कथासरित्सागरः/लम्बकः ४/तरङ्गः ३

विकिस्रोतः तः

ततो वासवदत्ता सा वत्सराजं समीपगम् ।
विजने सचिवैर्युक्तमन्येद्युरिदमब्रवीत् ।। १
यतः प्रभृति गर्भोऽयमार्यपुत्र धृतो मया ।
ततः प्रभृति तद्रक्षा तीव्रा मां हृदि बाधते ।। २
अद्य तच्चिन्तया चाहं सुप्ता निशि कथंचन ।
जाने दृष्टवती कंचित्स्वप्ने पुरुषमागतम् ।। ३
भस्माङ्गरागसितया शेखरीकृतचन्द्रया ।
पिशङ्गजटया मूर्त्या शोभितं शूलहस्तया ।। ४
स च मामभ्युपेत्यैव सानुकम्प इवावदत् ।
पुत्रि गर्भकृते चिन्ता न कार्या काचन त्वया ।। ५
अहं तवैनं रक्षामि दत्तो ह्येष मयैव ते ।
किंचान्यच्छृणु वच्म्येव तव प्रत्ययकारणम् ।। ६
श्वः कापि नारी विज्ञप्तिहेतोर्युष्मानुपैष्यति ।
अवष्टभ्यैव साक्षेपमाकर्षन्ती निजं पतिम् ।। ७
सा च दुश्चारिणी योषित्स्वबान्धवबलात्पतिम् ।
तं घातयितुमिच्छन्ती सर्वं मिथ्या ब्रवीति तत् ।। ८
त्वं चात्र पुत्रि वत्सेशं पूर्वं विज्ञापयेस्तथा ।
तस्याः सकाशात्स यथा साधुर्मुच्येत कुस्त्रियः ।। ९
इत्यादिश्य गते तस्मिन्नन्तर्धानं महात्मनि ।
प्रबुद्धा सहसैवाहं विभाता च विभावरी ।। १०
एवमुक्ते तया देव्या शर्वानुग्रहवादिनः ।
तत्रासन्विस्मिताः सर्वे संवादापेक्षिमानसाः ।। ११
तस्मिन्नेव क्षणे चात्र प्रविश्यार्तानुकम्पिनम् ।
वत्सराजं प्रतीहारमुख्योऽकस्माद्व्यजिज्ञपत् ।। १२
आगता देव विज्ञत्यै कापि स्त्री बान्धवैर्वृता ।
पञ्चपुत्रान्गृहीत्वा स्वमाक्षिप्य विवशं पतिम् ।। १३
तच्छ्रुत्वा नृपतिर्देवीस्वप्नसंवादविस्मितः ।
प्रवेश्यतामिहैवेति प्रतीहारं तमादिशत् ।। १४
स्वप्नसत्यत्वसंजातसत्पुत्रप्राप्तिनिश्चयः ।
देवी वासवदत्तापि सा संप्राप परां मुदम् ।। १५५
अथ द्वारोन्मुखैः सर्वैर्वीक्ष्यमाणा सकौतुकम् ।
प्रतीहाराज्ञया योषिद्भर्तृयुक्ता विवेश सा ।। १६
प्रविश्याश्रितदैन्या च यथाक्रमकृतानतिः ।
अथ संसदि राजानं सदेवीकं व्यजिज्ञपत् ।। १७
अयं निरपराधाया मम भर्ता भवन्नपि ।
न प्रयच्छत्यनाथाया भोजनाच्छादनादिकम् ।। १८
इत्युक्तवत्यां तस्यां च स तद्भर्ता व्यजिज्ञपत् ।
देव मिथ्या वदत्येषा सबन्धुर्मद्वधैषिणी ।। १९
आ वत्सरान्तं सर्वं हि दत्तमस्या मयाग्रतः ।
एतद्बन्धव एवान्ये तटस्था मेऽत्र साक्षिणः ।। २०
एवं विज्ञापितस्तेन राजा स्वयमभाषत ।
देवीस्वप्ने कृतं साक्ष्यं देवेनैवात्र शूलिना ।। २१
तत्किं साक्षिभिरेषैव निग्राह्या स्त्री सबान्धवा ।
इति राज्ञोदितेऽवादीद्धीमान्यौगन्धरायणः ।। २२
तथापि साक्षिवचनात्कार्यं देव यथोचितम् ।
लोको ह्येतदजानानो न प्रतीयात्कथंचन ।। २३
तच्छ्रुत्वा साक्षिणो राज्ञा तथेत्यानाय्य तत्क्षणम् ।
पृष्टाः शशंसुस्ते चात्र तां मिथ्यावादिनीं स्त्रियम्।। २४
ततः प्रख्यातसद्भर्तृद्रोहामेतां सबान्धवाम् ।
सपुत्रां च स वत्सेशः स्वदेशान्निरवासयत् ।। २५
विससर्ज च तं साधुं तद्भर्तारं दयार्द्रधीः ।
विवाहान्तरपर्याप्तं वितीर्य विपुलं वसु ।। २६
पुमांसमाकुलं क्रूरा पतितं दुर्दशावटे ।
जीवन्तमेव कुष्णाति काकीव कुकुटुम्बिनी ।। २७
स्निग्धा कुलीना महती गृहिणी तापहारिणी ।
तरुच्छायेव मार्गस्था पुण्यैः कस्यापि जायते ।। २८
इति चैतत्प्रसङ्गेन वदन्तं तं महीपतिम् ।
वसन्तकः स्थितः पार्श्वे कथापटुरवोचत ।। २९
किं च देव विरोधो वा स्नेहो वापीह देहिनाम् ।
प्राग्जन्मवासनाभ्यासवशात्प्रायेण जायते ।। ३०
तथा च श्रूयतामत्र कथेयं वर्ण्यते मया ।
आसीद्विक्रमचण्डाख्यो वाराणस्यां महीपतिः ।। ३१
तस्याभूद्वल्लभो भृत्यो नाम्ना सिंहपराक्रमः ।
यो रणेष्विव सर्वेषु द्यूतेष्वप्यसमो जयी ।। ३२
तस्याभवच्च विकृता वपुषीवाशयेऽप्यलम् ।
ख्याता कलहकारीति नाम्नान्वर्थेन गेहिनी ।। ३३
स तस्याः सततं भूरि राजतो द्यूततस्तथा ।
प्राप्य प्राप्य धनं धीरः सर्वमेव समर्पयत् ।। ३४
सा तु तस्य समुत्पन्नपुत्रत्रययुता शठा ।
तथापि क्षणमप्येकं न तस्थौ कलहं विना ।। ३५
बहिः पिबसि भुङ्क्षे च नैव किंचिद्ददासि नः ।
इत्यारटन्ती ससुता सा तं नित्यमतापयत् ।। ३६
प्रसाद्यमानाप्याहारपानवस्त्रैरहर्निशम् ।
दुरन्ता भोगतृष्णेव भृशं जज्वाल तस्य सा ।। ३७
ततः क्रमेण तन्मन्युखिन्नस्त्यक्त्वैव तद्गृहम् ।
स विन्ध्यवासिनीं द्रष्टुमगात्सिंहपराक्रमः ।। ३८
सा तं स्वप्ने निराहारस्थितं देवी समादिशत् ।
उत्तिष्ठ पुत्र तामेव गच्छ वाराणसीं पुरीम् ।। ३९
तत्र सर्वमहानेको योऽस्ति न्यग्रोधपादपः ।
तन्मूलात्खन्यमानात्त्वं स्वैरं निधिमवाप्स्यसि ।। ४०
तन्मध्याल्लप्स्यसे चैकं नभःखण्डमिव च्युतम् ।
पात्रं गरुडमाणिक्यमयं निस्त्रिंशनिर्मलम् ।। ४१
तत्रार्पितेक्षणो द्रक्ष्यस्यन्तः प्रतिमितामिव ।
सर्वस्य जन्तोः प्राग्जातिं या स्याज्जिज्ञासिता तव ।। ४२
तेनैव बुद्ध्वा भार्यायाः पूर्वजातिं तथात्मनः ।
अवाप्तार्थः सुखी तत्र गतखेदो निवत्स्यसि ।। ४३
एवमुक्तश्च देव्याः स प्रबुद्धः कृतपारणः ।
वाराणसीं प्रति प्रायात्प्रातः सिंहपराक्रमः ।। ४४
गत्वा च तां पुरीं प्राप्य तस्मान्न्यग्रोधमूलतः ।
लेभे निधानं तन्मध्यात्पात्रं मणिमयं महत् ।। ४५
अपश्यच्चात्र जिज्ञासुः पात्रे पूर्वत्र जन्मनि ।
घोरामुक्षीं स्वभार्यां तामात्मानं च मृगाधिपम् ।। ४६
पूर्वजातिमहावैरवासनानिश्चलं ततः ।
बुद्ध्वा भार्यात्मनोर्द्वेष शोकमोहौ मुमोच सः ।। ४७
अथ बह्वीः परिज्ञातास्तत्र पात्रप्रभावतः ।
प्राग्जन्मभिन्नजातीयाः परिहृत्यैव कन्यकाः ।। ४८
तुल्यां जन्मान्तरे सिंहीं परिणिन्ये विचिन्त्य सः ।
भार्यां द्वितीयां सिंहश्रीनाम्नीं सिंहपराक्रमः ।। ४९
कृत्वा कलहकारीं च तां स ग्रासैकभागिनीम् ।
निधानप्राप्तिसुखितस्तस्थौ नववधूसखः ।। ५०
इत्थं दारादयोऽपीह भवन्ति भुवने नृणाम् ।
प्राक्संस्कारवशायातवैरस्नेहा महीपते ।। ५१
इत्याकर्ण्य कथां चित्रां वत्सराजो वसन्तकात् ।
भृशं तुतोष सहितो देव्या वासवदत्तया ।। ५२
एवं दिनेषु गच्छत्सु राज्ञस्तस्य दिवानिशम् ।
अतृप्तस्य लसद्गर्भदेवीवक्त्रेन्दुदर्शने ।। ५३
मन्त्रिणामुदपद्यन्त सर्वेषां शुभलक्षणाः ।
क्रमेण तनयास्तत्र भाविकल्याणसूचकाः ।। ५४
प्रथमं मन्त्रिमुख्यस्य जायते स्म किलात्मजः ।
यौगन्धरायणस्यैव मरुभूतिरिति श्रुतः ।। ५५
ततो रुमण्वतो जले सुतो हरिशिखाभिधः ।
वसन्तकस्याप्युत्पेदे तनयोऽथ तपन्तकः ।। ५६
ततो नित्योदिताख्यस्य प्रतीहाराधिकारिणः ।
इत्यकापरसंज्ञस्य पुत्रोऽजायत गोमुखः ।। ५७
वत्सराजसुतस्येह भाविनश्चक्रवर्तिनः ।
मन्त्रिणोऽमी भविष्यन्ति वैरिवंशावमर्दिनः ।। ५८
इति तेषु च जातेषु वर्तमाने महोत्सवे ।
तत्राशरीरा नभसो निःससार सरस्वती ।। ५९
दिवसेष्वथ यातेषु वत्सराजस्य तस्य सा ।
देवी वासवदत्ताभूदासन्नप्रसवोदया ।। ६०
अध्यास्त सा च तच्चित्रं पुत्रिणीभिः परिष्कृतम् ।
जातवासगृहं सार्कशमीगुप्तगवाक्षकम् ।। ६१
रत्नदीपप्रभासङ्गमङ्गलैर्विविधायुधैः ।
गर्भरक्षाक्षमं तेजो ज्वलयद्भिरिवावृतम् ।। ६२
मन्त्रिभिस्तन्त्रितानेकमन्त्रतन्त्रादिरक्षितम् ।
जातं मातृगणस्येव दुर्गं दुरितदुर्जयम् ।। ६३
तत्रासूत च सा काले कुमारं कान्तदर्शनम् ।
द्यौरिन्दुमिव निर्गच्छदच्छामृतमयद्युतिम् ।। ६४
येन जातेन न परं मन्दिरं तत्प्रकाशितम् ।
यावद्धृदयमप्यस्या मातुर्निःशोकतामसम् ।। ६५
ततः प्रमोदे प्रसरत्यत्रान्तःपुरवासिनाम् ।
वत्सेशः सुतजन्मैतच्छुश्रावाभ्यान्तराज्जनात् ।। ६६
तस्मै स राज्यमपि यत्प्रीतः प्रियनिवेदिने ।
न ददौ तदनौचित्यभयेन न तु तृष्णया ।। ६७
एत्य चान्तःपुरं सद्यो बद्धौत्सुक्येन चेतसा ।
चिरात्फलितसंकल्पः स ददर्श सुतं नृपः ।। ६८
रक्तायताधरदलं चलोर्णाचारुकेसरम् ।
मुखं दधानं साम्राज्यलक्ष्मीलीलाम्बुजोपमम् ।। ६९
प्रागेवान्यनृपश्रीभिर्भीत्येव निजलाञ्छनैः ।
उज्झितैरङ्कितं मृद्वोः पदयोश्छत्त्रचामरैः ।। ७०
ततो हर्षभरापूरपीडनोत्फुल्लया दृशा ।
सास्रया स्रवतीवास्मिन्सुतस्नेहं महीपतौ ।। ७१
नन्दत्स्वपि च यौगन्धरायणादिषु मन्त्रिषु ।
गगनादुच्चचारैवं काले तस्मिन्सरस्वती ।। ७२
कामदेवावतारोऽयं राजञ्जातस्तवात्मजः ।
नरवाहनदत्तं च जानीह्येनमिहाख्यया ।। ७३
अनेन भवितव्यं च दिव्यं कल्पमतन्द्रिणा ।
सर्वविद्याधरेन्द्राणामचिराच्चक्रवर्तिना ।। ७४
इत्युक्त्वा विरतं वाचा तत्क्षणं नभसः क्रमात् ।
पुष्पवर्षैर्निपतितं प्रसृतं दुन्दुभिस्वनैः ।। ७५
ततः सुरकृतारम्भजनिताभ्यधिकादरम् ।
स राजा सुतरां हृष्टश्चकार परमुत्सवम् ।। ७६
बभ्रमुस्तूर्यनिनदा नभस्तो मन्दिरोद्गताः ।
विद्याधरेभ्यः सर्वेभ्यो राजजन्मेव शंसितुम् ।। ७७
सौधाग्रेष्वनिलोद्धूताः शोणरागाः स्वकान्तिभिः ।
पताका अपि सिन्दूरमन्योन्यमकिरन्निव ।। ७८
भुवि साङ्गस्मरोत्पत्तितोषादिव सुराङ्गनाः ।
समागताः प्रतिपदं ननृतुर्वारयोषितः ।। 4
अदृश्यत च सर्वा सा समानविभवा पुरी ।
राज्ञो बद्धोत्सवात्प्राप्तैर्नववस्त्रविभूषणैः ।। ८०
तदा ह्यर्थान्नृपे तस्मिन्वर्षत्यर्थ्यनुजीविषु ।
कोषादृते न तत्रत्यो दधौ कश्चन रिक्तताम् ।। ८१
मङ्गल्यपूर्वाः स्वाचारदक्षिणा नर्तितापराः ।
सत्प्राभृतोत्तरास्तैस्तैः सुरक्षिभिरधिष्ठिताः ।। ८२
प्रसृतातोद्यनिर्ह्रादाः साक्षाद्दिश इवाखिलाः ।
समन्तादाययुश्चात्र सामन्तान्तःपुराङ्गनाः ।। ०३
चेष्टा नृत्तमयी तत्र पूर्णपात्रमयं वचः ।
व्यवहारो महात्यागमयस्तूर्यमयो ध्वनिः ।। ८४
चीनपिष्टमयो लोकश्चारणैकमयी च भूः ।
आनन्दमय्यां सर्वस्यामपि तस्यामभूत्पुरि ।। ८२
एव महोत्सवस्तत्र भूरिवासरवर्धितः ।
निर्वर्तते स्म स समं पूर्णैः पौरमनोरथैः ।। ८६
सोऽपि व्रजत्सु दिवसेष्वथ राजपुत्रो वृद्धिं शिशुः प्रतिपदिन्दुरिवाजगाम ।
पित्रा यथाविधिनिवेदितदिव्यवाणीनिर्दिष्टपूर्वनरवाहनदत्तनाम्ना ।। ८७
यानि स्फुरन्मसृणमुग्धनखप्रभाणि द्वित्राणि यानि च खचद्दशनाङ्कुराणि ।
तानि स्खलन्ति ददतो वदतश्च तस्य दृष्ट्वा निशम्य च पदानि पिता तुतोष ।। ८८
अथ तस्मै मन्त्रिवराः स्वसुतानानीय राजपुत्राय ।
शिशवे शिशून्महीपतिहृदयानन्दान्समर्पयामासुः ।। ८९
यौगन्धरायणः प्राङ्मरुभूतिं हरिशिखं रुमण्वांश्च ।
गोमुखमित्यकनामा तपन्तकाख्यं वसन्तकश्च सुतम् ।। ९०
शान्तिकरोऽपि पुरोधा भ्रातृसुतं शान्तिसोममपरं च ।
वैश्वानरमर्पितवान्पिङ्गलिकापुत्रकौ यमजौ ।। ९१
तस्मिन्क्षणे च नभसो निपपात दिव्या नान्दीनिनादसुभगा सुरपुष्पवृष्टिः ।
राजा ननन्द च तदा महिषीसमेतः सत्कृत्य तत्र सचिवात्मजमण्डलं तत् ।। ९२
बाल्येऽपि तैरभिमतैरथ मन्त्रिपुत्रैः षड्भिस्तदेकनिरतैश्च स राजपुत्रः ।
युक्तः सदैव नरवाहनदत्त आसीद्युक्तो गुणैरिव महोदयहेतुभूतैः ।। ९३
तं च क्रीडाकलितललिताव्यक्तनर्माभिलाषं
यान्तं प्रीतिप्रवणमनसामङ्कतोऽङ्कं नृपाणाम् ।
पुत्रं स्मेराननसरसिजं सादरं पश्यतस्ते
बद्धानन्दाः किमपि दिवसा वत्सराजस्य जग्मुः ।। ९४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्बके तृतीयस्तरङ्गः ।
समाप्तश्चायं नरवाहनदत्तजननलम्बकश्चतुर्थः ।