सामग्री पर जाएँ

आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/प्रथमप्रश्नः

विकिस्रोतः तः

श्रीः

आ यु् र्वे द सू त्र म्

स भा ष्य म्.


वप्रक्रीडोद्दळद्दन्तघातनिर्यन्महांशुभिः ।
मेरोरात्माऽऽवृतो भाति तं वन्दे सिन्धुराननम् ॥

 परमकारणीभूतपरब्रह्म सकलजीवनोपकारकमायुर्वेदं प्रजापतिब्रह्मणेऽनुजग्राह.

ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥

 इत्यक्तरीत्या अथशब्देन परममङ्गलमाचरन् प्रथमसूत्रमनुगृह्णाति-- अथेति ।

 अथातो धातुस्थदोषगत्यविकारहेतुभूतार्थ[]वार्धकद्रव्याण्यद्यात् ॥ १ ॥

 अस्यार्थः--धातुषु तिष्ठन्तीति धासुस्थाः दोषाणां गतिः, विकाराभावकार्यहेतुपूर्विका गतिः. तासां हेतुभूतार्थानि अप्रकोपकारकाणि वार्धकद्रव्याणि भोज्ययोग्यानि अद्यात् इति सूत्रार्थः । धातुषु--

'रसासृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः'[]

 इत्युक्तेषु संचारार्थं तिष्ठन्तीति धातुस्थाः । ते च ते दोषाश्चेति समानाधिकरणसमासः ।

वायुः पित्तं कफश्चेति त्रयो दोषास्समासतः[]

 धातुवृद्धिकारकद्रव्याणां तावद्वृद्धिमात्रफलमुद्दिश्य प्रवृत्तिश्चेत् अल्पफलमिति आयुर्वेदप्रवृत्तेः बहुपुरुषार्थप्रदायकत्वादित्याशयं मनसि निधायाह-- चिरेति ।

 चिरायुरिच्छा[]प्रवृत्तिरायुर्वेदार्थपुरुषार्थोपपादिका ॥

 चिरशब्देन कार्यसिद्धिद्रव्यादने जाते आयुष्कामयमानस्य प्रवृत्तिः इच्छतः पुरुषस्य चिरायुर्मे भूयादिति कामनाविषयकप्रवृत्तिः शास्त्रसम्प्रदायकथितविषयकानुभवहस्तकौशल्यादिपाण्डित्यं यस्यास्ति तस्य ईदृशप्रवृत्तिः पुरुषार्थोऽयमिति चिरायुरिच्छाप्रवृत्तिविषयः । आयुर्वेदार्थपुरुषार्थोपपादिकेति प्रयोजनम् । अत्र सूत्रस्थानवचनम्--

आयुष्कामयमानेन धर्मार्थसुखसाधनम् ।
आयुर्वेदोपदेशेषु विधेयः परमादरः ॥

 नन्वस्मिन् शास्त्रे प्रयोजनं आयुर्वेदार्थपुरुषार्थोपपादिकेति प्रयोजनमित्युक्तं तथा सति रोगाभावकार्यहेतुतायाः कारणत्वं न स्यादित्यस्वरसादाह-- तद्धेत्विति ॥

 तद्धेतुभूतार्थं रक्षेत् ॥ ३ ॥

 तद्धेतुभूतार्थो नाम अरोगकार्यहेतुभूतार्थः । तदेव प्रयोजनम् । तद्रक्षणमेव फलीभूतार्थं तद्धेतु करणीयमित्यर्थः । अत्र सूत्रवचनं--

विचारयित्वा सर्वाणि नित्यं देहं निरीक्षयन् ।
अविकारं निरीक्ष्यैनं पथ्येनैव च तं हरेत् ।
जीर्णाजीर्णाविवेकत्वं जिह्वायां विद्यते नृणाम् ॥[]

 एवमाकारेण विकारं ज्ञात्वा तन्निवर्तनं पथ्यादनमेव भाव्यम् । तद्धेतुभूतार्थं त्विदमेव संरक्षणीयम् । हीनातिमात्रान्नादानं विकारहेतुकम् । तन्निवर्तकहेतुभूतार्थं रक्षणीयमिति तात्पर्यम् ।

 इन्द्रियातिलालनातिपीडनयोः विकारहेतुकत्वं न स्यादित्यस्वरसादाह--नेति ।

 नेन्द्रियातिलालनातिपीडनौ ॥ ४ ॥

 इन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि । तेषां शब्दस्पर्शरूपरसगन्धा विषयाः । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि । हितमितप्रवृत्तिविषयकं कुर्यादित्यर्थः । ननु हीनभोजनातिभोजनयोः रोगहेतुकत्वं प्रतिपादितम् । तत्र वचनं--

भोजनं हीनमात्रं तु न बलोपचयौजसे ।[]
अतिमात्रं पुनस्सर्वानाशु दोषान्प्रकोपयेत् ॥

 एतद्वचनानुसारेण अनयोरेव हेतुत्वं प्रतिपादितं, नेन्द्रियातिलालनातिपीडनयोः । तस्मादेतत्सूत्रं व्यर्थं स्यादित्यस्वरसादाह--दोषेति ।

 दोषवृद्धिक्षयोपपादकौ ॥ ५ ॥

 दोषाणां वृद्धिरपि दोषरोगहेतुर्भवति । दोषाणां क्षयोऽपि दोषप्रकोपहेतुर्भवति । दोषहेतुकत्वं नाम दोषप्रकोपहेतुकत्वम् । दोषविकारस्य वृद्धिक्षययोश्च कार्यकारणभाव उद्दिष्टः नेन्द्रियातिलालनातिपीडनयोरिति । अत्र वचनं--

 न पीडयेदिन्द्रियाणि न च तान्यतिलालयेत् ।[]

 इति । ..........................दोषाणां वृद्धिक्षययोरुपपादकत्वमनयोरेव वृद्धिप्रतिपादकत्वात्--

वृद्धिस्समानैस्सर्वेषां विपरीतैर्विपर्ययः ।

 एतयोरेव कार्यकारणभावः । परम्परया कारणत्वं वक्तुं शक्यत इत्यर्थः ॥

 ननु दोषवृद्धिक्षयौ स्वत एव प्राप्तौ, नेन्द्रियातिलालनातिपीडनयोः । तयोः कार्यकारणभावस्तु कालवशादेव प्राप्तः । तत्र सूत्रस्थानवचनं--

चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु ।
वर्षादिषु तु पित्तस्य श्लेष्मणश्शिशिरादिषु ॥[]

 एतद्वचनानुसारेण अनयोः कार्यकारणभावः कथं वक्तुं शक्यत इत्यस्वरसादाह-- लक्षणेति ।

 लक्षणान्यपि तथा ॥ ६ ॥

 अप्राप्तकाले प्राप्तलक्षणानि यत्र भासन्ते प्राप्तकाले तल्लक्षणाभावो यत्र भासते तत्र नियमः । लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः । तत्र सूत्रवचनं--

कालार्थकर्मणां योगा हीनमिथ्यातिमात्रकाः ।
सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम् ।
रोगस्तु दोषवैषम्य दोषसाम्यमरोगता ॥[]

 असाधारणधर्मवचनहेतुज्ञानजन्यामयनिवर्तकयोग्यकार्यं व्यपदिशति--योग्यैरिति ।

 [१०]योग्यैस्तच्च निवर्तयेत् ॥ ७ ॥

 अभिघातामयजन्यरुङ्निवर्तकरेचकोपयोगिद्रव्यरसैः भाव्यं यत् तद्योग्यमित्यर्थः । यावदभिघातामयस्तच्छब्दार्थः । तं निवर्तकद्रव्येण रेचयेदिति । अत्र सूत्रवचनं—-

आमदोषं महाघोरं वर्जयेद्विषसंज्ञितम् ।
विषरूपाशुकारित्वाद्विरुद्धोपक्रमत्वतः[११]

 ननु इन्द्रियाणां रोगहेतुकत्वं प्रतिपादयितुं इन्द्रियातिलालनातिपीडनाद्भवतीति यदुक्तं तन्न रोचते । अतिमात्रभोजनमामहेतुकं भवति । आमसंग्रह एव सर्वरोगकारणम् । आमनिवर्तकत्वं युक्तमित्यस्वरसादाह-- अनामेति ।

 अनामपालनं कुर्यात् ॥ ८ ॥

 यस्मादामसंग्रहाभावस्यैव रोगाभावहेतुकसामग्रीत्वं तस्मादनामपालनं प्रत्यहं विधिरिति । आमं पालयतीत्यामपालनं, आमपालनं न भवतीत्यनामपालनं कार्यमित्यर्थः । अत्र अनामपालनकर्मकरणस्य हेतुवचनं सुत्रे प्रतिभातम् ।

मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका ।
मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि[१२]

 ननु ज्वरादीनामप्रवर्तकसामग्री जठराग्निप्रवर्तकसामग्री । तस्मादनामपालनमप्रयोजकं स्यादित्यत आह-- आममिति ।

 आमं हि सर्वरोगाणाम् ॥ ९ ॥

 आममेव कारणमिति, हिशब्दः प्रसिद्धिवाचकः । अत्र सूत्रवचनम्--

आमाशयस्थो हत्वाऽग्निं[१३] सामो मार्गान्विधाय च ।
विदधाति ज्वरं दोषः तस्मात्कुर्वीत लङ्घनम् ।

 जठराग्निप्रवर्तकसामग्री यस्यास्ति तस्य सर्वभोक्तृत्वं वक्तुं शक्यते । चिरायुरपि लभ्यते ।

 ननु सर्वेषां रोगाणामामनिवृत्तिरेव तत्र भेषजमिति वक्तव्ये सति ज्वरादावामनिवृत्त्यकरणं दोषहेतुकं भवति । आमनिवृत्तिरपि लङ्घनादेव भाव्येति लङ्घनकरणमप्यावश्यकमिति ब्रह्मणा प्रतिपादितमित्याह--आदीति ।

 आदिभूतमाह ब्रह्मा ॥ १० ॥

 उभयमपि रोगनिवर्तकप्रतिपादनादामशोषणार्थं लङ्घनकरणमपि परम्पराहेतुभूतमिति ब्रह्मा आहेत्यर्थः । अत्र सूत्रवचनं--

[१४]लङ्घनं कार्यमामे तु विष्टम्भे स्वेदनं भृशम् ।

 इति वचनाल्लङ्घनेन आमनिवृत्तौ सत्यां तेन फलीभूतं किमासीदित्यत आह--तदिति ।

 [१५]तन्निवृत्तिरनामयम् ॥ ११ ॥

आमनिवृत्तेरेव पुरुषार्थो भूत्वा अरोगवान् भवति ।

दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः ।
ये तु संशोधनैश्शुद्धा न तेषां पुनरुद्भवः ॥

इति लङ्घनपाचनैर्जितदेहस्य व्याधयो न पुनर्भवन्तीत्युक्तम् । तथा सति सर्वविषयात्मकानि पञ्चेन्द्रियाणि । मनस अत्मगोचरत्वं केनोपायेन हेतुना भाव्यमित्यत आह--अनामयीति ।

 अनामयी अत्मानं[१६] सम्मन्यते ॥ १२ ॥

 पूर्वोक्तरीत्या देहस्य अनामयत्वं सम्पाद्य आत्ममनननिदिध्यासनयोगेन परमसुखं जीवोऽनुभवति । तत्र वचनं--

क्रमेणोपचिता दोषाः क्रमेणोपचिता गुणाः ।
गता ये च पुनर्भावं अप्रकम्प्या भवन्ति च ॥

 अनामयकार्यकरणेन अरोगो भवन् स्वर्गसुखमेवानुभवतीत्यर्थः । एवमुक्तरीत्या देहस्य अनामयत्वं साधितम् । तावता आत्ममननसामग्री न प्रतिपादिता । किं अरोगवान्भवतीति दृढतरजठरानलवशत्वेन सर्वेन्द्रियाणां सर्वविषयभोक्तृत्वं साधितम् ? अनामयत्वमात्ममननसामग्रीमात्रजन्यत्वं न भवतीत्यस्वरसादाह अहमिति ।

 अहम्प्रत्ययः कर्मकर्ता ॥ १३ ॥

 अहंकाराधिष्ठितमात्रं रक्तोऽहं श्यावोऽहं इति प्रत्ययविषयकमहमिति ज्ञानम् । तथा ज्ञानवानहमिति अनुव्यवसायेन ज्ञातुं शक्तः सत्कर्माधिकारी भवेत् । सुकर्मणा आत्ममननं कर्तुं शक्यत इति ।

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।

इति धर्मविषयकज्ञानगोचरत्वेन परब्रह्मणः मनोविषयकज्ञानगोचरत्वं सिध्यति । अधिष्ठानभूतोऽयमात्मा, यस्सिध्यति स एव जीवात्मा । तावुभौ शरीराधिष्ठितावेव । तयोरन्यस्य सर्वभोक्तृत्वं व्यपदेष्टुमाह--स्थानेति ।

 स्थानवानहंकारी ॥ १४ ॥

 परमात्मनामधिष्ठानरूपत्वं नोपपद्यते । तज्जीवात्मनां सम्भवतीत्याशयवानाहेत्यर्थः । यस्य यावत्कालो योगश्चरति तस्य अरोगित्वस्य स्वतस्सिद्धत्वादित्यत आह--यावदिति ॥

 यावदरोगी अभिमन्यते ॥ १५ ॥

 शोषकपोषकद्रव्यविज्ञानानन्तरं अरोगकार्यहेतुकसामग्रीभजनात् 'अहमरोगवान्’ इति व्यवसायज्ञानेन अभिमन्तुं शक्यत इत्यर्थः । यः अरोगी आत्ममनननिदिध्यासनयोगयोग्यो भवेत् तेन तत्तद्विषयगोचराणि पञ्चेन्द्रियाणि शरीरे संसृज्य अत्मानुगोचरान्तरिन्द्रियेण मनसा परमात्मा मन्तव्य इत्युक्तम् । बाह्येन्द्रियाणां बाह्यविषयगोचरत्वमप्रयोजक स्यादित्यत आह--स इति ।

 स एव भुङ्क्ते ॥ १६ ॥

  [१७]अजो ह्यधिष्ठाता ॥ १७ ॥

सर्वाविषयानुभवो जीवस्सर्वमश्नुते । अत्र श्रुतिः--

द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति
अनश्नन्नन्यो अभिचाकशीति ॥

इति श्रुतिरेव अत्र प्रमाणम् । इच्छति, जानाति, प्रयतते इति सर्वकार्यस्य आत्मनः आत्ममनस्संयोगस्य कारणत्वं प्रतीतम् । अतस्सर्वविषयभोक्तृत्वं जीवात्मन उपलब्धेः । तस्मात्परमात्मनाऽनुभूयत इत्याह--भुङ्क्ते इति ।

 भुङ्क्ते विषयभोगान् ॥ १८ ॥ ।। ।

 स्वप्रकाशरूपः परमात्मा सच्चिदानंदानुभवविषयवानिति तात्पर्यम् । सत्यं ज्ञानमनन्तं ब्रह्मेति सत्यानन्तज्ञानं स्वविषयानन्दात्मनः परमात्मा ।

 ननु एकस्सकलविषयभोगान्भुङ्क्ते । भोगाः कर्माधीनाः । जीवस्य कर्मभोक्तृत्वं विधिरिति व्यक्तव्ये सति उपस्थितविषयभोक्तृत्वं जीवस्य, परमात्मनस्सर्वविषयभोक्तृत्वं भासते, सर्वज्ञत्वात् । उभयोः कर्मभोक्तृत्वं प्रसक्तमित्यस्वरसादाह--अन्य इति ।

 अन्यः कर्म भुङ्क्ते ॥ १९ ॥

 अन्यो जीवात्मा कर्माधिकारी सन् स्वकर्माधीनविषयभोगान् भुङ्क्त इत्यर्थः । सुकर्मणा सुखप्रदानविषयफलं भुङ्क्ते । दुष्टकर्मणा दुःखविषयकफलं भुङ्क्ते । भोगस्य सुखदुःखात्मकत्वात् । सुखदुःखानुभवो भोगः जीवस्य लक्षणं प्रतिभासितम् । जीवस्य सकलविषयानुभवत्वं प्रसज्यत इत्यर्थः । दुष्टकर्मजं शरीरे सति सत्कर्मैव सदा कुर्यादित्यर्थः ।

 परमात्मनः सत्कर्मविषयककर्मकरणत्वं विधिः । ईश्वरस्यापि यत्किंचिन्कर्मजनककर्माधिकारित्वं प्रसक्तमित्यस्वरसादाह--य इति ।

 यः कर्ता कर्मभोगी ॥ २० ॥

 राजसतामसफलप्रदहेतुकद्रव्यादनजातसुखदुःखफलं अहंकारविशिष्टकर्माधिकारिणः प्रयच्छत इति । साक्षात्कर्मणः फलावश्यंभावनिगमादित्यत आह-- कर्तेति ।

 कर्ता शरीरी ॥ २१ ॥

 यावत्कर्मकर्ता शरीरी अत्र कर्ता भवतीत्यर्थः । यत्किंचित्फलमुद्दिश्य यः कर्म करोति स शरीरीत्युक्तम् । शरीराभावादात्मन अन्न दनत्वं न योग्यमित्यस्वरसादाह-- अशरीरीति ।

 अशरीरी नान्नमत्ति ॥ २२ ॥

 कर्मफलयोः कार्यकारणत्वं नियमेन अन्नादनत्वम् । स्वकर्मानुकूलफलं लभ्यते । तच्छरीरिणः स फलं प्रयच्छतीति भावः । अहरहर्मनुष्या अशनमिच्छन्ति । प्रत्यहमशनार्थं लोके तत्फलोपयोगि कर्म चेत्कृतं तत्र फलाभावो न दश्यते । तत्रापि शरीरमस्ति । तस्मात् कर्मफलयोः कार्यकारणभावो नास्तीत्याह नेति ।

 [१८]न केवलं शरीरं भोगयोग्यमात्मनो योगात् ॥ २३ ॥

 प्रथमतः शरीरोत्पत्तिकालः तज्जन्मान्तरसंस्कारादेव बालकादीनां स्तन्यपानादिफलं प्रयच्छतीत्यर्थः ।

 ननु बालकादीनामपि शरीरमस्ति, तत्र कर्म न कृतं, तेषामयोग्यत्वात् । स्तन्यपानादिफलं मात्रा दीयते । तस्मात्कर्मफलयोः कार्यकारणभावो वक्तुं न शक्यत इत्यत आह-- भोगयोग्यमिति । तदानीं दृष्टकर्माभावेऽपि जन्मान्तरकर्मकरणं कल्प्यते, शरीरवत्त्वादात्मनः । शरीरधारणस्योचितत्वादेव बालकादीनां स्तन्यपानादिकं मात्रा दीयते इति चेन्न । शरीरधारणादीनां जन्मान्तरकर्महेतुफलत्वं कल्प्यते । आत्मनश्शरीरवत्त्वात् आत्मनश्शरीरधारणस्योचितत्वात् आत्मसंयोगकारणभूतस्य शरीरिणो भोगायतनत्वं जीवस्य प्रतीतम् । तस्माच्छरीराधिष्ठानयोग्यत्वं नान्यस्येत्यत आह-- अजाविति ।

 अजौ ह्यधिष्ठितौ ॥ २४ ॥

 न जायत इत्यजः। तौ जीवात्मपरमात्मानौ शरीराधिष्ठितावित्यर्थः । घटज्ञानवानहमिति यस्य प्रतीतिस्तस्यैव विषयानुभवत्वं अनयोरन्यतरस्य सम्भवतीत्यर्थः । अत आह--अन्य इति ।

 अन्योऽन्नमत्ति ॥ २५ ॥

 शरीराङ्गानि इन्द्रियाणि, अङ्गी शरीरी । जीवात्मन इन्द्रियगोचरविषयानुभवार्थं तदङ्गभूतेन्द्रियाणि संसृज्य जानाति, इच्छति, प्रयतते, इत्येतत्प्रत्ययान्यथानुपपत्त्या जीवात्मा अन्नमश्नुते । तद्व्यतिरिक्तात्मना किं तदनुभूयत इत्याशङ्कायामाह-- अनत्तीति ।

 अनत्त्येवमन्यः ॥ २६ ॥

 अन्यस्य परमात्मनः सर्वविषयानुभवत्वं प्रसिद्धमिति अन्यस्य फलेनाविशिष्टत्वात् एतादृशार्थफलं अनत्ति स्वयं स्वप्रकाशात्मकत्वात् स्वयमेवानुभवतीत्यर्थः ।

 विकारकार्यहेतुकसामग्रीविषयककार्यानुभवशरीरमस्यात्मनो भोगयोग्यं स्यादित्यत आह-- सतीति ।

 सति शरीरे भोगाय ॥ २७ ॥

 शरीरे सति सर्वविषयभोगार्हत्वमात्मना सम्पादितमित्याहेत्यर्थः । शरीरिणः कान्यङ्गानि ? पञ्चेन्द्रियाणामप्यङ्गत्वं प्रदिपादितम् । मनस अगोचरत्वेन मनसोऽन्तरिन्द्रियत्वेन षडित्युपदिष्टम् । षण्णामात्मनो भोगविषयप्रापकहेतुभूतार्थत्वात् । तस्माच्छरीरस्य भोगयोग्यत्वमिति स्वत एव सिद्धत्वात् । विषयविज्ञानमिन्द्रियाधीनं, इन्द्रियाणि च शरीराधिष्ठितानि । सर्वविषयाः शरीराधीना इत्यर्थः ।

 ननु प्रवृत्तिर्द्विविधा इष्टप्राप्त्यर्थमनिष्टपरिहारार्थं चेति । स्वाधिष्ठानानुभूतशरीरं संरक्षणीयमित्येका प्रवृत्तिः । सा द्विविधा प्रवृत्तिरात्मन उपपद्यते । तत्कथं शरीराङ्गभूतानि पञ्चेन्द्रियाणि ? तद्द्वारा इष्टप्राप्तिरूपकलं कथं लभ्यते ? अनिष्टपरिहारद्वारा इष्टप्राप्तिरूपफलमपि लभ्यते ? अनिष्टपरिहारद्वारा उभयफलं शरीरिणो भाव्यमित्यत आह-- अष्टेति ।

 अष्टाङ्गी शरीरी ॥ २८ ॥

 अष्टानामङ्गानां समाहारः अष्टाङ्गम् । शरीरम यास्तीति शरीरी । अत्र सूत्रवचनम्--

कायबालग्रहे र्त्वाङ्गा शल्यदंष्ट्राजरावृषान् ।
अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता[१९]

शरीरोपद्रवकार्यकारणीभूतव्याधय औपाधिकभूताः वातपित्तकफप्रकुपितहेतुकधातवोऽपि न प्रवर्धन्त इति अष्टरोगाणां अङ्गत्वं प्रतिपादितम् । शरीराणामेतादृशा व्याधयः । तेषां धातूनामङ्गत्वं प्रतिपादितम् । सप्तधातुमयं शरीरमिति अङ्गोपद्रवकारकव्याधीना परम्परया अङ्गत्वं प्रतिपादितमित्यर्थः ।

 ननु धातुप्रवर्धकद्रव्याणामङ्गत्वं वक्तऽव्यं चेत् तथा सुकरमिति धातुविनाशकारकाणां शरीरनाशकानां अङ्गत्वं कथं स्यादिति चेन्न, शरीराभावकार्यस्य व्याधीनां कार्यकारणभावस्य वक्तुं शक्यत्वादित्यर्थः ।

 शरीरविनाशहेतुभूतानामष्टरोगाणां लक्षणप्रमाणे व्यपदिशति-- यावदिति ।

 यावत्कृतिविधेः कायः ॥ २९ ॥

 यावन्निदानज्ञानविषयकज्ञानजन्यसाधकीभूतनिवर्तकानां कृतिः कार्यो निवर्त्यः । तत्रैतयोः यावद्विधिः यावच्छास्त्रोक्तकर्मसहिष्णुत्वं यस्य निवर्तकं भवति स एव काय इति उपदेशः । अत्र सूत्रवचनम्--

शोधनं शमनं चेति समासादौषधं द्विधा ।
शरीरजानां दोषाणां क्रमेण परमौषधम् ॥[२०]

 शरीरत्वावच्छेदेन कायबालशरीरस्याप्येकत्वेन क्रमेण परमौषधमिति कायबालचिकित्साभेदेन विवक्षितत्वात्क्रमशब्दार्थो विवक्षितः । ननु कायबालामयौ आमहेतुजन्यामरोगनिवर्तकसामग्र्यां सत्यां तज्जन्यरोगनिवृत्तेर्दृष्टत्वात् तज्जातामयौ कायबालेति प्रतिपादितौ । तदन्यजातरोगा ग्रहा ग्रहजातरोगाः । तेषां का गातिरित्याशयवानाह-- आमेति ।

 आमजामयकार्यहेतुकचित्तक्षोभभयनिग्रहविग्रहो ग्रहः ॥ ३० ॥

 अत्र केचित्-- आमजन्या व्याधयः । तेषां किंचित्सामग्रीप्रयुक्तकर्म तत्र भेषजम् । ग्रहाभिभूतामयानां आमनिवृत्तिकर्मकरणस्यायोग्यत्वात्, अत्र तन्निवर्तकसामग्र्या अननुभूतत्वात्, शास्त्रतः अदृष्टत्वाच्च । तस्मादेतत्सूत्रमयुक्तमिति वदन्तं प्रति परिहर्तुकामस्सूत्रं व्याचष्टे-- आमेति ।

 तद्रोगनिवर्तकतद्ग्रहनिग्रहरूपं तत्र भेषजम् । मन्त्रतन्त्रबलिप्रदानादयो निवर्तकाः । ग्रहेष्वनुगुणेष्वेकदोषमार्गा ग्रहजन्यादिरुजोऽपि बलिदानमन्त्रतन्त्राद्यैः निवर्तनैः निवर्तयितुं सुखेन शक्या भवन्तीत्यर्थः । तत्र सामग्रीग्रहरूपमन्त्रतन्त्रैः भयनिग्रहो भवति । आमहेतुकसामग्रीजन्यरोगाभावादित्यर्थः । ऊर्ध्वाङ्गजाता अनेकरोगाः पूर्वोक्तप्रकारनिवर्तका निवर्त्याः ते ऊध्वाङ्गजातरोगा बहवो दृष्टाः । तन्निदानमेतद्भिन्नविषयकम्, एतन्निदानस्यापि तद्भिन्नविषयकत्वात् । कर्णनेत्रशिरोनासिकाजिह्वास्थितपवनपित्तप्रकोपकारकाः तद्धेतुकार्याहेतुकार्यहेतुभूतामयाः कारणजन्याः इत्यूर्ध्वाङ्गरोगान्विशिनष्टि-- आमेति ।

 आमजामयकार्यहेतुकान्यहेतुकामयनिवर्तका अपूर्वाङ्गहेतुकाः ॥ ३१ ॥

 पूर्वकायहेतुकजातरोगकार्यहेतुकसामग्रीजन्यहेतुप्रतिपादनात् उत्तरकायाधिष्ठितरोगप्रतिपादकामजातरोगकार्यहेतुस्थिताः निवर्तकैः निवर्तयितुं योग्या भवन्तीत्यर्थः ।

 रेचकलङ्घनाभ्यां निवर्तयितुमयोग्या इत्याशङ्क्य तदामयानां तन्निवर्तकाः प्रकाश्यन्ते-- दोषेति ।

 दोषसञ्चाराभावजास्थिकर्णनासादिसन्धिजरुजश्शस्त्रेणैके निवर्तकाः ॥ ३२ ॥

 दोषाः वातपित्तकफाः प्रकुपिताः । विकारहेतुभूतसञ्चारजन्यकर्णनासादिसन्धिजातदुष्टरक्तशल्यरूपरुजां तन्निवर्तकानि शस्त्रक्षाराग्निकर्माणि शिरोऽस्थिरक्तं विमोचयन्तीत्यर्थः । तत्र वचनं--

शस्त्रादिसाधकः कृच्छ्रस्सङ्करे च ततो गदः ।
एकशब्देन एकेषां मुख्यत्वं प्रतिपादितम् ॥

तन्निवर्तका इति बहुजातरुङ्निवर्तका न भवन्तीत्यर्थः । दोषहेतुकास्ते च रुजो धातुविनाशकाः । तन्निवर्तकप्रकारकाः औषधादयः । अत्र वचनं--

नावनाञ्जनपानेषु योजयेद्विषशान्तये ।
विषभुक्ताय दद्याच्च शुद्धयोर्ध्वमधस्तथा ॥
सूक्ष्मं ताम्ररजःकाले सक्षौद्रं हृद्विशोधनम् ।
शुद्धे हृदि ततश्शाणं हेमचूर्णस्य दापयेत् ।
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ॥[२१]

इति वचनात् ।

अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः ।
योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः ॥[२२]

 इति वचनान्तरेणापि सूत्रार्थो ज्ञाप्यत इति व्याधिहेतुकद्रव्यादनाज्जातरोगाणां तन्निवर्तकौषधयोगवशाद्व्याधिनिवृत्तिरेव फलमिति अनिष्टपरिहारार्थमपि फलप्रवृत्तेर्दृष्टत्वात् संस्थानाभिवर्धकसर्वभोक्तृत्वं कथं स्यादित्यत आह-- प्रकाशमानेति ।

 प्रकाशमानप्रथमप्रयाणाधिगतनिस्सृतामृतप्रतिप्रयाणाहृतयोगविभागधातुपोषकसुरसादनादरोगवानजरः ॥ ३३ ॥

 अग्निजस्वरूपकुण्डल्युद्भवश्वासानिलजातेनोष्मणा प्रकाशमानस्सन् प्रथमप्रयाणादुत्थितसहस्रकमलादागतामृतमाहृत्य यथायोगं सप्तधातून्सन्तर्प्य यो योगं करोति स चिरायुर्भवति । शुद्धरसादनाच्च फलं भवतीति अजरत्वं सुप्रसिद्धमित्यर्थः । अत्र कविवाक्यं--

षाड्गुण्यमुपयुञ्चति शक्त्यपेक्षो रसायनम् ।
भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥[२३]

 इतः परं शारीरविषयकयोगक्रमविधिं प्रतिपादयिष्याम इत्युक्तम् । इदानीमिष्टप्राप्तिरूपफलं वक्तुं "आयुष्कामयमानो योगं कुर्यात्" इति यत्प्रतिपादितं 'सर्वजने दुष्कृतमिति' तत्तद्दुरितबाहुळ्याद्दुःखदोऽयमिति आशयवान् सूत्रान्तरमाह-- कायेति ।

 कायकालाधिकाले चरमधातुप्रवर्धकरसवद्द्रव्यैर्वाजीकरणं कुर्यात् ॥ ३४ ॥

रसायनं च सेवेत धातुपुष्टीन्द्रियप्रदम् ।

इति वचनात् ।

[२४]यावद्वर्गोत्तमद्रव्यैर्यत्प्रधानप्रमातिताः ।
तावद्रसा विरुद्धापूः तद्रसायनमीरितम् ? ॥

इति रसायनलक्षणम् । रसायनविधौ कर्मविधौ क्रमः रत्नवर्गोक्तद्रव्येषु वज्रस्य रसद्रव्यत्वात् स श्रेष्ठो भवति । मणिवर्गोक्तद्रव्येषु कान्तमणिः रसद्रव्यत्वात् श्रेष्ठो भवति । पाषाणवर्गेषु रसवद्द्रव्यत्वादभ्रकस्य श्रेष्ठत्वम् । सत्ववद्द्रव्यवर्गेषु भूनागसत्वस्य रसवद्द्रव्यत्वात् श्रेष्ठत्वं भवति । रसवद्द्रव्योपाधिकभेदद्रव्येषु रसेन्द्रस्य रसवद्द्रव्यत्वात् श्रेष्ठत्वं भवति । संस्कारादिकर्मसु बीजकर्मकरणस्य रसवद्द्रव्यत्वात् श्रेष्ठत्वं भवति । अत्र 'चिरायुरिच्छाप्रवृत्तिविषय आयुर्वेदार्थपुरुषार्थोपपादिका' इति प्रयोजनं तथा ह्येकैकस्य कार्यकारणभावज्ञानं तत्तद्विषयकज्ञानगोचरज्ञानं प्रयोजकमिति तत्सर्वं सङ्ग्रुहीतम् । एवं पुरुषार्थोपपादितो वेदितव्य इत्याह-- य इति ।

 य एवं वेद ॥ ३५ ॥

  एवमुक्तप्रकारेण ज्ञातव्य इत्यर्थः ।

 एतावता निवर्त्यनिवर्तकज्ञानं जातम् । तावता उत्तमपुरुषार्थरूपफलं कथं लभ्यते इत्यत आह-- सेति ।

 स चिरायुर्भवति ॥ ३६ ॥

 ननु निवर्तका लोके बहवस्सन्ति । एकदा सर्वविषयकपदार्थज्ञानं सम्पादनीयं सर्वशरीराणां निवर्तकज्ञानं परमपुरुषार्थ इत्यर्थः । एतत्पदार्थज्ञानानन्तरं ज्ञानविषयककार्यकारणचिरकालजीवितस्य पुरुषार्थ उपलभ्यते ।

 एतज्ज्ञानविषयकज्ञानमेव भेषजं भवतीत्याह-- तदिति ।

 तदेव भेषजम् ॥ ३७ ॥

 भेषजज्ञानानन्तरं चिकित्साकर्म व्याचष्टे-- सेति ।

 सैव चिकित्सा ॥ ३८ ॥

 नराश्वगजादिशरीराणां नानाविधरोगास्सम्भवन्ति । तन्निवर्तकानि वृक्षलतादियोग्यद्रव्याणि षड्रसात्मकपदार्थोपकारकाणि । आयुर्वेदप्रतिपादितार्थमालोकनं कुर्यादित्याह-- तावदिति ।

 तावद्द्रव्यावलोकनं कुर्यात् ॥ ३९ ॥

 दोषप्रकोपाभावकार्यहेतुभूतधातुदूषकयावद्विषयगोचरेन्द्रियाभिवर्धकद्रव्यावलोकनं कुर्यात् ।

 षड्रसात्मकद्रव्याणि व्याचष्टे-- रसा इति ।

 रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः तत्परित्राणकाः ॥ ४० ॥ ।

 देहस्य सप्तधातुमयत्वात् ते रसास्सप्तधातून्यथाक्रमं परिपालयन्ति । तेन सप्त धातवः प्रत्यहं त्रायन्त इति तत्परित्राणकाः । तत्र वचनं--

ते रसा नु रसतो रसभेदाः
तारतम्यपरकल्पनया च ।
सम्भवन्ति गणनां समतीताः
दोषभेषजवशादुपयोज्याः[२५]

तत्परित्राणकाः शरीरास्थितदोषान्समासन्तः शरीरसंरक्षका रसाः । रसादीनां प्रकोपरूपकार्थकारणत्वं वक्तुमयोग्यत्वात् तदर्थं दोषा एव सुप्रसिद्धाः । अतस्त्रयाणां षड्भिस्साकं कार्यकारणभावः प्रसिद्ध इत्यत आह-- स्याद्विति ॥

 स्वाद्वम्लकटुकाः पाया रसाः ॥ ४१ ॥

 यथा समदोषा यथाग्निप्रवर्तकाः ॥ ४२ ॥

 ते रसाः पाके स्वाद्वम्लकटुका भवन्ति । रसास्समाश्चेद्दोषा अपि समा एव । ते दोषा रसान्वयादिना प्रकोपरहितास्सन्तः जठराग्निप्रवर्तका इत्यर्थः । अत्र सूत्रवचनं

त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः ।

षड्रसानां पाके त्रिधा विभावित्वं प्रतिपादितम् । ननु षण्णां मध्ये त्रिधा विभावित्वं दोषत्रयाणामेव षड्भिस्साकं कार्यकारणत्वं भासते । तदन्यत्रयाणां का गतिरित्यत आह-- सिद्धा इति ।

 सिद्धाष्षट्पाके त्रयः ॥ ४३ ॥

 षड्रसास्त्रिधा भूत्वा दोषाणामप्रकोपकारका इति प्रतिपादितम् । तदेव विशिनष्टि-- तिक्तेति. ।

 तिक्तस्स्वादु पाके ॥ ४४ ॥

 तिक्तरसद्रव्यं पाचकपित्तेन पाके कृते सति स्वादुत्वं भजति ।

 कषायरसोऽपि तद्रसवदम्लीभूतो भवन् कफपित्तप्रकोपं हरतीत्याह--कषायेति ।

 कषायोऽम्लरसः ॥ ४५ ॥

 कषाय अम्लो भूत्वा पाके अन्योन्यद्रव्यसंयोगगुणान् प्रयच्छति । कफपित्तप्रकोपस्य कषाययुक्ताम्लरसेन साकं कार्यकारणभावो भवतीत्यर्थः ॥

 ऊषणरसोऽपि पाके लवणरसो भूत्वा कफपवनप्रकोपकार्यस्य लवणोषणरसौ कारणीभूतौ । तन्निवर्तकत्वेन कार्यकारणभावो भवेदित्याह-- ऊषणमिति ।

 ऊषणं लवणः पाके ॥ ४६ ॥

 ऊषणरसो लवणद्रव्यं भूत्वा पवनकफहारीत्यर्थः ।

 ननु मधुररसादिषड्रसाः सप्तधातुपोषकाः । कषायरसो ससासृग्धातुप्रवर्धकः । असृग्धातोरेव रससृगिति व्यपदेशः । कषायरसपोष्य एकधातुर्भवति । तस्मादेकरसप्रवर्तकत्वेन पोषकत्वे कर्मणि एकधातुरिति व्यपदेशः । मांसधातूनां षड्रसा एव पोषका इति व्यवह्रियमाणत्वात्, लोके षड्रसवद्द्रव्यव्यतिरेकेण रसवद्द्रव्स्य अदृष्टत्वात् षड्रसवद्द्रव्याभावस्य दृष्टानुभवत्वाच्च ।

 अत्ररोगोत्पादकपदार्थानामदृष्टत्वेन तु उत्पादकद्रव्याणामसद्भावितत्वेन तद्रोगनिवृत्त्यर्थं शास्त्रप्रवृत्तिः कथं भवेदित्यस्वरसादाह-- व्युत्क्रम इति ।

 व्युत्क्रमरसा विकारकारकाः ॥ ४७ ॥

 स्वादुतिक्तयोर्मित्रत्वम् । कषायाम्लरसयोर्मित्रत्वम् । लवणोषणरसयोर्मित्रत्वम् । एतद्व्यतिरिक्तानां एतद्व्यतिरिक्तपदार्थैरन्योन्ययोगे व्युत्क्रमरसयोस्सत्त्वम् । तस्माद्व्युत्क्रमरसावेव कारकावित्यर्थः । तस्मात्कर्माधीनवशात्पाके सम्भवति तत्र अदृष्टमेव नियामकम् । ईश्वरस्सर्वज्ञस्स एव स्वकर्मानुकूलफलं प्रयच्छति । प्रत्यहं सर्वरसादनत्वस्य सर्वशरीराणां सम्भावितत्वात् । अतः परमाप्तं पण्डितं स्वनिकटे संस्थाप्य भक्ष्याभक्ष्यपदार्थौ विभज्य तत्सर्वं पण्डिताय विज्ञापयन् तेन अरोगकार्यकारणभावं जानन् प्रवर्तेत । तत्र वचनं–

राजा राजगृहासन्ने प्राणाचार्यं निवेशयेत् ।
सर्वदा स भवत्येवं सर्वत्र प्रतिजागृविः[२६]

 व्युत्क्रमरसवद्द्रव्यादनमेव विषमान्नम् । तस्मादरक्षणीयं न किंचित् । । जठराग्निना पच्यते ।

 ननु अहरहर्भक्षितान्नं जठराग्निना पच्यते । तत्कृतपचनेन भक्षितान्नं भस्मीभवति । सर्वं सारकिट्टतया विभज्य तेन धातुपोषणं कथं क्रियत इत्यत आह-- पाचकेति ।

 पाचकपित्तं पचत्याहारम् ॥ ४८ ॥

 जठराग्निना भक्षितान्नं न पच्यते । तत् पाचकपित्तेन भाव्यम् । तेन सारकिट्टतया विभज्य किट्टकर्म कर्तुं योग्यमित्यर्थः । तत्र वचनं-

[२७]पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम् ॥
पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् ॥

 ननु पाचकपित्तं न सारकिट्टतया पृथग्विभज्य अन्नमात्रं पचति । दोषा दुष्टान्सन्तः धातून्दूषयन्ति । तेनावश्यं दोषपचनमपि कर्तव्यम् । तत्र वचनं--

आहारं पचति शिखी दोषानाहरवर्जितान्पचति ।
दोषक्षये च धातून्पचति हि धातुक्षयेऽपि च प्राणान् ॥

 एतद्वचनानुसारेण पाचकोपकारकत्वेन जठरानल एव प्रतिभाति न तत्पित्तमित्यस्वरसादाह— दोषेति ।

 दोषधातुमलोष्मजं तथा ॥ ४९ ॥

 धातुदोषान्मलोष्मजान् पित्ततद्विकारं विभज्य पचतीत्यर्थः । ननु दोषपचनं रोगनिवृत्तिकारणम् । पाचकपित्तेन आमान्तलङ्घनेन संशोष्य दोषस्थितविकारान्पचति । तत्र अनिलानलात्मककुण्डलिताभ्यां जातोष्मैव पाचकपित्तमिति व्यपदेशः । अन्यथा शुद्धानलस्यैवेति नाशङ्कनीयम् । तद्द्वंद्वं दोषे हृते तद्विपरीतगुणान्प्रयच्छतीत्याशयवानाह-- ग्रहणीति ।

 ग्रहणीकलाऽऽयुस्तेजांसि दधाति ॥ ५० ॥

 बाह्यस्थितपदार्थानां गुणान्सङ्गृह्य दोषधातुस्थितदुर्गुणान्निगृह्य निग्रहं कृत्वा स्वार्जितगुणानुग्रहं कर्तुं समर्थं सत् पाचकपित्तम् । निग्रहानुग्रहयोः पाचकपित्तस्यैव समर्थत्वात् । पित्तकलायाः ग्रहणीपदं विशेषितम् । सा कला आयुस्तेजांसि दधाति । अत्र शारीरवचनं--

अन्नभौतिकधात्वग्निकर्मेति परिभाषितम् ।
अन्नस्य पक्ता सर्वेषां पक्तॄणामधिको मतः ॥

तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः ।
तस्मात्तं विधिवद्युक्तैरन्नपानौदनैर्हितैः ।
पालयेत्प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः [२८]

इत्यादिवचनानि बहूनि सन्ति । कुण्डल्युत्थितश्वासानिलानलचक्रजातपित्तोद्भवत्वादेव कलाज्वलने शिखिपदं प्रसिद्धम् । कुण्डलिनी अनलानिलात्मिका । तस्याः पित्तमस्तीति सकलमतसिद्धम् । सा कला ज्वलनकला । सा देहं दहतीति यत्तदयुक्तम् । यावद्भुक्तान्नं सारकिट्टतया विभज्य दन्दह्यते । अन्नपचनकार्यमात्रपर्वत्वेन कुण्डलिन्युद्भवश्वासानिलस्यैव दहनरूपकर्मप्रतिपादकत्वम् । तत्सर्वशरीरान्तस्स्थितं सत् जीवनोपकारं करोतीत्यर्थः ।

 ननु ग्रहणीकला आयुस्तेजो दधातीति यदुक्तं तन्न युक्तम् । हितामितान्नादनमेव शरीरदार्ढ्यरूपधारणं च करोति । तद्यथा पथ्यापथ्यविधिं विज्ञाय अन्नपानादने सति तुष्टिः पुष्टिश्च भवति । तदभावे कार्श्यं प्रतीयते । तस्मादेतयोरेव अन्वयव्यतिरेकाभ्यां कार्यकारणभावः । अन्नादनस्य निग्राहके रोगे सति स एव तदिति चेत् तैलादिना देहलेपनद्वारा धातुपुष्टिमिन्द्रियप्रदां कुर्यादित्यस्वरसादाह–- भक्तमिति. ।

 भक्तादनेनामाशयातिरोधनात् कलाऽबला भवति ॥ ५१ ॥

 भक्तमन्नम् । अन्नादनेनामाशयेऽतिपूर्णे सति कुण्डलिनीस्थितपित्तकला अबला भवन्ती सती अन्नादनाज्जातपाककृतजन्यरसेन धातुं व्यापकं कर्तुं असमर्था भवतीति कृत्वा तस्मात्कला अबला भवतीत्यर्थः । तत्र सूत्रवचनं--

मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम् ।
विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम् ॥
अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम्।
त्रीण्यप्येतानि मृत्युं वा घोरान्व्याधीन्सृजन्ति वा[२९]

 एवमादिकारणेन कला अबला भवतीत्यर्थः । तदेव विरुद्धाहार इत्युच्यते । कला अबला सती अन्नं न पचति । स रोगोऽष्टप्रकारो भवति । नानाविधकार्योत्पादकसामग्रीभेदेन अजीर्णप्रधानाङ्गत्वेन ज्वरोपद्रवाः तद्भेदा भवन्तीत्याह-- आमेति ।

 आमाशयातिपूर्णात् कलाऽबलादामाशयस्थितपवनगतितिरोधानादनिलप्रकोपो हि भवति ॥

 कला दौर्बल्यात् "अजीर्णेन विना न ज्वरः" इति ज्वराः आविर्भवन्तीत्यर्थः । अत्र निदानवचनं--

स जायतेऽष्टधा दोषैः पृथङ्मिश्रैस्समागतैः ।
आगन्तुश्च मलास्तत्र स्वैस्स्वैर्दुष्टाः प्रदूषणैः ॥
आमाशयं प्रविश्याममनुगम्य पिधाय च ।
स्रोत्रांसि पङ्क्तिस्थानाच्च निरस्य ज्वलनं बहिः ॥
सह तेनाभिसर्पन्तस्तपन्तस्सकलं वपुः ।
कुर्वन्तो गात्रमत्युष्णं ज्वरं निर्वर्तयन्ति ते[३०]

 स ज्वर एकोऽपि ज्वरोपद्रवकारकहेतवो नानारूपा भवन्ति । तस्मात् नराश्वपशुगजादिषु बहुरूपा भवन्तीत्यर्थः । तत्तज्जातिविधिविहितान्नादनादजीर्णाज्जातज्वराः तदुपद्रवभेदेन अष्टधा भवन्तीत्यर्थः । अजीर्णाज्जातज्वरस्तु अष्टधा उपहूयत इति यत्तदयुक्तम्, भेदजनकसामग्र्यभावादित्यस्वरसादाह-- याद्दशा इति ।

 यादृशा दोषास्तादृशानिलप्रकोपजातानलास्तादृशा ज्वराः ॥ ५३ ॥

 ये दोषप्रकोपहेतुकास्तद्विरुद्धरसजातास्तज्जन्यदोषाः पाचकपित्तादिपञ्चप्रकाराः ते स्वस्थानच्युता बहुविधरूपा भवन्तीत्यर्थः । तत्र वचनं--

विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥[३१]

तद्विरुद्धलक्षणज्ञापकहेतुभेदप्रदर्शनेन सत्यवच्छेदके ज्ञाते सति एक एव ज्वरः कार्यभेदेन नानारूपो भवतीति वक्तुं शक्यते । तल्लक्षणं ज्ञातं सत् तत्तद्भेदोऽपि ज्ञातुं शक्यत इत्यस्वरसादाह-- अक्षीति ।

 अक्षिकर्णनासाशिरोरुग्विदाहजिह्वास्यशोषकुक्ष्यो ज्वलयन् ज्वलति ॥ ५४ ॥

 अक्षिकर्णानासादिषु, तथा शिरोव्यथा, जिह्वाया विदाहः, आस्यशोषः । कुक्ष्य इति अन्तस्तापः । आपादमस्कं ज्वलनात् ज्वलति स ज्वर इत्यर्थः । तत्र निदानवचनं--

तस्य प्राग्रूपमालस्यमरतिर्गात्रगौरवम् ।
आस्यवैरस्यमरुचिर्जृम्भा सास्राकुलाक्षता ॥
अङ्गामर्दोऽविपाकोऽल्पप्राणता बहुनिद्रता ।
रोमहर्षो विनमनं पिण्डिकोद्वेष्टनं क्लमः ॥
हितोपदेशेष्वक्षान्तिः प्रीतिरम्लषटूषणे ।

द्वेषस्स्वादुषु भक्ष्येषु तथा बालेषु तृड्भृशम् ।
शब्दाग्निशीतवाताम्बुच्छायोष्णेष्वनिमित्ततः ।
इच्छा द्वेषश्च तदनु ज्वरस्य व्यक्तता भवेत् ॥[३२]

विरुद्धरसादनाज्जातज्वरस्यैतादृशलक्षणलक्षित्वे ज्ञातव्य इत्यर्थः ।

 एकहेतुकृतकार्यस्यैकत्वेऽपि तत्तद्दोषप्रकोपकारकरसविरसजन्यामवृद्धिभेदजन्यौपाधिकज्वरं व्यपदिशति-- अङ्गेति ।

 अङ्गपीडनमलमार्गातिरोधनातिपीडनधातुमार्गविगमनानिलादनलस्थलचलनादिनाऽनिलज्वरः ॥

 सर्वाङ्गानामतिपीडनं करोति । सर्वमलमार्गानतिरुध्य पीडनं करोति । धातुमार्गगमननिरोधनाभ्यां चारतिजाड्यादिर्विकारं करोतीत्यर्थः । अत्र निदानवचनं--

आगमापगमक्षोभमृदुतावेदनोष्मणाम् ।
वैषम्यं तत्र तत्राङ्गे तास्तास्स्युर्वेदनाश्चलाः ॥
पादयोस्सुप्तता स्तम्भः पीण्डिकोद्वेष्टनं श्रमः ।
विशेष इव सन्धीनां साद ऊर्वोः कटोग्रहः ॥
पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरम् ।
छिन्द्यन्त इव चास्थीनि पार्श्वाङ्गानि विशेषतः ॥
हृदयस्य ग्रहस्तोदः प्राजनेनैव वक्षसः ।
स्कन्धयोर्मथनं बाह्वोः भेदः पीडनमंसयोः ॥
अशक्तिर्भक्षणे हन्वोः जृम्भणं कणयोस्स्वनः ।
निस्तोदश्शङ्खयोर्मूर्ध्नि वेदना विरसास्यता ॥
कषायास्यत्वमथवा मलानामप्रवर्तनम् ।

रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता ॥
प्रसेकारोचकाश्रद्धा विपाकाः स्वेदजागराः ।
कण्ठोष्ठशोषस्तृट्शुष्कौ छर्दिकासौ विषादिता ॥
हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोः ग्रहः ।
भ्रमः प्रलापो घर्मेच्छा विनामश्चानिलज्वरे ॥[३३]

 पवनपित्ते अङ्गपीडनं सर्वाङ्गेषु प्रपीडनम् । मलमार्गातिरोधनं सर्वमलद्वाराणां वायुपूरितत्वान्मलमूत्रादिकार्यकारणं दुश्शकं च भवतीत्यर्थः । धातुचरमार्गविगमनं विरुद्धगमनं रोगहेतुकम् । अनिलादनिलस्थलचलनं जठरानलस्थलचलनं भवति । लग्नस्थलचलनत्वात् आहारपचनं कर्तुमशक्यत्वादित्यर्थः । तत्र दोषप्रकोपहेतुकरसविरसादनादजीर्णे जाते दोषभेदेन ज्वरास्त्रिविधा भवन्तीति वक्तुं शक्यते । सर्वसामान्यज्वर एकः तदन्तरदोषभेदेन त्रिधा भूत्वा ज्वरश्चतुर्विधो जातः । इतः परमष्टज्वरसङ्ख्यापूरणार्थं पञ्चमो वातपित्तज्वर इति वक्तुं न शक्यते । एतत्प्रतिपादितज्वरव्यतिरेकेण तदुत्पादकसामग्र्यभावादेव तत्कार्यं नोपपद्यते, कारणेन विना कार्याभावस्योक्तत्वादित्यस्वरसादाह-- पवनेति ।

 पवनपित्तहेतुकरसविरसजाताजीर्णजन्यामरसासृग्धातुचराद्यदोष उभयलक्षणयुक्तरोगः पवनपित्तप्रकोपज्वरः ॥ ५६ ॥

 ननु पवनपित्तज्वरोऽस्तीति सूत्रे अस्तीत्यस्य व्याख्यानं गम्यते । सूत्रव्याख्यानमन्यथा कार्यं निदानशास्त्रेऽदृष्टत्वादिति सूत्रार्थेऽरुचिर्न प्रतिपादितव्या । पवनपित्तज्वरः, पवनश्लेष्मज्वरः, पित्तश्लेष्मज्वर इति द्वन्द्वजानि त्रीणि भासन्ते । तथा सति आगन्तुकाभिघातज्वर इति ज्वरस्याष्टरूपत्वं चैवमाकरेण सुबोधितमित्यर्थः । निदाने वातपित्तप्रधानद्वन्द्वज्वरस्य तल्लक्षणप्रतीतेः अभावात् । किन्तु पवनकफज्वर एकः, श्लेष्मपित्तज्वरः, आगन्तुकाभिघातज्वर इत्यष्टधा ज्वरभेदः प्रतिपादितः । आयुर्वेदे पवनपित्तज्वरो द्वन्द्व इति प्रतिपादितः । परब्रह्मणा प्रतिपादितार्थस्सामान्यज्वरः, त्रिदोषोत्थिता ज्वरास्त्रयः, त्रिदोषद्वन्द्वजास्त्रयः, इत्यष्टरूपो भवति ज्वर इत्यायुर्वेदवचनतात्पर्यम् । पवनभूतद्रव्यस्य इतरधातुभ्यां साकं योगग्रहणस्य औपयोगिकत्वात् ।

................पवनस्तदितरयोः प्रभुः ।
विभुत्वादाशुकारित्वाद्बलित्वादन्यकोपनात् ।
"स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥"[३४]

 तस्मात् द्वन्द्वजानि त्रिरूपाणि भवन्तीत्यर्थः । तत्रापि पवनस्य द्वाभ्यां साकं द्विरूपदानं युक्तमित्यर्थः । कफपित्तयोः लघुत्वात्तादृशबलं नास्तीस्यर्थः । तत्र वचनं--

सर्वाकारं रसादीनां शुद्ध्याऽशुद्ध्याऽपि वा क्रमात् ।
वातपित्तकफैस्सप्त दश द्वादश वासरान् ।
प्रायाऽनुयाति मर्यादां मोक्षाय च वधाय च ॥[३५]

 इति वचनानुसारेण सामान्यतो द्वन्द्वजास्त्रयश्च, आगन्तुकेन साकमष्टप्रकारो भवतीति तात्पर्यम् । सामान्यज्वरस्य यावदजीर्णाभावकालस्य तत्तद्विमोचनहेतुकत्वात् । एकैकधातुप्राधान्यं सप्त दिनानन्तरं विमुच्यते । पवनपित्तपवनकपद्वन्द्वजानां दश द्वादश दिनानि अवधिः । कफपित्तज्वरस्य दिनमवधिः । पवनपित्तपवनकफयोः दशदिनान्यवधिः । तावन्मात्रेण ज्वरो निवर्तते । रसादीनां धात्वाकारं चेत् निवृत्तिर्भवति । रसादयो विरसास्सन्तः धातुचराश्चेत् पूर्वोक्तकालाननतिक्रम्य शरीरं विमुञ्चन्तीत्यर्थः ।

एवं--

 पवनकफविकारहेतुकरसविरसयाजाताजीर्णजन्यामयमांसमेदोधातुचर उभयलक्षणसहितः पवनकफविकारजातज्वरः ॥ ५७ ॥

 एतस्यापि पूर्वोक्तरीत्या व्याख्यानं कर्तव्यमिति । द्वन्द्वोदोषान्तरमाह-- कफपित्तेति ।

 कफपित्तविकारहेतुकरसविरसजाताजीर्णजन्यामयास्थिमज्जाधातुचराद्यदोषश्चोभयलक्षणयुक्तोरोगः कफपित्तविकारजातज्वरः ॥ ५८ ॥

तत्तत्कालहेतुकविकारा भवन्तीत्यर्थः ।

 ननु अष्टविधज्वराणां सङ्ख्यापूरणं, दोषत्रयोत्पादितज्वरास्त्रयः, तत्तद्द्वन्द्वदोषजातज्वरास्त्रयः । केवलाजीर्णजातज्वर एकः । सर्वेऽपि ज्वरा रसविरसजाताजीर्णजन्या एव । अजीणाभावज्वराभावयोः कार्यकारणभावो वक्तुं शक्यते । अजीर्णभावस्य च ज्वरस्य च व्याप्तेर्दृष्टत्वात् । “नाजीर्णेन विना ज्वरः" इति नियामकशास्त्रस्य विद्यमानत्वात् । तद्व्यतिरेकेण आगन्तुकज्वरा भावत्वेन तेन साकं अष्टविधप्रकारत्वं नोपपद्यत इत्यस्वरसादाह-- मन इति ।

 मनःकामभयभूताभिघातकालहेतूत्पन्नज्वरस्यान्तर्विदाहश्वासखासमदभ्रममूर्छाच्छर्द्यतिसारशोकक्रोधभयगुणास्तन्निवर्तकनिवर्तका आगन्तुकज्वराः ॥ ५९ ॥

 मनोऽभिघातज्वरो मानसिकज्वरः । मनोदार्ढ्यसम्पादनमेव तत्र भेषजम् । कामः-- यावत्प्रीतिविषयकमनोभावहेतूत्पन्नज्वरः । यावदर्थानभिभूततदन्यानुभवनित्यज्ञानविषयविपरीतज्ञानजन्यज्वरो भयजातज्वरः । एवं भूतज्वरस्य अभिघातज्वरत्वम् । ते कालस्वभावजातज्वराः एव । तादृशज्वरा बहवस्सन्ति । तस्मादागन्तुकज्वरस्यापि सन्निधानपूर्वकत्वादष्टसङ्ख्यापूरणं सूत्रेण कृतमित्यर्थः । तत्र निदानवचनं--

वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् ।
वैकृतोऽन्यस्स दुस्साध्यः प्रायश्च प्राकृतोऽनिलात् ॥
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् ।
कुर्यात्पित्तं च शरदि तस्य चानुवलं कफः ॥
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ।
कफो वसन्ते तमपि वातपित्तं भवेदनु ॥
बलवत्स्वल्पदोषेषु ज्वरस्साध्योऽनुपद्रवः ।
सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः ॥[३६]

 इत्यष्टविधज्वरलक्षणानि व्यपदिष्टानीत्यर्थः । श्लेष्मपित्तादिद्वन्द्वज्वररूपदोषाणां एतद्धेतुभूतविरसजन्यरसा रोगा अस्थिमज्जाधातुपर्यन्तं उक्तदोषैः साकं दृढतरसञ्चारेण वधोत्पादकलक्षणसामग्रीसहितैः दोषाः प्राणहरणं कर्तुं योग्या भवन्तीत्यर्थः । तत्र ग्रहणी यदा अबला भवति तदा रसाः पाके विरसा भूत्वा तत्तद्धेतुकतत्तद्रोगान् कुर्युः । कलाबलाभावकार्यहेत्वनिमित्तकार्यकारणमेव तत्र भेषजम् । आदोषपचनपर्यन्तं लङ्घनं कार्यमिति आमहेतुककार्याभावहेतुजन्यामयानां आमाभावपरिपालनं निवर्तकमिति नोपद्यते आमहेतुककार्यभावात् । अत्र कोऽयं नियामक इत्यस्वरसादाह-- पवनेति ।

 पवनाद्यप्रकोपादग्निबलं पोषयन्क्रियाक्रमः ॥ ६० ॥

 निर्वर्तकैरौषधाद्यैः वातपित्तकफा अप्रकुपिताः भवन्ति । तैरग्निबलं पोषयन् यावत्कर्म विधीयते, स एव क्रिया क्रमः ।

लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति ।
स्वास्थ्यं क्षुत्तृड्रुचिः पक्तिर्बलमोजश्च जायते ।[३७]

इति वचनम् । अत्र दोषप्रकोपकार्याभावकर्मकरणं च अग्निप्रज्वलनकार्यपरिपालनं च क्रियाक्रमो भवति ।

 यदुक्तं तदेव प्रतिपादयति-- पथ्येति ।

 पथ्याद्दोषे क्षीणेऽग्निबले जाते क्षुत्त्यड्रुचिश्शक्तिः [३८]बलकालविभागझोवमनविरेकाच्छ्वासखासहृद्रोगविषमज्वरातिसारेभ्योऽभयात्सुखीभवेत् ॥ ६१ ॥

 हितमितपथ्यादनाद्दोषे क्षीणे दोषप्रकोपकार्याभावकरणे तस्मादग्नेर्बलं कर्तुं दृढतरसामग्र्यां सत्यां क्षुत्तृड्रुचिश्शक्तिः । धातुक्षमो यदि भवेत्तदनन्तरं वमनविरेककर्मकरणेन श्वासखासहृद्रोगविषमज्वरेभ्यः भयरहितस्सन् सुखी भवेत् । तस्य चिरायुष्ट्वं भवतीत्यर्थः ।

 ननु इदमप्यनुपपन्नम् । पथ्यान्नादनात्पूर्णे सति धातवः पुष्णान्तीति यत्तदयुक्तम् । अन्नादनस्य च तज्जाताजीर्णस्य च कार्यकारणभावो वक्तुं शक्यः । तस्मात्सारकिट्टतया पाके कृतकार्यकरणेन अनलेन आमाशययोः कार्यकारणभावो वक्तुं शक्यत्वादित्यत आह-- आमेति ।

 आमाशयस्थितं सर्वधातुबलकारकम् ॥ ६२ ॥

 अन्नपानादनाज्जाताहारो धातून्यथायथं कुर्वन् सन्तर्पयन् सारं विसृज्य तेनामाशयमपूरयति । तेन पूर्णे स धातून्पुष्णातीत्यर्थः । अत्र सूत्रवचनम्--

प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे ।
विशुद्धे चोद्गारे क्षुदुपगमने वातेऽनुसरति ॥
तथाग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ ।
प्रयुञ्जीताहारं विधिनियमितः कालस्स हि मतः ॥[३९]

 आमाशयातिपूरणायाहारं विधिनियमितं कालहितं प्रयुञ्जीत ।

 ननु षड्रसद्रव्यादनात्पाके तद्रसान् धातुषु संस्थाप्य धातवस्तुष्टास्सन्तः तेन विरसद्रवेणामाशयः पूर्यताम् । तावता पाचकपित्तकलायाः अबलत्वेन कार्यकरत्वासम्भवात् तयोः कार्यकारणभावः कथं भवेदित्यस्वरसादाह-- समानेति ।

 समानानिलेन[४०] तत्स्थान् कला ज्वलयन् पचति ॥ ६३ ॥

 समानवायुनाऽनले प्रज्वलिते सति सा कळा सर्वं भुक्तं पचति । धातुदेहशोषककार्यस्य च आमाशयस्य च कार्यकारणभावस्य च वक्तुं सुकरत्वादिति भावः । अत्र सूत्रवचनम्--

समानोऽग्निसमीपस्थकोष्ठे चरति सर्वतः ।
अनुगृह्णाति पचति विवेचयति मुञ्चति ॥[४१]

रसे कोष्ठे चरति सति एवमाकारेण कलायाः अबलत्वं स विमोचयेदित्यर्थः ।

 ननु अबलाग्निना आमाशयस्थितमन्नं पक्तुं असामर्थ्ये सति अतस्समानानिलेन सन्बुक्षयन्तीति यदुक्तं तदसङ्गतं, अत्यशनाज्जाताजीर्णस्य तन्निवर्तकेन विना शुद्धसमानानिलेन आमाशयस्थितान्नं, अनलप्रज्वलनीभूतद्रव्यादनं विना ग्रहणीकलायाः अबलत्वमपहर्तुं शक्यते । अत आह-- दुष्टेति ।

 दुष्टग्रहणी रोगस्य कारिका ॥ ६४ ॥

 प्रत्युत ग्रहणीकला दुष्टा सती रोगकारिका भवतीत्यर्थः ।

आमेनान्नेन दुष्टेन तदेवाविश्य कुर्वते ।
विष्टम्भयन्तोऽलसकं च्यावयन्तो विषूचिकाम् ॥[४२]

 इति सूत्रवचनम् । विरुद्धान्नादनेन ग्रहणीकला दुष्टा सती भुक्तान्नं सङ्ग्राह्यधातुपोषणं कर्तुमसमर्था । ग्रहणीकलाया भाव्यकार्यस्य अजीर्णजातामयस्य च हेतुमत्तया कार्यकारणभावत्वेन दुष्टग्रहण्या रोगकारकत्वं सिद्धमित्यर्थः ।

 ननु मन्दानलप्रज्वलनं जठरानलेन भवितव्यम् । अत्र बहिरनलस्यायोग्यत्वात् समानानिलेन भवितव्यमभिव्यञ्जनमिति यत्तत्केवलं निवर्तकद्रव्यादनं विना न समर्थोऽयमिति मत्वा निवर्तकद्रव्यमाह-- द्रवेति ।

 द्रवद्रव्यैर्विभजन्कालादन्नं प्राणानिलेन कोष्ठं गतं समानानिलेन तत्स्था कला ज्वलयन्ती पचति ॥ ६५ ॥

 वस्तुतस्तु द्रवद्रव्यैस्साकं योऽन्नमत्ति स व्यञ्जानानि द्रवीभूतानि कृत्वा भुनक्ति । तद्भुक्तान्नं अग्निसमीपस्थितसमानानिलेन पक्तुं प्रज्वलितेन सारकिट्टतया विभजतान्नं हृद्गतं सत् प्राणानिलेन आहारकोष्ठं गतं करोति, तदनन्तरं नाभिप्रदेशगतं कारयति । तस्मात्सा कला अतिप्रज्वलिता सती धातुपोषकगुणं न धत्ते । प्रत्युत धातुशोषणं च करोति । ग्रहणीकला अतिप्रज्वलिता सती धातुदूषणं करोति । तस्मात्सा कला दाहावशेषं पचति । धातुक्षयकारिकाऽपि भवति । एवमाशयांश्च पचेत् । तदप्यजीर्णमिति व्यवहरति । तेन धातुपोषकत्वस्य पतितत्वात् तत्पचनं अनग्निकृतीमिति यत्तन्न रोचत इत्यर्थः । अत्र वचनं--

चयादीन् यान्ति सद्योऽपि दोषाः कायेऽपि वा न वा ।
व्याप्नोति सहसा देहमापादतलमस्तकम् ॥
निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत् ।
नानारूपैरसंख्येयैः विकाराः कुपिता मलाः ।
नापयन्ति तनुं तस्मात्तद्धेत्वाकृति साधनम् ॥[४३]

 ननु द्रवद्रव्यादनेन यावद्धातुतृप्ति भोजनं कृतं चेत् पञ्चविधपाचकपित्तमध्ये अत्यग्निना पचति चेत् तत्पाचितान्नं धातुप्रदं न भवति । तत्सावशेषपचनमपि न क्रियते । तस्मादाशया रिक्तीभूतास्सन्तः तद्वदजीर्णवदन्नप्रकोपं कुर्वन्तीत्यस्वरसादाह-- रिक्त इति ।

 रिक्ते वायुः प्रकुप्यते ॥ ६६ ॥

 तत्र सूत्रवचनं--

बलवत्यबलात्वन्नमाममेव विमुञ्चति ।
ग्रहण्या बलमग्निर्हि स चाऽपि ग्रहणीबलः ॥[४४]
दूषितेऽग्नावतो दुष्टा ग्रहणी रोगकारणा ।
यदन्नं दोषधात्वोजोबलवर्णाद्विपोषणम् ॥[४५]

 इति शारीरवचनम् । अत्यग्निना द्रवीभूतत्वेन कालादन्नमपि सावशेषाभावपचनात् आशया रिक्तीभूताः । तेष्वाशयेषु वायुः प्रवर्धते । अनिलस्य रूक्षगुणवद्द्रव्यत्वात् । आशये रिक्ते सति वायुः प्रकुप्यत इत्यर्थः । तत्र रुक्षो लघुस्सितः खरस्सूक्ष्मश्चलोऽनिलः । अग्निप्रज्वलनहेतुभूतेन्धनसंयोगे सति ज्वलनं भवेत् । आशयानां रिक्तीभूतत्वेन अनलस्य ज्वलनहेतुकद्रवद्रव्याभावेन ग्रहणीकलायाः स्वप्रज्वलनगुणवत्त्वेन स्थातुमशक्यत्वादित्यस्वरसादाह-- अनलेति ।

 अनलोऽल्पो भवति ॥ ६७ ॥

 वस्तुतस्तु इदमप्यनुपपन्नं, आमाशये रिक्ते सति पवनप्रकोपकार्यं प्रति हेतोरदृष्टत्वात् । अनामयकार्यकारणत्वं अना मपालनत्वम् । तस्यारोगहेतुकत्वात् । 'रिक्ते वायुः प्रकुप्यते' इत्येतत्सूत्रं व्यर्थं स्यात् । ग्रहणीकलायाः समानानिलसमीपस्थितत्वेन ज्वलनहेतुकसामग्रीसत्वात् । 'अनलोऽल्पो भवति' इति सूत्रमपि व्यर्थं स्यादिति चेत्, पञ्चप्राणोपकारकान्नग्रहणाद्दोषोपकारकाः । मलमूत्राधिकमपि विशेषतः । आशये रिक्ते सति पवनप्रकोपहेतुत्वं यत्र दृश्यते तत्रायं नियमः-- मलमूत्रनिरोधनाज्जातामये दृष्टे सति तन्निवर्तकद्रव्येण रेचिते तेन रिक्तीकृताशये यत्र पवनप्रकोपहेतुत्वं तत्र तद्दृश्यत इति तात्पर्यम्, तस्य दृष्टत्वात् । आमाशयस्य रिक्ततया रूक्षता वातस्य । रूक्षगुणत्वं प्रथमत उपात्तं विरुद्धरसादनाज्जाताजीर्णगुणहितामयेन सारकिट्टतया अविभज्य पचनात् मलमूत्रादिकं द्रवीभूतमप्रकृतमिति प्रतिभाति । तत्र सिद्धकलायाः अज्वलितत्वाज्जातानलपचनात् जातामये दृष्टे सति तद्विरुद्धचलकृताशयस्य रिक्ततया दोषप्रकोपहेतुकत्वं स्यात् । तस्मात् 'रिक्ते वायुः प्रकुप्यते' इति सूत्रं सम्यक्प्रतिपादितमित्यर्थः । अजीर्णजातामये आमाशयरिक्तत्वाज्जातानलप्रकोपस्य च सन्धुक्षणावश्यकत्वेन आदौ पवनप्रकोपरहितकार्यस्य कारणीभूतरसद्रव्यं व्याचष्टे-- मधुरीति ।

 मधुरीभूताभ्यवहृतान्नं पवनप्रकोपहारकम् ॥ ६८ ॥

 तत्स्वभावसिद्धमधुररसेन तत्तद्द्रव्यकर्मोपाधिना अनिलप्रकोपाभावकार्यस्य यन्निवर्तकं मधुरीभूतं कृत्वा तावद्भुक्तान्नं पवनप्रकोपं हरतीति हारकम् । आमाशयरिक्तताकार्ये तत्स्थानप्रकोपे सति यावद्भुक्तान्नं पक्तुं अग्नेरनवकाशात् तन्निवर्तकस्वादुरसवद्द्रव्यमद्यात्प्रथमतः अश्नीयादित्यर्थः । तद्वदन्त्यमधुरीभूतद्रव्यमनिलप्रकोपहारकमित्यर्थः । तत्र

त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः ।[४६]

एतद्वचनानुसारेण पाके मधुरीभूतद्रव्यं दोषनिवर्तकम्, उत स्वतस्स्थितस्वादुरसवद्द्रव्यं वा । नाद्यः, सकलद्रव्याणि पाके त्रिधा विकारीकरोति । तन्निवर्तकद्रव्यमस्तीति नियामकाभावात् । नान्त्यः, स्वादुरसवद्द्रव्यं सकलदोषान्हरतीति । तत्र वचनं--

तक्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम् ।
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते ॥[४७]

एतद्वचनानुसारेण एकस्येव नियामकत्वं भवतीति अवच्छेदकत्वाभावात् । तस्मादेतदैक्यमिति तन्न । मधुरीभूतव्यञ्जनैस्साकं प्रथमतोऽन्नमश्नुयात् । तत् हृद्गतमम्लीभूतं भवेत् । तदा हृदयं प्रविश्य ततः पक्वाशयगतं भवेत् । ततः कटुरसो भूत्वा पच्यते । तस्मान्मधुरीभूतद्रव्यं........ भवति, तद्वत्पवनप्रकोपमपहरतीति मत्वा तस्मादेतत्सूत्रं सार्थकमित्यर्थः । आमाशयरिक्तत्वमेव पवनप्रकोपहेतुकं, पित्तप्रकोपकार्यस्य च हेतोरदृष्टत्वात् । अहरहर्भुक्तान्नं पच्यमानं सत् दोषत्रयनिवर्तकत्वेन धातुना पोषयतीति वक्तव्यम् । तत्र पित्तप्रकोपकार्यस्य च हेतोरदृष्टत्वात् अहरहर्भुक्तान्नं पच्यमानं सत् दोषत्रयनिवर्तनं करोतीति वक्तव्यम् । तत्र पित्तप्रकोपकार्यस्य च तद्धेतोरदृष्टत्वात् । कार्यज्ञानस्य कारणज्ञानेन विनाऽप्रसक्तेरित्यस्वरसादाह-- हृद्गतेति ।

 हृद्गतकफप्लुतान्नमम्लीभूतं पित्तप्रकोपनाशकम् ॥ ६९ ॥

 अस्यार्थः-- आमाशयस्य पवनप्रकोपहेतुत्वं प्रतिपादितम् । पित्तप्रकोपस्याजीर्णोत्पत्तिकारणत्वं वक्तुं शक्यत्वात्, तत्कार्यस्य च हेतोरदृष्टत्वात् इत्यस्वरसं मनसि निधाय कैश्चिद्व्याख्यानं क्रियत इत्यस्वरसान्तरमाह-- हृदिति ।

 अस्यार्थः-- मधुरीभूतार्थान् भुक्तवतः उदानानिलेन कण्ठं प्रविशत्तत् हृद्गतं सत् कफप्लुतं संसर्गदोषवशात् अम्लीभूतं भवति । स रसः पित्तप्रकोपं करोति । अत्र सूत्रं--

आम्लोऽग्निदीप्तिकृत्स्निग्धः हृद्यः पाचनरोचनः ।
उष्णवीर्यो हिमस्पर्शः प्रीणनो भेदनो लघुः ।
करोति कफपित्तास्रं मूढवातानुलोमनम्[४८]

एतद्वचनानुसारेण पित्तप्रकोपहेतोरदर्शनात् पित्तनिवर्तकः स्वादुरसः पित्तप्रकोपं हरतीत्यर्थः । तत्र सूत्रवचनं--

"तक्राद्या मारुतं घ्नन्ति" इति प्रतिपादितम् ।

एतद्वचनानुसारेण स्वादुरसस्य पित्तप्रकोपराहित्यजनकत्वं प्रतिपादितम् । एतत्सूत्रवचनद्वयस्यार्थस्सुबोध इत्यर्थः ।

 ननु दोषप्रकोपनिवर्तनद्वारा धातून्पुष्णन्तौ स्वाद्वम्लरसौ पवनप्रकोपं कुरुतः । तस्मात्तन्निवर्तको न भवेदित्यस्वरसाद्दाह-- मधुरेति ।

 मधुराम्लरसौ कफकरौ ॥ ७० ॥

 मधुररसश्चाम्लरसश्चोभयमपि कफप्रकोपं दत्ते । मधुररसः पवनपित्तनिवर्तकरसः तत्तद्द्रव्यं भूत्वाऽन्तः प्रविशति । तस्य तन्निवर्तनमेव पुरुषार्थः । तत्कफहेतुकमित्युच्यते । तिक्तोषणकषायरसाः कफनिवर्तकाः । रसादिषट्कस्य दोषनिवर्तकत्वम् । रसादिषु स्वाद्वम्लरसौ वातपित्तप्रकोपहेतू भवतः । तयोरेव हि र्षेष्यत् कफकारका इति । स च स्वादुरस औपाधिकरसोऽम्लरस उभावपि पचनपित्तप्रकोपकारकौ । प्रत्युत पवनप्रकोपस्यापि हेतू भवतः । कथं कफनिवर्तकौ भवतः इत्यस्वरसादाह-- हृदिति ।

 हृच्च्युताहारमनलशोषितमामाशयस्थं कफं हरति ॥ ७१ ॥

 प्राशिताहारमनलशोषितमामाशस्थं कफं हरति । तदेवान्नं प्राशितं यथाक्रममाशयादिषु स्थित्वा सारकिट्टादिविभजनं कुर्वत् यदन्नं पचति आमाशयस्थं सत् तदेव कटुरसो भवति । तत्र सूत्रवचनं--

त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः ।[४९]

एतद्वचनानुसारेण स्वभावतस्स्वादुरसोऽपि औपाधिकाम्लरसो भूत्वा पित्तमपि जनयति । तदनन्तरं अम्लरसस्य कार्यकारित्वं वक्तव्यम् । आमाशयस्थितस्सन् कटुरसो भूत्वा कफनिवर्तको भवतीत्यर्थः । कटुरसस्य च कफनिवर्तकत्वं सुप्रसिद्धमिति भावः ।

उद्वेजयति जिह्वाग्रं कुर्वंश्चिमिचिमां कटुः ।
स्रावयत्याक्षिनासास्यं कपोलौ दहतीव च ॥[५०]

 ननु एकमेव द्रव्यं त्रिधा विभजनं करोतीति सूत्रे प्रतिपादितमित्युक्तम्, तच्चिन्त्यम् । आदौ स्वादुरसस्यैव कार्यका रित्वं च वक्तव्यम् । तदनन्तरमम्लरसस्य कार्यकारित्वं वक्तव्यम् । कटुरसस्यापि तथा कार्यकारित्वभजनात् । तस्मात्स्वाद्वम्लकटुरसानामेव दोषसाम्यं प्रतिपादितम्, नैव रोगमात्रनिवर्तकसामग्री प्रातिपादिता इति । तत्र सूत्रवचनम् ।

रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता[५१]

एतद्वचनमत्र प्रमाणमिति त्रयाणां दोषाणां समता या सामग्री दृश्यते सा सामग्री त्रिभिरेव कार्या । तथा सति तदितररसानां का गतिरित्याशयं मनसि निधाय तच्चिन्त्यमित्युक्तम् । तत्र शारीरवचनं--

आदौ षड्रसमुत्पन्नं मधुरीभूतमीरयेत् ।
फेनीभूतं कफं यातं विदाहादम्लतां ततः ॥
पित्तमामाशयात् कुर्याच्च्यवमानं च्युतं पुनः ।
अग्निना शोषितं पक्वं पिण्डितं कटुमारुतम् ॥[५२]

एकरसवद्द्रव्यमेव पाके त्रिधा विभजनं करोतीत्यर्थः । सर्वधातुपचनं हरतां वातपित्तकफदोषाणां अविकारकगतिं प्रापयितुं तत्र भोज्यद्रव्यादनं, तेषां बहुरसात्मकत्वात् । ते रसाः तत्तद्विधिचोदितफलानि प्रयच्छन्तीति यान् रसान् यो भोक्तमुपलभते तेन उपलभ्यमानरसं तदनुभववशात् फलं प्रदीयते इति रसान् विद्यात् । तस्माद्बहुरसद्रव्यादनादेव तत्तद्विधिचोदितफलं प्राप्यत इत्यस्वरसादाह-- स्वाद्विति ।

 स्वाद्वम्लकटुकाः पाक्या रसा यथा समदोषा यथायथं योगफलदायकाः ॥ ७२ ॥

 सर्वे रसाः पाकेन स्वाद्वम्लकटुका भूत्वा यथार्थस्थिता रसा एव तत्तत्फलदायका इति । समाधत्ते-- य इति ।

 ये रसास्तद्धेतुभूतास्तदुद्भूतजातानलास्तदुद्भूतधातुपोषकाः ॥ ७३ ॥

 अस्यार्थः-- तद्धेतुकार्यहेतुभूतास्तद्धेतुभूताः इति । तत्तदुद्भूतरसादनकार्यजातानलत्वं पाचकपित्तमेव । अनलपाचितरसाः तत्तद्भूतहितधातुपोषणं कुर्वन्तीत्येतत्सूत्रार्थः । तत्र वचनं--

भौमाप्याग्नेयवायव्याः पञ्चोष्माणस्सनाभसाः ।
पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्त्यनु ॥
यथास्वं ते च पुष्णन्ति पक्वा भूतगुणान्पृथक् ।
पार्थिवाः पार्थिवानेव शेषाश्शेषांश्च देहगान् ॥[५३]

सर्वशरीरवद्द्रव्यं पञ्चभूतात्मकमिति तत्पार्थिवभूताधिकं व्यञ्जनान्नं भोक्तुमिच्छतश्शरीरस्य पार्थिववायवं पुपोषति । अब्भताधिकव्यञ्जनान्नं भोक्तुमिच्छतश्शरीरस्य अब्भूताधिकवृद्धिं करोति । एवं वह्निभूताधिकव्यञ्जनान्नं भोक्तुमिच्छतश्शरीरस्य वह्निभूतावयववृद्धिं करोति । एवमनिलस्य च । एवं नाभसोऽप्यभिवृद्धिं करोतीत्यर्थः । यद्यद्द्रव्यान्वितो रसस्तत्तद्द्रव्यगुणप्रदः । पञ्चभूताधिकद्रव्येभ्यः तत्तद्द्रव्याभिव्यञ्जनावयवा अभिवर्धन्ते । तस्मात् रसादीनां कार्यकारणभावः किमासीदित्यत आह-- रसेति ।

 रसाद्रक्तम् ॥ ७४ ॥

 रक्तधातुजनकरसासृगभि वर्धककार्यस्य कषायरसो हेतुर्भवतीत्यर्थः । "रसो ह्यसृक्," रसो वै सः" । तस्माद्रसासृजोरैक्येन षड्रसास्सप्तधातुपोषका इति । तत्र शारीरवचनं--

रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च ।
अस्थ्नो मज्जा ततश्शुक्रं शुक्राद्गर्भः प्रजायते ॥[५४]

 एवं सप्तधातूनां रसादीनां षण्णां च कार्यकारणभावोऽस्तीति ज्ञाप्यते । रसवद्द्रव्यं रक्तधातुजनकं भवतु, कषायरसो रक्तधातुजनक इत्यत्र कोऽयं नियमः ? दोषादीनामरोगकार्यकारणत्वं प्रतिपादितम् । तेषां परंपरया धातुपोषणद्वारा धातुजनकत्वं च विवक्षितम् । दोषधातुविकाराभावस्य रसादीनां च कार्यकारणभावे ज्ञाते सति देहारोग्यकार्यस्य रसानामेव सत्त्वे सुप्रसिद्धिरिति भावः । कषायरसान्नादनात् रसासृग्धातुरेधते । ऊषणरसो मांसधातुप्रवर्धकरक्तधातून्सम्पोष्य हेतुर्भवतीत्यर्थः ।[५५] रसाद्रक्तं, तस्मान्मासं मांसान्मेदः, मेदसोस्थि, अस्थ्नो मज्जा, मज्जातश्शुक्लं शुक्लाद्गर्भो भवति । अब्भूतोद्भवस्वादुरसश्शुक्लधातुपोषकः । तद्विरसस्तन्नाशको भवति । पृथिव्युद्भवो रसो मज्जाधातुपोषको भवति । तद्विरसस्तन्नाशको भवति । तेजोभूतोद्भवोषणरसः अस्थिधातुपोषकः । तद्विरसस्तन्नाशको भवति । लवणमूषणरसभेदः । पवनभूतोद्भवस्तिक्तरसः मांसमेदोभिवर्धकः, मेदसोऽपि मांसरूपत्वात् अभेदोऽत्र विवक्षितः । गगनभूतोद्भवकषायरसः रसासृग्धातुप्रदः रसासृजोरेकधातुरूपत्वात् । तस्माच्छरीरं पाञ्चभौतिकमिति व्यपदिशति-- पञ्चेति ।

 पञ्चभूतात्मकं शरीरम् ॥ ७५ ॥

 पृथग्व्यवस्थिताः पञ्चभूताः अस्मिन् शरीरे नोपपद्यन्ते देहस्य दोषधातुमलाशयात्मकत्वात् । एकैकस्य महाद्रव्यत्वात् संसृष्टेरभावात् । एकैकस्य च नांशतस्संसृष्टिः । तेषां विभजनं कर्तुमशक्यत्वात् । एकैकशरीरे तत्तल्लक्षणसहितद्रव्योपलब्धेरभावात् । तस्मात्पञ्चभूतात्मकं शरीरमिति वचनं न क्षोदक्षममित्याशयं मनसि निधाय आदौ गगनभूतस्य तत्संसृष्टिलक्षणं तत्कार्यं च व्यपदिशति-- श्रोत्रेति ।

 श्रोत्रान्तस्स्थितशब्दगुणकबोधकसिराभ्यां श्रूयते ॥ ७६ ॥

 अस्यार्थः-- अन्तस्तिष्ठत इत्यन्तस्थितौ । तयोरन्तस्स्थितयोः शब्दो गुणो ययोस्तौ शब्दगुणकौ । बहुव्रीहौ कप्रत्ययः । उपस्थितयोग्यविषयस्य बोधिकाभ्यां सिराभ्यां श्रूयते । तत्र शारीरवचनम्--

षडङ्गमङ्गं प्रत्यङ्गं तस्याक्षिहृदयादिकम् ।
शब्दः स्पर्शश्च रूपं च रसो गन्धः क्रमाद्गुणाः ।
खानिलाग्न्यब्भुवामेकगुणवृद्ध्यन्वयः परे ॥[५६]

 एकादशगुणवद्द्रव्यं शरीरेऽन्वेति । गन्धवद्गुणभूतो नासिकायामुपलभ्यते । अब्भूतगुणलक्षणस्य जिह्वायामुपलब्धिः । तैजसगुणवद्द्रव्यं अक्ष्णोः प्रतिभाति । तत्र रूपोपलंभकज्ञानं प्रमाणम् । पवनद्रव्यं स्पर्शगुणम् । शब्दगुणवदाकाशद्रव्यम् । कर्णशष्कुल्यवच्छिन्नाकाशे शब्दोपलम्भकत्वात् । तस्मात्पञ्चभूतात्मकं शरीरमिति वाक्यं सुप्रसिद्धम् । शब्दगुणवानाकाश इत्याकाशस्य लक्षणं प्रसिद्धमित्यर्थः । श्रोत्रान्तस्स्थितसिराभ्यां श्रूयते शब्दः । तावत आकाशस्य शरीरात्मकत्वं कथं सङ्गच्छते? ‘यत्सत्वे यत्सत्वम्; यदभावे यदभावः' इति न्यायेन शब्दग्राहकप्रतीतशब्दग्रहणं अन्वयव्यतिरेकाभ्यां देहस्याकाशात्मकत्वं न साधयति । तस्मात्पञ्चभूतात्मकं शरीरमिति वचनस्य यद्दूषणं दत्तं तदपरिहार्यं भवेदित्यस्वरसादाह-- शब्द इति ।

 शब्दगुणक आकाशः ॥ ७७ ॥

 शब्दो गुणो यस्य स शब्दगुणद्रव्यमाकाशः । बहुव्रीहौ कप्रत्ययः । आकाशस्य शब्दगुणकत्वात् । द्रव्यान्तरस्पर्शे सति तद्विषयकज्ञानं जायते । तदन्यथानुपपत्त्या तद्व्यापकत्वं वायोः प्रतीतम् । (आकाशवन्निर्गुणद्रव्यप्रतीतत्वात्) स्पर्शैकवेद्यत्वं वायोः प्रतीयते, स्पर्शगुणवान्वायुः इत्युपलम्भकत्वात् । स्पर्शो गुणो यस्य स स्पर्शगुणवान् । द्रव्यान्तरसंसर्गे सति तद्विषयकज्ञानं जायते । तद्व्यतिरिक्तेन्द्रियाणां अविषयत्वे सति तद्विषयकत्वात् । तदधीनज्ञानविषयकज्ञानं त्वगिन्द्रियज्ञानविषयकज्ञानपवनस्य एकदेशशरीरव्यापकत्वं सुप्रसिद्धम् । रसासृग्धातुजन्यां त्वक् । तदन्यधात्वनाधारभूतत्वचः श्वासोच्छ्वासरूपपवनधारकत्वं प्रतिपाद्यते-- रसेति ।

रसासृग्धातुजन्या त्वक् श्वासोच्छ्वासवहा ॥
सप्तधातुत्त्वगावृत्तानिलो वियज्जातः ॥ ७९ ॥

 उभयोरपि धातुत्वग्व्याप्यकार्यं प्रति एकशरीरस्य कार्यकारणत्वं भवति । एतावता त्वङ्मात्रस्य रसासृग्धातुजन्यत्वं सर्वजातिशरीरत्वचां व्याप्यत्वं प्रत्यपादीत्यर्थः । स वायुराकाशजन्यः, "आकाशाद्वायुः" इति प्रमासिद्धत्वात् । ननु देहस्य अनिलधारणत्वं दाहप्रतिबन्धकेऽसति अनलधारणत्वं च वक्तव्यम् । अन्यथा वहति नभोनिलवत् । अनिल धारणायोग्यत्वात् । जठराग्नेरन्नपचनकार्यस्य दाहप्रतिबन्धकाभावकार्यत्वेनादृष्टत्वात् इति न वक्तव्यम्, कुण्डलीगतपित्तस्य अनलवत्कार्यकर्मकरणोपयोगिकत्वात् । तत्पाचककर्म ग्रहणीकला पचनरूपकार्यं करोति । तस्मादनलात्मकं शरीरमिति वक्तुमयोग्यत्वादित्यस्वरसादाह-- षडिति ।

 षट्पञ्चाशत्सिरावृताक्षिगतानलः पञ्चरूपोपपन्नमाहारं पचन् अनिलजातानलस्स्वगतार्थं पश्यति ॥ ८० ॥

 अस्यार्थः--

 षट्पञ्चाशत्सिरावृते अक्षिणी ययोस्तयोर्गतानलः तैजसरूपाग्निः ज्वलद्द्रव्यसिरावृतनेत्रगोलमध्यस्थितत्वात् ज्वालावृतद्रव्यावयवानां दहनप्रतिबन्धकत्वं सम्पाद्य सोऽनलः भुक्तान्नपचनार्थं ग्रहणीकला भूत्वा शरीरं व्याप्य तिष्ठति । अतिदूरस्थमपि तत्सजातीयद्रव्यं विषयीकरोति । तस्मान्नेत्रगोलमध्यस्थितस्सन् यः पश्यति स एवानलस्सर्वशरीरव्यापकः । अनिलजातानलः स्वगतार्थं अनिलजातानलद्रव्यं दूरस्थमपि विषयीकरोति । अतिदूरस्थोऽप्यनिलश्चक्षुषा विषयो गृह्यते । कुण्डलीगतपित्तं तु सर्वभुक्तान्नपचनार्थम् । तस्याः कुण्डल्या देवतारूपत्वात् । तत्पित्तमपि तैजसवद्भवति । चक्षुर्गोचरार्थं चक्षुर्गततैजसं दूरस्थितमप्यर्थं विषयीकरोति । सा कला सर्वं पक्तुं योग्या भवतीत्यर्थः ।

 रसादिभेदविभजनार्थं रसनेन्द्रियप्रकल्पनम् । तदुद्भूतद्रव्यं तद्विभजनार्थम् । तदुद्भूतव्यतिरिक्तस्य तेन ग्रहीतुमशक्यत्वात्, इत्याशयं मनसि निधाय रसनेन्द्रियस्वरूपं विवृणोति-- लालेति ।

 लालारूपो रसादिभेदान्विभजन् जिह्वया रसं गृह्णाति ॥ ८१ ॥

 लालारूपरसः जिह्वाग्रवर्ती पदार्थान्गृह्णाति । भुक्तान्नविभजनं च करोतीत्यर्थः ।

 ननु रसादिविभजनं ग्रहणीकला अदुष्टा सती करोतीति सर्वं विधिवत्प्रतीयते । सा अदुष्टा सत्यपि तद्विभजनज्ञानं नानुभूयते, तद्विभजनज्ञानस्य जठराग्नेश्च कार्यकारणभावो गृह्यते चेत् जिह्वाग्रस्थितलालाजलस्य कार्यकारणभावः कथं गृह्यते? तद्भेदविभजनस्य अन्यथा सिद्धत्वात् । तस्मादनन्योद्भूतात्मकत्वं नोपलभ्यते इत्यस्वरसादाह-- जिह्वेति ।

 जिह्वासंस्थितद्विसिराधारसर्वरसाभिज्ञा ॥ ८२ ॥

 अनलजाताब्लालारूपरसनेन्द्रियस्य रसस्पर्शमात्रेण तत्तद्व्यञ्जनं कृत्वा रसादयोऽनुभूयन्ते । अन्वयव्यतिरेकप्रमाणसिद्धत्वात् । द्विसिराधारकत्वं सर्वरसाभिज्ञत्वं अनलजन्यत्वं चैतस्यैव प्रतीयते नान्यस्येत्यर्थः । पृथिवीलक्षणं गन्धवत्त्वम् । गन्धवती पृथिवी सर्वशरीरगन्धोपलंभिका भवति । शरीरं पार्थिवं गन्धगुणस्योपलभ्यमानत्वात्, यन्नैवं, तन्नैवं यथा वायव्यशरीरम् । यथेति वायुलोकनिवासिनां दृष्टान्तः । अस्य तु शरीरस्थ पार्थिवावयवत्वेन सर्वगन्ध उपलभ्यते । तस्मान्न पञ्चभूतात्मकं शरीरमित्यस्वरसादाह-- चतुरिति ।  चतुर्विंशतिसिरा नासिकाग्रगतोद्भवा पृथिवी चतुर्विंशतितत्वबोधिका ॥ ८३ ॥

 सर्वाणि तत्वानि नासाग्रे प्रतिभान्ति । तस्मात्पार्थिवावयवि शरीरं कथं स्यादित्यस्वरसादाह-- यत्सिरेति ।

 यत्सिरावृतं शरीरम् । अन्नाद्भूतानि जायन्ते, जातन्यन्नेन वर्धन्ते, अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ॥ ८४ ॥

 सर्वाणि शरीराणि पार्थिवानि । तदितराः आपो ह्यग्न्यनिलाकाशाः तत्कार्योपलम्भकमात्रचरितार्थत्वात् । अतोऽन्यावयवं शरीरं स्यादित्याशङ्कते-- नासिकेति ।

 नासिकाधिक्यविकारभूताः नासाग्रे प्रतीयन्ते ॥

 तत्तन्निष्ठगुणानि तानि चतुर्विंशतितत्वरूपगुणानि चतुर्विंशतिसिराधारकानि । सर्वेऽवयवा गन्धवद्गुणभूयिष्ठाः । तस्मात् शरीरं पार्थिवमिति सर्वजनसिद्धमिति एतत्सिरावृतं शरीरमिति वक्तुं शक्यते । दोषधातुमलाशयात्मकं तत्सर्वं गन्धोपलब्धिज्ञानपूर्वकं पञ्चभूतात्मकं शरीरमिति सूत्रं न क्षमं, तद्देहातिरिक्तदेशस्थितं शरीरं समवेत्य तिष्ठतीति नोपयुक्तम् । किं च "अन्नाद्भूतानि जायन्ते" इति वचनमपि नोपपद्यते, सर्वेषां सर्वकालेऽपि प्रजोत्पत्तिरेव स्यात् इति चेन्न । अन्नादनसामग्र्यासर्वदोषस्थितत्वात्तादृशं कार्यं नोपपद्यते इति । किन्तु अदृष्टद्वारा स्त्रीपुंसयोगे सति प्रजाः प्रजायन्ते । तस्माच्छरीरान्तस्स्थितसप्तधातूनां मातृजास्त्रयः पितृजाश्च त्रयः । उभयमेलनं योनिः । शुक्लशोणितसन्निपातो योनिरित्यत्र पितृशुक्लसान्निपात्यम् । एतच्छुक्लमहिम्ना अनेकेषां समाहारे सति सन्निपातः । पितृजश्शुक्लसन्निपातः । एकरसश्चरमधातुः । बहुवचनं नोपपद्यत इति पितृजं अस्थिमज्जाशुक्लधातुसान्निपात्यं योनेर्लक्षणम् । एवं मातृजानि रक्तमांसमेदांसि । एषां सान्निपात्यं योनिः । तस्मात् स्त्रीपुरुषयोस्संयोगे सति सप्तधातूत्पादकसामग्रीसन्निपात एव योनिरिति व्यपदेशः । रक्तमित्यत्र रसासृजोरैक्यं, तदेकधातुरिति पूर्वमेव प्रतिपादितम् । इति मातृजाश्चत्वारो धातवः पितृजाश्च त्रयः । उभयोर्धात्वोर्मेलनं योनिरिति समाधत्ते-- मातृजमिति ॥

 मातृजं रक्तमांसमेदः, पितृजं मज्जास्थिरेतः, सत्वरजस्तमोगुणात्मकं शरीरम् ॥ ८६ ॥

 स्त्रीणां चत्वारो धातवः । पुंसां त्रयो धातवः । न्यूनाधिक मात्रसंयोगवशात् स्त्रीपूर्वकमेव प्रथममुक्तत्वात् । तस्मात् स्त्रीपुंसयोर्मेलनम् । तत्र वदन्ति-- 'मातापितरौ पितरौ'

जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ,
स्त्रीपुंसावात्मभागौ तेभिन्नमूर्तेस्सिसृक्षया ।
प्रसूतिकाले सर्वस्य तावेव पितरौ स्मृतौ ॥

 मातापितृभ्यामन्यतरस्य बहुवचनेन प्रतिपादनम् । तस्मादुभयोर्धातुमेलनरूपं योनिरित्यर्थः । जगदुत्पत्तौ योनिरेव कारणमिति ज्ञापनार्थं च स्त्रीधातवश्चत्वार इति । पितुरपि मातुरपि बहुकारणीभूतः जगदुत्पत्तिहेतुः प्रकृतिरेव । तस्याः "प्रकृतेः महत्, महतोऽहंकारः, अहंकारात्पञ्च तन्मात्राणि” इति श्रुतेर्विद्यमानत्वात् सर्वश्रेष्ठा माता प्रथमत उपात्ता । तत्र शारीरवचनं-

बीजात्मकैर्महाभूतैस्सूक्ष्मैस्सत्वानुगैश्च सः ।
मातुश्चाहाररसजैः क्रमात्कुक्षौ विवर्धते[५७]

 ननु मातृधातवश्चत्वारः । पितृजाश्च त्रयः । तावन्मात्रेण शरीरोत्पत्तिः प्रतिपादिता । इतः परं सत्वरजस्तमोगुणानां कस्य द्रव्यस्य गुणित्वम्? । तथासति गुणगुणिनोः कार्यकारणभावो वक्तुं शक्यते । तेषां गुणिरूपद्रव्यादर्शनात् न गुणिनमन्तरेण गुणास्सन्ति । तस्मात् सत्वरजस्तमोगुणात्मकं शरीरमिति सूत्रस्यैकदेशं व्यर्थं स्यादित्यस्वरसादाह-- आयुरिति ।

 आयुरारोग्यतेजोबलशुद्धादि वपुस्सत्वगुणोत्पादकम् ॥ ८७ ॥

 सत्वगुणस्यैतादृशलक्षणानि सन्तीति प्रतिपादितम् । ननु गुणाश्रयो द्रव्यमिति गुणाश्रयत्वं द्रव्यस्य । पञ्चभूतानां गुणाः । इति ते तत्तद्रव्यनिष्ठास्सन्ति । अतस्ते पृथग्व्यवस्थिताः । अत एतेषां सत्वरजस्तमोगुणानामेते एतस्य द्रव्यस्येति व्यपदिशेत् । तेषां गन्धादीनां गन्धरसरूपस्पर्शशब्दाः पञ्चभूतानां एकैकशोऽवच्छेदकाः । गुणत्रयस्य तेषां नावच्छेदकत्वात्, गुणो गुणिनमन्तरेण स्थातुं नोपपद्यत इत्यस्वरसान्तरादाह-- आयुरिति ।

 आयुश्च आरोग्यं च तेजश्च बलं चैतानि स्वरूपाणि वपुष आविर्भवन्तीति कारणान्यथानुपपत्त्या तत्तत्कार्यकल्पनस्य विधेयत्वात् । अत्र शारीरवचनं--

तेजो यथार्करश्मीनां स्फटिकेन तिरस्कृतम् ।
नैधनं दृश्यते गच्छत् सत्वो गर्भाशयं तथा ।[५८]

 सात्विकराजसतामसगुणाः तत्तदुत्पादकहेतुत्वकाः कार्यमनुयान्तीति हेतुमद्भावस्य नियामकत्वात् । तत्तद्धेतुभूतरसादनाज्जातसात्विकराजसतामसगुणाः जीवात्मनि सन्ति । अत एव तस्य गुणित्वं प्रतिपादितम् । यथा स्फटिकस्थितं तेजः । अर्कतीक्ष्णकिरणाविर्भावे सति तत्रानलो दृश्यते । तत्र स्फटिकार्ककिरणसंयोगः कारणम् । कार्योत्पादकसामग्र्यां सत्यां अविलम्बेन कार्यकारणभावसामग्रीसान्निध्यात् कार्यं यत्र दृश्यते तत्रायं नियमो ज्ञातव्यः । तत्र जीवस्यावयवे सात्विकादयः अदृष्टादिसकलसामग्र्यां सत्यां मातापित्रन्तरुपस्थितहिताहितान्नादनादन्तः प्रविष्टे सति ग्रहणीकलाश्रयो धातून्सम्पोष्य रसासृङ्मांसमेदसां समाहारो रक्तधातुरिति व्यपदिश्यते । पैतृकं तु शुक्लम् । अस्थिमज्जारेतसां समाहारश्शुक्लमिति व्यपदिश्यते । अन्यथा रक्तशुक्लावेव कारणे सप्तधातुमयशरीरोत्पत्तिरूपकार्यस्येति वक्तुं न शक्यते । तस्मात्सप्तधातुमयं शरीरमिति ज्ञापनार्थम् ॥

मृद्वत्र मातृजं रक्तमांसमज्जासृगादिकम् ।
पैतृकं तु स्थिरं शुक्रं धमन्यस्थिकचादिकम्[५९]

इति वचनानुसारेण ।

 अत्र काव्यवचनं--

स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेस्सिसृक्षया ।
प्रसूतिकाले सर्वस्य तावेव पितरौ स्मृतौ ।

 तस्माच्छुक्लशोणितसन्निपातो योनिरिति । सान्निपात्यशब्दमहिम्ना बीजात्मकधातुमेलनं सान्निपात्यम् । तत्र शारीरवचनं--

चेतन्यः चित्तवृक्षाणां नानायोनिषु जन्मसु ।

नानायोनिषु तेषु चेतन्यश्चित्तं आविर्भवति तादृशमित्यर्थः ।

 ननु पैतृकास्त्रयः मातृजाश्चत्वार एवं सप्तधातुमयं शरीरमिति शरीरकार्यस्य कारणत्वं प्रतिपादितम् । एवं सति श्रुतिविरोधस्स्यात् । "आत्मन आकाशस्सम्भूतः। अकाशाद्वायुः" । इति विद्यमानत्वात् । अन्तस्स्थितधातुपोषणं कुर्वन्ति ते । तस्मादेव व्याख्यानमयुक्तमित्यस्वरसादाह-- यत्रेति ।

 यत्रस्था रसास्तत्तद्भूतजातास्ते धातुपोषकाः ॥

 यत्र स्थिताः तत्तदवच्छेदकगुणाधिक्यं यत्र भासते तदवच्छेदकावच्छिन्ना रसास्तदवच्छेदकावच्छिन्ना भवन्तः तत्तद्धातुजनका इति ते रसा धातुपोषकाः ॥

 अथात आदिभूतं यः कर्ता यावत्कृतेस्तथा तदेव भेषजं मनःकामहृद्गतकफशुक्लादिभिरावृतं शरीरं दश ॥

इत्यायुर्वेदस्य प्रथमप्रश्नस्य भाष्यं योगानन्दनाथकृतं
सुप्रसिद्धं महाजनसंमतं प्रतिसूत्रव्याख्यानं
लो को प का र क म् .
प्रथमप्रश्नः समाप्तः.


  1. वार्धिक.
  2. अष्टाङ्गसूत्रं. 1-13.
  3. अष्टाङ्गसूत्रं. 1-6
  4. रिच्छेत्प्रवृत्ति
  5. अष्टाङ्गसूत्रं. 1--2.
  6. अष्टाङ्गसूत्रं. VIII-- 3-4.
  7. अष्टाङ्गसूत्रं 1-29.
  8. अष्टाङ्गसूत्रं XII--24.
  9. अष्टाङ्गसूत्रं I---19-20.
  10. योगै.
  11. अष्टाङ्गसूत्रम्. VIII-14.
  12. अष्टाङ्गसूत्रम्. VIII-1.
  13. अष्टाङ्गसूत्रम्. VIII--27.
  14. अष्टाङ्गसूत्रम्. VIII--27.
  15. तन्निवृत्तेरनामयी.
  16. अनामयादात्मानं.
  17. अजौ ह्यधिष्ठितो.
  18. अहरहर्मनुष्या अशनमिच्छन्ति इत्यधिकपाठः.
  19. अष्टाङ्गसूत्रम् 1-5.
  20. अष्टाङ्गसूत्रम् 1-- 24-25.
  21. अष्टाङ्गसूत्रम् VII--26-28
  22. अष्टाङ्गसूत्रम् VII--2
  23. माघकाव्यम् II-93
  24. दुष्परिष्करोऽयं श्लोकः.
  25. अष्टाङ्गसूत्रं. XI.44.
  26. अष्टाङ्गसूत्रं VII--1.
  27. अष्टाङ्गसूत्रं XII--10
  28. अष्टाङ्गसूत्रं III-- 70-72
  29. अष्टाङ्गसूत्रं VIII--33-34.
  30. अष्टाङ्गनिदानम्. II.3-5
  31. अष्टाङ्गनिदानम्. II; 2.
  32. अष्टांगनिदानं. II-- 6-10.
  33. अष्टाङ्गनिदानं II-- 10-18
  34. अष्टाङ्गनिदानं I-11.
  35. अष्टाङ्गनिदानं II-- 60-61.
  36. अष्टाङ्गनिदानं II 50-53.
  37. अष्टाङ्गचिकित्सा 1. 3.
  38. बलकाविभागात्.
  39. अष्टाङ्गसूत्रं. VIII 55.
  40. तत्स्थं. पा.
  41. अष्टाङ्गसूत्रं. XII 8.
  42. सूत्र. VIII. 5.
  43. अष्टाङ्ग सूत्रम् XII-- 28-30
  44. अष्टाङ्ग शरीर III--52.53.
  45. अष्टाङ्ग शारीर III--52-54.
  46. अष्टांग सूत्रं. I--17.
  47. अष्टांग सूत्रं. I--15.
  48. अष्टाङ्गं सूत्रं X-- 10-11.
  49. अष्टाङ्ग सूत्रं I--17.
  50. अष्टाङ्ग सूत्रं X--5.
  51. अष्टाङ्ग सूत्रं. I. 19.
  52. अष्टाङ्ग. शारीर. III. 57--58.
  53. अष्टाङ्ग. शारीर. III. 59-60.
  54. अष्टाङ्गशारीर. III.--62.
  55. क्वचित्सूत्रपाठे रसाद्रक्तं इत्यनन्तरं 'रक्तान्मासं, मासादस्थि, अस्थ्नो मज्जा, मज्जातशुक्लं, शुक्लाद्गर्भो भवाति' इत्यधिकं दृश्यते। तच्चैतद्भाष्यानुगुणम्.
  56. अष्टाङ्गशारीर. III.-- 1-2
  57. अष्टाङ्गशारीर. I--2
  58. अष्टाङ्गशारीर I--3
  59. अष्टाङ्ग, शारीर. III.4.