ्यधान्नाहं कृतपूर्वप्रतिग्रहः ।। १५
न चार्थिता मे तत्कस्माद्ग्राहयत्येष मां बलात् ।
एतच्छ्रुत्वा नृपोऽवादीदाक्षेप्तायं न शुध्यति ।। १०६
प्रतिगृह्य कथं दात्रे बलात्प्रतिददाति गाम् ।
इत्युक्तवन्तं तं भूपं शक्रो लब्धान्तरोऽब्रवीत् ।। १०७
राजञ्जानासि चेदेवं न्याय्यं तज्जापकाद्द्विजात् ।
वरमभ्यर्थ्य संप्राप्तं कस्माद्गृहणासि नामुतः ।। १०८
ततो निरुत्तरो राजा जापकं तं जगाद सः ।
भगवन्स्वजपस्यार्धात्फलं वितर मे वरम् ।। १०९
बाढमेवं जपस्यार्धान्मदीयस्यास्तु ते फलम् ।
इति तस्मै ततो राज्ञे जापकः स वरं ददौ ।। ११०
सर्वलोकगतिं लेभे तेन राजा स सोऽपि च ।
जापकः सशिवाख्यानं देवानां लोकमाप्तवान् ।। १११
तत्र स्थित्वा बहून्कल्पान्पुनरागत्य भूतले ।
प्राप्य स्वतन्त्रतां योगात्सिद्धिं लेभे च शाश्वतीम् ।। ११२
एवं स्वर्गादिविमुखैः सिद्धिरेवार्थ्यते बुधैः ।
सा त्वयाप्ता स्वतन्त्रस्तद्राजन्स्वं देहमाविश ।। ११३
इत्युक्तः प्रत्तयोगेन मयेन मुमुदे परम् ।
सदारतनयामात्यो राजा चन्द्रप्रभोऽथ सः ।। ११४
ततो द्वितीयं पातालं नीत्वा तेन मयेन सः ।
प्रावेश्यत गृहं दिव्यं पुत्रादिसहितो नृपः ।। ११५
तत्रान्तर्ददृशुस्ते च सर्वे सुप्तमिव स्थितम् ।
महान्तमेकं पुरुषं पतितं शयनोत्तमे ।। ११६
महौषधिघृताभ्यक्तं विकृताकृतिभीषणम् ।
विषण्णवदनाम्भोजदैत्यराजसुतावृतम् ।। ११७
सोऽयमत्र स्वदेहस्ते पूर्वभार्यावृतः स्थितः ।
प्रविशैतमिति स्माह ततश्चन्द्रप्रभं मयः ।। ११८
सोऽथ तेनोपदिष्टं तं योगमास्थाय भूपतिः ।
तस्मिन्पुरुषदेहेऽन्तस्त्यक्तस्वतनुराविशत् ।। ११९
ततः स जृम्भिकां कृत्वा शनैरुन्मील्य लोचने ।
गतनिद्र इवोत्तस्थौ पुरुषः शयनीयतः ।। १२०
दिष्ट्या देवः सुनीथोऽद्य प्रत्युज्जीवित एष नः ।
इति तत्रोदभून्नादो हृष्टासुरवधूकृतः ।। १२१
सूर्यप्रभाद्याः सर्वे तु विषण्णाः सहसाभवन् ।
दृष्ट्वा निपतितं चन्द्रप्रभदेहमजीवितम् ।। १२२
चन्द्रप्रभसुनीथश्च सुखस्वापादिवोत्थितः ।
दृष्ट्वा मयं ववन्दे स पितरं पादयोः पतन् ।। १२३
स पितापि तमालिङ्ग्य पृष्टवान्सर्वसंनिधौ ।
कच्चित्स्मरसि पुत्र द्वे जन्मनी त्वं हि संप्रति ।। १२४
सोऽपि स्मरामीत्युक्त्वैव यच्चन्द्रप्रभजन्मनि ।
सुनीथजन्मनि च यत्तस्य वृत्तं तदुक्तवान् ।। १२५
नामग्राहं सदेवीकान्स च सूर्यप्रभादिकान् ।
एकैकमाश्वासितवान्पूर्वभार्याश्च दानवीः ।। १२६
चन्द्रप्रभत्वे जातं च देहं द्वैराज्ययुक्तितः ।
भवेज्जातूपयोगीति स्थापयामास रक्षितम् ।। १२७
ततोऽभ्यनन्दन्प्रणता जातप्रत्ययनिर्वृताः ।
चन्द्रप्रभसुनीथं तं हृष्टाः सूर्यप्रभादयः ।। १२८
मयासुरोऽथ सर्वांस्तान्हर्षान्नीत्वा पुरात्ततः ।
अन्यत्प्रवेशयामास हेमरत्नचितं पुरम् ।। १२९
प्रविष्टास्तत्र वैदूर्यवापी ते ददृशुर्भृताम् ।
सुधारसेन तस्याश्च तीरे सर्वेऽप्युपाविशन् ।। १३०
पपुश्च तत्सुधापानममृताधिकमत्र ते ।
सुनीथभार्योपहृतैर्विचित्रैर्मणिभाजनैः ।। १३१
तेन पानेन ते सर्वे मत्तसुप्तोत्थितास्ततः ।
संपेदिरे दिव्यदेहा महाबलपराक्रमाः ।। १३२
चन्द्रप्रभसुनीथं च ततोऽवादीन्मयासुरः ।
पुत्रैहि यामः पश्य स्वं मातरं सुचिरादिति ।। १३३
ततस्तथेति चोद्युक्तः सुनीथोऽग्रेसरे मये ।
ययौ चतुर्थं पातालं सह सूर्यप्रभादिभिः ।। १३४
तत्र चित्राणि पश्यन्तो नानाधातुमयानि ते ।
पुराण्येकं पुरं प्रापुः सर्वे सर्वहिरण्मयम् ।। १३५
तत्र रत्नमयस्तम्भे सर्वसंपन्निकेतने ।
ददृशुर्मयभार्यां तां ते सुनीथस्य मातरम् ।। १३६
नाम्ना लीलावतीं रूपेणाधःकृतसुराङ्गनाम् ।
वृतामसुरकन्याभिः सर्वाभरणभूषिताम् ।। १३७
सा दृष्ट्वैव सुनीथं तमुदतिष्ठत्ससंभ्रमम् ।
सुनीथोऽप्यपतत्तस्या अभिवाद्यैव पादयोः ।। १३८
ततः सा तं चिरस्पृष्टमाश्लिष्योदश्रुरात्मजम् ।
पुनस्तत्प्राप्तिहेतुं तं प्रशशंस मयं पतिम् ।। १३९
अथाब्रवीन्मयो देवि सुमुण्डीकोऽपरः स ते ।
पुत्रः पुत्रोऽस्य पुत्रस्य जातः सूर्यप्रभोऽप्ययम् ।। १४०
एष विद्याधरेन्द्राणां चक्रवर्ती पुरारिणा ।
एतेनैव शरीरेण भावी देवि विनिर्मितः ।। १४१
तच्छ्रुत्वैवाभिपश्यन्त्यास्तस्याः सोत्सुकया दृशा ।
सूर्यप्रभः पपातैत्य पादयोः सचिवैः सह ।। १४२
किं सुमुण्डीकदेहेन वत्सैतेनैव शोभसे ।
इति लीलावती दत्त्वा चाशिषं तमभाषत ।। १४३
ततोऽत्र पुत्राभ्युदये मयो मन्दोदरीं सुताम् ।
विभीषणं च सस्मार स्मृतावाजग्मतुश्च तौ ।। १४४
गृहीतोत्सवसत्कारः स तं प्राह विभीषणः ।
करोषि यदि मे वाक्यं दानवेन्द्र वदामि तत् ।। १४५
दानवेषु त्वमेवैकः सुकृती शुभजीवितः ।
देवैः सह न ते कार्या तदकारणवैरिता ।। १४६
तद्विरोधे हि नापायादृते कश्चिद्गुणोऽस्ति वः ।
निहता हि सुरैः संख्येष्वसुरा नासुरैः सुराः ।। १४७
तच्छ्रुत्वा तं मयोऽवोचन्न बलात्कुर्महे वयम् ।
हठात्कुर्वति शक्रे तु कथं ब्रूहि सहामहे ।। १४८
ये चासुरा हता देवैस्ते बभूवुः प्रमादिनः ।
अप्रमत्तास्तु किं नैव बलिप्रभृतयो हताः ।। १४९
इत्याद्युक्तो मयेनाथ मन्दोदर्या सहैव सः ।
राक्षसेन्द्रस्तमामन्त्र्य जगाम वसतिं निजाम् ।। १५०
सूर्यप्रभादिभिर्युक्तः सुनीथोऽथ मयेन सः ।
निन्ये तृतीयं पातालं बलिं राजानमीक्षितुम् ।। १५१
स्वर्गादप्यधिके तत्र सर्वे ते ददृशुर्बलिम् ।
आमुक्तहारमुकुटं वृतं दितिजदानवैः ।। १५२
निपेतुः पादयोस्तस्य सुनीथाद्याः क्रमेण ते ।
सोऽपि तान्मानयामास सत्कारेण यथोचितम् ।। १५३
मयावेदितवृत्तान्तहृष्टः सोऽत्र बलिस्ततः ।
प्रह्लादमानायितवाञ्शीघ्रमन्यांश्च दानवान् ।। १५४
तानप्यत्र सुनीथाद्याः पादयोस्ते ववन्दिरे ।
ते चाप्यभिननन्दुस्तान्प्रह्वानानन्दनिर्भराः ।। १५५
अथात्र बलिराह स्म भूत्वा चन्द्रप्रभो भुवि ।
सुनीथः स्वतनुप्राप्त्या प्रत्युज्जीवित एष नः ।। १५६
सुमुण्डीकावतारश्च प्राप्तः सूर्यप्रभोऽप्ययम् ।
शर्वेण चायमादिष्टो भावी विद्याधरेश्वरः ।। १५७
एतद्यज्ञप्रभावाच्च जातोऽहं श्लथबन्धनः ।
तदेताभ्यामवाप्ताभ्यां ध्रुवमभ्युदयोऽस्ति नः ।। १५८
एतद्बलिवचः श्रुत्वा शुक्रः प्रोवाच तद्गुरुः ।
धर्मेण चरतां सत्ये नास्त्यनभ्युदयः क्वचित् ।। १५५९
तस्माद्धर्मेण वर्तध्वं कुरुताद्यापि मद्वचः ।
तच्छ्रुत्वा दानवास्तत्र तथेति नियमं व्यधुः ।। १६०
सप्तपातालपतयो ये तत्र मिलितास्तदा ।
बलिश्चात्रोत्सवं चक्रे सुनीथप्राप्तिहर्षतः ।। १६१
अत्रान्तरे च तत्रागात्स पुनर्नारदो मुनिः ।
गृहीतार्घोपविष्टश्च दानवांस्तानुवाच सः ।। १६२
प्रेषितोऽहमिहेन्द्रेण स चैवं वक्ति वः किल ।
सुनीथजीवितप्राप्त्या संतोषः परमो मम ।। १६३
तदिदानीं न कार्यं नः पुनर्वैरमकारणम् ।
विरोद्धव्यं न चैवास्मत्पक्षेण श्रुतशर्मणा ।। १६४
एवमुक्तेन्द्रवाक्यं तं प्रह्लादो मुनिमब्रवीत् ।
सुनीथजीवितात्तुष्टिरिन्द्रस्येति किमन्यथा ।। १६५
अकारणविरोधं च वयं तावन्न कुर्महे ।
अद्यैव नियमोऽस्मामिः कृतः सर्वैर्गुरोः पुरः ।। १६६
श्रुतशर्मा सपक्षत्वमाश्रित्य स बलाद्यदि ।
अस्मद्विरुद्धं कुरुते कास्माकं तत्र वाच्यता ।। १६७
सूर्यप्रभस्य पक्षेण देवदेवेन शंभुना ।
प्रागेव ह्ययमादिष्टः स पूर्वाराधितोऽस्य यत् ।। १६८
तदस्मिन्नीश्वरादिष्टे कार्ये किं कुर्महे वयम् ।
तन्निष्कारणमेवैतच्छक्रो वक्त्यसमञ्जसम् ।। १६९
इत्युक्तो दानवेन्द्रेण प्रह्लादेन स नारदः ।
तथेति वासवं निन्दन्नदर्शनमगान्मुनिः ।। १७०
तस्मिन्गते दानवेन्द्रानुशनास्तानभाषत ।
वैरानुबन्धः कार्येऽस्मिंस्तावदिन्द्रस्य दृश्यते ।। १७१
किं त्वस्मासु प्रसादैकबद्धकक्ष्ये महेश्वरे ।
का तस्य शक्तिः किं कुर्यादास्था वा तस्य वैष्णवी ।। १७२
इति शुक्रवचः श्रुत्वा दानवास्तेऽनुमन्य च ।
सहप्रह्लादमामन्त्र्य बलिं जग्मुर्निजालयान् ।। १७३
ततश्चतुर्थं पातालं प्रह्लादे स्वालयं गते ।
उत्थाय सदसो राजा विवेशाभ्यन्तरं बलिः ।। १७४
मयः सुनीथश्चान्ये च सर्वे सूर्यप्रभादयः ।
प्रणम्य बलिमाजग्मुस्तदेव स्वं निकेतनम् ।। १७५
तत्रोचितकृताहारपानेष्वेषु समेत्य सा ।
लीलावती सुनीथं तं जगाद जननी निजा ।। १७६
पुत्र जानासि यदिमा भार्यास्ते महतां सुताः ।
तेजस्वती धनेशस्य तुम्बुरोर्मङ्गलावती ।। १७७
चन्द्रप्रभशरीरेण परिणीता च या त्वया ।
प्रभासस्य वसोरेतां वेत्सि कीर्तिमतीं सुताम् ।। १७८
तिस्रस्तदेता द्रष्टव्याः समदृष्ट्या सुत त्वया ।
इत्युक्त्वा मुख्यभार्यास्तास्तिस्रोऽस्मै सा समर्पयत् ।। १७९
ततस्तस्मिन्दिने रात्रौ सुनीथो ज्येष्ठया तया ।
तेजस्वत्या समं शय्यावासवेश्म विवेश सः ।। १८०
तत्रोपभुङ्क्ते स्म तया सुचिरोत्सुकया सह ।
रतक्रीडासुखं तत्तत्प्राग्भुक्तमपि नूतनम् ।। १८१
सूर्यप्रभस्तु सचिवैः सह वासगृहेऽपरे ।
निशि तस्यामपत्नीको न्यषीदच्छयनीयके ।। १८२
निःस्नेहेन किमेतेन स्वप्रियास्त्यजता बहिः ।
इतीव निद्रा स्त्रीनित्यस्यैकस्याप्यस्य नाययौ ।। १८३
प्रहस्तस्य च सेर्ष्येव कार्यचिन्तैकसङ्गिनः ।
अन्ये तु परितः सूर्यप्रभं निद्रां ययुः सुखम् ।। १८४
तावत्सूर्यप्रभः सोऽत्र प्रहस्तश्च सखीयुताम् ।
प्रविशन्तीं ददृशतुर्वरकन्यामनुत्तमाम् ।। १८५
मा भूत्सुराङ्गना सर्गो विच्छायोऽस्याः पुरो मम ।
इत्युत्पाद्यापि विधिना पाताले स्थापितामिव ।। १८६
सूर्यप्रभश्च केयं स्यादिति यावद्विमर्शति ।
तावत्सा तत्सखीनेत्य सुप्तानेकैकमैक्षत ।। १८७
अचक्रवर्तिचिह्नांस्तान्हित्वा तल्लक्षणान्वितम् ।
दृष्ट्वा सूर्यप्रभं सा तमुपागान्मध्यशायिनम् ।। १८८
उवाच च सखीं सोऽयं सखि तत्स्पृश पादयोः ।
एतां तोयसुशीताभ्यां कराभ्यां प्रतिबोधय ।। १८९
तच्छ्रुत्वा तत्सखी सा तत्तथा चक्रे स चेक्षणे ।
सूर्यप्रभो व्याजसुप्तं विहाय प्रोदघाटयत् ।। १९०
वीक्ष्य चोवाच कन्ये ते के युवां किमिहागमः ।
भवत्योरिति तच्छ्रुत्वा तत्सखी तमभाषत ।। १९१
शृणु देवास्ति पाताले द्वितीयेऽधिपतिर्जयी ।
अमील इति दैत्येन्द्रो हिरण्याक्षसुतो बली ।। १९२
कलावतीति तस्यैषा प्राणेभ्योऽप्यधिका सुता ।
स इतोऽद्य बलेः पार्श्वादागत्यैतत्पिताब्रवीत् ।। १९३
दिष्ट्याद्य जीवितं प्राप्तः सुनीथः पुनरीक्षितः ।
सुमुण्डीकावतारश्च दृष्टः सूर्यप्रभो युवा ।। १९४
सृष्टः खेचरसच्चक्रवर्ती भावी हरेण यः ।
तदिहानन्दसंमानं सुनीथस्य करोम्यहम् ।। १९५
सुतां सूर्यप्रभायैतां प्रयच्छामि कलावतीम् ।
सुनीथस्यैकगोत्रत्वाद्दातुं चैषा न युज्यते ।। १९६
सूर्यप्रभश्च पुत्रोऽस्य राजजन्मनि नासुरे ।
तत्सुतस्य च संमानः कृतस्तस्य कृतो भवेत् ।। १९७
एतत्पितुर्वचः श्रुत्वा त्वद्गुणाकृष्टमानसा ।
मत्सखीयमिहायाता त्वद्दर्शनकुतूहलात् ।। १९८
एवं तयोक्ते तत्सख्या निद्राति स्म मृषैव सः ।
तदभिप्रायतात्पर्यं ज्ञातुं सूर्यप्रभस्तदा ।। १९९
साथ कन्या विनिद्रस्य प्रहस्तस्यान्तिकं शनैः ।
गत्वा सखीमुखेनोक्त्वा सर्वमस्मै बहिर्ययौ ।। २००
प्रहस्तश्चाप्युपागत्य देव जागर्षि किं न वा ।
इति सूर्यप्रभं स्माह स चोन्मिष्य तमभ्यधात् ।। २०१
सखे जागर्मि निद्रा हि ममाद्यैकाकिनः कुतः ।
विशेषं तु वदाम्येवं शृणु गोप्यं हि किं त्वयि ।। २०२
अधुनैव प्रविष्टेह मया दृष्टा सखीयुता ।
कन्यकैका समा यस्यास्त्रैलोक्येऽपि न दृश्यते ।। २०३
क्षणेन च गता क्वापि हृत्वैव मम मानसम् ।
तद्गवेषय सद्यस्तामिहैव क्वचन स्थिताम् ।। २०४
इति सूर्यप्रभेणोक्तः प्रहस्तोऽथ बहिर्गतः ।
दृष्ट्वात्र तां समं सख्या स्थितां कन्यामभाषत ।। २०५
मया त्वदुपरोधेन स्वस्वाम्येष विबोधितः ।
तत्त्वं मदुपरोधेन पुनर्देह्यस्य दर्शनम् ।। २०६
पश्यास्य रूपं भूयोऽपि कृतार्थकरणं दृशोः ।
तव पश्यतु चैषोऽपि दृष्टिमात्रवशीकृतः ।। २०७
प्रबुद्धेन ह्यनेनाहमुक्तः कृत्वा भवत्कथाम् ।
कुतोऽपि दर्शयानीय तां मे प्राणिमि नान्यथा ।। २०८
ततोऽहं त्वामुपायातस्तदेह्यालोकय स्वयम् ।
इति प्रहस्तेनोक्ता सा कन्यासुलभया ह्रिया ।। २०९
प्रसह्य नाशकद्गन्तुं विमृशन्ती यदा तदा ।
हस्ते गृहीत्वा नीताभूत्तेन सूर्यप्रभान्तिकम् ।। २१०
सूर्यप्रभश्च तां दृष्ट्वा पार्श्वायातां कलावतीम् ।
उवाच चण्डि युक्तं ते किमेतद्यदिहाद्य मे ।। २११
त्वया सुप्तस्य चौर्येण प्रविश्य हृदयं हृतम् ।
तदिहानिगृहीता त्वं चौरि न त्यक्ष्यसे मया ।। २१२
एतच्छ्रुत्वा विदग्धा सा तत्सखी व्याजहार तम् ।
पूर्वं ज्ञात्वैव पित्रैव चौरीयं निग्रहाय ते ।। २१३
निश्चितार्पयितुं यस्मात्तस्मात्कस्ते निषेधकः ।
अस्याश्चौर्योचितं कामं निग्रहं न करोषि किम् ।। २१४
तच्छ्रुत्वालिङ्गितुं सूर्यप्रभे वाञ्छति सत्रपा ।
मा मार्यपुत्र कन्यास्मीत्यवोचत्सा कलावती ।। २१५
ततः प्रहस्तोऽवादीत्तां मा विकल्पोऽस्तु देवि ते ।
गान्धर्वो ह्येष सर्वेषां विवाहानामिहोत्तमः ।। २१६
इत्युक्त्वैव समं सर्वैः प्रहस्ते निर्गते बहिः ।
सूर्यप्रभस्तदैवैतां भार्यां चक्रे कलावतीम् ।। २१७
तया सह च पातालकन्यया मर्त्यदुर्लभम् ।
भेजे सुरतसंभोगमचिन्त्यनवसंगमम् ।। २१८
रात्र्यन्ते च कलावत्यां गतायां वसतिं निजाम् ।
सूर्यप्रभः सुनीथस्य ययौ पार्श्वं मयस्य च ।। २१९
ते मिलित्वाथ सर्वेऽपि प्रह्लादस्यान्तिकं ययुः ।
स तान्यथार्हं संमान्य सभास्थो मयमब्रवीत् ।। २२०
सुनीथस्योत्सवेऽमुष्मिन्प्रियं कर्तव्यमेव नः ।
तदद्य यावत्सर्वेऽपि वयमेकत्र भुञ्ज्महे ।। २२१
एवं कुर्मोऽत्र को दोष इत्युक्ते च मयेन सः ।
दूतैर्निमन्त्रयामास प्रह्लादोऽत्रासुराधिपान् ।। २२२
आययुश्चात्र सर्वेभ्यः पातालेभ्यः क्रमेण ते ।
पूर्वमागाद्बली राजा सहासंख्यैर्महासुरैः ।। २२३
अनन्तरममीलश्च दुरारोहश्च वीर्यवान् ।
सुमायस्तन्तुकच्छश्च विकटाक्षः प्रकम्पनः ।। २२४
धूमकेतुर्महामायो ये चान्येऽप्यसुरेश्वराः ।
एकैको निजसामन्तसहस्रेणाययौ वृतः ।। २२५
अपूर्यत सभा तैश्च विहितान्योन्यवन्दनैः ।
यथाक्रमोपविष्टांश्च प्रह्लादस्तानमानयत् ।। २२६
प्राप्ते चाहारकाले ते सर्वे सह मयादिभिः ।
गङ्गास्नाताः समाजग्मुर्भोजनाय महासभाम् ।। २२७
शतयोजनविस्तीर्णां सुवर्णमणिकुट्टिमाम् ।
रत्नस्तम्भचितां न्यस्तविचित्रमणिभाजनाम् ।। २२८
तत्र प्रह्लादसहिताः ससुनीथमयाश्च ते ।
सूर्यप्रभेण सचिवैर्युक्तेन च सहासुरः ।। २२९
तत्तन्नानाविधं भक्ष्यभोज्यलेह्मादि षड्रसम् ।
दिव्यमन्नं बुभुजिरे पपुः पानमथोत्तमम् ।। २३०
भुक्तपीताश्च गत्वान्यत्सर्वे रत्नमयं सदः ।
दैत्यदानवकन्यानां ददृशुर्नृत्तमुत्तमम् ।। २३१
तत्प्रसङ्गे ददर्शात्र प्रनृत्तां पितुराज्ञया ।
प्रह्लादस्य सुतां सूर्यप्रभो नाम्ना महल्लिकाम् ।। २३२
द्योतयन्तीं दिशः कान्त्या वर्षन्तीममृतं दृशोः ।
कौतुकादिव पातालमागतां मूर्तिमैन्दवीम् ।। २३३
ललाटतिलकोपेतां चारुसुरपादिकाम् ।
स्मेरदृष्टिं विधात्रैव सृष्टां नृत्तमयीमिव ।। २३४
केशैररालैर्दशनैः शिखरैर्बिभ्रतीं स्तनौ ।
उरोमण्डलिनौ नृत्तं सृजतीमिव नूतनम् ।। २३५
दृष्ट्वैव च तदा चण्डी तस्य सूर्यप्रभस्य सा ।
अपि स्वीकृतमन्याभिर्जहार हृदयं हठात् ।। २३६
ततः साप्यसुरेन्द्राणां मध्ये दूराद्ददर्श तम् ।
हरदग्धे स्मरे सृष्टं धात्राऽपरमिव स्मरम् ।। २३७
दृष्ट्वैव तद्गतमनास्तथाभूदचलद्यथा ।
आङ्गिकोऽभिनयोऽप्यस्या दृष्ट्वैवाविनयं रुषा ।। २३८
सभास्थाश्च तयोर्भावं तं द्वयोरप्यलक्षयन् ।
प्रेक्षणं चोपसंजह्रुः श्रान्ता राजसुतेति ते ।। २३९
ततः सूर्यप्रभं तिर्यक्पश्यन्ती सा महल्लिका ।
पित्रा विसृष्टा वन्दित्वा दानवेन्द्रानगाद्गृहम् ।। २४०
दानवेन्द्राश्च ते सर्वे यथास्वमगमन्गृहान् ।
सूर्यप्रभोऽपि स्वावासमाजगाम दिनक्षये ।। २४१
प्रदोषे च कलावत्या पुनरागतया सह ।
सुष्वापाभ्यन्तरे गुप्तं बहिः सुप्ताखिलानुगः ।। २४२
तावन्महल्लिका सापि तत्संदर्शनसोत्सुका ।
तत्राययौ सविस्रम्भवयस्याद्वयसंगता ।। २४३
अन्तः प्रवेष्टुमिच्छन्तीं प्रज्ञाढ्याख्यो ददर्श ताम् ।
सूर्यप्रभस्य सचिवो निद्रया तत्क्षणोज्झितः ।। २४४
देवि तिष्ठ क्षणं यावत्प्रविश्याभ्यन्तरादहम् ।
निर्गच्छामीति स च तां परिज्ञायोत्थितोऽभ्यधात् ।। २४५
रुद्धाः स्मः किं बहिः कस्माद्यूयं चेति सशङ्कया ।
तया पृष्टः स भूयोऽपि प्रज्ञाढ्यो निजगाद ताम् ।।२४६
स्वैरं सुप्तस्य सहसैवान्तिकं किं प्रविश्यते ।
सुप्तश्चास्मत्प्रभुरसावेको व्रतवशादिति ।। २४७
ततस्तया विशस्व त्वमित्युक्तः सविलक्षया ।
प्रह्लाददैत्यसुतया प्रज्ञाढ्योऽन्तर्विवेश सः ।। २४८
सुप्तां कलावतीं दृष्ट्वा तस्मै सूर्यप्रभाय सः ।
प्रबोध्य स्वैरमाचख्यावागतां तां महल्लिकाम् ।। २४९
सूर्यप्रभश्च बुद्ध्वा तच्छनैरुत्थाय निर्गतः ।
दृष्ट्वा महल्लिकामात्मतृतीयामप्यभाषत ।। २५०
नीतः कृतार्थतां तावदयमभ्यागतो जनः ।
नीयतां स्थानमप्येतदासनं परिगृह्यताम् ।। २५१
तच्छ्रुत्वोपविवेशाथ सहान्याभ्यां महल्लिका ।
सूर्यप्रभोऽप्युपाविक्षत्स प्रज्ञाढ्ययुतस्ततः ।। २५२
उपविश्य स चोवाच तन्वि यद्यपि मे कृता ।
त्वयावज्ञा सदस्यन्या प्रेक्ष्यान्ते वर्धमानया ।। २५३
तथापि तावल्लोलाक्षि दृष्टमात्रेण मे तव ।
सौन्दर्येणेव नृत्तेन लोचने सफलीकृते ।। २५४
इति सूर्यप्रभेणोक्ता सा प्रह्लादसुताब्रवीत् ।
नार्यपुत्रापराधोऽसौ मम सोऽत्रापराध्यति ।। २५५
येनाहं संसदि कृता भग्नाभिनयलज्जिता ।
एतच्छ्रुत्वा जितोऽस्मीति हसन्सूर्यप्रभोऽब्रवीत् ।। २५६
जग्राह च करेणास्याः करं राजसुतोऽथ सः ।
बलात्कारग्रहाद्भीतमिव सस्वेदवेपथुम् ।। २५७
मुञ्चार्यपुत्र कन्याहं पितृवश्येति वादिनीम् ।
ततोऽसुरेन्द्रतनयां प्रज्ञाढ्यस्तामुवाच सः ।। २५८
कन्यानां किं न गान्धर्वो विवाहो देवि विद्यते ।
न च प्रदास्यत्यन्यस्मै पिता त्वां लक्षिताशयः ।। २५९
एतस्य चात्र संमानं निश्चितं स करिष्यति ।
तदलं साध्वसेनेदृग्वृथा मा भूत्समागमः ।। २६०
एवं महल्लिकां यावत्प्रज्ञाढ्यस्तां ब्रवीति सः ।
तावत्साभ्यन्तरे तत्र प्रबुद्धाभूत्कलाबती ।। २६१
अपश्यन्ती च तं सूर्यप्रभं सा शयनीयके ।
प्रतीक्ष्य किंचिदुद्विग्नशङ्किता निरगाद्बहिः ।। २६२
दृष्ट्वा महल्लिकोपेतं तं चात्र निजवल्लभम् ।
सकोपा च सलज्जा च सभया च बभूव सा ।। २६३
महल्लिकापि दृष्ट्वैव तामासीद्भीतलज्जिता ।
सूर्यप्रभश्च निःस्पन्दस्तस्थावालिखितो यथा ।। २६४
दृष्टा कथं पलायेऽहं जिह्रेमीर्ष्यामि वा यदि ।
इति तत्पार्श्वमेवागात्कलावत्यपि सा ततः ।। २६५
कुशलं सखि कुत्र त्वमागतैवमितो निशि ।
एवं महल्लिकां तां च साभ्यसूयमुवाच सा ।। २६६
ततो महल्लिकावोचन्ममैतद्गृहमत्र तु ।
त्वमन्यपातालगृहात्प्राप्ता प्राघुणिकाद्य मे ।। २६७
तच्छ्रुत्वा सा विहस्यैतां कलावत्येवमब्रवीत् ।
सत्यं दृश्यत एवेदं यत्त्वं सर्वस्य कस्यचित् ।। २६८
करोषीहागतस्यैव प्राघुणातिथ्यसत्क्रियाम् ।
एवमुक्ते कलावत्या सा जगाद महल्लिका ।। २६९
यदि प्रीत्या मयोक्ता त्वं तत्किं सद्वेषनिष्ठुरम् ।
एवं वदसि निर्लज्जे किमहं सदृशी तव ।। २७०
किमहं बान्धवादत्ता दूरादेत्य परस्थले ।
परस्य शयने सुप्ता रहस्येकाकिनी निशि ।। २७१
अह पितुः प्राघुणिकं स्वस्थाने द्रष्टुमागता ।
आतिथ्येनाधुनैवैषा सखीद्वितयसंगता ।। २७२
यदास्मान्विप्रलभ्यादावसौ मन्त्री प्रविष्टवान् ।
तदैवैतन्मया ज्ञातं त्वया व्यक्तीकृतं स्वतः ।। २७३
एवं महल्लिकोक्ता सा कलावत्यगमत्ततः ।
तिर्यक्कोपकषायेण पश्यन्ती चक्षुषा प्रियम् ।। २७४
ततो महल्लिका सापि बहुवल्लभ याम्यहम् ।
संप्रतीति रुषा सूर्यप्रभमुक्त्वा ततो ययौ ।। २७५
सूर्यप्रभश्च विमना युक्तं यदभवत्तदा ।
कान्ताभ्यां हि समं तस्य तदासक्तं मनो गतम् ।। २७६
अथ ज्ञातुं कलावत्याः कलहान्तरचेष्टितम् ।
प्राहिणोद्द्रुतमुत्थाप्य प्रभासं स स्वमन्त्रिणम् ।। २७७
महल्लिकायास्तद्वच्च प्रहस्तं स विसृष्टवान् ।
स्वयं च तत्प्रतीक्षः सन्नासीत्प्रज्ञाढ्यसंयुतः ।। २७८
अथान्विष्य कलावत्याश्चेष्टितं स समाययौ ।
प्रभासो निकटं तस्य पृष्टश्चैवमुवाच तम् ।। २७९
इतो द्वितीयपातालवर्ति तद्गतवानहम् ।
वासवेश्म कलावत्याः स्वविद्याच्छादितात्मकः ।। २८०
बहिस्तत्र द्वयोश्चेट्योरालापश्च श्रुतो मया ।
एकाब्रवीत्सखि किमद्योद्विग्नास्ते कलावती ।। २८१
ततो द्वितीयाप्यवदत्सखि शृण्वत्र कारणम् ।
सुमुण्डीकावतारो हि चतुर्थेऽद्य रसातले ।। २८२
स्थितः सूर्यप्रभो नाम रूपेण जितमन्मथः ।
तस्मै गत्वा स्वयं गुप्तमात्मा दत्तः किलैतया ।। २८३
गतायामद्य चैतस्या तत्सकाशं निशागमे ।
प्रह्लाददुहिताप्यागात्स्वयं तत्र महल्लिका ।। २८४
तया सहेर्ष्याकलहं कृत्वा सत्यात्मघातने ।
उद्यतैषा सुखावत्या स्वस्रा दृष्ट्वैव रक्षिता ।। २८५
ततश्चान्तः प्रविश्यैव निपत्य शयनीयके ।
स्थिता तया सह स्वस्रा पृष्टवृत्तान्तविग्नया ।। २८६
एवं चेट्योः कथां श्रुत्वा प्रविश्यात्र तथैव ते ।
कलावतीसुखावत्यौ दृष्टे तुल्याकृती मया ।। २८७
इति प्रभासो यावत्तं वक्ति सूर्यप्रभं रहः ।
तावत्प्रहस्तोऽप्यत्रागात्पुष्टः सोऽप्यब्रवीदिदम् ।। २८८
इतो महल्लिकावासगृहं यावदहं गतः ।
तावत्तत्र प्रविष्टा सा सखीभ्यां सह दुर्मनाः ।। २८९
अहं तत्रैव चादृश्यो विद्यायुक्त्या प्रविष्टवान् ।
दृष्टा मयात्र तस्याश्च सख्यो द्वादश तत्समाः ।। २९०
ताश्च सद्रत्नपर्यङ्कनिषण्णां परिवृत्य ताम् ।
महल्लिकामुपाविक्षन्नेका चोवाच तां ततः ।। २९१
सखि कस्मादकस्मात्त्वमुद्विग्नेवाद्य दृश्यसे ।
विवाहे प्रस्तुतेऽप्येषा बत का ते विषादिता ।। २९२
तच्छ्रुत्वा सविमर्शा सा तां प्रह्लादसुताब्रवीत् ।
को मे विवाहो दत्तास्मि कस्मै केनोदितं तव ।। २९३
एवं तयोक्ते सर्वास्ता जगदुर्निश्चितं तव ।
प्रातर्विवाहो दत्तासि सखि सूर्यप्रभाय च ।। २९४
त्वज्जनन्या च देव्यैतदद्योक्तं त्वदसंनिधौ ।
अस्मान्नियोजयन्त्या ते कौतुकप्रतिकर्मणि ।। २९५
तद्धन्यासि च यस्यास्ते भावी सूर्यप्रभः पतिः ।
यद्रूपलुब्धो निद्राति निशि नेहाङ्गनाजनः ।। २९६
अस्माकं तु विषादोऽयं क्वेदानीं त्वं वयं क्व च ।
तस्मिन्हि भर्तरि प्राप्ते त्वमस्मान्विस्मरिष्यसि ।। २९७
एतन्महल्लिका तासां मुखाच्छ्रुत्वा जगाद सा ।
कच्चित्स दृष्टो युष्माभिर्मनस्तस्मिन्गतं च वः ।। २९८
तच्छ्रुत्वा तामवोचंस्ता हर्म्यात्सोऽस्माभिरीक्षितः ।
का च सा स्त्री मनो यस्या न स दृष्टो हरेदिति ।। २९९
ततः साप्यवदत्तर्हि तातं वक्ष्याम्यहं तथा ।
युष्मानप्यखिलास्तस्मै दापयिष्याम्यमूर्यथा ।। ३००
इत्थमन्योन्यविरहो न स्यान्नः सहवासतः ।
इति ब्रुवाणां कन्यास्ताः संभ्रान्ताः संबभाषिरे ।। ३०१
सखि मैवं कृथा नैतद्युक्तमेषा त्रपा हि नः ।
एवमुक्तवतीरेताः सा जगादासुरेन्द्रजा ।। ३०२
किमयुक्तं न तेनैका परिणेयाहमेव हि ।
तस्मै सर्वेऽपि दास्यन्ति दुहितॄर्दैत्यदानवाः ।। ३०३
अन्याश्च राजतनयास्तस्योदूढा भुवि स्थिताः ।
परिणेष्यति बह्वीश्च स विद्याधरकन्यकाः ।। ३०४
तन्मध्ये परिणीतासु युष्मासु मम का क्षतिः ।
सुखं प्रत्युत वत्स्यामो वयं सख्यः परस्परम् ।। ३०५
अन्याभिस्तु विरुद्धाभिः कस्ताभिः संस्तवो मम ।
युष्माकं च त्रपा कात्र सर्वमेतत्करोम्यहम् ।। ३०६
इति तासां कथा यावद्वर्तते त्वद्गतात्मनाम् ।
तावत्ततोऽहं निर्गत्य स्वैरं त्वत्पार्श्वमागतः ।। ३०७
एतत्प्रहस्तस्य मुखाच्छ्रुत्वा सूर्यप्रभोऽत्र सः ।
अनिद्र एव शयने तां निशामनयन्मुदा ।। ३०८
प्रातः सह सुनीथेन मयेन सचिवैश्च सः ।
असुराधिपतिं द्रष्टुं प्रह्लादं तत्सभां ययौ ।। ३०९
सुनीथं तत्र स प्राह प्रह्लादो दर्शितादरः ।
सुतां सूर्यप्रभायाहं ददाम्यस्मै महल्लिकाम् ।। ३१०
अस्य हि प्राघुणातिथ्यं कार्यं मे तव च प्रियम् ।
एतत्प्रह्लादवचनं सुनीथोऽभिननन्द सः ।। ३११
ततो वेदीं समारोप्य मध्यज्वलितपावकाम् ।
तत्प्रभाभ्राजितोदग्ररत्नस्तम्भावभासिताम् ।। ३१२
महल्लिकां तां स्वसुतां प्रादात्सूर्यप्रभाय सः ।
प्रह्लादोऽसुरसाम्राज्यसदृशीभिर्विभूतिभिः ।। ३१३
ददौ सद्रत्नराशींश्च स दुहित्रे वराय च ।
त्रिदशावजयानीतान्सुमेरुशिखरोपमान् ।। ३१४
तात ता अपि देह्यस्मै सखीर्मे द्वादश प्रियाः ।
एवं महल्लिका स्वैरं प्रह्लादं सा तदाब्रवीत् ।। ३१५
पुत्रि मद्भ्रात्रधीनास्तास्तेन वन्दीकृता यतः ।
मम दातुं न युज्यन्त इति सोऽपि जगाद ताम् ।। ३१६
कृतोद्वाहोत्सवश्चास्मिन्याते सूर्यप्रभो दिने ।
विवेश वासकं नक्तं स महल्लिकया सह ।। ३१७
सर्वकामोपचाराढ्यं तत्र तं सुरतोत्सवम् ।
अनया समनःप्रीतिसौख्यं सोऽनुबभूव च ।। ३१८
प्रातर्गते च प्रह्लादे सभां तस्मिन्सहानुगे ।
अमीलो दानवाधीशः प्रह्लादादीनभाषत ।। ३१९
अद्य युष्माभिरखिलैरागन्तव्यं गृहे मम ।
तत्रातिथ्यं यतः सूर्यप्रभस्यास्य करोम्यहम् ।। ३२०
सुतां कलावती तस्मै ददामि यदि वो हितम् ।
एतत्तद्वचनं सर्वे तथेति प्रतिपेदिरे ।। ३२१
ततो द्वितीयं पातालं तस्मिन्नेव क्षणे च ते ।
सर्वे जग्मुः समं सूर्यप्रभेण समयादिना ।। ३२२
तत्रामीलो ददौ तस्मै सुतां सूर्यप्रभाय ताम् ।
कलावतीं प्रक्रियया दत्तात्मानमपि स्वयम् ।। ३२३
कृत्वा विवाहं प्रह्लादगृहे भुक्त्वासुरान्वितः ।
निन्ये भोगोपचारेण दिनं सूर्यप्रभोऽत्र तत् ।। ३२४
द्वितीयेऽह्नि तथैवैतान्दुरारोहोऽसुरेश्वरः ।
निमन्त्र्य सर्वाननयत्पञ्चमं स्वरसातलम् ।। ३२५
तत्र सूर्यप्रभाय स्वां नाम्ना स कुमुदावतीम् ।
प्रादादन्यवदातिथ्यहेतोर्विधिवदात्मजाम् ।। ३२६
ततः सर्वैः समेतस्तैर्भोगैर्नीत्वा दिनं स तत् ।
वासकं कुमुदावत्या भेजे सूर्यप्रभो निशि ।। ३२७
तत्र त्रिलोकसुन्दर्या नवसंगमसोत्कया ।
स स्निग्धमुग्धया साकं तया रात्रिमुवास ताम् ।। ३२८
प्रातश्च तन्तुकच्छेन प्रह्लादप्रमुखैर्वृतः ।
निमन्त्र्य सप्तमं निन्ये पातालं स स्वमन्दिरम् ।। ३२९
तत्रासुरपतिः सोऽस्मै सुतां नाम्ना मनोवतीम् ।
ददौ सरत्नाभरणां तप्तजाम्बूनदद्युतिम् ।। ३३०
ततः सूर्यप्रभः सोऽत्र नीत्वाधिकसुखं दिनम् ।
मनोवतीनवाश्लेषसुखिनीमनयन्निशाम् ।। ३३१
अपरेद्युश्च तं सर्वयुक्तं कृतनिमन्त्रणः ।
पातालमनयत्षष्ठं स्वं सुमायोऽसुराधिपः ।। ३३२
तत्र सोऽपि ददौ तस्मै सुभद्रां नाम कन्यकाम् ।
दूर्वालताश्यामलाङ्गीं मूर्तिं पाञ्चशरीमिव ।। ३३३
तया सुरतसंभोगयोग्यया श्यामयात्र सः ।
सहासीत्तदहः सूर्यप्रभः पूर्णेन्दुवक्त्रया ।। ३३४
अन्येद्युश्च बली राजा तद्वदेव निनाय तम् ।
सूर्यप्रभं स्वपातालं तृतीयं सोऽसुरानुगः ।। ३३५
सोऽपि तत्र सुतां तस्मै सुन्दरीं नाम दत्तवान् ।
बालप्रवालसच्छायां माधवीमिव मञ्जरीम् ।। ३३६
स्त्रीरत्नेन समं तेन रेमे सूर्यप्रभोऽत्र सः ।
सुरञ्जितस्तद्दिवसं दिव्यभोगविभूषितम् ।। ३३७
अपरेऽहि मयः सोऽपि राजपुत्रं तथैव तम् ।
चतुर्थपातालगतं भूयोऽनैषीत्स्वमन्दिरम् ।। ३३८
विचित्ररत्नप्रासादं निजमायाविनिर्मितम् ।
नवं नवमिवाभासमानं लक्ष्म्या प्रतिक्षणम् ।। ३३९
तत्र सोऽपि ददौ तस्मै सुमायाख्यां निजां सुताम् ।
जगदाश्चर्यरूपां स्वां शक्तिं मूर्तिमतीमिव ।। ३४०
मानुषत्वाच्च तस्मै तां नैवादेयाममन्यत ।
सोऽपि रेमे तया साकमत्र सूर्यप्रभः कृती ।। ३४१
विद्याविभक्तदेहोऽथ सर्वाभिर्युगपत्सह ।
अरंस्तासुरकन्याभिस्ताभिः सह नृपात्मजः ।। ३४२
तात्त्विकेन तु देहेन भजते स्म स भूयसा ।
महल्लिकां प्रियतमां प्रह्लादासुरकन्यकाम् ।। ३४३
एकदा च निशि स्वैरं स्थितस्तां स महल्लिकाम् ।
एवं सूर्यप्रभोऽपृच्छदभिजातां कथान्तरे ।। ३४४
प्रिये रात्रौ सहायाते ये द्वे सख्यौ तदा तव ।
ते कुतस्त्ये न पश्यामि किं च ते क्व गते इति ।। ३४५
ततो महल्लिकावादीत्सुष्ठ्वहं स्मारिता त्वया ।
ते न द्वे एव ताः सन्ति वयस्या द्वादशेह मे ।। ३४६
मत्पितृव्येण च स्वर्गादानीता अपहृत्य ताः ।
एकामृतप्रभा नाम द्वितीया केशिनी तथा ।। ३४७
पर्वतस्य मुनेरेते तनये शुभलक्षणे ।
कालिन्दीति तृतीया च चतुर्थी भद्रिकेति च ।। ३४८
तथा दर्पकमालेति पञ्चमी चारुलोचना ।
एता महामुनेस्तिस्रो देवलस्यात्मसंभवाः ।। ३४९
षष्ठी सौदामनी नाम सप्तमी चोज्ज्वलाभिधा ।
एते हाहाभिधानस्य गन्धर्वस्य सुते उभे ।। ३५०
अष्टमी पीवरा नाम गन्धर्वस्य हुहोः सुता ।
नवम्यञ्जनिका नाम कालस्य दुहिता विभोः ।। ३५१
पिङ्गलाच्च गणाज्जाता दशमी केसरावली ।
एकादशी मालिनीति नाम्ना कम्बलनन्दिनी ।। ३५२
नाम्ना मन्दारमालेति द्वादशी वसुकन्यका ।
अप्सरःसु समुत्पन्नाः सर्वा दिव्यस्त्रियस्तु ताः ।। ३५३
पातालं प्रथमं नीतास्ताश्चोद्वाहे कृते मम ।
तुभ्यं मया च देयास्तास्तद्युक्ता स्यां सदा यथा ।। ३५४
प्रतिज्ञातं मया चैतत्तासां स्नेहो हि तासु मे ।
तातोऽप्युक्तो मया तेन न दत्ता भ्रात्रपेक्षिणा ।। ३५५
एतच्छ्रुत्वा सवैलक्षस्तां स सूर्यप्रभोऽब्रवीत् ।
प्रिये महानुभावा त्वमहं कुर्यां कथं त्विदम् ।। ३५६
एवं सूर्यप्रभेणोक्ता रुषावोचन्महल्लिका ।
मत्समक्षं वहस्यन्या मद्वयस्यास्तु नेच्छसि ।। ३५७
याभिर्वियुक्ता रज्येयं नाहमेकमपि क्षणम् ।
इत्युक्तस्तु तया सूर्यप्रभस्तुष्ट्यान्वमंस्त तत् ।। ३५८
ततस्तदेव पातालं नीत्वैव प्रथमं तया ।
प्रह्लादसुतया तस्मै प्रदत्ता द्वादशापि ताः ।। ३५९
अथामृतप्रभामुख्यास्ताः स सूर्यप्रभः क्रमात् ।
परिणीयोपभुङ्क्ते स्म तस्यां दिव्याङ्गना निशि ।। ३६०
प्रातश्च ताः प्रभासेन नाययित्वा रसातलम् ।
चतुर्थं स्थापयामास च्छन्नाः पृष्ट्वा महल्लिकाम् ।। ३६१
स्वयं चालक्षितः साकं तया तत्रैव सोऽगमत् ।
सभाजनाय च प्राग्वत्प्रह्लादस्य सभां ययौ ।। ३६२
तत्रासुरेन्द्रो वक्ति स्म तं सुनीथं मयं च सः ।
यात सर्वे दितिदनू द्रष्टुं देव्यावुभे इति ।। ३६३
तथेत्यथ रसातलात्सपदि निर्गतास्ते ततो यथास्वमसुरैः समं मयसुनीथसूर्यप्रभाः ।
विमानमनुचिन्तितं तदधिरुह्य भूतासनं सुमेरुगिरिसानुगं प्रययुराश्रमं काश्यपम् ।। ३६४
तत्र ते दितिदनू सह स्थिते सादरैर्मुनिजनैर्निवेदिताः ।
अभ्युपेत्य ददृशुः क्रमेण ते पादयोश्च शिरसा ववन्दिरे ।। ३६५
ते च तानसुरमातरावुभे सानुगान्समवलोक्य सादरे ।
साश्रु मूर्ध्नि परिचुम्ब्य समदादाशिषोऽनुपदमूचतुर्मयम् ।। ३६६
प्राप्तजीवितममुं तवात्मजं वीक्ष्य पुत्रक सुनीथमावयोः ।
चक्षुरद्य सफलत्वमागतं त्वां च पुण्यकृतमेव मन्महे ।। ३६७
सुमुण्डीकं चैतं कृतिनमिह सूर्यप्रभतया पुनर्जात दिव्याकृतिधरमसाधारणगुणम् ।
चितं भाविश्रेयः प्रथमपिशुनैर्लक्षणगुणैर्विलोक्यान्तस्तोषात्स्फुटमिह नमावः स्ववपुषि ।। ३६८
तच्छीघ्रमुत्तिष्ठत यात वत्साः प्रजापतिं द्रष्टुमिहार्यपुत्रम् ।
तद्दर्शनाद्वो भवितार्थसिद्धिः कार्यं च वस्तद्वचनं शिवाय ।। ३६९
इति ताभ्यामादिष्टा देवीभ्यां ते तथैव गत्वा तम् ।
कश्यपमुनिं मयाद्या ददृशुर्दिव्याश्रमे तत्र ।। ३७०
द्रुतशुद्धहाटकाभं तेजोमयमाश्रमे च देवानाम् ।
ज्वालाकपिलजटाधरमनलसमानं दुराधर्षम् ।। ३७१
उपगम्य च तस्य पादयोस्ते निपतन्ति स्म सहानुगैः क्रमेण ।
अथ सोऽपि मुहुः कृतोचिताशीः परितोषादुपवेश्य तानुवाच ।। ३७२
आनन्दः परमो ममैष यदमी दृष्टाः स्थ सर्वे सुताः
श्लाघ्यस्त्वं मय सत्पथादचलितो यः सर्वविद्यास्पदम् ।
धन्यस्त्वं च सुनीथ येन गतमप्याप्तं पुनर्जीवितं
त्वं सूर्यप्रभ पुण्यवांश्च भविता यः खेचराणां पतिः ।। ३७३
तद्धर्मे पथि वर्तितव्यमधुना बोद्धव्यमस्मद्वचो
भोक्ष्यध्वे सततं सुखानि परमामासाद्य येन श्रियम् ।
नैव स्याच्च पुरा यथा परिभवो भूयः परेभ्योऽत्र वो
धर्मातिक्रमिणोऽसुरा हि मुरजिच्चक्रस्य याता वशम् ।। ३७४
ये चासुरा देवहताः सुनीथ मर्त्यप्रवीरास्त इमेऽवतीर्णाः ।
योऽभूत्सुमुण्डीक इहानुजस्ते सूर्यप्रभः सैष किलाद्य जातः ।। ३७५
अन्येऽपि तेऽमी असुरा वयस्या अस्यैव जाताः खलु बान्धवाश्च ।
यः शम्बराख्यश्च महासुरोऽभूत्सैषोऽद्य जातः सचिवः प्रहस्तः ।। ३७६
यश्चासुरोऽभूत्त्रिशिरा स जातः सिद्धार्थनामा सचिवो मयस्य ।
वातापिरित्यास च दानवो यः प्रज्ञाढ्यनामास्य स एव मन्त्री ।। ३७७
उलूकनामा दनुजश्च योऽभूत्सोऽयं वयस्योऽस्य शुभंकराख्यः ।
योऽयं वयस्योऽस्य च वीतभीतिः स कालनामाप्यभवत्सुरारिः ।। ३७८
यश्चैष भासः सचिवोऽस्य सोऽयं दैत्योऽवतीर्णो वृषपर्वनामा ।
योऽयं प्रभासश्च स एष दैत्यो वत्सावतीर्णः प्रबलाभिधानः ।। ३७९
महात्मना रत्नमयेन येन देवैर्विपक्षैरपि याचितेन ।
कृत्वा शरीरं दलशोऽवतीर्णं रत्नानि जातान्यखिलानि यस्मात् ।। ३८०
तत्तोषतश्चण्डिकयास्य देव्या वरोऽन्यदेहानुगतः स दत्तः ।
येन प्रभासोऽद्य स एष जातो महाबलो दुष्प्रसहो रिपूणाम् ।। ३८१
यौ दानवावभूतां पूर्वं सुन्दोपसुन्दनामानौ ।
तावेतौ सर्वदमनभयंकरावस्य मन्त्रिणौ जातौ ।। ३८२
यश्च हयग्रीवाख्यो विकटाक्षश्चासुरावभूतां द्वौ ।
स्थिरबुद्धिमहाबुद्धी उत्पन्नावस्य ताविमौ सचिवौ ।। ३८३
अन्येऽप्यस्य य एते श्वशुराः सचिवादिबान्धवा ये च ।
तेऽप्यवतीर्णा असुरा यैरिन्द्राद्याः पुरा जिता बहुशः ।। ३८४
तद्युष्माकं पक्षः पुनरप्येवं क्रमाद्गतो वृद्धिम् ।
धीरा भवत समृद्धिं प्राप्स्यथ धर्मादविच्युताः परमाम् ।। ३८५
इति वदति कश्यपर्षौ दाक्षायण्यः किलास्य पत्न्योऽत्र ।
अदितिप्रमुखाः सर्वा माध्यंदिनसवनसमय आजग्मुः ।। ३८६
दत्त्वाशिषं मयादिषु नमत्सु भर्तुः कृताह्निकाज्ञासु ।
तास्वथ शक्रोऽत्रागात्सलोकपालोऽपि तं मुनिं द्रष्टुम् ।। ३८७
वन्दितसदारकश्यपमुनिचरणो वन्दितो मयाद्यैश्च ।
सोऽथ सरोषं पश्यन्सूर्यप्रभमुक्तवान्मयं शक्रः ।। ३८८
एषोऽर्भकः स जाने विद्याधरचक्रवर्तिताकामः ।
तदसौ स्वल्पेन कथं संतुष्टो नेन्द्रतां किमर्थयते ।। ३८९
तच्छ्रुत्वैव मयस्तं जगाद देवेश तत्त्वयीन्द्रत्वम् ।
परमेश्वरेण निर्मितमादिष्टं चास्य खेचरेशत्वम् ।। ३९०
इति मयवचनान्मघवा स तदा विहसन्नुवाच सामर्षः ।
अत्यल्पं हि तदस्याः सुलक्षणस्याकृतेरमुष्येति ।। ३९१
अथ स मयोऽप्यवदत्तं श्रुतशर्मा यत्र खेचरेन्द्रत्वे ।
योग्यस्तत्रासंशयमाकृतिरस्यायमर्हतीन्द्रत्वम् ।। ३९२
इत्युक्तवते तस्मै मयाय कुपितः स वज्रमुद्यम्य ।
मघवोत्तस्थौ कश्यपमुनिरकरोच्चाथ कोपहुंकारम् ।। ३९३
धिक्कारमुखरताम्रैर्वदनैः कोपं ययुश्च दित्याद्याः ।
तत इन्द्रः शापभयादुपाविशत्संहृतायुधोऽवनतः ।। ३९४
प्रणिपत्य पादयोरथ दारयुतं तं सुरासुरप्रभवम् ।
कश्यपमुनिं प्रसाद्य च विज्ञापितवान्कृताञ्जलिः शक्रः ।। ३९५
श्रुतशर्मणे मया यद्भगवन्विद्याधराधिराजत्वम् ।
दत्तं तदेष हर्तुं सूर्यप्रभ उद्यतोऽधुना तस्य ।। ३९६
एष च सर्वाकारं मयोऽस्य तत्साधने कृतोद्योगः ।
तच्छ्रुत्वा स तमिन्द्रं दितिदनुसहितः प्रजापतिरवोचत् ।। ३९७
इष्टस्ते श्रुतशर्मा मघवन्सूर्यप्रभश्च शर्वस्य ।
न च तस्येच्छामि तथा तेनाज्ञप्तश्च पूर्वमत्र मयः ।। ३९८
तत्त्वं मयस्य किं खलु जल्पसि कथयात्र कोऽपराधोऽस्य ।
एष हि धर्मपथस्थो ज्ञानी विज्ञानवान्गुरुप्रणतः ।। ३९९
भस्माकरिष्यदस्मत्कोधाग्निस्त्वामघं व्यधास्यश्चेत् ।
न च शक्तस्त्वमिमं प्रति प्रभावमेतस्य किं न जानासि ।। ४००
इति मुनिनात्र सदारेणोक्ते लज्जाभयानते चेन्द्रे ।
अदितिरुवाच स कीदृक्श्रुतशर्मा दर्श्यतामिहानीय ।। ४०१
एतन्निशम्य शक्रो मातलिमादिश्य तत्क्षणं तत्र ।
आनाययति स्म स तं श्रुतशर्माणं नभश्चराधीशम् ।। ४०२
तं दृष्ट्वा कृतविनतिं वीक्ष्य च सूर्यप्रभं तमप्राक्षुः ।
कश्यपमुनिं स्वभार्याः क एतयो रूपलक्षणाढ्य इति ।। ४०३
अथ स मुनीन्द्रोऽवादीच्छ्रुतशर्मास्यापि न प्रभासस्य ।
एतत्सचिवस्य समः किं पुनरेतस्य निरुपमानस्य ।। ४०४
सूर्यप्रभ एष यतो दिव्यैस्तै रूपलक्षणैर्युक्तः ।
यैरस्याध्यवसायं विदधानस्येन्द्रतापि नासुलभा ।। ४०५
इति कश्यपर्षिवचनं सर्वेऽपि श्रद्दधुस्तथेत्यत्र ।
तत एष मयाय वरं ददौ मुनिः शृण्वतो महेन्द्रस्य ।। ४०६
यत्पुत्र निर्विकारं भवता स्थितमुद्यतायुधेऽपीन्द्रे ।
तेनाजरामरोऽङ्गैर्वज्रमयैरक्षतश्च भवितासि ।। ४०७
एतावपि ते सदृशौ सुनीथसूर्यप्रभौ महासत्त्वौ ।
शश्वदपरिभवनीयौ भविष्यतः सकलवैरिवर्गस्य ।। ४०८
एष सुवासकुमारश्चापद्रजनीषु चिन्तितोपगतः ।
साहायकं करिष्यति मत्तनयः शरदिजेन्दुसमकान्तिः ।। ४०९
इत्युक्तवतोऽस्य मुनेर्भार्या ऋषयश्च लोकपालाश्च ।
सदसि मयप्रभृतिभ्यस्तेभ्यः सर्वे वरान्ददुस्तद्वत् ।। ४१०
अदितिरथ शक्रमवदद्विरमाविनयात्प्रसादयेन्द्र मयम् ।
दृष्टं विनयफलं हि त्वयाद्य यदनेन सद्वराः प्राप्ताः ।। ४११
तच्छ्रुत्वा मयमिन्द्रः पाणावालम्ब्य तोषयामास ।
सूर्यप्रभाभिभूतः श्रुतशर्मा चाभवद्दिनेन्दुनिभः ।। ४१२
प्रणम्य तमथ क्षणात्सुरपतिर्गुरुं कश्यपं जगाम स यथागतं निखिललोकपालान्वितः ।
मयप्रभृतयोऽपि ते मुनिवरस्य तस्याज्ञया ततः खलु तदाश्रमात्प्रकृतकार्यसिद्ध्यै ययुः ।। ४१३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके द्वितीयस्तरङ्गः ।