कथासरित्सागरः/लम्बकः ६/तरङ्गः ७

विकिस्रोतः तः
Jump to navigation Jump to search

ततः सोमप्रभां यातां स्मरन्ती तां प्रियां सखीम् ।
कलिङ्गसेना संत्यक्तनिजदेशस्वबान्धवा ।। १
सा विलम्बितवत्सेशपाणिग्रहमहोत्सवा ।
नरेन्द्रकन्या कौशाम्ब्यां मृगीवासीद्वनच्युता ।। २
कलिङ्गसेनाविवाहविलम्बनविचक्षणान् ।
गणकान्प्रति सासूय इव वत्सेश्वरोऽपि च ।। ३
औत्सुक्यविमनास्तस्मिन्दिने चेतो विनोदयन् ।
देव्या वासवदत्ताया निवासभवनं ययौ ।। ४
तत्र सा तं पतिं देवी निर्विकारा विशेषतः ।
उपाचरत्स्वोपचारैः प्राङ्मन्त्रिवरशिक्षिता ।। ५५
कलिङ्गसेनावृत्तान्ते ख्यातेऽप्यविकृता कथम् ।
देवीयमिति स ध्यात्वा राजा जिज्ञासुराह ताम् ।। ६
कच्चिदेवि त्वया ज्ञातं स्वयंवरकृते मम ।
कलिङ्गसेना नामैषा राजपुत्री यदागता ।। ७
तच्छ्रुत्वैवाविभिन्नेन मुखरागेण साब्रवीत् ।
ज्ञातं मयातिहर्षो मे लक्ष्मीः सा ह्यागतेह नः ।। ८
वशगे हि महाराजे तत्प्राप्त्या तत्पितर्यपि ।
कलिङ्गदत्ते पृथ्वी ते सुतरां वर्तते वशे ।। ९
अहं च त्वद्विभूत्यैव सुखिता त्वत्सुखेन च ।
आर्यपुत्र तवैतच्च विदितं प्रागपि स्थितम् ।। १०
तन्न धन्यास्मि किं यस्मा मम भर्ता त्वमीदृशः ।
यं राजकन्या वाञ्छन्ति वाञ्छयमाना नृपान्तरैः ।। ११
एवं वत्सेश्वरः प्रोक्तो देव्या वासवदत्तया ।
यौगन्धरायणप्रत्तशिक्षयान्तस्तुतोष सः ।। १२
तयैव च सहासेव्य पानं तद्वासके निशि ।
तस्यां सुष्वाप मध्ये च प्रबुद्धः समचिन्तयत् ।। १३
किंस्विन्महानुभावेत्थं देवी मामनुवर्तते ।
कलिङ्गसेनामपि यत्सपत्नीमनुमन्यते ।। १४
कथं वा शक्नुयादेतां सोढं सैषा तपस्विनी ।
पद्मावतीविवाहेऽपि या देवान्न जहावसून् ।। १५
तदस्याश्चेदनिष्टं स्यात्सर्वनाशस्ततो भवेत् ।
एतदालम्बनाः पुत्रश्वशुर्यश्वशुराश्च मे ।। १६
पद्मावती च राज्यं च किमभ्यधिकमुच्यते ।
अतः कलिङ्गसेनैषा परिणेया कथं मया ।। १७
एवमालोच्य वत्सेशो निशान्ते निर्गतस्ततः ।
अपराह्णे ययौ देव्याः पद्मावत्याः स मन्दिरम् ।। १८
साप्येनमागतं दत्तशिक्षा वासवदत्तया ।
तथैवोपाचरत्तद्वत्पृष्टावोचत्तथैव च ।। १९
ततोऽन्येद्युस्तयोर्देव्योरेकं चित्तं वचश्च तत् ।
यौगन्धरायणायासौ शशंस विमृशन्नृपः ।। २०
सोऽपि तं वीक्ष्य राजानं विचारपतितं शनैः ।
कालवेदी जगादैवं मन्त्री यौगन्धरायणः ।। २१
जानेऽहं नैतदेतावदभिप्रायोऽत्र दारुणः ।
देवीभ्यां जीवितत्यागदार्ढ्यादुक्तं हि तत्तथा ।। २२
अन्यासक्ते गते च द्यां स्त्रियो मरणनिश्चिताः ।
भवन्त्यदैन्यगम्भीराः साध्व्यः सर्वत्र निःस्पृहाः ।। २३
असह्यं हि पुरंध्रीणां प्रेम्णो गाढस्य खण्डनम् ।
तथा च राजंस्तत्रैतां श्रुतसेनकथां शृणु ।। २४
अभूद्दक्षिणभूमौ प्राग्गोकर्णाख्ये पुरे नृपः ।
श्रुतसेन इति ख्यातः कुलभूषाश्रुतान्वितः ।। २५
तस्य चैकाभवच्चिन्ता राज्ञः संपूर्णसंपदः ।
आत्मानुरूपां भार्यां यत्स न तावदवाप्तवान् ।। २६
एकदा च नृपः कुर्वंश्चिन्तां तां तत्कथान्तरे ।
अग्निशर्माभिधानेन जगदे सोऽग्रजन्मना ।। २७
आश्चर्ये द्वे मया दृष्टे ते राजन्वर्णये शृणु ।
तीर्थयात्रागतः पञ्चतीर्थी तामहमाप्तवान् ।। ५ २८
यस्यामप्सरसः पञ्च ग्राहत्वमृषिशापतः ।
प्राप्ताः सतीरुदहरत्तीर्थयात्रागतोऽर्जुनः ।। २९
तत्र तीर्थवरे स्नात्वा पञ्चरात्रोपवासिनाम् ।
नारायणानुचरतादायिनि स्नायिनां नृणाम् ।। ३०
यावद्व्रजामि तावच्च लाङ्गलोल्लिखितावनिम् ।
गायन्तं कंचिदद्राक्षं कार्षिकं क्षेत्रमध्यगम् ।। ३१
स पृष्टः कार्षिको मार्गं मार्गायातेन केनचित् ।
प्रव्राजकेन तद्वाक्यं नाशृणोद्गीततत्परः ।। ३२
ततः स तस्मै चुक्रोध परिव्राड्विधुरं ब्रुवन् ।
सोऽपि गीतं विमुच्याथ कार्षिकस्तमभाषत ।। ३३
अहो प्रव्राजकोऽसि त्वं धर्मस्यांशं न वेत्स्यसि ।
मूर्खेणापि मया ज्ञातं सारं धर्मस्य यत्पुनः ।। ३४
तच्छ्रुत्वा किं त्वया ज्ञातमिति तेन च कौतुकात् ।
प्रव्राजकेन पृष्टः सन्कार्षिकः स जगाद तम् ।। ३५
इहोपविश प्रच्छाये शृणु यावद्वदामि ते ।
अस्मिन्प्रदेशे विद्यन्ते ब्राह्मणा भ्रातरस्त्रयः ।। ३६
ब्रह्मदत्तः सोमदत्तो विश्वदत्तश्च पुण्यकृत् ।
तेषां ज्येष्ठौ दारवन्तौ कनिष्ठस्त्वपरिग्रहः ।। ३७
स तयोर्ज्येष्ठयोराज्ञां कुर्वन्कर्मकरो यथा ।
मया सहासीदक्रुध्यन्नहं तेषां हि कार्षिकः ।। ३८
तौ च ज्येष्ठावबुध्येतां मृदुं तं बुद्धिवर्जितम् ।
साधुमत्यक्तसन्मार्गमृजुमायासवर्जितम् ।। ३९*
एकदा भ्रातृजायाभ्यां सकामाभ्यां रहोऽर्थितः ।
कनिष्ठो विश्वदत्तोऽथ मातृवत्ते निराकरोत् ।। ४०
ततस्ते निजयोर्भर्त्रोरुभे गत्वा मृषोचतुः ।
वाञ्छत्यावां रहस्येष कनीयान्युवयोरिति ।। ४१
तेन तं प्रति तौ ज्येष्ठौ सान्तःकोपौ बभूवतुः ।
सदसद्वा न विदतुः कुस्त्रीवचनमोहितौ ।। ४२
अथैतौ भ्रातरौ जातु विश्वदत्तं तमूचतुः ।
गच्छ त्वं क्षेत्रमध्यस्थं वल्मीकं तं समीकुरु ।। ४३
तथेत्यागत्य वल्मीकं कुद्दालेनाखनत्स तम् ।
मा मैवं कृष्णसर्पोऽत्र वसतीत्युदितो मया ।। ४४
तच्छ्रुत्वापि स वल्मीकमखनद्यद्भवत्विति ।
पापैषिणोरप्यादेशं ज्येष्ठभ्रात्रोरलङ्घयन् ।। ४५
खन्यमानात्ततः प्राप कलशं हेमपूरितम् ।
न कृष्णसर्पं धर्मो हि सांनिध्यं कुरुते सताम् ।। ४६
तं च नीत्वा स कलशं भ्रातृभ्यां सर्वमर्पयत् ।
निवार्यमाणोऽपि मया ज्येष्ठाभ्यां दृढभक्तितः ।। ४७
तौ पुनस्तत एवांशं दत्त्वा प्रेर्य च घातकान् ।
तस्याच्छेदयतां पाणिपादं धनजिहीर्षया ।। ४८
तथापि न स चुक्रोध निर्मन्युर्भ्रातरौ प्रति ।
तेन सत्येन तस्यात्र हस्तपादमजायत ।। ४९
तदाप्रभृति तद्दृष्ट्वा त्यक्तः क्रोधोऽखिलो मया ।
त्वया तु तापसेनापि क्रोधोऽद्यापि न मुच्यते ।। ५०
अक्रोधेन जितः स्वर्गः पश्यैतदधुनैव भोः ।
इत्युक्त्वैव तनुं त्यक्त्वा कार्षिकः स दिवं गतः ।। ५१
इत्याश्चर्यं मया दृष्टं द्वितीयं शृणु भूपते ।
इत्युक्त्वा श्रुतसेनं स नृपं विप्रोऽब्रवीत्पुनः ।। ५२
ततोऽपि तीर्थयात्रार्थं पर्यटन्नम्बुधेस्तटे ।
अहं वसन्तसेनस्य राज्ञो राष्ट्रमवाप्तवान् ।। ५३
तत्र भोक्तुं प्रविष्टं मां राजसत्त्रेऽब्रुवन्द्विजाः ।
ब्रह्मन्पथामुना मा गाः स्थिता ह्यत्र नृपात्मजा ।। ५४
विद्युद्द्योताभिधाना तां पश्येदपि मुनिर्यदि ।
स कामशरनिर्भिन्नः प्राप्योन्मादं न जीवति ।। ५५
ततोऽहं प्रत्यवोचं तान्नैतच्चित्रं सदा ह्यहम् ।
पश्याम्यपरकन्दर्पं श्रुतसेनमहीपतिम् ।। ५६
यात्रादौ निर्गते यस्मिन्रक्षिभिर्दृष्टिगोचरात् ।
उत्सार्यन्ते सतीवृत्तभङ्गभीत्या कुलाङ्गनाः ।। ५७
इत्युक्तवन्तं विज्ञाय भावत्कं भोजनाय माम् ।
नृपान्तिकं नीतवन्तौ सत्त्राधिपपुरोहितौ ।। ५८
तत्र सा राजतनया विद्युद्द्योता मयेक्षिता ।
कामस्येव जगन्मोहमन्त्रविद्या शरीरिणी ।। ५०
चिरात्तद्दर्शनक्षोभं नियम्याहमचिन्तयम् ।
अस्मत्प्रभोश्चेद्भार्येयं भवेद्राज्यं स विस्मरेत् ।। ६०
तथापि कथनीयोऽयमुदन्तः स्वामिने मया ।
उन्मादिनीदेवसेनवृत्तान्तो ह्यन्यथा भवेत् ।। ६१
देवसेनस्य नृपतेः पुरा राष्ट्रे वणिक्सुता ।
उन्मादिनीत्यभूत्कन्या जगदुन्मादकारिणी ।। ६२
आवेदितापि सा पित्रा न तेनात्ता महीभृता ।
विप्रैः कुलक्षणेत्युक्ता तस्य व्यसनरक्षिभिः ।। ६३
परिणीता तदीयेन मन्त्रिमुख्येन सा ततः ।
वातायनाग्रादात्मानं राज्ञेऽस्मै जात्वदर्शयत् ।। ६४
तया भुजंग्या राजेन्द्रो दूराद्दृष्टिविषाहतः ।
मुहुर्मुमूर्च्छ न रतिं लेभे नाहारमाहरत् ।। ६५
प्रार्थितोऽपि च तद्भर्तृप्रमुखैः सोऽथ मन्त्रिभिः ।
धार्मिकस्तां न जग्राह तत्सक्तश्च जहावसून् ।। ६६
तदीदृशे प्रमादेऽत्र वृत्ते द्रोहः कृतो भवेत् ।
इत्यालोच्य मयोक्तं ते चित्रमेत्य ततोऽद्य तत् ।। ६७
श्रुत्वैतत्स द्विजात्तस्मान्मदनाज्ञानिभं वचः ।
विद्युद्द्योताहृतमनाः श्रुतसेननृपोऽभवत् ।। ६८
तत्क्षणं च विसृज्यैव तत्र विप्रं तमेव सः ।
तथाकरोद्यथानीय शीघ्रं तां परिणीतवान् ।। ६९
ततः सा नृपतेस्तस्य विद्युद्द्योता नृपात्मजा ।
शरीराव्यतिरिक्तासीद्भास्करस्य प्रभा यथा ।। ७०
अथ स्वयंवरायागात्तं नृपं रूपगर्विता ।
कन्यका मातृदत्ताख्या महाधनवणिक्सुता ।। ७१
अधर्मभीत्या जग्राह स राजा तां वणिक्सुताम् ।
विद्युद्द्योताथ तद्बुद्ध्वा हृत्स्फोटेन व्यपद्यत ।। ७२
राजाप्यागत्य तां कान्तां पश्यन्नेव तथा गताम् ।
अङ्के कृत्वा स विलपन्सद्यः प्राणैर्व्ययुज्यत ।। ७३
ततो वणिक्सुता वह्निं मातृदत्ता विवेश सा ।
इत्थं प्रणष्टं सर्वं तदपि राष्ट्रं सराजकम् ।। ७४
अतो राजन्प्रकृष्टस्य भङ्गः प्रेम्णः सुदुःसहः ।
विशेषेण मनस्विन्या देव्या वासवदत्तया ।। ७५
तस्मात्कलिङ्गसेनैषा परिणीता यदि त्वया ।
देवी वासवदत्ता तत्प्राणाञ्जह्यान्न संशयः ।। ७६
देवी पद्मावती तद्वत्तयोरेकं हि जीवितम् ।
नरवाहनदत्तश्च पुत्रस्ते स्यात्कथं ततः ।। ७७
तच्च देवस्य हृदयं सोढुं जाने न शक्नुयात् ।
एवमेकपदे सर्वमिदं नश्येन्महीपते ।। ७८
देव्योर्यच्चोक्तिगाम्भीर्यं तदेव कथयत्यलम् ।
हृदयं जीवितत्यागगाढनिश्चितनिःस्पृहम् ।। ७९
तत्स्वार्थो रक्षणीयस्ते तिर्यञ्चोऽपि हि जानते ।
स्वरक्षां किं पुनर्देव बुद्धिमन्तो भवादृशाः ।। ८०
इति मन्त्रिवराच्छ्रुत्वा स्वैरं यौगन्धरायणात् ।
सम्यग्विवेकपदवीं प्राप्य वत्सेश्वरोऽब्रवीत् ।। ८१
एवमेतन्न संदेहो नश्येत्सर्वमिदं मम ।
तस्मात्कलिङ्गसेनायाः कोऽर्थः परिणयेन मे ।। ८१
उक्तो लग्नश्च दूरे यत्तद्युक्तं गणकैः कृतम् ।
स्वयंवरागतात्यागादधर्मो वा कियान्भवेत् ।। ८३
इत्युक्तो वत्सराजेन हृष्टो यौगन्धरायणः ।
चिन्तयामास कार्यं नः सिद्धप्रायं यथेप्सितम् ।। ८४
उपायरससंसिक्ता देशकालोपबृंहिता ।
सेयं नीतिमहावल्लीं किं नाम न फलेत्फलम् ।। ८५
इति संचिन्त्य स ध्यायन्देशकालौ प्रणम्य तम् ।
राजानं प्रययौ मन्त्री गृहं यौगन्धरायणः ।। ८६
राजापि रचितातिथ्यगूढकारामुपेत्य सः ।
देवीं वासवदत्तां तां सान्त्ययन्नेवमब्रवीत् ।। ८७
किमर्थं वच्मि जानासि त्वमेव हरिणाक्षि यत् ।
वारि वारिरुहस्येव त्वत्प्रेम मम जीवितम् ।। ८८
नामापि हि किमन्यस्या ग्रहीतुमहमुत्सहे ।
कलिङ्गसेना तु हठादुपायाता गृहं मम ।। ८९
प्रसिद्धं चात्र यद्रम्भा तपःस्थेन निराकृता ।
पार्थेन षण्ढताशापं ददौ तस्यै हठागता ।। ९०
स शापस्तिष्ठता तेन वर्षं वैराटवेश्मनि ।
स्त्रीवेषेण महाश्चर्यरूपेणाप्यतिवाहितः ।। ९१
अतः कलिङ्गसेनैषा निषिद्धा न तदा मया ।
विना त्वदिच्छयाहं तु न किंचिद्वक्तुमुत्सहे ।। ९२
इत्याश्वास्योपलभ्याथ हृदयेनेव रागिणा ।
मुखार्पितेन मद्येन सत्यं क्रूरं तदाशयम् ।। ९३
तयैव सह रात्रिं तां राज्ञा वासवदत्तया ।
मन्त्रिमुख्यमतिप्रौढितुष्टो वत्सेश्वरोऽवसत् ।। ९४
अत्रान्तरे च यं पूर्वं दिवारात्रौ प्रयुक्तवान् ।
कलिङ्गसेनावृत्तान्तज्ञप्त्यै यौगन्धरायणः ।। ९५
स ब्रह्मराक्षसोऽभ्येत्य सुहृद्योगेश्वराभिधः ।
तस्यामेव निशि स्वैरं तं मन्त्रिवरमभ्यधात् ।। ९६
कलिङ्गसेनासदने स्थितोऽस्म्यन्तर्बहिः सदा ।
दिव्यानां मानुषाणां वा पश्यामि न तथागमम् ।। ९७
अद्याव्यक्तो मया शब्दः श्रुतोऽकस्मान्नभस्तले ।
प्रच्छन्नेनात्र हर्म्याग्रसंनिकर्षे निशामुखे ।। ९८
प्रभावं तस्य विज्ञातुं प्रयुक्तापि ततो मम ।
विद्या न प्राभवत्तेन विमृश्याहमचिन्तयम् ।। ९९
अयं दिव्यप्रभावस्य शब्दः कस्यापि निश्चितम् ।
कलिङ्गसेनालावण्यलुब्धस्य भ्रमतोऽम्बरे ।। 6.7.१००
येन न क्रमते विद्या तद्वीक्षे किंचिदन्तरम् ।
न दुष्प्रापं परच्छिद्रं जाग्रद्भिर्निपुणैर्यतः ।। १०१
दिव्यानां वाञ्छितैषेति प्रोक्तं मन्त्रिवरेण च ।
सोमप्रभा सखी चास्या वदन्त्येतन्मया श्रुता ।। १०२
इति निश्चित्य तत्तुभ्यमिहाहं वक्तुमागतः ।
इदं प्रसङ्गात्पृच्छामि तन्मे तावत्त्वयोच्यताम् ।। १०३
तिर्यञ्चोऽपि हि रक्षन्ति स्वात्मानमिति यत्त्वया ।
उक्तो राजा तदश्रौषं योगादहमलक्षितः ।। १०४
निदर्शनं चेदत्रास्ति तन्मे कथय सन्मते ।
इति योगेश्वरेणोक्तः स्माह यौगन्धरायणः ।। १०५
अस्ति मित्र तथा चात्र कथामाख्यामि ते शृणु ।
विदिशानगरीबाह्ये न्यग्रोधोऽभूत्पुरा महान् ।। १०६
चत्वारः प्राणिनस्तत्र वसन्ति स्म महातरौ ।
नकुलोलूकमार्जारमूषकाः पृथगालयाः ।। १०७
भिन्ने भिन्ने बिले मूल आस्तां नकुलमूषकौ ।
मार्जारो मध्यभागस्थे तरोर्महति कोटरे ।। १०८
उलूकस्तु शिरोभागेऽनन्यलभ्ये लतालये ।
मूषकोऽत्र त्रिभिर्वध्यो मार्जारेण त्रयोऽपरे ।। १०९
अन्नाय मार्जारभयान्मूषको नकुलस्तथा ।
स्वभावेनाप्युलूकश्च परिभ्रेमुर्निशि त्रयः ।। 6.7.११०
मार्जारश्च दिवारात्रौ निर्भयः प्रभ्रमत्यसौ ।
तत्रासन्ने यवक्षेत्रे सदा मूषकलिप्सया ।। १११
येऽन्येऽपि युक्त्या जग्मुस्तत्स्वकालेऽन्नाभिवाञ्छया ।
एकदा लुब्धकस्तत्र चण्डालः कश्चिदाययौ ।। ११२
स मार्जारपदश्रेणिं दृष्ट्वा तत्क्षेत्रगामिनीम् ।
तद्वधायाभितः क्षेत्रं पाशान्दत्त्वा ततो ययौ ।। ११३
तत्र रात्रौ च मार्जारः स मूषकजिघांसया ।
एत्य प्रविष्टस्तत्पाशैः क्षेत्रे तस्मिन्नवध्यत ।। ११४
मूषकोऽपि ततोऽन्नार्थी स तत्र निभृतागतः ।
बद्धं तं वीक्ष्य मार्जारं जहर्ष च ननर्त च ।। ११५
यावद्विशति तत्क्षेत्रं दूरादेकेन वर्त्मना ।
तत्र तौ तावदायातावुलूकनकुलावपि ।। ११६
दृष्टमार्जारबन्धौ च मूषकं लब्धुमैच्छताम् ।
मूषकोऽपि च तद्दृष्ट्वा दूराद्विग्नो व्यचिन्तयत् ।। ११७
नकुलोलूकभयदं मार्जारं संश्रये यदि ।
बद्धोऽप्येकप्रहारेण शत्रुर्मामेष मारयेत् ।। ११८
मार्जाराद्दूरगं हन्यादुलूको नकुलश्च माम् ।
तच्छत्रुसंकटगतः क्व गच्छामि करोमि किम् ।। ११९
हन्त मार्जारमेवेह श्रयाम्यापद्गतो ह्ययम् ।
आत्मत्राणाय मां रक्षेत्पाशच्छेदोपयोगिनम् ।। 6.7.१२०
इत्यालोच्य शनैर्गत्वा मार्जारं मूषकोऽब्रवीत् ।
बद्धे त्वय्यतिदुःखं मे तत्ते पाशं छिनद्म्यहम् ।। १२१
ऋजूनां जायते स्नेहः सहवासाद्रिपुष्वपि ।
किं तु मे नास्ति विश्वासस्तव चित्तमजानतः ।। १२२
तच्छ्रुत्वोवाच मार्जारो भद्र विश्वस्यतां त्वया ।
अद्य प्रभृति मे मित्त्रं भवान्प्राणप्रदायकः ।। १२३
इति श्रुत्वैव मार्जारात्तस्योत्सङ्गं स शिश्रिये ।
तद्दृष्ट्वा नकुलोलूकौ निराशौ ययतुस्ततः ।। १२४
ततो जगाद मार्जारो मूषकं पाशपीडितः ।
गतप्राया निशा मित्र तत्पाशांश्छिन्धि मे द्रुतम् ।। १२५
मूषकोऽपि शनैश्छिन्दल्लुब्धकागमनोन्मुखः ।
मृषा कटकटायद्भिर्दशनैरकरोच्चिरम् ।। १२६
क्षणाद्रात्रौ प्रभातायां लुब्धके निकटागते ।
मार्जारेऽर्थयमाने द्राक्पाशांश्चिच्छेद मूषकः ।। १२७
छिन्नपाशेऽथ मार्जारे लुब्धकत्रासविद्रुते ।
मूषको मृत्युमुक्तः सन्पलाय्य प्राविशद्बिलम् ।। १२८
नाश्वसत्पुनराहूतो मार्जारेण जगाद च ।
कालयुक्त्या ह्यरिर्मित्त्रं जायते न च सर्वदा ।। १२९
एवं बहुभ्यः शत्रुभ्यः प्रज्ञयात्माभिरक्षितः ।
मूषकेन तिरश्चापि किं पुनर्मानुषेषु यत् ।। 6.7.१३०
एतदुक्तस्तदा राजा मया यत्तत्त्वया श्रुतम् ।
बुद्ध्या कार्यं निजं रक्षेद्देवि संरक्षणादिति ।। १३१
बुद्धिर्नाम च सर्वत्र मुख्यं मित्त्रं न पौरुषम् ।
योगेश्वर तथा चैतामत्रापि त्वं कथां शृणु ।। १३२
श्रावस्तीत्यस्ति नगरी तस्यां पूर्वं प्रसेनजित् ।
राजाभूत्तत्र चाभ्यागात्कोऽप्यपूर्वो द्विजः पुरि ।। १३३
सोऽशूद्रान्नभुगेकेन वणिजा गुणवानिति ।
ब्राह्मणस्य गृहे तत्र कस्यचित्स्थापितो द्विजः ।। १३४
तत्रैव तेन शुष्कान्नदक्षिणादिभिरन्वहम् ।
आपूर्यत ततोऽन्यैश्च शनैर्बुद्ध्वा वणिग्वरैः ।। १३५
तेनासौ हेमदीनारसहस्रं कृपणः क्रमात् ।
संचित्य गत्वारण्ये तन्निहत्य क्षिप्तवान्भुवि ।। १३६
एकाकी प्रत्यहं गत्वा तच्च स्थानमवैक्षत ।
एकदा हेमशून्यं तत्खातं व्यात्तं च दृष्टवान् ।। १३७
शून्यं तत्खातकं तस्य पश्यतो हतचेतसः ।
न परं हृदि संक्रान्ता चित्रं दिक्ष्वपि शून्यता ।। १३८
अथोपागाच्च विलपंस्तं विप्रं यद्गृहे स्थितः ।
पृष्टस्तं च स्ववृत्तान्तं तस्मै सर्वं न्यवेदयत् ।। १३९
गत्वा तीर्थमभुञ्जानः प्राणांस्त्यक्तुमियेष च ।
बुद्ध्वा च सोऽन्नदातास्य वणिगन्यैः सहाययौ ।। १४०
स तं जगाद किं ब्रह्मन्वित्तहेतोर्मुमूर्षसि ।
अकालमेघवद्वित्तमकस्मादेति याति च ।। १४१
इत्याद्युक्तोऽपि तेनासौ न जहौ मरणग्रहम् ।
प्राणेभ्योऽप्यर्थमात्रा हि कृपणस्य गरीयसी ।। १४२
ततश्च मृतये तीर्थं गच्छतोऽस्य द्विजन्मनः ।
स्वयं प्रसेनजिद्राजा तद्बुद्ध्वान्तिकमाययौ ।। १४३
पप्रच्छ चैनं किं किंचिदस्ति तत्रोपलक्षणम् ।
यत्र भूमौ निखातास्ते दीनारा ब्राह्मण त्वया ।। १४४
तच्छ्रुत्वा स द्विजोऽवादीदस्ति क्षुद्रोऽत्र पादपः ।
अटव्यां देव तन्मूले निखातं तन्मया धनम् ।। १४५
इत्याकर्ण्याब्रवीद्राजा दास्याम्यन्विष्य तत्तव ।
धनं स्वकोषादथवा मा त्याक्षीर्जीवितं द्विज ।। १४६
इत्युक्त्वा मरणोद्योगान्निवार्य विनिधाय च ।
द्विजं तं वणिजो हस्ते स राजाभ्यन्तरं गतः ।। १४७
तत्रादिश्य प्रतीहारं शिरोर्तिव्यपदेशतः ।
वैद्यानानाययत्सर्वान्दत्त्वा पटहघोषणाम् ।। १४८
आतुरास्ते कियन्तोऽत्र कस्यादाः किं त्वमौषधम् ।
इत्युपानीय पप्रच्छ तानेकैकं विविक्तगः ।। १४९
तेऽपि तस्मै तदैकैकः सर्वमूचुर्महीपतेः ।
एकोऽथ वैद्यस्तन्मध्यात्क्रमपृष्टोऽब्रवीदिदम् ।। १५०
वणिजो मातृदत्तस्य देव नागबला मया ।
अस्वस्थस्योपदिष्टाद्य द्वितीयं दिनमोषधिः ।। १५१
तच्छ्रुत्वा स तमाहूय राजा वणिजमभ्यधात् ।
ननु नागबला केन तवानीतोच्यतामिति ।। १५२
देव कर्मकरेणेति तेनोक्ते वणिजा तदा ।
क्षिप्रमानाय्य तं राजा स कर्मकरमब्रवीत् ।। १५३
त्वया नागबलाहेतोः खनता शाखिनस्तलम् ।
दीनारजातं यल्लब्धं ब्रह्मस्वं तत्समर्पय ।। १५४
इत्युक्तो भूभृता भीतः प्रतिपद्यैव तत्क्षणम् ।
स तानानीय दीनारांस्तत्र कर्मकरो जहौ ।। १५५
राजाप्युपोषितायास्मै द्विजायाहूय तान्ददौ ।
दीनारान्हारितप्राप्तान्प्राणानिव बहिश्चरान् ।। १५६
एवं स लब्धवान्बुद्ध्या नीतं मूलतलात्तरोः ।
द्विजार्थं भूपतिर्जानन्नोषधिं तां तदुद्भवाम् ।। १५७
तदेवं सर्वदा बुद्धेः प्राधान्यं जितपौरुषम् ।
ईदृशेषु च कार्येषु किं विदध्यात्पराक्रमः ।। १५८
तद्योगेश्वर कुर्वीथास्त्वमपि प्रज्ञया तथा ।
यथा कलिङ्गसेनाया दोषो ज्ञायत कश्चन ।। १५९
अस्ति चैतद्यथा तस्यां लुभ्यन्तीह सुरासुराः ।
तथा च दिवि कस्यापि निशि शब्दः श्रुतस्त्वया ।। १६०
लब्धेऽथ दोषे तस्याश्च भवेदकुशलं न नः ।
नोपयच्छेत तां राजा न चाधर्मः कृतो भवेत् ।। १६१
इत्युदारधियः श्रुत्वा सर्वं यौगन्धरायणात् ।
योगेश्वरस्तं संतुष्य जगाद ब्रह्मराक्षसः ।। १६२
कस्त्वया सदृशो नीतावन्यो देवाद्बृहस्पतेः ।
अयं त्वमृतसेकोऽस्य त्वन्मन्त्रो राज्यशाखिनः ।। १६३
सोऽहं कलिङ्गसेनाया जिज्ञासिष्ये गतिं सदा ।
बुद्ध्या शक्त्यापि चेत्युक्त्वा ततो योगेश्वरो ययौ ।। १६४
तत्कालं सा च हर्म्यादौ पर्यटन्तं स्वहर्म्यगा ।
कलिङ्गसेना वत्सेशं दृष्ट्वा दृष्ट्वा स्म ताम्यति ।। १६५
तन्मनाः स्मरसंतप्ता मृणालाङ्गदहारिणी ।
सा श्रीखण्डाङ्गरागा च न लेभे निर्वृतिं क्वचित् ।। १६६
अत्रान्तरे स तां पूर्वं दृष्ट्वा विद्याधराधिपः ।
तस्थौ मदनवेगाख्यो गाढानङ्गशरार्दितः ।। १६७
तत्प्राप्तये तपः कृत्वा वरे लब्धेऽपि शंकरात् ।
सान्यासक्तान्यदेशस्था सुखप्राप्यास्य नाभवत् ।। १६८
यतस्तेनान्तरं लब्धुमसौ विद्याधरेश्वरः ।
रजनीषु दिवि भ्राम्यन्नासीत्तन्मन्दिरोपरि ।। १६९
संस्मृत्य तु तमादेशं तपस्तुष्टस्य धूर्जटेः ।
एकस्यां निशि वत्सेशरूपं चक्रे स्वविद्यया ।। १७०
तद्रूपश्च विवेशास्य मन्दिरं द्वाःस्थवन्दितः ।
कालक्षेपाक्षमो गुप्तं मन्त्रिणां स इवागतः ।। १७१
कलिङ्गसेनाप्युत्तस्थौ तं दृष्ट्वोत्कम्पविक्लवा ।
न सोऽयमिति सा रावैर्वार्यमाणेव भूषणैः ।। १७२
ततो वत्सेशरूपेण क्रमाद्विश्वास्य तेन सा ।
भार्या मदनवेगेन गान्धर्वविधिना कृता ।। १७३
तत्कालं च प्रविष्टस्तद्दृष्ट्वा योगादलक्षितः ।
योगेश्वरो विषण्णोऽभूद्वत्सेशालोकनभ्रमात् ।। १७४
यौगन्धरायणायैतद्गत्वोक्त्वा तन्निदेशतः ।
युक्त्या वासवदत्ताया वत्सेशं वीक्ष्य पार्श्वगम् ।। १७५
हृष्टो मन्त्रिवरोक्त्यैव रूपं सुप्तस्य वेदितुम् ।
कलिङ्गसेनाप्रच्छन्नकामिनः सोऽगमत्पुनः ।। १७६
गत्वा कलिङ्गसेनायाः सुप्तायाः शयनीयके ।
सुप्तं मदनवेगं तं स्वरूपे स्थितमैक्षत ।। १७७
छत्रध्वजाङ्कनिर्धूलिपादाब्जं दिव्यमानुषम् ।
स्वापान्तर्हिततद्विद्यावीतरूपविवर्तनम् ।। १७८
तत्र गत्वा यथादृष्टं निवेद्य परितोषवान् ।
योगेश्वरो जगादासौ हृष्टो यौगन्धरायणम् ।। १७९
न वेत्ति मादृशः किंचिद्वेत्सि त्वं नीतिचक्षुषा ।
तव मन्त्रेण दुःसाध्यं सिद्धं कार्यमिदं प्रभोः ।। १८०
किं वा व्योम विनार्केण किं तोयेन विना सरः ।
किं मन्त्रेण विना राज्यं किं सत्येन विना वचः ।। १८१
इत्युक्तवन्तमामन्त्र्य प्रीतो योगेश्वरं ततः ।
प्रातर्वत्सेश्वरं द्रष्टुमागाद्यौगन्धरायणः ।। १०२
तमुपेत्य यथावच्च कथाप्रस्तावतोऽब्रवीत् ।
नृपं कलिङ्गसेनार्थे पृष्टकार्यविनिश्चयम् ।। १८३
स्वच्छन्दासौ न ते राजन्पाणिस्पर्शमिहार्हति ।
एषा हि स्वेच्छया द्रष्टुं प्रसेनजितमागता ।। १८४
विरक्ता वीक्ष्य तं वृद्धं त्वां प्राप्ता रूपलोभतः ।
तदन्यपुरुषासङ्गमपि स्वेच्छं करोत्यसौ ।। १८५
तच्छ्रुत्वा कुलकन्येयं कथमेवं समाचरेत् ।
शक्तिः कस्य प्रवेष्टुं वा मदीयान्तःपुरान्तरे ।। १८६
इति राज्ञोदितेऽवादीद्धीमान्यौगन्धरायणः ।
अद्यैव दर्शयाम्येतत्प्रत्यक्षं निशि देव ते ।। १८७
दिव्यास्तामभिवाञ्छन्ति सिद्धाद्या मानुषोऽत्र कः ।
दिव्यानां च गती रोद्धुं राजन्केनेह शक्यते ।। १८८
तदेहि साक्षात्पश्येति वादिना तेन मन्त्रिणा ।
सह गन्तुं मतिं चक्रे तत्र रात्रौ स भूपतिः ।। १८९
पद्मावत्या ऋते राज्ञ्या न विवाह्यापरेति यत् ।
प्रोक्तं देवि प्रतिज्ञातं मया निर्व्यूढमद्य तत् ।। १९०
इत्यथाभ्येत्य तां देवीमुक्त्वा यौगन्धरायणः ।
कलिङ्गसेनावृत्तान्तं तं तस्यै सर्वमुक्तवान् ।। १९१
त्वदीयशिक्षानुष्ठानफलमेतन्ममेति सा ।
देवी वासवदत्तापि प्रणताभिननन्द तम् ।। १९२
ततो निशीथे संसुप्ते जने वत्सेश्वरो ययौ ।
गृहं कलिङ्गसेनायाः स च यौगन्धरायणः ।। १९३
अदृष्टश्च प्रविष्टोऽत्र तस्या निद्राजुषोऽन्तिके ।
सुप्तं मदनवेगं तं स्वरूपस्थं ददर्श सः ।। १९४
हन्तुमिच्छति यावच्च स तं साहसिकं नृपः ।
तावत्स विद्यया विद्याधरोऽभूत्प्रतिबोधितः ।। १९५
प्रबुद्धश्च स निर्गत्य झगित्युदपतन्नभः ।
क्षणात्कलिङ्गसेनापि सा प्रबुद्धाभवत्ततः ।। १९६
शून्यं शयनमालोक्य जगाद च कथं हि माम् ।
पूर्वं प्रबुध्य वत्सेशः सुप्तां मुक्त्वैव गच्छति ।। १९७
तदाकर्ण्य स वत्सेशमाह यौगन्धरायणः ।
एषा विध्वंसितानेन शृणु त्वद्रूपधारिणा ।। १९८
सैष योगबलाज्ज्ञात्वा साक्षात्ते दर्शितो मया ।
किं तु दिव्यप्रभावत्वादसौ हन्तुं न शक्यते ।। १९९
इत्युक्त्वा स च राजा च सह तामुपजग्मतुः ।
कलिङ्गसेना साप्येतौ दृष्ट्वा तस्थौ कृतादरा ।। २००
अधुनैव क्व गत्वा त्वं राजन्प्राप्तः समन्त्रिकः ।
इति ब्रुवाणामवदत्तां स यौगन्धरायणः ।। २०१
कलिङ्गसेने केनापि मायावत्सेशरूपिणा ।
संमोह्य परिणीतासि न त्वं मस्त्वामिनामुना ।। २०२
तच्छ्रुत्वा सातिसंभ्रान्ता विद्धेव हृदि पत्त्रिणा ।
कलिङ्गसेना वत्सेशं जगादोदश्रुलोचना ।। २०३
गान्धर्वविधिनाहं ते परिणीतापि विस्मृता ।
किंस्विद्राजन्यथा पूर्वं दुष्यन्तस्य शकुन्तला ।। २०४
इत्युक्तः स तया राजा तामुवाचानताननः ।
सत्यं न परिणीतासि मयाद्यैवागतो ह्यहम् ।। २०५
इत्युक्तवन्तं वत्सेशं मन्त्री यौगन्धरायणः ।
एहीत्युक्त्वा ततः स्वैरमनैषीद्राजमन्दिरम् ।। २०६
ततः समन्त्रिके राज्ञि गते सात्र विदेशगा ।
मृगीव यूथविभ्रष्टा परित्यक्तस्वबान्धवा ।। २०७
संभोगविदलत्पत्त्रमुखाब्जा गजपीडिता ।
पद्मिनीव परिक्षिप्तकबरीभ्रमरावलिः ।। २०८
विनष्टकन्यकाभावा निरुपायक्रमा सती ।
कलिङ्गसेना गगनं वीक्षमाणेदमब्रवीत् ।। २०९
वत्सेशरूपिणा येन परिणीतास्मि केनचित् ।
प्रकाशः सोऽस्तु कौमारः स एव हि पतिर्मम ।। २१०
एवं तयोक्ते गगनात्सोऽत्र विद्याधराधिपः ।
अवातरद्दिव्यरूपो हारकेयूरराजितः ।। २११
को भवानिति पृष्टश्च तयैवं स जगाद ताम् ।
अहं मदनवेगाख्यस्तन्वि विद्याधराधिपः ।। २१२
मया च प्राग्विलोक्य त्वां पुरा पितृगृहे स्थिताम् ।
त्वत्प्राप्तिदस्तपः कृत्वा वरः प्राप्तो महेश्वरात् ।। २१३
वत्सेश्वरानुरक्ता च तद्रूपेण मया द्रुतम् ।
अवृत्ततद्विवाहैव परिणीतासि युक्तितः ।। २१४
इति वाक्सुधया तस्य श्रुतिमार्गप्रविष्टया ।
किंचित्कलिङ्गसेनाभूदुच्छ्वासितहृदम्बुजा ।। २१५
अथ स मदनवेगस्तां समाश्वास्य कान्तां विहितधृतिवितीर्णस्वर्णराशिः स तस्यै ।
उचित इति तयान्तर्बद्धसद्भर्तृभक्तिः पुनरुपगमनाय द्यां तदैवोत्पपात ।। २१६
दिव्यास्पदं स्वपतिसद्म न मर्त्यगम्यं कामात्पितुर्भवनमुज्झितमित्यवेक्ष्य ।
तत्रैव वस्तुमथ सापि कलिङ्गसेना चक्रे धृतिं मदनवेगकृताभ्यनुज्ञा ।। २१७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके सप्तमस्तरङ्गः ।

  • ६.७.३९ साधुं संत्यक्तसन्मार्गमृग्यजुःसामवर्जितम् इति पुस्तकान्तरपाठः

[सम्पाद्यताम्]