सामग्री पर जाएँ

कथासरित्सागरः/लम्बकः ६/तरङ्गः ४

विकिस्रोतः तः

ततः स्वसद्म यातायाः पश्चान्मार्गमवेक्षितुम् ।
सोमप्रभायाः स्नेहेन मार्गहर्म्याग्रमास्थिताम् ।। १
कलिङ्गसेनामारात्तां ददर्श गगनागतः ।
दैवान्मदनवेगाख्यो युवा विद्याधराधिपः ।। २
स तां दृष्ट्वैव रूपेण जगत्त्रितयमोहिनीम् ।
क्षोभं जगाम कामैन्द्रजालिकस्येव पिच्छिकाम् ।। ३
अलं विद्याधरस्त्रीभिः का कथाप्सरसामपि ।
यत्रेदृगेतदेतस्या मानुष्या रूपमद्भुतम् ।। ४
तदेषा यदि मे न स्याद्भार्या किं जीवितेन तत् ।
कथं च मानुषीसङ्गं कुर्यां विद्याधरोऽपि सन् ।। ५
इत्यालोच्य स दध्यौ च विद्यां प्रज्ञप्तिसंज्ञिकाम् ।
सा चाविर्भूय साकारा तमेवमवदत्तदा ।। ६
तत्त्वतो मानुषी नेयमेषा शापच्युताप्सराः ।
जाता कलिङ्गदत्तस्य गृहे सुभग भूपतेः ।। ७
इत्युक्ते विद्यया सोऽथ हृष्टो गत्वा स्वधामनि ।
विद्याधरोऽन्यविमुखः कामार्तः समचिन्तयत् ।। ८
हठाद्यदि हराम्येतां तदेतन्मे न युज्यते ।
स्त्रीणां हठोपभोगे हि मम शापोऽस्ति मृत्युदः ।। ९
तदेतत्प्राप्तये शंभुराराध्यस्तपसा मया ।
तपोऽधीनानि हि श्रेयांस्युपायोऽन्यो न विद्यते ।। १०
इति निश्चित्य चान्येद्युर्गत्वा ऋषभपर्वतम् ।
एकपादस्थितस्तेपे निराहारस्तपांसि सः ।। ११
अथ तुष्टोऽचिरात्तीव्रैस्तपोभिर्दत्तदर्शनः ।
एवं मदनवेगं तमादिदेशाम्बिकापतिः ।। १२
एषा कलिङ्गसेनाख्या ख्याता रूपेण भूतले ।
कन्या नास्याश्च भर्तापि सदृशो रूपसंपदा ।। १३
एकस्तु वत्सराजोऽस्ति स चैतामभिवाञ्छति ।
किं तु वासवदत्ताया भीत्या नार्थयते स्फुटम् ।। १४
एषापि रूपलुब्धा तं श्रुत्वा सोमप्रभामुखात् ।
स्वयंवराय वत्सेशं राजपुत्र्यभिवाञ्छति ।। १५
तत्र यावद्विवाहोऽस्या न भवेत्तावदन्तरा ।
कृत्वा कालासहस्येव रूपं वत्सेश्वरस्य तत् ।। १६
गत्वा गान्धर्वविधिना भार्यां कुर्याद्भवानिमाम् ।
एवं कलिङ्गसेनासौ तव सेत्स्यति सुन्दरी ।। १७
इत्यादिष्टः स शर्वेण प्रणिपत्याथ तं ययौ ।
गृहं मदनवेगः स्वं कालकूटगिरेस्तटम् ।। १८
अत्रान्तरे प्रतिनिशं गच्छन्त्या निजमन्दिरम् ।
प्रतिप्रभातमायान्त्या यन्त्रेण व्योमगामिना ।। १९
तया तक्षशिलापुर्यां सा सोमप्रभया सह ।
कलिङ्गसेना क्रीडन्ती तां जगादैकदा रहः ।। २०
सखि वाच्यं न कस्यापि त्वया यत्ते ब्रवीम्यहम् ।
विवाहो मम संप्राप्त इति जाने यतः शृणु ।। २१
इह मां याचितुं दूताः प्रेषिता बहुभिर्नृपैः ।
ते च तातेन संवृत्य तथैव प्रेषिता इतः ।। २२
यस्तु प्रसेनजिन्नाम श्रावस्त्यामस्ति भूपतिः ।
तदीयः केवलं दूतः सादरं तेन सत्कृतः ।। २३
मन्त्रितं चाम्बयाप्येतत्तन्मन्ये मद्वरो नृपः ।
स तातस्य तथाम्बायाः कुलीन इति संमतः ।। २४
स हि तत्र कुले जातो यत्राम्बाम्बालिकादिकाः ।
पितामह्यः कुरूणां च पाण्डवानां च जज्ञिरे ।। २५
तत्प्रसेनजिते तस्मै सखि दत्तास्मि सांप्रतम् ।
तातेन राज्ञे श्रावस्त्यां नगर्यामिति निश्चयः ।। २६
एतत्कलिङ्गसेनातः श्रुत्वा सोमप्रभा शुचा ।
सृजन्तीवापरं हारं सद्यो धाराश्रुणारुदत् ।। २७
जगाद चैतां पृच्छन्तीं वयस्यामश्रुकारणम् ।
दृष्टनिःशेषभूलोका सा मयासुरपुत्रिका ।। २८
वयो रूपं कुलं शीलं वित्तं चेति वरस्य यत् ।
मृग्यते सखि तत्राद्यं वयो वंशादिकं ततः ।। २९
प्रसेनजिच्च प्रवयाः स दृष्टो नृपतिर्मया ।
जातीपुष्पस्य जात्येव जीर्णस्यास्य कुलेन किम् ।। ३०
हिमशुभ्रेण तेन त्वं हेमन्तेनेव पद्मिनी ।
परिम्लानाम्बुजमुखी युक्ता शोच्या भविष्यसि ।। ३१
अतो जातो विषादो मे प्रहर्षस्तु भवेन्मम ।
यदि स्याद्वत्सराजस्ते कल्याण्युदयनः पतिः ।। ३२
तस्य नास्ति हि रूपेण लावण्येन कुलेन च ।
शौर्येण च विभूत्या च तुल्योऽन्यो नृपतिर्भुवि ।। ३३
तेन चेद्युज्यसे भर्त्रा सदृशेन कृशोदरि ।
धातुः फलति लावण्यनिर्माणं तदिदं त्वयि ।। ३४
इति सोमप्रभाक्लृप्तैर्वाक्यैर्यन्त्रैरिवेरितम् ।
ययौ कलिङ्गसेनाया मनो वत्सेश्वरं प्रति ।। ३५
ततश्च सा तां पप्रच्छ राजकन्या मयात्मजाम् ।
कथं स वत्सराजाख्यः सखि किंवंशसंभवः ।। ३६
कथं चोदयनो नाम्ना त्वया मे कथ्यतामिति ।
साथ सोमप्रभावादीच्छृणु तत्सखि वच्मि ते ।। ३७
वत्स इत्यस्ति विख्यातो देशो भूमेर्विभूषणम् ।
पुरी तत्रास्ति कौशाम्बी द्वितीयेवामरावती ।। ३८
तस्यां स कुरुते राज्यं यतो वत्सेश्वरस्ततः ।
वंशं च तस्य कल्याणि कीर्त्यमानं मया शृणु ।। ३९
पाण्डवस्यार्जुनस्याभूदभिमन्युः किलात्मजः ।
चक्रव्यूहभिदा येन नीता कुरुचमूः क्षयम् ।। ४०
तस्मात्परीक्षिदभवद्राजा भरतवंशभृत् ।
सर्पसत्त्रप्रणेताभूत्ततोऽपि जनमेजयः ।। ४१
ततोऽभवच्छतानीकः कौशाम्बीमप्युवास यः ।
यश्च देवासुरगणे दैत्यान्हत्वा व्यपद्यत ।। ४२
तस्माद्राजा जगच्छ्लाघ्यः सहस्रानीक इत्यभूत् ।
यः शक्रप्रेषितरथो दिवि चक्रे गतागतम् ।। ४३
तस्य देव्यां मृगावत्यामसावुदयनोऽजनि ।
भूषणं शशिनो वंशे जगन्नेत्रोत्सवो नृपः ।। ४४
नाम्नो निमित्तमप्यस्य शृणु सा हि मृगावती ।
अन्तर्वत्नी सती राज्ञो जनन्थस्य सुजन्मनः ।। ४५
उत्पन्नरुधिरस्नानदोहदा पापभीरुणा ।
भर्त्रा रचितलाक्षादिरसवापीकृताप्लवा ।। ४६
पक्षिणा तार्क्ष्यवंश्येन निपत्यामिषशङ्कया ।
नीत्वा विधिवशात्त्यक्ता जीवन्त्येवोदयाचले ।। ४७
तत्र चाश्वासिता भूयो भर्तृसंगमवादिना ।
जमदग्न्यर्षिणा दृष्टा स्थितासौ तत्र चाश्रमे ।। ४८
अवज्ञाजनितेर्ष्यायाः कंचित्कालं हि तादृशः ।
शापस्तिलोत्तमातोऽभूत्तद्भर्तुस्तद्वियोगदः ।। ४९
दिवसैः सा च तत्रैव जमदम्याश्रमे सुतम् ।
उदयाद्रौ प्रसूते स्म द्यौरिन्दुमिव नूतनम् ।। ५०
असावुदयनो जातः सार्वभौमो महीपतिः ।
जनिष्यते च पुत्रोऽस्य सर्वविद्याधराधिपः ।। ५१
इत्युच्चार्याम्बराद्वाणीमशरीरां तदा कृतम् ।
नागोदयन इत्यस्य देवैरुदयजन्मतः ।। ५२
सोऽपि शापान्तबद्धाशः कालं मातलिबोधितः ।
कृच्छ्रात्सहस्रानीकस्तां विनानैषीन्मृगावतीम ।। ५३
प्राप्ते शापावसाने तु शबराद्विधियोगतः ।
उदयाद्रेरुपायातात्प्राप्याभिज्ञानमात्मनः ।। ५४
आवेदितार्थस्तत्कालं गगनोद्गतया गिरा ।
शबरं तं पुरस्कृत्य जगामैवोदयाचलम् ।। ५५
तत्र वाञ्छितसंसिद्धिमिव प्राप्य मृगावतीम ।
भार्यामुदयनं तं च मनोराज्यमिवात्मजम् ।। ५६
तौ गृहीत्वाथ कौशाम्बीमागत्यैवाभिषिक्तवान् ।
यौवराज्ये तनूजं तं तद्गुणोत्कर्षतोषितः ।। ५७
यौगन्धरायणादींश्च तस्मै मन्त्रिसुतान्ददौ ।
तेनात्तभारो बुभुजे भोगान्भार्यासखश्चिरम ।। ५८
कालेनारोप्य राज्ये च तमेवोदयनं सुतम् ।
वृद्धः सभार्यासचिवो ययौ राजा महापथम् ।। ५९
एवं स पित्र्यं राज्यं तत्प्राप्य जित्वा ततोऽखिलाम् ।
यौगन्धरायणसखः प्रशास्त्युदयनो महीम् ।। ६०
इत्याशु कथयित्वा सा कथां सोमप्रभा रह ।
सखीं कलिङ्गसेनां तां पुनरेवमभाषत ।। ६१
एवं वत्सेषु राजत्वाद्वत्सराजः सुगात्रि सः ।
पाण्डवान्वयसंभूत्या सोमवंशोद्भवस्तथा ।। ६२
नाम्नाप्युदयनः प्रोक्तो देवैरुदयजन्मना ।
रूपेण चात्र संसारे कंदर्पोऽपि न तादृशः ।। ६३
स एकस्तव तुल्योऽस्ति पतिस्त्रैलोक्यसुन्दरि ।
स च वाञ्छति लावण्यलुब्धस्त्वां प्रार्थितां धुवम् ।। ६४
किं तु चण्डमहासेनमहीपतितनूद्भवा ।
अस्ति वासवदत्ताख्या तस्याग्र्यमहिषी सखि ।। ६५
तथा स च वृतस्त्यक्त्वा बान्धवानतिरक्तया ।
उषाशकुन्तलादीनां कन्यानां हृतलज्जया ।। ६६
नरवाहनदत्ताख्यस्तस्यां जातोऽस्य चात्मजः ।
आदिष्टः किल देवैर्यो भावी विद्याधराधिपः ।। ६७
अतस्तस्याः स वत्सेशो बिभ्यत्त्वां नेह याचते ।
सा च दृष्टा मया न त्वां स्पर्धते रूपसंपदा ।। ६८
एवमुक्तवतीं तां च सखीं सोमप्रभां तदा ।
कलिङ्गसेना वत्सेशसोत्सुका निजगाद सा ।। ६९
जानेऽहमेतद्वश्यायाः पित्रोः शक्यं तु किं मम ।
सर्वज्ञा सप्रभावा च तत्त्वमेवात्र मे गतिः ।। ७०
दैवायत्तमिदं कार्यं तथा चात्र कथां शृणु ।
सोमप्रभा तामित्युक्त्वा शशंसास्यै कथामिमाम् ।। ७१
राजा विक्रमसेनाख्य उज्जयिन्यामभूत्पुरा ।
तस्य तेजस्वतीत्यासीद्रूपेणाप्रतिमा सुता ।। ७२
तस्याश्चाभिमतः कश्चित्प्रायो नाभूद्वरो नृपः ।
एकदा च ददर्शैकं पुरुषं सा स्वहर्म्यगा ।। ७३
तेन स्वाकृतिना दैवात्संगतिं वाञ्छति स्म सा ।
स्वाभिप्रायं च संदिश्य तस्मै स्वां व्यसृजत्सखीम् ।। ७४
सा गत्वा तत्सखी तस्य पुंसः साहसशङ्किनः ।
अनिच्छतोऽपि प्रार्थ्यैवं यत्नात्संकेतकं व्यधात् ।। ७५
एतद्देवकुलं भद्र विविक्तं पश्यसीह यम् ।
अत्र रात्रौ प्रतीक्षेथा राजपुत्र्यास्त्वमागमम् ।। ७६
इत्युक्त्वा सा तमामन्त्र्य गत्वा तस्यै तदभ्यधात् ।
तेजस्वत्यै ततः सापि तस्थौ सूर्यावलोकिनी ।। ७७
पुमांश्च सोऽनुमान्यापि भयात्क्वाप्यन्यतो ययौ ।
न भेकः कोकनदिनीकिंजल्कास्वादकोविदः ।। ७८
अत्रान्तरे च कोऽप्यत्र राजपुत्रः कुलोद्गतः ।
मृते पितरि तन्मित्रं राजानं द्रष्टुमाययौ ।। ७९
स चात्र सायं संप्राप्तः सोमदत्ताभिधो युवा ।
दायादहृतराज्यादिरेकाकी कान्तदर्शनः ।। ८०
विवेश दैवात्तत्रैव नेतुं देवकुले निशाम् ।
राजपुत्र्याः सखी यत्र पुंसः संकेतमादिशत् ।। ८१
तं तत्र स्थितमभ्येत्य राजपुत्र्यविभाव्य सा ।
निशायामनुरागान्धा स्वयंवरपतिं व्यधात् ।। ८२
सोऽप्यभ्यनन्दत्तूष्णीं तां प्राज्ञो विधिसमर्पिताम् ।
संसूचयन्तीं भाविन्या राजलक्ष्म्या समागमम ।। ८३
ततः क्षणाद्राजसुता सा विलोक्यैवमेव तम् ।
कमनीयतमं मेने धात्रात्मानमवञ्चितम् ।। ८४
अनन्तरं कथां कृत्वा यथास्वं संविदा तयोः ।
एका स्वमन्दिरमगादन्यस्तत्रानयन्निशाम् ।। ८५
प्रातर्गत्वा प्रतीहारमुखेनावेद्य नाम सः ।
राजपुत्रः परिज्ञातो राज्ञः प्राविशदन्तिकम् ।। ८६
तत्रोक्तराज्यहारादिदुःखस्य स कृतादरः ।
अङ्गीचक्रे सहायत्वं राजा तस्यारिमर्दने ।। ८७
मतिं चक्रे च तां तस्मै दातुं प्राग्दित्सितां सुताम् ।
मन्त्रिभ्यश्च तदैवैतमभिप्रायं शशंस सः ।। ८८
अथैतस्मै च राज्ञे तं सुतावृन्तान्तमभ्यधात् ।
देवी स्वाबोधिता पूर्वं तयैवाप्तसखीमुखैः ।। ८९
असिद्धानिष्टसिद्धेष्टकाकतालीयविस्मितम् ।
ततस्तं तत्र राजानमेको मन्त्री तदाब्रवीत् ।। ९०
विधिरेव हि जागर्ति भव्यानामर्थसिद्धिषु ।
असंचेतयमानानां सद्भृत्यः स्वामिनामिव ।। ९१
तथा च कथयाम्येतां राजन्नत्र कथां शृणु ।
बभूव हरिशर्माख्यः कोऽपि ग्रामे क्वचिद्द्विजः ।। ९२
स दरिद्रश्च मूर्खश्च वृत्त्यभावेन दुःस्थितः ।
पूर्वदुष्कृतभोगाय जातोऽतिबहुबालकः ।। ९३
सकुटुम्बो भ्रमन्भिक्षां प्राप्यैकं नगरं क्रमात् ।
शिश्रिये स्थूलदत्ताख्यं गृहस्थं स महाधनम् ।। ९४
गवादिरक्षकान्पुत्रान्भार्यां कर्मकरीं निजाम् ।
तस्य कृत्वा गृहाभ्यर्णे प्रैष्यं कुर्वन्नुवास सः ।। ९५
एकदा स्थूलदत्तस्य सुतापरिणयोत्सवः ।
तस्याभूदागतानेकजन्ययात्राजनाकुलः।। ९६
तदा च हरिशर्मात्र तद्गृहे सकुटुम्बकः ।
आकण्ठघृतमांसादिभोजनास्थां बबन्ध सः ।। ९७
तद्वेलां वीक्षमाणोऽथ स्मृतः केनापि नात्र सः ।
ततोऽनाहारनिर्विण्णो भार्यामित्यब्रवीन्निशि ।। ९८
दारिद्यादिह मौर्ख्याच्च ममेदृशमगौरवम् ।
तदत्र कृत्रिमं युक्त्या विज्ञानं प्रयुनज्म्यहम् ।। ९९
येनास्य स्थूलदत्तस्य भवेयं गौरवास्पदम् ।
त्वं प्राप्तेऽवसरे चास्मै ज्ञानिनं मां निवेदय ।। १००
इत्युक्त्वा तां विचिन्त्यात्र धिया सुप्ते जने हयः ।
स्थूलदत्तगृहात्तेन जह्रे जामातृवाहनः ।। १०१
दूरे प्रच्छन्नमेतेन स्थापितं प्रातरत्र तम् ।
इतस्ततो विचिन्वन्तोऽप्यश्वं जन्या न लेभिरे ।। १०२
अथामङ्गलवित्रस्तं हयचौरगवेषिणम् ।
हरिशर्मवधूरेत्य स्थूलदत्तमुवाच सा ।। १०३
भर्ता मदीयो विज्ञानी ज्योतिर्विद्यादिकोविदः ।
अश्वं वो लम्भयत्येनं किमर्थं स न पृच्छ्यते ।। १०४
तच्छ्रुत्वा स्थूलदत्तस्तं हरिशर्माणमाह्वयत् ।
ह्यो विस्मृतो हृतेऽश्वे तु स्मृतोऽस्म्यद्येति वादिनम् ।। १०५
विस्मृतं नः क्षमस्वेति प्रार्थितं ब्राह्मणं च सः ।
पप्रच्छ केनापहृतो हयो नः कथ्यतामिति ।। १०६
हरिशर्मा ततो मिथ्या रेखाः कुर्वन्नुवाच सः ।
इतो दक्षिणसीमान्ते चौरैः संस्थापितो हयः ।। १०७
प्रच्छन्नस्थो दिनान्ते च दूरं यावन्न नीयते ।
तावदानीयतां गत्वा त्वरितं स तुरंगमः ।। १०८
तच्छ्रुत्वा धावितैः प्राप्य क्षणात्स बहुभिर्नरैः ।
आनिन्येऽश्वः प्रशंसद्भिर्विज्ञानं हरिशर्मणः ।। १०९
ततो ज्ञानीति सर्वेण पूज्यमानो जनेन सः ।
उवास हरिशर्मात्र स्थूलदत्तार्चितः सुखम् ।। ११०
अथ गच्छत्सु दिवसेष्वत्र राजगृहान्तरात् ।
हेमरत्नादि चौरेण भूरि केनाप्यनीयत ।। १११
नाज्ञायत यदा चौरस्तदा ज्ञानिप्रसिद्धितः ।
आनाययामास नृपो हरिशर्माणमाशु तम् ।। ११२
स चानीतः क्षिपन्कालं वक्ष्ये प्रातरिति ब्रुवन् ।
वासके स्थापितो ज्ञानविग्नो राज्ञासुरक्षितः ।। ११३
तत्र राजकुले चासीन्नाम्ना जिह्वेति चेटिका ।
यया भ्रात्रा समं तच्च नीतमभ्यन्तराद्धनम् ।। ११४
सा गत्वा निशि तत्रास्य वासके हरिशर्मणः ।
जिज्ञासया ददौ द्वारि कर्णं तज्ज्ञानशङ्किता ।। ११५
हरिशर्मा च तत्कालमेककोऽभ्यन्तरे स्थितः ।
निजां जिह्वां निनिन्दैव मृषाविज्ञानवादिनीम् ।। ११६
भोगलम्पटया जिह्वे किमिदं विहितं त्वया ।
दुराचारे सहस्व त्वमिदानीमिह निग्रहम् ।। ११७
तच्छ्रुत्वा ज्ञानिनानेन ज्ञातास्मीति भयेन सा ।
जिह्वाख्या चेटिका युक्त्या प्रविवेश तदन्तिकम् ।। ११८
पतित्वा पादयोस्तस्य ज्ञानिव्यञ्जनमब्रवीत् ।
ब्रह्मन्नियं सा जिह्वाहं त्वया ज्ञातार्थहारिणी ।। ११९
नीत्वा तच्च मयास्यैव मन्दिरस्येह पृष्ठतः ।
उद्याने दाडिमस्याधो निखातं भूतले धनम् ।। १२०
तद्रक्ष मां गृहाणेमं किंचिन्मे हेम हस्तगम् ।
एतच्छ्रुत्वा सगर्वं स हरिशमा जगाद ताम् ।। १२१
गच्छ जानाम्यहं सर्वं भूतं भव्यं भवत्तथा ।
त्वां तु नोद्धाटयिष्यामि कृपणां शरणागताम् ।। १२२
यच्च हस्तगतं तेऽस्ति तद्दास्यसि पुनर्मम ।
इत्युक्ता तेन सा चेटी तथेत्याशु ततो ययौ ।। १२३
हरिशर्मा च स ततो विस्मयादित्यचिन्तयत् ।
असाध्यं साधयत्यर्थं हेलयाभिमुखो विधिः ।। १२४
यदिहोपस्थितेऽनर्थे सिद्धोऽर्थोऽशङ्कितं मम ।
स्वजिह्वां निन्दतो जिह्वा चौरी मे पतिता पुरः ।। १२५
शङ्कयैव प्रकाशन्ते बत प्रच्छन्नपातकाः ।
इत्याद्याकलयन्सोऽत्र हृष्टो रात्रिं निनाय ताम् ।। १२६
प्रायश्चालीकविज्ञानयुक्त्या नीत्वा स तं नृपम् ।
तत्रोद्याने निखातस्थं प्रापयामास तद्धनम् ।। १२७
चौरं चाप्यपनीतांशं शशंस प्रपलायितम् ।
ततस्तुष्टो नृपस्तस्मै ग्रामान्दातुं प्रचक्रमे ।। १२८
कथं स्यान्मानुषागम्यं ज्ञानं शास्त्रं विनेदृशम् ।
तन्नूनं चौरसंकेतकृतेयं धूर्तजीविका ।। १२९
तस्मादेषोऽन्यया युक्त्या वारमेकं परीक्ष्यताम् ।
देव ज्ञानीति कर्णे तं मन्त्री राजानमभ्यधात् ।। १३०
ततोऽन्तःक्षिप्तमण्डूकं सपिधानं नवं घटम् ।
स्वैरमानाय्य राजा तं हरिशर्माणमब्रवीत् ।। १३१
ब्रह्मन्यदस्मिन्घटके स्थितं जानासि तद्यदि ।
तदद्य ते करिष्यामि पूजां सुमहतीमहम् ।। १३२
तच्छ्रुत्वा नाशकालं तं मत्वा स्मृत्वा ततो निजम् ।
पित्रा क्रीडाकृतं बाल्ये मण्डूक इति नाम सः ।। १३३
विधातृप्रेरितः कुर्वंस्तेनात्र परिदेवनम् ।
ब्राह्मणो हरिशर्मात्र सहसैवैवमब्रवीत् ।। १३४
साधोरेव तु मण्डूक तवाकाण्डे घटोऽधुना ।
अवशस्य विनाशाय संजातोऽयं हठादिह ।। १३५
तच्छ्रुत्वाहो महाज्ञानी भेकोऽपि विदितोऽमुना ।
इति जल्पन्ननान्दात्र प्रस्तुतार्थान्वयाज्जनः ।। १३६
ततस्तत्प्रातिभज्ञानं मन्वानो हरिशर्मणे ।
तुष्टो राजा ददौ ग्रामान्सहेमच्छत्त्रवाहनान् ।। १३७
क्षणाच्च हरिशर्मा स जज्ञे सामन्तसंनिभः ।
इत्थं दैवेन साध्यन्ते सदर्थाः शुभकर्मणाम् ।। १३८
तत्सोमदत्तं सदृशं दैवेनैवाभिसारिता ।
निवार्यासदृशं राजंस्तव तेजस्वती सुता ।। १३९
इति मन्त्रिमुखाछ्रुत्वा तस्मै राजसुताय ताम् ।
राजा विक्रमसेनोऽथ ददौ लक्ष्मीमिवात्मजाम ।। १४०
ततः श्वशुरसैन्येन गत्वा जित्वा रिपूंश्च सः ।
सोमदत्तः स्वराज्यस्थस्तस्थौ भार्यासखः सुखम् ।। १४१
एवं विधेर्भवति सर्वमिदं विशेषात्त्वामीदृशीं घटयितुं क इह क्षमेत ।
वत्सेश्वरेण सदृशेन विनैव दैवं कुर्यामहं सखि किमत्र कलिङ्गसेने ।। १४२
इत्थं कथां रहसि राजसुता निशम्य सोमप्रभावदनतोऽत्र कलिङ्गसेना ।
तत्प्रार्थिनी शिथिलबन्धुभयत्रपा सा वत्सेशसंगमसमुत्कमना बभूव ।। १४३
अथास्तमुपयास्यति त्रिभुवनैकदीपे रवौ प्रभातसमयागमावधि कथंचिदामन्त्र्य ताम् ।
सखीमभिमतोद्यमस्थितमतिं खमार्गेण सा मयासुरसुता ययौ निजगृहाय सोमप्रभा ।। १४४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके चतुर्थस्तरङ्गः ।