आश्वलायनगृह्यसूत्रम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

आश्वलायनगृह्यसूत्रम्

1.1
उक्तानि वैतानिकानि गृह्याणि वक्ष्यामः १
त्रयः पाकयज्ञाः २
हुता अग्नौ हूयमाना अनग्नौ प्रहुता ब्राह्मणभोजने ब्रह्मणिहुताः ३
अथाप्यृच उदाहरन्ति यः समिधा य आहुती यो वेदेनेति ४
समिधमेवापि श्रद्दधान आदधन्मन्येत यज इदमिति नमस्तस्मै य आहुत्या यो वेदेनेति विद्ययैवाप्यस्ति प्रीतिस्तदेतत्पश्यन्नृषिरुवाच अगोरुधाय गविषेद्युक्षाय दस्म्यं वचः । घृतात्स्वादीयो मधुनश्च वोचतेति वच एव म इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋषभासो वशा उतेति एत एव म उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति य इमं स्वाध्यायमधीयत इति यो नमसा स्वध्वर इति नमस्कारेण वै खल्वपि न वै देवा नमस्कारमति यज्ञो वै नम इति हि ब्राह्मणं भवति ५

1.2
अथ सायंप्रातःसिद्धस्य हविष्यस्य जुहुयात् १
अग्निहोत्रदेवताभ्यः सोमाय वनस्पतयेऽग्नीषोमाभ्यामिन्द्राग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे २
स्वाहेत्यथ बलिहरणम् ३
एताभ्यश्चैव देवताभ्योऽद्भ्य ओषधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्यः ४
इन्द्रायेन्द्रपुरुषेभ्यो यमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशम् ५
ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये ६
विश्वेभ्यो देवेभ्यः ७
सर्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा ८
नक्तञ्चारिभ्य इति नक्तम् ९
रक्षोभ्य इत्युत्तरतः १०
स्वधा पितृभ्य इति प्राचीनावीती शेषं
दक्षिणा निनयेत् ११

1.3
अथ खलु यत्र क्व च होष्यन्त्यस्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षड्लेखा उदगायतां पश्चात्प्रागायते नानान्तयोस्तिस्रो मध्ये तदभ्युक्ष्याग्निं प्रतिष्ठाप्यान्वाधाय परिसमूह्य परिस्तीर्य पुरस्ताद्दक्षिणतः पश्चादुत्तरत इत्युदकसंस्थन्तूष्णीं पर्युक्षणम् १
पवित्राभ्यामाज्यस्योत्पवनम् २
अप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेशमात्रौ कुशौ नानान्तयोर्गृहीत्वाङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति प्रागुत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीम् ३
कृताकृतमाज्यहोमेषु परिस्तरणम् ४
तथाज्यभागौ पाकयज्ञेषु ५
ब्रह्मा च धन्वन्तरियज्ञशूलगववर्जम् ६
अमुष्मै स्वाहेति जुहुयात् ७
अग्निरिन्द्रः प्रजापतिर्विश्वेदेवा ब्रह्मेत्यनादेशे ८
एकबर्हिराद्याज्यस्विष्टकृतः स्युस्तुल्यकालाः ९
तदेषाभियज्ञगाथा गीयते । पाकयज्ञान्समासाद्यैकाज्यानेकबर्हिषः
। एकस्विष्टकृतः कुर्यान्नानापि सति दैवते १०
इति

1.4
उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः १
सार्वकालमेके विवाहम् २
तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयात् ३
अग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च व्याहृतिभिर्वा ४
समुच्चयमेके ५
नैके काञ्चन ६
त्वमर्यमा भवसि यत्कनीनामिति विवाहे चतुर्थीम् ७

1.5
कुलमग्रे परीक्षेत ये मातृतः पितृश्चेति यथोक्तं पुरस्तात् १
बुद्धिमते कन्यां प्रयच्छेत् २
बुद्धिरूपशीललक्षणसम्पन्नामरोगामुपयच्छेत ३
दुर्विज्ञेयानि लक्षणानीति ४
अष्टौ पिण्डान्कृत्वा ऋतमग्रे प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितं यदियं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत्सत्यं तद्दृश्यतामिति पिण्डानभिमन्त्र्य कुमारीं ब्रूयादेषामेकं गृहाणेति ५
क्षेत्राच्चेदुभयतःसस्याद्गृह्णीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्याद्गोष्ठात्पशुमती वेदिपुरीषाद्ब्रह्मवर्चस्विन्यविदासिनो ह्रदात्सर्वसम्पन्ना देवनात्कितवी चतुष्पथाद्द्विप्रव्राजिनीरिणादधन्या श्मशानात् पतिघ्नी ६

1.6
अलंकृत्य कन्यामुदकपूर्वां दद्यादेष ब्राह्मो विवाहः । तस्यां जातो द्वादशावरान्द्वादश परान्पुनात्युभयतः । ऋत्विजे वितते कर्मणि दद्यादलंकृत्य स दैवो दशावरान्दश परान्पुनात्युभयतः । सह धर्मं चरत इति प्राजापत्योऽष्टावरानष्ट परान्पुनात्युभयतः । गोमिथुनं दत्त्वोपयच्छेत स आर्षः सप्तावरा न्सप्त परान्पुनात्युभयतः । मिथः समयं कृत्वोपयच्छेत स गान्धर्वः। धनेनोपतोष्योपयच्छेत स आसुरः । सुप्तानां प्रमत्तानां वापहरेत् स पैशाचः ।
हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत् स राक्षसः १

1.7
अथ खलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान्विवाहे प्रतीयात् १
यत्तु समानं तद्वक्ष्यामः २
पश्चादग्नेर्दृषदमश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुदकुम्भं समन्वारब्धायां हुत्वा तिष्ठन् प्रत्यङ्मुखः प्राङ्मुख्या आसीनाया गृह्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयाद्यदि कामयीत पुमांस एव मे पुत्रा जायेरन्निति ३
अङ्गुलीरेव स्त्रीकामः ४
रोमान्ते हस्तं साङ्गुष्ठमुभयकामः ५
प्रदक्षिणमग्निमुदकुम्भञ्च त्रिः परिणयञ्जपति । अमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेह विवहावहै प्रजां प्रजनयावहै सम्प्रियौ रोचिष्णू सुमनस्यमानौ जीवेव शरदः शतमिति ६
परिणीय परिणीयाश्मानमारोहयतीममश्मानमारोहाश्मेव त्वं स्थिरा भव । सहस्व पृतनायतोऽभितिष्ठ प्रतन्यत इति ७
वध्वञ्जला उपस्तीर्य भ्राता भ्रातृस्थानो वा द्विर्लाजानावपति ८
त्रिर्जामदग्न्यानाम् ९
प्रत्यभिघार्य हविः १०
अवत्तञ्च ११
एषोऽवदानधर्मः १२
अर्यमणं नु देवं कन्या अग्निमयक्षत स इमां देवो अर्यमा प्रेतो मुञ्चातु नामुतः स्वाहा । वरुणं नु देवं कन्या अग्निमयक्षत स इमां देवो वरुणः प्रेतो मुञ्चातु नामुतः स्वाहा । पूषणं नु देवं कन्या अग्निमयक्षत स इमां देवः पूषा प्रेतो मुञ्चातुनामुतः स्वाहेत्यविच्छिन्दत्यञ्जलिं स्रुचेव जुहुयात् १३
अपरिणीय शूर्पपुटेनाभ्यात्मं तूष्णीं चतुर्थम् १४
ओप्योप्य हैके लाजान्परिणयन्ति तथोत्तमे आहुती न सन्निपततः १५
अथास्यै शिखे विमुञ्चति यदि कृते भवतः १६
ऊर्णास्तुके केशपक्षयोर्बद्धे भवतः । प्र त्वा मुञ्चामि वरुणस्य पाशादिति १७
उत्तरामुत्तरया १८
अथैनामपराजितायान्दिशि सप्तपदान्यभ्युत्क्रामयतीष एकपद्यूर्जे द्विपदी रायस्पोषाय त्रिपदी मायोभव्याय चतुष्पदी प्रजाभ्यः पञ्चपद्यृतुभ्यः षट्पदी सखा सप्तपदी भव सा मामनुव्रता भव पुत्रान्विन्दावहै बहूंस्ते सन्तु जरदष्टय इति १९
उभयोः सन्निधाय शिरसी उदकुम्भेनावसिच्य २०
ब्राह्मण्याश्च वृद्धाया जीवपत्न्या जीवप्रजाया अगार एतां रात्रिं वसेत् २१
ध्रुवमरुन्धतीं सप्तऋषीनिति दृष्ट्वा वाचं विसृजेत जीवपत्नीं प्रजां विन्देयेति २२

1.8
प्रयाण उपपद्यमाने पूषा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत् १
अश्मन्वतीरीयते संरभध्वमित्यर्द्धर्चेन नावमारोहयेत् २
उत्तरेणोक्त्रमयेत् ३
जीवं रुदन्तीति रुदत्याम् ४
विवाहाग्निमग्रतोऽजस्रन्नयन्ति ५
कल्याणेषु देशवृक्षचतुष्पथेषु माविदन्परिपन्थिन इति जपेत् ६
वासेवासे सुमङ्गलीरियं वधूरितीक्षकानीक्षेत ७
इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत् ८
विवाहाग्निमुपसमाधाय पश्चादस्यानडुहं चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वारब्धायाम् आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यृचं हुत्वा समञ्जन्तु विश्वेदेवा इति दध्नः प्राश्य प्रतिप्रयच्छेदाज्यशेषेण वानक्ति हृदये ९
अक्षारालवणाशिनौ ब्रह्मचारिणावलंकुर्वाणावधःशायिनौ स्याताम् १०
अत ऊर्द्ध्वं त्रिरात्रं द्वादशरात्रम् ११
संवत्सरं वैक ऋषिर्जायत इति १२
चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात् १३
अन्नं ब्राह्मणेभ्यः १४
अथ स्वस्त्ययनं वाचयीत १५

1.9
पाणिग्रहणादि गृह्यं परिचरेत्स्वयं पत्न्यपि वा पुत्रः कुमार्यन्तेवासी वा १
नित्यानुगृहीतं स्यात् २
यदि तूपशाम्येत्पत्न्युपवसेदित्येके ३
तस्याग्निहोत्रेण ४
प्रादुष्करणहोमकालौ व्याख्यातौ ५
हौम्यं च मांसवर्जम् ६
कामं तु व्रीहियवतिलैः ७
अग्नये स्वाहेति सायं जुहुयात् सूर्याय स्वाहेति
प्रातस्तूष्णीं द्वितीये उभयत्र ८

1.10
अथ पार्वणस्थालीपाकः १
तस्य दर्शपूर्णमासाभ्यामुपवासः २
इध्माबर्हिषोश्च सन्नहनम् ३
देवताश्चोपांशुयाजेन्द्रमहेन्द्रवर्जम् ४
काम्या इतराः ५
तस्यै तस्यै देवतायै चतुरश्चतुरो मुष्टीन्निर्वपति पवित्रे अन्तर्द्धायामुष्मै त्वा जुष्टं निर्वपामीति ६
अथैनान्प्रोक्षति यथानिरुप्तममुष्मै त्वा जुष्टं प्रोक्षामीति ७
अवहतांस्त्रिष्फलीकृतान्नाना श्रपयेत् ८
समोप्य वा ९
यदि नाना श्रपयेद्विभज्य तण्डुलानभिमृशेदिदममुष्मा इदममुष्मा इति १०
यद्यु वै समोप्य व्युद्धारं जुहुयात् ११
शृतानि हवींष्यभिघार्योदगुद्वास्य बर्हिष्यासाद्येध्मभिघार्यायन्त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्द्धस्व चेद्ध वर्द्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेति १२
तूष्णीमाघारावाघार्याज्यभागौ जुहुयादग्नये स्वाहा सोमाय स्वाहेति १३
उत्तरमाग्नेयं दक्षिणं सौम्यम् १४
विज्ञायते चक्षुषी वा एते यज्ञस्य यदाज्यभागौ १५
तस्मात्पुरुषस्य हि प्रत्यङ्मुखस्यासीनस्य दक्षिणमक्ष्युत्तरं भवत्युत्तरं दक्षिणम् १६
मध्ये हवींषि प्रत्यक्तरं वा प्राक्संस्थान्युदक्संस्थानि वोत्तरपुरस्तात्सौविष्टकृतम् १७
मध्यात्पूर्वार्द्धाच्च हविषोऽवद्यति १८
मध्यात्पूर्वार्द्धात् पश्चार्द्धादिति पञ्चावत्तिनाम् १९
उत्तरार्द्धात् सौविष्टकृतम् २०
नात्र हवींषि प्रत्यभिघारयति स्विष्टकृतं द्विरभिघारयति २१
यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्द्धयित्रे सर्वान्नः कामान्त्समर्द्धय स्वाहेति २२
बर्हिषि पूर्णपात्रं निनयेत् २३
एषोऽवभृथः २४
पाकयज्ञानामेतत्तन्त्रम् २५
हविरुच्छिष्टं दक्षिणा २६

1.11
अथ पशुकल्पः १
उत्तरतोऽग्नेः शामित्रस्यायतनं कृत्वा पाययित्वा पशुमाप्लाव्य पुरस्तात् प्रत्यङ्मुखमवस्थाप्याग्निं दूतमिति द्वाभ्यां हुत्वा सपलाशयार्द्रशाखया पश्चादुपस्पृशेदमुष्मै त्वा जुष्टमुपाकरोमीति २
व्रीहियवमतीभिरद्भिः पुरस्तात्प्रोक्षत्यमुष्मै त्वा जुष्टं प्रोक्षामीति ३
तासां पाययित्वा दक्षिणमनु बाहुं शेषं निनयेत् ४
आवृतैव पर्यग्नि कृत्वोदञ्चं नयन्ति ५
तस्य पुरस्तादुल्मुकं हरन्ति ६
शामित्र एष भवति ७
वपाश्रपणीभ्यां कर्ता पशुमन्वारभते ८
कर्तारं यजमानः ९
पश्चाच्छमित्रस्य प्राक्शिरसं प्रत्यक्शिरसं वोदक्पादं संज्ञप्य पुरा नाभेस्तृणमन्तर्द्धाय वपामुत्खिद्य वपामवदाय वपाश्रपणीभ्यां परिगृह्याद्भिरभिषिच्य शामित्रे प्रताप्याग्रेणैनमग्निं हुत्वा दक्षिणत आसीनः श्रपयित्वा परीत्य जुहुयात् १०
एतस्मिन्नेवाग्नौ स्थालीपाकं श्रपयन्ति ११
एकादश पशोरवदानानि सर्वाङ्गेभ्योऽवदाय शामित्रे श्रपयित्वा हृदयं शूले प्रताप्य स्थालीपाकस्याग्रतो जुहुयात् १२
अवदानैर्वा सह १३
एकैकस्यावदानस्य द्विर्द्विरवद्यति १४
आवृतैव हृदयशूलेन चरन्ति १५

1.12
चैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत् १
यद्यु वै विदेशस्थं पलाशदूतेन यत्र वेत्थ वनस्पत इत्येतयर्चा द्वौ पिण्डौ कृत्वा वीवधेऽभ्याधाय दूताय प्रयच्छेदिमन्तस्मै बलिं हरेति चैनं ब्रूयादयं तुभ्यमिति यो दूताय २
प्रतिभयं चेदन्तरा शस्त्रमपि किञ्चित् ३
नाव्या चेन्नद्यन्तरा प्लवरूपमपि किञ्चिदनेन तरितव्यमिति ४
धन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरोहितायाग्रे बलिं हरेत् ५

1.13
उपनिषदि गर्भलम्भनं पुंसवनमनवलोभनञ्च १
यदि नाधीयात्तृतीये गर्भमासे तिष्येणोपोषितायाः सरूपवत्साया गोर्दधनि द्वौ द्वौ माषौ यवञ्च दधि प्रसृतेन प्राशयेत् २
किं पिबसि किं पिबसीति पृष्ट्वा पुंसवनं पुंसवनमिति त्रिः प्रतिजानीयात् ३
एवं त्रीन्प्रसृतान् ४
अथास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायामजीतामोषधीं नस्तःकरोति ५
प्रजावज्जीवपुत्राभ्यां हैके आ ते गर्भो योनिमेतु पुमान्वाण इवेषुधिम् । आ वीरो जायतां पुत्रस्ते दशमास्यः । अग्निरेतु प्रथमो देवतानां सौऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदादिति ६
प्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशमस्या आलभेत यत्ते सुसीमे हृदये हितमन्तः
प्रजापतौ । मन्येऽहं मां तद्विद्वांसं माहं पौत्रमघन्नियामिति ७

1.14
चतुर्थे गर्भमासे सोमन्तोन्नयनम् १
आपूर्यमाणपक्षे यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात् २
अथाग्निमुपसमाधाय पश्चादस्यानडुहं चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वारब्धायां धाता ददातु दाशुष इति द्वाभ्यां राकामहमिति द्वाभ्यां नेजमेष इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च ३
अथास्यै युग्मेन शलाटुग्लप्सेन त्र्येण्या च शलल्या त्रिभिश्च कुशपिञ्जूलैरूर्ध्वं सीमन्तं व्यूहति भूर्भुवः स्वरोमिति त्रिः ४
चतुर्वा ५
वीणागाथिनौ संशास्ति सोमं राजानं संगायेतामिति ६
सोमो नो राजाऽवतु मानुषीः प्रजा निविष्टचक्रासाविति यां नदीमुपवसिता भवन्ति ७
ब्राह्मण्यश्च वृद्धा जीवपत्यो जीवप्रजा यद्यदुपदिशेयुस्तत्तत्कुर्युः ८
वृषभो दक्षिणा ९

1.15
कुमारं जातं पुरान्यैरालम्भात्सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत्प्र ते ददामि मधुनो घृतस्य वेदं सवित्रा प्रसूतं मघोनाम् । आयुष्मान्गुप्तो देवताभिः शतं जीव शरदो लोके अस्मिन्निति १
कर्णयोरुपनिधाय मेधाजननं जपति । मेधान्ते देवः सविता मेधां देवी सरस्वती । मेधान्ते अश्विनौ देवावाधत्तां पुष्करस्रजौ । इति २
अंसावभिमृशति अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि स जीव शरदः शतमिति । इन्द्र श्रेष्ठानि द्रविणानि धेह्यस्मे प्रयन्धि मघवन्नृजीषिन्निति च ३
नाम चास्मै दद्युः ४
घोषवदाद्यन्तरन्तस्थमभिनिष्ठानान्तं द्व्यक्षरम् ५
चतुरक्षरं वा ६
द्व्यक्षरं प्रतिष्ठाकामश्चतुरक्षरं ब्रह्मवर्चसकामः ७
युग्मानि त्वेव पुंसाम् ८
अयुजानि स्त्रीणाम् ९
अभिवादनीयं च समीक्षेत तन्मातापितरौ विद्यातामोपनयनात् १०
प्रवासादेत्य पुत्रस्य शिरः परिगृह्य जपति अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतमिति मूर्द्धनि त्रिरवघ्राय ११
आवृतैव
कुमार्यै १२

1.16
षष्ठे मास्यन्नप्राशनम् १
आजमन्नाद्यकामः २
तैत्तिरं ब्रह्मवर्चसकामः ३
घृतौदनं तेजस्कामः ४
दधिमधुघृतमिश्रमन्नं प्राशयेदन्नपतेऽत्रस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्रदातारन्तारिष ऊर्जन्नो धेहि द्विपदे चतुष्पद इति ५
आवृतैव कुमार्यै ६

1.17
तृतीये वर्षे चौलं यथाकुलधर्मं वा १
उत्तरतोऽग्नेर्व्रीहियवमाषतिलानां पृथक्पूर्णशरावाणि निदधाति २
पश्चात्कारयिष्यमाणो मातुरुपस्थ आनडुहं गोमयं नवे शरावे शमीपर्णानि चोपनिहितानि भवन्ति ३
मातुः पिता दक्षिणत एकविंशतिकुशपिञ्जूलान्यादाय ४
ब्रह्मा वैतानि धारयेत् ५
पश्चात्कारयिष्यमाणस्यावस्थाय शीतोष्णा अपः समानीयोष्णेन वा य उदकेनेहीति ६
तासां गृहीत्वा नवनीतं दधिद्रप्सान्वा प्रदक्षिणं शिरस्त्रिरुन्दति अदितिः केशान्वपत्वाप उन्दन्तु वर्चस इति ७
दक्षिणे केशपक्षे त्रीणि त्रीणि कुशपिञ्जूलान्यभ्यात्माग्राणि निदधाति ओषधे त्रायस्वैनमिति ८
स्वधिते मैनं हिंसीरिति निष्पोड्य लौहेन क्षुरेण ९
प्रछिनत्ति येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्माञ्जरदष्टिर्यथासदिति १०
प्रच्छिद्यप्रच्छिद्य प्रागग्राञ्छमीपर्णैः सह मात्रे प्रयच्छति तानानडुहे गोमये निदधाति ११
येन धाता बृहस्पतेरग्नेरिन्द्रस्य चायुषेऽवपत् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तय इति द्वितीयम् । येन भूयश्चरात्र्यां ज्योक्च पश्याति सूर्यम् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तय इति तृतीयम् १२
सर्वैर्मन्त्रैश्चतुर्थम् १३
एवमुत्तरतस्त्रिः १४
क्षुरतेजो निमृजेद्यत्क्षुरेण मर्चयता सुपेशसा वप्ता वपसि केशान् । शुन्धि शिरो मास्यायुः प्रमोषीरिति १५
नापितं शिष्याच्छीतोष्णाभिरद्भिरवर्थं कुर्वाणोऽक्षण्वन्कुशलीकुर्विति १६
यथाकुलधर्मं केशवेशान् कारयेत् १७
आवृतैव कुमार्य्यै १८

1.18
एतेन गोदानम् १
षोडशे वर्षे २
केशशब्दे तु श्मश्रुशब्दान्कारयेत् ३
श्मश्रूणीहोन्दति ४
शुन्धि शिरो मुखं मास्यायुः प्रमोषीरिति ५
केशश्मश्रुलोमनखान्युदक्संस्थानि कुर्विति संप्रेष्यति ६
आप्लुत्य वाग्यतः स्थित्वाऽहःशेषमाचार्यसकाशे वाचं विसृजेत वरं ददामीति ७
गोमिथुनं दक्षिणा ८
संवत्सरमादिशेत् ९

1.19
अष्टमे वर्षे ब्राह्मणमुपनयेत् १
गर्भाष्टमे वा २
एकादशे क्षत्रियम् ३
द्वादशे वैश्यम् ४
आ षोडशाद्ब्राह्मणस्यानतीतः कालः ५
आ द्वाविंशात् क्षत्रियस्या चतुर्विंशाद्वैश्यस्यात ऊर्ध्वं पतितसावित्रीका भवन्ति ६
नैनानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्व्यवहरेयुः ७
अलङ्कृतं कुमारं कुशलीकृतशिरसमहतेन वाससा संवीतमैणेयेन वाजिनेन ब्राह्मणं रौरवेण क्षत्रियमाजेन वैश्यम् ८
यदि वासांसि वसीरन्रक्तानि वसीरन्काषायं ब्राह्मणो माञ्जिष्टं क्षत्रियो हारिद्रं वैश्यः ९
तेषां मेखलाः १०
मौञ्जी ब्राह्मणस्य धनुर्ज्या क्षत्रियस्यावी वैश्यस्य ११
तेषां दण्डाः १२
पालाशो ब्राह्मणस्यौडुम्बरः क्षत्रियस्य बैल्वो वैश्यस्य । केशसंमितो ब्राह्मणस्य ललाटसंमितः क्षत्रियस्य प्राणसंमितो वैश्यस्य १३

1.20
सर्वे वा सर्वेषाम् १
समन्वारब्धे हुत्वोत्तरतोऽग्नेः प्राङ्मुख आचार्योऽवतिष्ठते २
पुरस्तात्प्रत्यङ्मुख इतरः ३
अपामञ्जली पूरयित्वा तत्सवितुर्वृणीमह इति पूर्णेनास्य पूर्णमवक्षारयत्यासिच्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पुष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति तस्य पाणिना पाणिं साङ्गुष्ठं गृह्णीयात् ४
सविता ते हस्तमग्रभीदसाविति द्वितीयम् । अग्निराचार्यस्तवासाविति तृतीयम् ५
आदित्यमीक्षयेत् देव सवितरेष ते ब्रह्मचारी तं गोपाय स मामृतेत्याचार्यः ६
कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कस्त्वाकमुपनयते काय त्वा परिददामीति ७
युवा सुवासाः परिवीत आगादित्यर्द्धर्चेनैनं प्रदक्षिणमावर्तयेत् ८
तस्याध्यंसौ पाणी कृत्वा हृदयदेशमालभेतोत्तरेण ९
अग्निं परिसमूह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् तूष्णीं वै प्राजापत्यं
प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते १०

1.21
मन्त्रेण हैके अग्नये समिधमाहार्षं बृहते जातवेदसे तया त्वमग्ने वर्द्धस्व समिधा ब्रह्मणा वयं स्वाहेति १
स समिधमाधायाग्निमुपस्पृश्य मुखं निमार्ष्टि त्रिस्तेजसा मा समनज्मीति २
तेजसा ह्येवात्मानं समनक्तीति विज्ञायते ३
मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासं इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयादधीहि भोः
सावित्रीं भो३
अनुब्रू३
हीति ४
तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्रीमन्वाह पच्छोऽर्द्धर्चशः सर्वाम् ५
यथाशक्ति वाचयीत ६
हृदयदेशेऽस्योर्द्ध्वाङ्गुलिं पाणिमुपदधाति मम व्रते हृदयन्ते दधामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति ७

1.22
मेखलामाबध्य दण्डं प्रदाय ब्रह्मचर्यमादिशेत् १
ब्रह्मचार्यस्यपोऽशान कर्म कुरु दिवा मास्वाप्सीराचार्याधीनो वेदमधीष्वेति २
द्वादश वर्षाणि वेदब्रह्मचर्यम् ३
ग्रहणान्तं वा ४
सायं प्रातर्भिक्षेत ५
सायं प्रातः समिधमादध्यात् ६
अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा ७
भवान् भिक्षां ददात्वित्यनुप्रवचनीयमिति वा ८
तदाचार्याय वेदयीत तिष्ठेदहःशेषम् ९
अस्तमिते ब्रह्मौदनमनुप्रवचनीयं श्रपयित्वाचार्याय वेदयीत १०
आचार्यः समन्वारब्धे जुहुयात्सदसस्पतिमद्भुतमिति ११
सावित्र्या द्वितीयम् १२
यद्य त्किञ्चात ऊर्ध्वमनूक्तं स्यात् १३
ऋषिभ्यस्तृतीयम् १४
सौविष्टकृतं चतुर्थम् १५
ब्राह्मणान्भोजयित्वा वेदसमाप्तिं वाचयीत १६
अत ऊर्ध्वमक्षारलवणाशी ब्रह्मचार्यधःशायी त्रिरात्रं द्वादशरात्रं संवत्सरं वा १७
चरितव्रताय मेधाजननं करोति १८
अनिन्दितायान्दिश्येकमूलं पलाशं कुशस्तम्बं वा पलाशापचारे प्रदक्षिणमुदकुम्भेन त्रिः परिषिञ्चन्तं वाचयति सुश्रवः सुश्रवा असि यथा त्वं सुश्रवः सुश्रवा अस्येवं मां सुश्रवः सौश्रवसं कुरु । यथा त्वं देवानां यज्ञस्य निधिपोऽस्येवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति १९
एतेन वापनादिपरिदानान्तं व्रतादेशनं व्याख्यातम् २०
इत्यनुपेतपूर्वस्य २१
अथोपेतपूर्वस्य २२
कृताकृतं केशवपनं मेधाजननं च २३
अनिरुक्तं परिदानम् २४
कालश्च २५
तत्सवितुर्वृणीमह इति सावित्रीं २६

1.23
ऋत्विजो वृणीतेऽन्यूनानतिरिक्ताङ्गान्ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात् १
यून ऋत्विजो वृणीत इत्येके २
ब्रह्माणमेव प्रथमं वृणीतेऽथ होतारमथाध्वर्युमथोद्गातारम् ३
सर्वान्वा येऽहीनैकाहैर्याजयन्ति ४
सदस्यं सप्तदशं कौषीतकिनः समामनन्ति स कर्मणामुपद्रष्टा भवतीति तदुक्तमृग्भ्यां यमृत्विजो बहुधा कल्पयन्त इति ५
होतारमेव प्रथमं वृणीते ६
अग्निर्मे होता स मे होता होतारं त्वामुं वृण इति होतारं ७
चन्द्रमा मे ब्रह्मा स मे ब्रह्मा ब्रह्माणं त्वामुं वृण इति ब्रह्माणं ८
आदित्यो मेऽध्वर्युरित्यध्वर्युम् । पर्जन्यो म उद्गातेत्युद्गातारम् । आपो मे होत्राशंसिन इति होत्रकान् । रश्मयो मे चमसाध्वर्यव इति चमसाध्वर्यून् । आकाशो मे सदस्य इति सदस्यम् । स वृतो जपेन्महन्मेऽवोचो भर्गो मेऽवोचो भगो मेऽवोचो यशो मेऽवोचः स्तोमं मेऽवोचः कॢप्तिं मेऽवोचस्तृप्तिं मेऽवोचो भुक्तिं मेऽवोचः सर्वं मेऽवोच इति ९
जपित्वाग्निष्टे होता स ते होता होताहं ते मानुष इति होता प्रतिजानीते १०
चन्द्रमास्ते ब्रह्मा स ते ब्रह्मा ११
एवमितरे यथादेशं तन्मामवतु तन्मा विशतु तेन भुक्षिषीयेति च याजयिष्यन् १२
न्यस्तमार्त्विज्यमकार्यम् १३
अहीनस्य नीचदक्षिणस्य १४
व्याधितस्यातुरस्य १५
यक्ष्मगृहीतस्य १६
अनुदेश्यभिशस्तस्य १७
क्षिप्तयोनेरिति चैतेषाम् १८
सोमप्रवाकं परिपृच्छेत्को यज्ञः क ऋत्विजः का दक्षिणा इति १९
कल्याणैः सह सम्प्रयोगः २०
न मांसमश्नीयुर्न स्त्रियमुपेयुरा क्रतोरपवर्गात् २१
एतेनाग्ने ब्रह्मणा वावृधस्वेति दक्षिणाग्नावाज्याहुतिं हुत्वा यथार्थं प्रव्रजेत् २२
एवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीमृषो
न इत्येतयर्चा २३

1.24
ऋत्विजो वृत्वा मधुपर्कमाहरेत् १
स्नातकायोपस्थिताय २
राज्ञे च ३
आचार्यश्वशुरपितृव्यमातुलानाञ्च ४
दधनि मध्वानीय ५
सर्पिर्वा मध्वलाभे ६
विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्क्को गौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते ७
अहं वर्ष्म सजातानां विद्युतामिव सूर्यः । इदन्तमधितिष्ठामि यो मा कश्चाभिदासतीत्युदगग्रे विष्टर उपविशेदाक्रम्य वा ८
पादौ प्रक्षालापयीत दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् ९
सव्यं शूद्राय १०
प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्य ११
अथाचमनीयेनान्वाचामति अमृतोपस्तरणमसीति १२
मधुपर्कमाह्रियमाणमीक्षेत मित्रस्य त्वा चक्षुषा प्रतीक्ष इति १३
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति तदञ्जलिना प्रतिगृह्य सव्ये पाणौ कृत्वा मधुवाता ऋतायत इति तृचेनावेक्ष्यानामिकया चाङ्गुष्ठेन च त्रिः प्रदक्षिणमालोड्य वसवस्त्वा गायत्रेण च्छन्दसा भक्षयन्त्विति पुरस्तान्निमार्ष्टि १४
रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा भक्षयन्त्विति दक्षिणत आदित्यास्त्वा जागतेन च्छन्दसा भक्षयन्त्विति पश्चाद्विश्वे त्वा देवा आनुष्टुभेन च्छन्दसा भक्षयन्त्वित्युत्तरतो भूतेभ्यस्त्वेति मध्यात्त्रिरुद्गृह्य १५
विराजो दोहोऽसीति प्रथमं प्राश्नीयाद्विराजो दोहमशीयेति द्वितीयं मयि दोहः पद्यायै विराज इति तृतीयम् १६
न सर्वम् १७
न तृप्तिङ्गच्छेत् १८
ब्राह्मणायोदङ्ङुच्छिष्टं प्रयच्छेदलाभेऽप्सु १९
सर्वं वा २०
अथाचमनीयेनान्वाचामत्यमृतापिधानमसीति २१
सत्यं यशः श्रीर्मयि श्रीः श्रयतामिति द्वितीयम् २२
आचान्तोदकाय गां वेदयन्ते २३
हतो मे पाप्मा पाप्मा मे हत इति जपित्वॐकुरुतेति कारयिष्यन् २४
माता रुद्राणां दुहिता वसूनामिति
जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन् २५
नामांसो मधुपर्को भवति भवति २६

इति प्रथमोऽध्यायः


2.1
श्रावण्यां पौर्णमास्यां श्रवणाकर्म १
अक्षतसक्तूनां नवङ्कलशं पूरयित्वा दर्वीञ्च बलिहरणीं नवे शिक्ये निदधाति २
अक्षतधानाः कृत्वा सर्पिषाऽर्द्धा अनक्ति ३
अस्तमिते स्थालीपाकं श्रपयित्वैककपालञ्च पुरोडाशं अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यृचं हुत्वा पाणिनैककपालमच्युताय भौमाय स्वाहेति ४
अविप्लुतः स्यादाविःपृष्ठो वा ५
मा नो अग्नेऽवसृजो अघायेत्येनमाशयेनाभिजुहोति ६
शन्नो भवन्तु वाजिनो हवेष्वित्यक्ता धाना अञ्जलिना ७
अमात्येभ्य इतरा दद्यात् ८
कलशात्सक्तूनान्दर्वीं पूरयित्वा प्रागुपनिष्क्रम्य शुचौ देशेऽपोऽवनिनीय सर्पदेवजनेभ्यः स्वाहेति हुत्वा नमस्करोति ये सर्पाः पार्थिवा य आन्तरिक्ष्या ये दिव्या ये दिश्यास्तेभ्य इमं बलिमाहार्षं तेभ्य इमं बलिमुपाकरोमीति ९
प्रदक्षिणं परीत्य पश्चाद्बलेरुपविश्य सर्पोऽसि सर्पतां सर्पाणामधिपतिरस्यन्नेन मनुष्यांस्त्रायसेऽपूपेन सर्पा
न्यज्ञेन देवांस्त्वयि मा सन्तं त्वयि सन्तः सर्पा मा हिंसिषुर्ध्रुवान्ते परिददामीति १०
ध्रुवामुन्ते ध्रुवामुन्त इत्यमात्याननुपूर्वम् ११
ध्रुव मां ते परिददामीत्यात्मानमन्ततः १२
नैनमन्तरा व्यवेयुरा परिदानात् १३
सर्पदेवजनेभ्यः स्वाहेति सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात् १४
प्रसङ्ख्याय हैके तावतो
बलींस्तदहरेवोपहरन्ति १५


2.2
आश्वयुज्यामाश्वयुजीकर्म १
निवेशनमलंकृत्य स्नाताः शुचिवाससः पशुप
तये स्थालीपाकं निरुप्य जुहुयुः पशुपतये शिवाय शङ्कराय पृषातकाय स्वाहेति २
पृषातकमञ्जलिना जुहुयादूनं मे पूर्यतां पूर्णं मे मोपसदत्पृषातकाय स्वाहेति ३
सजूरृतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा सजूरृतुभिः सजूर्विधाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा । सजूरृतुभिः सजूर्विधाभिः सजूर्द्यावापृथिवीभ्यां स्वाहेत्याहिताग्नेराग्रयणस्थालीपाकः ४
अनाहिताग्नेरपि
शालाग्नौ ५


2.3
मार्गशीर्ष्यां प्रत्यवरोहणं चतुर्दश्याम् १
पौर्णमास्यां वा २
निवेशनं पुनर्नवीकृत्य लेपनस्तरणोपस्तरणैरस्तमिते पायसस्य जुहुयुरपश्वेतपदा जहि पूर्वेण चापरेण च । सप्त च वारुणीरिमाः सर्वाश्च राजबान्धवीः स्वाहा न वै श्वेतस्याभ्यागारेऽहिर्जघान किञ्चन । श्वेताय वैदार्वाय नमः स्वाहेति ३
नात्र सौविष्टकृत् ४
अभयन्नः प्राजापत्येम्यो भूयादित्यग्निमीक्षमाणो जपति शिवो नः सुमना भवेति हेमन्तं मनसा ध्यायात् ५
पश्चादग्नेः स्वस्तरः स्वास्तीर्णस्तस्मिन्नुपविश्य स्योना पृथिवि भवेति जपित्वा संविशेत्सामात्यः प्राक्शिरा
उदङ्मुखः ६
यथावकाशमितरे ७
ज्यायान्ज्यायान्वानन्तरः ८
मन्त्रविदो मन्त्रान्जपेयुः ९
संहाय अतो देवा अवन्तु न इति त्रिः १०
एतां दक्षिणामुखाः प्रत्यङ्मुखा उदङ्मुखाश्चतुर्थम् ११
संहाय सौर्याणि स्वस्त्ययनानि च जपित्वान्नं
संस्कृत्य ब्राह्मणान्भोजयित्वा स्वस्त्ययनं वाचयीत १२


2.4
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः १
एकस्यां वा २
पूर्वेद्युः पितृभ्यो दद्यात् ३
ओदनं कृसरं पायसम् ४
चतुःशरावस्य वापूपान् ५
उदीरतामवर उत्परास इत्यष्टाभिर्हुत्वा यावतीभिर्वा कामयीत ६
अथ श्वोभूतेऽष्टकाः पशुना स्थालीपाकेन च ७
अप्यनडुहो यवसमाहरेत् ८
अग्निना वा कक्षमुपोषेत् ९
एष मेऽष्टकेति १०
न त्वेवानष्टकः स्यात् ११
तां हैके वैश्वदेवीं ब्रुवत आग्नेयीमेके सौर्यामेके प्राजापत्यामेके रात्रिदेवतामेके नक्षत्रदेवतामेक ऋतुदेवतामेके पितृदेवतामेके पशुदेवतामेके १२
पशुकल्पेन पशुं संज्ञप्य प्रोक्षणोपाकरणवर्जं वपामुत्खिद्य जुहुयाद्वह वपां जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके मेदसः कुल्या उपैनान्स्रवन्तु सत्या एता आशिषः सन्तु सर्वाः स्वाहेति १३
अथावदानानां स्थालीपाकस्य च अग्ने नय सुपथा राये अस्मानिति द्वे । ग्रीष्मो हेमन्त ऋतवः शिवा नो वर्षाः शिवा अभया शरन्नः । संवत्सरोऽधिपतिः प्राणदो नोऽहोरात्रे कृणुतां दीर्घमायुः स्वाहा । शान्ता पृथिवी शिवमन्तरिक्षं द्यौर्नो देव्यभयन्नो अस्तु । शिवा दिशः प्रदिश उद्दिशो न आपो विद्युतः परिपान्तु सर्वतः स्वाहा। आपो मरीचीः प्रवहन्तु नो धियो धाता समुद्रो वहन्तु पापं भूतं भविष्यदभयं विश्वमस्तु मे ब्रह्माधिगुप्तः स्वाराक्षराणि स्वाहा । विश्व आदित्या वसवश्च देवा रुद्रा गोप्तारो मरुतः सदन्तु । ऊर्जं प्रजाममृतं पिन्वमानः प्रजापतिर्मयि परमेष्ठी दधातु स्वाहा । प्रजापते न त्वदेतान्यन्यः १४
सौविष्टकृत्यष्टमी १५
ब्राह्मणान्भोजयेदित्युक्तम् १६


2.5
अपरेद्युरन्वष्टक्यम् १
तस्यैव मांसस्य प्रकल्प्य दक्षिणाप्रवणेऽग्निमुपसमाधाय परिश्रित्योत्तरतः परिश्रितस्य द्वारं कृत्वा समूलं बर्हिस्त्रिरपसलैरविधून्वन्परिस्तीर्य हवींष्यासादयेदोदनं कृसरं पायसं दधिमन्थान्मधुमन्थांश्च २
पिण्डपितृयज्ञकल्पेन ३
हुत्वा मधुमन्थवर्जं पितृभ्यो दद्यात् ४
स्त्रीभ्यश्च सुरा चाचाममित्यधिकम् ५
कर्षूष्वेके द्वयोः षट्सु वा ६
पूर्वासु पितृभ्यो दद्यात् ७
अपरासु स्त्रीभ्यः ८
एतेन माघ्यावर्षं प्रोष्ठपद्या अपरपक्षे ९
मासि मासि चैवं पितृभ्योऽयुक्षु प्रतिष्ठापयेत् १०
नवावरान्भोजयेत् ११
अयुजो वा १२
युग्मान् वृद्धिपूर्तेषु १३
अयुग्मानितरेषु १४
प्रदक्षिणमुपचारो
यवैस्तिलार्थः १५


2.6
रथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभिमृशेत् । अहन्ते पूर्वं पादावालभेद्बृहद्रथन्तरे ते चक्रे १
वामदेव्यमक्ष इत्यक्षाधिष्ठाने २
दक्षिणपूर्वाभ्यामारोहेत् वायोष्ट्वा वीर्येणारोहामीन्द्रस्यौजसाधिपत्येनेति ३
रश्मीन्संमृशेदरश्मिकान्वा दण्डेन ब्रह्मणो वस्तेजसा संगृह्णामि सत्येन वस्संगृह्णामीति ४
अभिप्रवर्त्तमानेषु जपेत् सहस्रसनिं वाजमभिवर्त्तस्व रथ देव प्रवह वनस्पते वीड्वङ्गो हि भूया इति ५
एतयान्यान्यपि वानस्पत्यानि ६
स्थिरौ गावौ भवतां वीडुरक्ष इति रथाङ्गमभिमृशेत् ७
सुत्रामाणं पृथिवीं द्यामनेहसमिति नावम् ८
नवरथेन यशस्विनं वृक्षं ह्रदं वाविदासिनं प्रदक्षिणं कृत्वा फलवतीः शाखा आहरेत् ९
अन्यद्वा कौटुम्बम् १०
संसदमुपयायात् ११
अस्माकमुत्तमं कृधीत्यादित्यमीक्षमाणो जपित्वावरोहेत् १२
ऋषभं मा समानानामित्यभिक्रामन् १३
वयमद्येन्द्रस्य प्रेष्ठा इत्यस्तं यात्यादित्ये १४
तद्वो दिवो दुहितरो विभातीरिति
व्युष्टायाम् १५


2.7
अथातो वास्तुपरीक्षा १
अनूषरमविवदिष्णु भूम २
ओषधिवनस्पतिवत् ३
यस्मिन्कुशवीरिणं प्रभूतम् ४
कण्टकिक्षीरिणस्तु समूलान्परिखायोद्वासयेदपामार्गः शाकस्तिल्वकः परिव्याध इति चैतानि ५
यत्र सर्वत आपो मध्यं समेत्य प्रदक्षिणं शयनीयं परीत्य प्राच्यः स्यन्देरन्नप्रवदत्यस्तत्सर्वं समृद्धम् ६
समवस्रवे भक्तशरणं कारयेत् ७
बह्वन्नं ह भवति ८
दक्षिणाप्रवणे सभां मापयेत्साऽद्यूता ह भवति ९
युवानस्तस्यां कितवाः कलहिनः प्रमायुका भवन्ति १०
यत्र सर्वत आपः प्रस्यन्देरन् सा स्वस्त्ययन्यद्यूता च ११


2.8
अथैतैर्वास्तु परीक्षेत १
जानुमात्रङ्गर्तं खात्वा तैरेव पांसुभिः प्रतिपूरयेत् २
अधिके प्रशस्तं समे वार्त्तं न्यूने गर्हितम् ३
अस्तमितेऽपां सुपूर्णं परिवासयेत् ४
सोदके प्रशस्तमार्द्रे वार्त्तं शुष्के गर्हितं श्वेतं मधुरास्वादम् ५
सिकतोत्तरं ब्राह्मणस्य ६
लोहितं क्षत्रियस्य ७
पीतं वैश्यस्य ८
तत्सहस्रसीतं कृत्वा यथादिक्समचतुरस्रं मापयेत् ९
आयतं चतुरस्रं वा १०
तच्छमीशाखयोडुम्बरशाखया वा शन्तातीयेन त्रिः परिव्रजन्प्रोक्षति ११
अविच्छिन्नया चोदकधारयापो हि ष्ठा मयोभुव इति तृचेन १२
वंशान्तरेषु शरणानि कारयेत् १३
गर्तेष्ववकां शीपालमित्यवधापयेन्नास्याग्निर्दाहुको भवतीति विज्ञायते १४
मध्यमस्थूणाया गर्तेऽवधाय प्रागग्रोदग्रान्कुशानास्तीर्य व्रीहियवमतीरप आसेचयेदच्युताय भौमाय स्वाहेति १५
अथैनामुच्छ्रियमाणामनुमन्त्रयेतेहैव तिष्ठ निमिता तिल्विलास्तामिरावतीं मध्ये पोषस्य तिष्ठन्तीम् । आ त्वा प्रापन्नघायव आ त्वा कुमारस्तरुण आ वत्सो जायतां सह । आ
त्वा परिश्रितः कुम्भ आ दध्नः कलशैरयन्निति १६ ८

2.9
वंशमाधोयमानम् १
ऋतेन स्थूणामधिरोह वंश द्राघीय आयुः प्रतरन्दधान इति २
सदूर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठापयेत् पृथिव्या अधि सम्भवेति ३
अरङ्गरो वावदीति त्रेधा बद्धो वरत्रया । इरामु ह प्रशंसत्यनिरामपबाधतामिति वा ४
अथास्मिन्नप आसेचयेत् ऐतु राजा वरुणो रेवतीभिरस्मिन् स्थाने तिष्ठतु मोदमानः । इरां वहन्तो घृतमुक्षमाणा मित्रेण साकं सह संविशन्त्विति ५
अथैनच्छमयति ६
व्रीहियवमतीभिरद्भिर्हिरण्यमवधाय शन्तातीयेन त्रिः प्रदक्षिणं परिव्रजन्प्रोक्षति ७
अविच्छिन्नया चोदकधारया आपो हि ष्ठा मयोभुव इति तृचेन ८
मध्येऽगारस्य स्थालीपाकं श्रपयित्वा वास्तोष्यते प्रतिजानीह्यस्मानिति चतसृभिः प्रत्यृचं हुत्वान्नं
संस्कृत्य ब्राह्मणान्भोजयित्वा शिवं वास्तु शिवं वास्त्विति वाचयीत ९ ९

2.10
उक्तं गृहप्रपदनम् १
बीजवतो गृहान् प्रपद्येत २
क्षेत्रं प्रकर्षयेदुत्तरैः प्रोष्ठपदैः फाल्गुनीभी रोहिण्या वा ३
क्षेत्रस्यानुवातं क्षेत्रस्य पतिना वयमिति प्रत्यृचं जुहुयाज्जपेद्वा ४
गाः प्रतिष्ठमाना अनुमन्त्रयेत मयोभूर्वातो अभिवातूस्रा इति द्वाभ्याम् ५
आयतीः यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नः सन्तु पयस्वतीर्बह्वीर्गोष्ठे घृताच्यः । उप मैतु मयोभुव ऊर्जं चौजश्च बिभ्रतीः । दुहाना अक्षितं पयो मयि गोष्ठे निविशध्वम् । यथा भवाम्युत्तमो या देवेषु तन्वामैरयन्तेति च सूक्तशेषम् ६
आगावीयमेके ७
गणानासामुपतिष्ठेतागुरुगवीनां भूताः स्थ प्रशस्ताः स्थ शोभनाः प्रियाः प्रियो वो भूयासं शं मयि
जानीध्वं शं मयि जानीध्वं ८ १०

इति द्वितीयोऽध्यायः

3.1
अथातः पञ्चयज्ञाः १
देवयज्ञो भूतयज्ञः पितृयज्ञो ब्रह्मयज्ञो मनुष्ययज्ञ इति २
तद्यदग्नौ जुहोति स देवयज्ञो यद्बलिङ्करोति स भूतयज्ञो यत्पितृभ्यो ददाति स पितृयज्ञो यत्स्वाध्यायमधीयते स ब्रह्मयज्ञो यन्मनुष्येभ्यो ददाति स
मनुष्ययज्ञ इति ३
तानेतान्यज्ञानहरहः कुर्वीत ४ १

3.2
अथ स्वाध्यायविधिः १
प्राग्वोदग्वा ग्रामान्निष्क्रम्याप आप्लुत्य शुचौ देशे
यज्ञोपवीत्याचम्याक्लिन्नवासा दर्भाणां महदुपस्तीर्य प्राक्कूलानान्तेषु प्राङ्मुख उपविश्योपस्थं कृत्वा दक्षिणोत्तरौ पाणी सन्धाय पवित्रवन्तौ विज्ञायतेऽपां वा एष ओषधीनां रसो यद्दर्भाः सरसमेव तद्ब्रह्म करोति द्यावापृथिव्योः सन्धिमीक्षमाणः संमील्य वा यथा वा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायम् २
ॐपूर्वा व्याहृतीः ३
सावित्रीमन्वाह पच्चोऽर्द्धर्चशः
सर्वामिति तृतीयम् ४ २

3.3
अथ स्वाध्यायमधीयीत ऋचो यजूंषि सामान्यथर्वाङ्गिरसो ब्राह्मणानि कल्पान्गाथा नाराशंसीरितिहासपराणानीति १
यदृचोऽधीते पयआहुतिभिरेव तद्देवतास्तर्पयति यद्यजूंषि घृताहुतिभिर्यत्सामानि मध्वाहुतिभिर्यदथर्वाङ्गिरसः सोमाहुतिभिर्यद्ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीत्यमृताहुतिभिः २
यदृचोऽधीते पयसः कुल्यास्य पितॄन्त्स्वधा उपक्षरन्ति यद्यजूंषि घृतस्य कुल्या यत्सामानि मध्वः कुल्या यदथर्वाङ्गिरसः सोमस्य कुल्या यद्ब्राह्मणानि कल्पान्गाथा नाराशंसीरितिहासपुराणानीत्यमृतस्य कुल्याः ३
स यावन्मन्येत तावदधीत्यैतया परिदधाति नमो ब्रह्मणे नमोऽस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो
विष्णवे महते करोमीति ४ ३

3.4
देवतास्तर्पयति प्रजापतिर्ब्रह्मा वेदा देवा ऋषयः सर्वाणि च्छन्दांस्योङ्कारो वषट्कारो व्याहृतयः सावित्री यज्ञा द्यावापृथिवी अन्तरिक्षमहोरात्राणि सांख्याः सिद्धाः समुद्रा नद्यो गिरयः क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसो नागा वयांसि गावः साध्या विप्रा यक्षा रक्षांसि भूतान्येवमन्तानि १
अथ ऋषयः शतर्चिनो माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिर्भरद्वाजो वसिष्ठः प्रगाथाः पावमान्यः क्षुद्रसूक्ता महासूक्ता इति २
प्राचीनावीती ३
सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्या जानन्ति बाहविगार्ग्यगौतमशाकल्यबाभ्रव्यमाण्डव्यमाण्डूकेया गर्गी वाचक्नवी वडवा प्रातिथेयी सुलभा मैत्रेयी कहोलं कौषीतकं महाकौषीतकं पैङ्ग्यं महापैङ्ग्यं सुयज्ञं शाङ्खायनमैतरेयं महैतरेयं शाकलं बाष्कलं सुजातवक्त्रमौदवाहिं महौदवाहिं सौजामिं शौनकमाश्वलायनं ये चान्य आचार्यास्ते सर्वे तृप्यन्त्विति ४
प्रतिपुरुषं पितॄंस्तर्पयित्वा गृहानेत्य यद्ददाति सा दक्षिणा ५
अथापि विज्ञायते स यदि तिष्ठन् व्रजन्नासीनः शयानो वा यं यं क्रतुमधीते तेन तेन हास्य क्रतुने
ष्टम्भवतीति ६
विज्ञायते तस्य द्वावनध्यायौ यदात्माशुचिर्यद्देशः ७ ४

3.5
अथातोऽध्यायोपाकरणम् १
ओषधीनां प्रादुर्भावे श्रवणेन श्रावणस्य २
पञ्चम्यां हस्तेन वा ३
आज्यभागौ हुत्वाज्याहुतीर्जुहुयात्सावित्र्यै ब्रह्मणे श्रद्धायै मेधायै प्रज्ञायै धारणायै सदसस्पतयेऽनुमतये छन्दोभ्य ऋषिभ्यश्चेति ४
अथ दधिसक्तून्जुहोति ५
अग्निमीळे पुरोहितमित्येका ६
कुषुम्भकस्तदब्रवीदावदंस्त्वं शकुने भद्रमावद गृणाना जमदग्निना धामन्ते विश्वम्भुवनमधिश्रितं गन्ता नो यज्ञं यज्ञियाः सुशमियो नः स्वो अरणः प्रचक्ष्व विचक्ष्वाग्ने याहि मरुत्सखा यत्ते राजञ्छतं हविरिति द्व्यृचाः ७
समानीव आकूतिरित्येका ८
तच्छंयोरावृणीमह इत्येका ९
अध्येष्यमाणोऽध्याप्यैरन्वारब्ध एताभ्यो देवताभ्यो हुत्वा सौविष्टकृतं हुत्वा दधिसक्तून्प्राश्य ततो मार्जनम् १०
अपरेणाग्निं प्राक्कूलेषु दर्भेषूपविश्योदपात्रे दर्भान्कृत्वा ब्रह्माञ्जलिकृतो जपेत् ११
ॐपूर्वा व्याहृतीः सावित्रीं च त्रिरभ्यस्य वेदादिमारभेत् १२
तथोत्सर्गे १३
षण्मासानधीयीत १४
समावृत्तो ब्रह्मचारिकल्पेन १५
यथान्यायमितरे १६
जायोपेयोत्येके १७
प्राजापत्यं तत् १८
वार्षिकमित्येतदाचक्षते १९
मध्यमाष्टकायामेताभ्यो देवताभ्योऽन्नेन हुत्वाऽपोऽभ्यवयन्ति २०
एता एव तद्देवतास्तर्पयन्ति २१
आचार्यानृषीन्पितॄंश्च २२
एतदुत्सर्जनम् २३ ५

3.6
अथ काम्यानां स्थाने काम्याः १
चरवः २
तानेव कामानाप्नोति ३
अथ व्याधितस्यातुरस्य यक्ष्मगृहीतस्य वा षडाहुतिश्चरुः ४
मुञ्चामि त्वा हविषा जीवनायकमित्येतेन ५
स्वप्नममनोज्ञं दृष्ट्वाद्या नो देव सवितरिति द्वाभ्यां
यच्च गोषु दुःस्वप्न्यमिति पञ्चभिरादित्यमुपतिष्ठेत ६
यो मे राजन्युज्यो वा सखा वेति वा ७
क्षुत्वा जृम्भित्वाऽमनोज्ञं दृष्ट्वा पापकं गन्धमाघ्रायाक्षिस्पन्दने कर्णध्वनने च सुचक्षा अहमक्षीभ्यां भूयासं सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां मयि दक्षक्रतू इति जपेत् ८
अगमनीयां गत्वायाज्यं याजयित्वाभोज्यं भुक्त्वाप्रतिग्राह्यं प्रतिगृह्य चैत्यं यूपं चोपहत्य पुनर्मामैत्विन्द्रियं पुनरायुः पुनर्भगः । पुनर्द्रविणमैतु मां पुनर्ब्राह्मणमैतु मां स्वाहा । इमे ये धिष्ण्यासो अग्नयो यथास्थानमिह कल्पताम् । वैश्वानरो वावृधानोऽन्तर्यच्छतु मे मनो हृद्यन्तरममृतस्य केतुः स्वाहेत्याज्याहुती जुहुयात् ९
समिधौ वा १०
जपेद्वा ११ ६

3.7
अव्याधितञ्चत्स्वपन्तमादित्योऽभ्यस्तमियाद्वाग्यतोऽनुपविशन्रात्रिशेषम्भूत्वा येन सूर्यज्योतिषा बाधसे तम इति पञ्चभिरादित्यमुपतिष्ठेत १
अभ्युदियाच्चेदकर्मश्रान्तमनभिरूपेण कर्मणा वाग्यत इति समानमुत्तरापराभिश्चतसृभिरुपस्थानम् २
यज्ञोपवीती नित्योदकः सन्ध्यामुपासीत वाग्यतः ३
सायमुत्तरापराभिमुखोऽन्वष्टमदेशं सावित्रीं जपेदर्धास्तमिते मण्डल आनक्षत्रदर्शनात् ४
एवं प्रातः ५
प्राङ्मुखस्तिष्ठन्नामण्डलदर्शनात् ६
कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोत इति प्रत्यृचं जुहुयाज्जपेद्वा ७
वयमु त्वा पथस्पत इत्यर्थचर्याञ्चरिष्यन् ८
सम्पूषन्विदुषेति नष्टमधिजिगमिषन्मूळ्हो
वा ९
सम्पूषन्नध्वन इति महान्तमध्वानमेष्यन्प्रतिभयं वा १० ७

3.8
अथैतान्युपकल्पयीत समावर्त्यमाने मणिं कुण्डले वस्त्रयुगं छत्रमुपानद्युगं दण्डं स्रजमुन्मर्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचार्याय च १
यद्युभयोर्न विन्देताचार्यायैव २
समिधं त्वाहरेदपराजितायान्दिशि यज्ञियस्य वृक्षस्य ३
आर्द्रामन्नाद्यकामः पुष्टिकामस्तेजस्कामो वा ब्रह्मवर्चसकाम उपवाताम् ४
उभयीमुभयकामः ५
उपरि समिधं कृत्वा गामन्नञ्च ब्राह्मणेभ्यः प्रदाय गौदानिकं कर्म कुर्वीत ६
आत्मनि मन्त्रान्त्संनमयेत् ७
एकक्लीतकेन ८
शीतोष्णाभिरद्भिः स्नात्वा युवं वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्याश्मनस्तेजोऽसि चक्षुर्मे पाहीति चक्षुषी आञ्जयीत ९
अश्मनस्तेजोऽसि श्रोत्रं मे पाहि इति कुण्डले आबध्नीत १०
अनुलेपनेन पाणी प्रलिप्य मुखमग्रे ब्राह्मणोऽनुलिम्पेद्बाहू राजन्य उदरं वैश्य उपस्थं स्त्र्यूरू सरणजीविनः ११
अनार्त्तास्यनार्तोऽहं भूयासमिति स्रजमपि बध्नीत न मालोक्ताम् १२
मालेति चेद्ब्रूयुः स्रगित्यभिधापयीत १३
देवानां प्रतिष्ठे स्थः सर्वतो मा पातमित्युपानहावास्थाय दिवश्छद्मासीति च्छत्रभादत्ते १४
वेणुरसि वानस्पत्योऽसि सर्वतो मा पाहीति वैणवं दण्डम् १५
आयुष्यमिति सूक्तेन
मणिं कण्ठे प्रतिमुच्योष्णीषं कृत्वा तिष्ठन्त्समिधमादध्यात् १६ ८

3.9
स्मृतन्निन्दा च विद्या च श्रद्धा प्रज्ञा च पञ्चमी । इष्टन्दत्तमधीतञ्च कृतं सत्यं श्रुतं व्रतम् । यदग्ने सेन्द्रस्य सप्रजापतिकस्य सऋषिकस्य सऋषिराजन्यस्य सपितृकस्य सपितृराजन्यस्य समनुष्यस्य समनुष्यराजन्यस्य साकाशस्य सातीकाशस्य सानुकाशस्य सप्रतीकाशस्य सदेवमनुष्यस्य सगन्धर्वाप्सरस्कस्य सहारण्यैश्च पशुभिर्ग्राम्यैश्च यन्म आत्मन आत्मनि व्रतन्तन्मे सर्वव्रतमिदमहमग्ने सर्वव्रतो भवामि स्वाहेति १
ममाग्ने वर्च इति प्रत्यृचं समिधोऽभ्यादध्यात् २
यत्रैनं पूजयिष्यन्तो भवन्ति तत्रैतां रात्रीं वसेत् ३
विद्यान्ते गुरुमर्थेन निमन्त्र्यं कृत्वानुज्ञातस्य वा स्नानम् ४
तस्यैतानि व्रतानि भवन्ति ५
न नक्तं स्नायात् । न नग्नः स्नायात् । न नग्नः शयीत । न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात् । वर्षति न धावेत् ६
न वृक्षमारोहेत् । न कूपमवरोहेत् । न बाहुभ्यां नदीन्तरेत् । न संशयमभ्यापद्येत ७
महद्वै भूतं स्नातको भवतीति विज्ञायते ८ ९

3.10
गुरवे प्रस्रक्ष्यमाणो नाम प्रब्रुवीत १
इदं वत्स्यामो भो३
इति २
उच्चैरूर्ध्वं नाम्नः ३
प्राणापानयोरुपांशु ४
आ मन्द्रैरिन्द्र हरिभिरिति च ५
अतो वृद्धो जपति प्राणापानयोरुरुव्यचास्तया प्रपद्ये देवाय सवित्रे परिददामीत्यृचं च ६
समाप्यॐ प्राक् स्वस्तीति जपित्वा महित्रीणामित्यनुमन्त्र्य ७
एवमतिसृष्टस्य न कुतश्चिद्भयं भवतीति विज्ञायते ८
वयसाममनोज्ञा वाचः श्रुत्वा कनिक्रदज्जनुषं प्रबुवाण इति सूक्ते जपेद्देवीं वाचमजनयन्त देवा इति च ९
स्तुहि श्रुतङ्गर्तसदं युवानमिति मृगस्य १०
यस्या दिशो बिभीयाद्यस्माद्वा तान्दिशमुल्मुकमुभयतः प्रदीप्तं प्रत्यस्येन्मन्थं वा प्रसव्यमालोड्याभयं मित्रावरुणा मह्यमस्त्वर्चिषा शत्रून्दहन्तं प्रतीत्य मा ज्ञातारं मा प्रतिष्ठां विन्दन्तु मिथो भिन्दाना उभयन्तु मृत्युमिति संसृष्टं धनमुभयं समाकृतमिति मन्थं
न्यञ्चङ्करोति ११ १०

3.11
सर्वतो भयादनाज्ञातादष्टावाज्याहुतीर्जुहुयात्पृथिवी वृता साग्निना वृता तया वृतया वर्त्र्या यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । अन्तरिक्षं वृतं तद्वायुना वृतन्तेन वृतेन वर्त्रेण यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । द्यौर्वृता सादित्येन वृता तया वृतया वर्त्र्या यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । दिशो वृतास्ताश्चन्द्रमसा वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । आपो वृतास्ता वरुणेन वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । प्रजा वृतास्ताः प्राणेन वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । वेदा वृतास्ते छन्दोभिर्वृतास्तैर्वृतैर्वर्त्रैर्यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । सर्वं वृतं तद्ब्रह्मणा वृतन्तेन वृतेन वर्त्रेण यस्माद्भयाद्बिभेमि तद्वारये स्वाहा इति १
अथापराजितायां दिश्यवस्थाय स्वस्त्यात्रेयं जपति
यत इन्द्र भयामह इति च सूक्तशेषम् २ ११

3.12
संग्रामे समुपोळ्हे राजानं सन्नाहयेत् १
आ त्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय २
जीमूतस्येव भवति प्रतीकमिति कवचं प्रयच्छेत् ३
उत्तरया धनुः ४
उत्तरां वाचयेत् ५
स्वयञ्चतुर्थीं जपेत् ६
पञ्चम्येषुधिं प्रयच्छेत् ७
अभिप्रवर्तमाने षष्ठीम् ८
सप्तम्याश्वान् ९
अष्टमीमिषूनवेक्षमाणं वाचयति १०
अहिरिव भोगैः पर्येति बाहुमिति तलं नह्यमानम् ११
अथैनं सारयमाणमुपारुह्याभीवर्तं वाचयति प्र यो वां मित्रावरुणेति च द्वे १२
अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः १३
प्रधारयन्तु मधुनो घृतस्येत्येतत् सौपर्णम् १४
सर्वा दिशोऽनुपरीर्यायात् १५
आदित्यमौशनसं वावस्थाय प्रयोधयेत् १६
उपश्वासय पृथिवीमुत द्यामिति तृचेन दुन्दुभिमभिमृशेत् १७
अवसृष्टा परापतेतीषून्विसर्जयेत् १८
यत्र बाणाः सम्पतन्तीति यध्यमानेषु जपेत् १९
संशि
ष्याद्वा संशिष्याद्वा २० १२


इति तृतीयोऽध्यायः

4.1
आहिताग्निश्चेदुपतपेत्प्राच्यामुदीच्यामपराजितायां वा दिश्युदवस्येत् १
ग्रामकामा अग्नय इत्युदाहरन्ति २
आशंसन्त एनं ग्राममाजिगमिषन्तोऽगदङ्कुर्युरिति ह विज्ञायते ३
अगदः सोमेन पशुनेष्ट्येष्ट्वावस्येत् ४
अनिष्ट्वा वा ५
संस्थिते भूमिभागं खानयेद्दक्षिणपूर्वस्यान्दिशि दक्षिणापरस्यां वा ६
दक्षिणाप्रवणं प्राग्दक्षिणाप्रवणं वा प्रत्यग्दक्षिणाप्रवणमित्येके ७
यावानुद्वाहुकः पुरुषस्तावदायामम् ८
व्याममात्रन्तिर्यक् ९
वितस्त्यवाक १०
अभित आकाशं श्मशानम् ११
बहुलौषधिकम् १२
कण्टकिक्षीरिणस्त्विति यथोक्तं पुरस्तात् १३
यत्र सर्वत आपः प्रस्यन्देरन्नेतदादहनस्य लक्षणं श्मशानस्य १४
केशश्मश्रुलोमनखानीत्युक्तं पुरस्तात् १५
द्विगुल्फं बर्हिराज्यञ्च १६
दधन्यत्र सर्पिरानयन्त्येतत्पित्र्यं पृषदाज्यम् १७ १

4.2
अथैतान्दिशमग्नीन्नयन्ति यज्ञपात्राणि च १
अन्वञ्चं प्रेतमयुजोऽमिथुनाः प्रवयसः २
पीठचक्रेण गोयुक्तेनेत्येके ३
अनुस्तरणीम् ४
गाम् ५
अजां वैकवर्णाम् ६
कृष्णामेके ७
सव्ये बाहौ बद्ध्वानुसङ्कालयन्ति ८
अन्वञ्चोऽमात्या अधोनिवीताः प्रवृत्तशिखा ज्येष्ठप्रथमाः कनिष्ठजघन्याः ९
प्राप्यैवं भूमिभागङ्कर्तोदकेन शमीशाखया त्रिः प्रसव्यमायतनं परिव्रजन्प्रोक्षत्यपेत वीत वि च सर्पतात इति १०
दक्षिणपूर्व उद्धृतान्त आहवनीयं निदधाति ११
उत्तरपश्चिमे गार्हपत्यम् १२
दक्षिणपश्चिमे दक्षिणम् १३
अथैनमन्तर्वेदीध्मचितिं चिनोति यो जानाति १४
तस्मिन्बर्हिरास्तीर्य कृष्णाजिनञ्चोत्तरलोम तस्मिन्प्रेतं संवेशयन्त्युत्तरेण गार्हपत्यं हृत्वाहवनीयमभिमुखशिरसम् १५
उत्तरत्तः तत्नीम् १६
धनुश्च क्षत्रियाय १७
तामुथापयेद्देवरः पतिस्थानीयोऽन्तेवासी जरद्दासो वोदीर्ष्वनार्यभिजीवलोकमिति १८
कर्ता वृषले जपेत् १९
धनुर्हस्तादाददानो मृतस्येति धनुः २०
उक्तं वृषले २१
अधिज्यं
कृत्वा सञ्चितिमचित्वा संशीर्यानु प्रहरेत् २२ २

4.3
अथैतानि पात्राणि योजयेत् १
दक्षिणे हस्ते जुहूम् २
सव्य उपभृतं ३
दक्षिणे पार्श्वे स्फ्यम् । सव्येग्निहोत्रहवणीम् ४
उरसि ध्रुवाम् । शिरसि कपालानि । दत्सु ग्राव्णः ५
नासिकयोः स्रुवौ ६
भित्वा चैकम् ७
कर्णयोः प्राशित्रहरणे ८
भित्वा चैकम् ९
उदरे पात्रीम् १०
समवत्तधानञ्च चमसम् ११
उपस्थे शम्याम् १२
अरणी ऊर्वोः । उलूखलमुसले जद्घयोः १३
पादयोः शूर्पे १४
छित्वा चैकम् १५
आसेचनवन्ति पृषदाज्यस्य पूरयन्ति १६
अमा पुत्रो दृषदुपले कुर्वीत १७
लौहायसञ्च कौलालम् १८
अनुस्तरण्यावपामुत्खिद्य शिरोमुखं प्रच्छादयेदग्नेर्वर्मपरिगोभिर्व्ययस्वेति १९
वृक्का उद्धृत्य पाण्योरादध्यादतिद्रवसारमेयौ श्वानाविति दक्षिणे दक्षिणं सव्ये सव्यम् २०
हृदये हृदयं २१
पिण्ड्यौ चैके २२
वृक्कापचार इत्येके २३
सर्वां यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छाद्येममग्ने चमसं मा वि जिह्वर इति प्रणीताप्रणयनमनुमन्त्रयते २४
सव्यं जान्वाच्य दक्षिणाग्नावाज्याहुतीर्जुहुयादग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहानुमतये स्वाहेति २५
पञ्चमीमुरसि प्रेतस्यास्माद्वै त्वमजायथा अयन्त्वदधिजायतामसौ स्वर्गाय लोकाय स्वाहेति २६ ३

4.4
प्रेष्यति युगपदग्नीन्प्रज्वालयतेति १
आहवनीयश्चेत्पूर्वं प्राप्नुयात्स्वर्गलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः २
गार्हपत्यश्चेत् पूर्वं प्राप्नुयादन्तरिक्षलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः ३
दक्षिणाग्निश्चेत्पूर्वं प्राप्नुयान्मनुष्यलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः ४
युगपत्प्राप्तौ परामृद्धिं वदन्ति ५
तन्दह्यमानमनुमन्त्रयते प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति समानम् ६
स एवंविदा दह्यमानः सहैव धूमेन स्वर्गं लोकमेतीति ह विज्ञायते ७
उत्तरपुरस्तादाहवनीयस्य जानुमात्रङ्गर्तं खात्वावकां शीपालमित्यवधापयेत्ततो ह वा एष निष्क्रम्य सहैव धूमेन स्वर्गं लोकमेतीति ह विज्ञायते ८
इमे जीवा वि मृतैराववृत्रन्निति सव्यावृतो व्रजन्त्यनवेक्ष्यमाणाः ९
यत्रोदकमवहद्भवति तत्प्राप्य सकृदुन्मज्ज्यैकाञ्जलिमुत्सृज्य तस्य गोत्रं नाम च गृहीत्वोत्तीर्यान्यानि वासांसि परिधाय सकृदेनान्यापीड्योदग्दशानि विसृज्यासत आनक्षत्रदर्शनात् १०
आदित्यस्य वा दृश्यमाने प्रविशेयुः ११
कनिष्ठप्रथमा ज्येष्ठजघन्याः १२
प्राप्यागारमश्मानमग्निङ्गोमयमक्षतांस्तिलानप उपस्पृशन्ति १३
नैतस्यां रात्न्यामन्नम्पचेरन् १४
क्रीतोत्पन्नेन वा वर्तेरन् १५
त्रिरात्रमक्षारलवणाशिनः स्युः १६
द्वादशरात्रं वा महागुरुषु दानाध्ययने वर्जयेरन् १७
दशाहं सपिण्डेषु १८
गुरौ चासपिण्डे १९
अप्रत्तासु च स्त्रीषु २०
त्रिरात्रमितरेष्वाचार्येषु २१
ज्ञातौ चासपिण्डे २२
प्रत्तासु च स्त्रीषु २३
अदन्तजाते २४
अपरिजाते च २५
एकाहं सब्रह्मचारिणि २६
समानग्रामीये
च श्रोत्रिये २७ ४

4.5
सञ्चयनमूर्ध्वं दशम्याः कृष्णपक्षस्यायुजास्वेकनक्षत्रे १
अलक्षणे कुम्भे पुमांसमलक्षणायां स्त्रियमयुजोऽमिथुनाः प्रवयसः २
क्षीरोदकेन शमीशाखया त्रिःप्रसव्यमायतनं परिव्रजन्प्रोक्षति शीतिके शीतिकावतीति ३
अङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसंह्रादयन्तोऽवदध्युः पादौ पूर्वं शिर उत्तरम् ४
सुसञ्चितं सञ्चित्य पवनेन सम्पूय यत्र सर्वत आपो नाभिस्यन्देरन्नन्या वर्षाभ्यस्तत्र गर्तेऽवदध्युरुपसर्प मातरं भूमिमेतामिति ५
उत्तरया पांसूनवकिरेत् ६
अवकीर्योत्तराम् ७
उत्ते स्तभ्नामीति कपालेनापिधायाथानवेक्षं
प्रत्याव्रज्याप उपस्पृश्य श्रद्धमस्मै दद्युः ८ ५

4.6
गुरुणाभिमृता अन्यतोवापक्षीयमाणा अमावास्यायां शान्तिकर्म कुर्वीरन् १
पुरोदयादग्निं सहभस्मानं सहायतनं दक्षिणा हरेयुः क्रव्यादमग्निं प्रहिणोमि दूरमित्यर्द्धर्चेन २
तं चतुष्पथे न्युप्य यत्र वा त्रिः प्रसव्यं परियन्ति सव्यैः
पाणिभिः सव्यानूरूनाघ्नानाः ३
अथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य केशश्मश्रुलोमनखानि वापयित्वोपकल्पयीरन्नवान्मणिकान्कुम्भानाचमनीयांश्च शमीसुमनोमालिनः शमीमयमिध्मं शमीमय्यावरणी परिधींश्चानडुहङ्गोमयञ्चर्म च नवनीतमश्मानं च यावत्योयुवतयस्तावन्ति कुशपिञ्जूलानि ४
अग्निवेलायामग्निं जनयेदिहैवायमितरो जातवेदा इत्यर्धर्चेन ५
तन्दीपयमाना आसत आ शान्तरात्रादायुष्मतां कथाः कीर्तयन्तो माङ्गल्यानीतिहासपुराणानीत्याख्यापयमानाः ६
उपरतेषु शब्देषु सम्प्रविष्टेषु वा गृहन्निवेशनं वा दक्षिणद्वारपक्षात्प्रक्रम्याविच्छिन्नामुदकधारां हरेत्तन्तुन्तन्वन्रजसोभानुमन्विहीत्युत्तरस्मात् ७
अथाग्निमुपसमाधाय पश्चादस्यानडुहञ्चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नमात्यानारोहयेदारोहतायुर्जरसं वृणाना इति ८
इमं जीवेभ्यः परिधिं दधामीति परिधिं परिदध्यात् ९
अन्तर्मृत्युन्दधतां पर्वतेनेत्यश्मानमित्युत्तरतोऽग्नेः कृत्वा परं मृत्यो अनु परेहि पन्थामिति चतसृभिः प्रत्यृचं
हुत्वा यथाहान्यनुपूर्वं भवन्तीत्यमात्यानीक्षेत १०
युवतयः पृथक्पाणिभ्यां दर्भतरुणकैर्नवनीतेनाङ्गुष्ठोपकनिष्ठिकाभ्यामक्षिणी आज्य पराच्यो विसृजेयुः ११
इमा नारीरविधवाः सुपत्नीरित्यञ्जाना ईक्षेत १२
अश्मन्वतीरीयते संरभध्वमित्यश्मानङ्कर्ता प्रथमोऽभिमृशेत् १३
अथापराजितायान्दिश्यवस्थायाग्निनानडुहेन गोमयेन चाविच्छिन्नया चोदकधारयापो हि ष्ठा मयोभुव इति तृचेन परीमे गामनेषतेति परिक्रामत्सु जपेत् १४
पिङ्गलोऽनड्वान्परिणेयः स्यादित्युदाहरन्ति १५
अथोपविशन्ति यत्राभिरंस्यमाना भवत्यहतेन वाससा प्रच्छाद्य १६
आसतेऽस्वपन्त ओदयात् १७
उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्याप नः शोशुचदघमिति प्रत्यृचं हुत्वा ब्राह्मणान्भोजयित्वा स्वस्त्ययनं वाचयीत गौः कंसोऽहतं वासश्च दक्षिणा १८ ६

4.7
अथातः पार्वणे श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा १
ब्राह्मणान्श्रुतशीलवृत्तसम्पन्नानेकेन वो काले ज्ञापितान्स्नातान्कृतपच्छौचानाचान्तानुदङ्मुखान् पितृवदुपवेश्यैकैकमेकैकम्य द्वौद्वौ त्रींस्त्रीन्वा वृद्धौ फलभूयस्त्वं न त्वेवैकं सर्वेषाम् २
काममनाद्ये ३
पिण्डैर्व्याख्यातम् ४
अपः प्रदाय ५
दर्भान्द्विगुणभुग्नानासनं प्रदाय ६
अपः प्रदाय ७
तैजसाश्ममयमृण्मयेषु त्रिषु पात्रेष्वेकद्रव्येषु वा दर्भान्तर्हितेष्वप आसिच्य शन्नो देवीरभिष्टय इत्यनुमन्त्रितासु तिलानावपति तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितॄनिमाँल्लोकान्प्रीणयाहि नः स्वधा नम इति ८
प्रसव्येन ९
इतरपाण्यङ्गुष्ठान्तरेणोपवीतित्वाद्दक्षिणेन वा सव्योपगृहीतेन पितरिदं ते अर्घ्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यमिति १०
अप्पूर्वम् ११
ताः प्रतिग्राहयिष्यन्सकृत्सकृत्स्वधा अर्घ्या इति १२
प्रसृष्टा अनुमन्त्रयेत या दिव्या आपः पृथिवी सम्बभूवुर्या अन्तरिक्ष्या उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शंस्योना भवन्त्विति संस्रवान्समवनीयताभिरद्भिः पुत्रकामो मुखमनक्ति १३
नोद्धरेत्प्रथमं पात्रं पितॄणामर्घ्यपातितम्
आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत्
उद्धरेद्यदि चेत्पात्रं विवृतं वा यदा भवेत्
तदासुरं भवेच्छ्राद्धं क्रुद्धैः पितृगणैर्गतैः इति १४ ७

4.8
एतस्मिन्काले गन्धमाल्यधूपदीपाच्छादनानां प्रदानम् १
उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये करवै करवाणीति वा २
प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व कुर्विति ३
अथाग्नौ जुहोति यथोक्तं पुरस्तात् ४
अभ्यनुज्ञायां पाणिष्वेव वा ५
अग्निमुखा वै देवाः पाणिमुखाः पितर इति हि ब्राह्मणम् ६
यदि पाणिष्वाचान्तेष्वन्यदन्नमनुदिशति ७
अन्नमन्ने ८
सृष्टं दत्तमृध्नुकमिति ९
तृप्तान्ज्ञात्वा मधुमतीः श्रावयेदक्षन्नमीमदन्तेति च १०
सम्पन्नमिति पृष्ट्वा यद्यदन्नमुपयुक्तं तत्तत्स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेत् ११
अभिमतेऽनुमते वा भुक्तवत्स्वनाचान्तेषु पिण्डान्निदध्यात् १२
आचान्तेष्वेके १३
प्रकीर्यान्नमुपवीयॐ स्वधोच्यतामिति विसृजेत् १४
अस्तु स्वधेति वा १५ ८

4.9
अथ शूलगवः १
शरदि वसन्ते वार्द्रया २
श्रेष्ठं स्वस्य यूथस्य ३
अकुष्ठिपृषत् ४
कल्माषमित्येके ५
कामं कृष्णमालोहवांश्चेत् ६
व्रीहियवमतीभिरद्भिरभिषिच्य ७
शिरस्त आभसत्तः ८
रुद्राय महादेवाय जुष्टो वर्धस्वेति ९
तं वर्धयेत्सम्पन्नदन्तमृषभं वा १०
यज्ञियायां दिशि ११
असन्दर्शने ग्रामात् १२
ऊर्द्ध्वमर्धरात्रात् । उदित इत्येके १३
वैद्यं चरित्रवन्तं ब्रह्माणमुपवेश्य सपलाशामार्द्रशाखां यूपं निखाय व्रतत्यौ कुशरज्जू वा रशने अन्यतरया यूपं परिवीयान्यतरयार्धशिरसि पशुं बध्वा यूपे रशनायां वा नियुनक्ति यस्मै नमस्तस्मै त्वा जुष्टं नियुनज्मीति १४
प्रोक्षणादि समानं पशुना विशेषान्वक्ष्यामः १५
पात्र्या पलाशेन वा वपां जुहुयादिति ह विज्ञायते १६
हराय मृडाय शर्वाय शिवाय भवाय महादेवायोग्राय भीमाय पशुपतये रुद्राय शङ्करायेशानाय स्वाहेति १७
षड्भिर्वोत्तरैः १८
रुद्राय स्वाहेति वा १९
चतसृषुचतसृषु कुशसूनासु चतसृषु दिक्षु बलिं हरेद्यास्ते रुद्र पूर्वस्यां दिशि सेनास्ताभ्य एनं नमस्ते अस्तु मा मा हिंसीरित्येवं प्रतिदिशं त्वादेशनम् २०
चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत कद्रुद्रायेमा
रुद्रायाते पितरिमा रुद्राय स्थिरधन्वन इति २१
सर्वरुद्रयज्ञेषु दिशामुपस्थानम् २२
तुषान् फलीकरणांश्च पुच्छञ्चर्मशिरः पादानित्यग्नावनुप्रहरेत् २३
भोगं चर्मणा कुर्वीतेति शांवत्यः २४
उत्तरतोऽग्नेर्दर्भवीतासु कुशसूनासु वा शोणितं निनयेच्छ्वासिनीर्घोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽत्र तद्धरध्वमिति २५
अथोदङ्ङावृत्य श्वासिनीर्घोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽत्र तद्धरध्वमिति सर्पेभ्यो यत्तत्रासृगूवध्यं वावस्रुतं भवति तद्धरन्ति सर्पाः २६
सर्वाणि ह वा अस्य नामधेयानि २७
सर्वाः सेनाः २८
सर्वाण्युच्छ्रयणानि २९
इत्येवंविद्यजमानं प्रीणाति ३०
नास्य ब्रुवाणं च न हिनस्तीति विज्ञायते ३१
नास्य प्राश्नीयात् ३२
नास्य ग्राममाहरेयुरभिमारुको हैष देवः प्रजा भवतीति ३३
अमात्यानन्ततः प्रतिषेधयेत् ३४
नियोगात्तु प्राश्नीयात्स्वस्त्ययन इति ३५
स शूलगवो धन्यो लोक्यः पुण्यः पुत्र्यः पशव्य आयुष्यो यशस्यः ३६
इष्ट्वान्यमुत्सृजेत् ३७
नानुत्सृष्टः स्यात् ३८
न हापशुर्भवतीति विज्ञायते ३९
शन्तातीयं जपन्गृहानियात् ४०
पशूनामुपताप एतमेव देवं मध्ये गोष्ठस्य यजेत् ४१
स्थालीपाकं सर्वहुतम् ४२
बर्हिराज्यञ्चानुप्रहृत्य धूमतो गा आनयेत् ४३
शन्तातीयं जपन्पशूनां
मध्यमियान्मध्यमियात् ४४
नमः शौनकाय नमः शौनकाय ४५ ९

इति चतुर्थोऽध्यायः
आश्वलायनगृह्यसूत्रं समाप्तम्