आपस्तम्बीय श्रौतप्रयोगः/वैश्वदेवं पर्व

विकिस्रोतः तः
गोचारणम्


॥ अथ वैश्वदेवं पर्व[१]
प्राचीनप्रवणे वैश्वदेवेन यजते । वैश्वदेवेन यक्ष्ये इति सङ्कल्प्य । विद्युदसि । अग्नीन् विहृत्य अन्वादधाति । वैश्वदेवꣳ हविरिदमेषां मयि । आमावास्यं तन्त्रम् । इषे त्वोर्जे त्वा शाखामाच्छिनत्ति । अप उपस्पृश्य । इमां प्राचीमुदीचीमिषमूर्जमभिसᳪँ、स्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहम् आहरति । वायवस्स्थोपायवस्स्थ तया षट्कृत्वो षडवरार्ध्यान् वत्सानपाकरोति । अत्र व्रतप्रवेशः । पयस्वतीरोषधय इत्याद्यादित्योपस्थानान्तम् । देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया विश्वेभ्यो देवेभ्यो देवभागमूर्जस्वती: पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वस्स्तेन ईशत माघशꣳस: शाखया गोचराय गा: प्रस्थापयति । प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्वा । शुद्धा अपस्सुप्रपाणे पिबन्तीश्शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्तु प्रस्थिता अनुमन्त्रयते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वी: यजमानस्य गृहानभ्येति । यजमानस्य पशून्पाहि अग्निष्ठे अनस्यग्न्यगारे वा पुरस्तात्प्रतीची शाखामुपगूहति पश्चात्प्राचीं वा । असिदादानादि । बर्हिराहरणकाले प्रसूमयं बर्हिः प्रस्तरश्च । सर्वाणि निधनानि त्रेधा तूष्णीं बध्वा । सम्भरणमन्त्रेण प्रत्येकं संभृत्य, मन्त्रेण सन्नह्यति । तथेध्मान् । त्रयोविंशतिदारून त्रीन्कलापान् अष्टावष्टौ सप्त च समशस्तूष्णीं सन्नह्य । ततस्तान् त्रयोविꣳशतिधा संभरामि इत्यूहेन त्रीन्कलापान समशो निदधाति । ततो मन्त्रेण सन्नह्यति । वेदं कृत्वा वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा । अन्तर्वेदि शाखाया: पलाशान्यसर्वाणि प्रशात्य । मूलतश्शाखां परिवास्य उपवेषं करोति । उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तश्शिवश्शग्मो भवासि नः उपवेषं करोति । तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय सन्नयितुं वकलमन्तरमा ददे प्रथमपरिवासनशकलमादाय । प्रज्ञातं निधाय । त्रिवृद्दर्भमयं पवित्रं कृत्वा । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारं शाख़ायां शिथिलमवसजति । मूले मूलान्यग्रे अग्राणि, न ग्रन्थिं करोति ।
यजमान: - त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवतः । यवाग्वा हुते सायमग्निहोत्रे अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति ।
सायंदोहः :-
अध्वर्युः - हुते सायमग्निहोत्रे सायंदोहं दोहयति । आहवनीयं परिस्तीर्य । सान्नाय्यपात्राणि प्रक्षाल्य । उत्तरेणाहवनीयं दर्भान् संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । कुंभीं शाखापवित्रं, अभिधानीं निदाने, दारुपात्रं दोहनं अयस्पात्रं दारुपात्रं वा पिधानार्थं, अग्निहोत्रहवणीमुपवेषं, पर्णवल्कं तृणं च । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते । पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु तृणं काष्ठं वान्तर्धाय छिनत्ति । न नखेन । अप उपस्पृश्य । विष्णोर्मनसा पूते स्थः अद्भिरनुमृज्य । पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीय । देवो वस्सवितोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोस्सूर्यस्य रश्मिभिः उदगग्राभ्यं पवित्राभ्यां त्रिरुत्पूय । आपो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्ये प्रोक्षितास्स्थ इत्यभिमन्त्र्य । उत्तानानि पात्राणि पर्यावर्त्य । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै सपवित्रेण पाणिना सर्वाभिरद्भिस्त्रि: प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । पवित्रे प्रज्ञातं निदधाति ।
यजमान: - आपो देवीश्शुद्धास्स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोस्सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुꣳ सर्वा पात्राणि शुन्धत प्रोक्ष्यमाणान्यभिमन्त्र्य । एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुप जायमाना इह व इन्द्रो रमयतु गावः[२]1 गा आयती: प्रतीक्षते ।।

उपवेषः

अध्वर्युः – निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः आहवनीये सान्नाय्यपात्राणि प्रतितप्य । धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । निरूढं जन्यं भयं निरूढास्सेना अभीत्वरी: आहवनीयादुदीचोऽङ्गारान्निरूह्य । न बहिः । मातरिश्वनो घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृꣳहस्व मा ह्वाः तेषु कुम्भीमधिश्रयति । भृगूणामङ्गिरसां तपसा तप्यस्व प्रदक्षिणमङ्गारैः पर्यूह्य । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् तस्यां प्रागग्रं शाखापवित्रमत्यादधाति । उदक्प्रात: । कुम्भीमन्वारभ्य वाचं यच्छति । पवित्रं वा धारयन्नास्ते । अदित्यै रास्नासि अभिधानीमादत्ते । तूष्णीं निदाने दोग्धा ।
यजमानः – त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहागहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवताम् आदीयमानामनुमन्त्रयते ।
अध्वर्युः - पूषाऽसि वत्समभिदधाति । उपसृष्टां मे प्रब्रूता३त् अध्वर्युराह । उपसृजामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः वत्समुपसृजति । गां चोपसृष्टां विहारं चान्तरेण मा सञ्चारिष्ट अध्वर्युराह । उपसीदामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् उपसीदति । उपविश्य दारुपात्रे दोग्धि । दुग्ध्वा हरति तं पृच्छत्यध्वर्युः कामधुक्षः प्र णो ब्रूहि विश्वेभ्यो देवेभ्यो हविरिन्द्रियम् । दोग्धा गङ्गां, यस्यां देवानां मनुष्याणां पयो हितम् ।
अध्वर्युः - सा विश्वायुः इत्युक्त्वा । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा कुम्भ्यां तिरः पवित्रमासिञ्चति । हुतस्स्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् विप्रुषोऽनुमन्त्रयते ।
यजमानः – अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् ॥ द्यौश्चेमं यज्ञं पृथिवी च सन्दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु उपसृष्टां दुह्यमानां धाराघोषं चानुमन्त्रयते । अग्नये बृहते नाकायेदम् । द्यावापृथिवीभ्यामिदम् ।।
अध्वर्युः – एवं द्वितीयां तृतीयां च दोहयति । पूषाऽसीत्यादि । यमुनाम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वव्यचाः इति द्वितीयाम् । सरस्वतीम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वकर्मा इति तृतीयाम् । तिस्रो दोहयित्वा । बहुदुग्धि विश्वेभ्यो देवेभ्यो देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् इति त्रिः । वाचं विसृज्य । अनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयित्वा । दोहनेऽप आनीय । सं पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातये कुम्भ्यां सङ्क्षालनमानीय अविष्यन्दयन् सुशृतं करोति । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् वर्त्म कुर्वन् प्रागुद्वासयति । उदक्प्रातः । तेन शीतबुध्नमातनक्ति । सोमेन त्वाऽऽतनच्मि विश्वेभ्यो देवेभ्यो दधि दध्नातनक्ति । यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि अग्निहोत्रोच्छेषणमन्ववधाय । अयं पयस्सोमं कृत्वा स्वां योनिमपि गच्छतु । पर्णवल्कः पवित्रꣳ सौम्यस्सोमाद्धि निर्मितः पर्णवल्कं क्षिपति । आपो हविष्षु जागृत यथा देवेषु जाग्रथ । एवमस्मिन् यज्ञे यजमानाय जागृत पिधानार्थपात्रेऽप आनीय । अदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरते तेनापिदधाति ।
यजमानः - अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारयमातिगुः अनुमन्त्रयते ।
अध्वर्युः – यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वान्तर्धाय पिधानेऽनुप्रविध्येत् । विष्णो हव्यꣳ रक्षस्व अनधो निदधाति । इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि प्रज्ञातं शाखापवित्रं निदधाति । तयैव शाखया दर्भैर्वा सायंदोहवत्प्रातर्दोहाय वत्सानपाकरोति । षटकृत्वः वायवस्स्थोपायवस्स्थ । ततो अग्नीन् परिस्तीर्य ।
प्रागुदयादारम्भः । कर्मणे वामित्यादि । पात्रासादनकाले अष्टाविंशतिकपालानि तिस्रः स्थाल्यः स्फ्यश्च द्वन्द्वम् । पुरतः उपभृत्पृषदाज्यधान्यौ ध्रुवया सह द्वन्द्वम् । पात्र्या सह आशयपात्रं वेदेन द्वन्द्वम् । स्थाल्यौ[३]1 प्राशित्रहरणेन । प्रणीताप्रणयनमुत्पवनपात्रं इडापात्रेण सह । सान्नाय्यपात्रैस्सह वाजिनपात्रं पालाशं चमसं स्रुचं वा । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । अधिमन्थनशकलं दर्भौ च ।
निर्वपणकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सोमाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सवित्रे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सरस्वत्यै जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां पूष्णे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां मरुद्भ्यो जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां द्यावापृथिवीभ्यां जुष्टं निर्वपामि । इदं देवानामित्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्व सोम हव्यꣳ रक्षस्व सवितर्हव्यꣳ रक्षस्व सरस्वति हव्यꣳ रक्षस्व पूषन् हव्यꣳ रक्षस्व मरुतो हव्यꣳ रक्षध्वं द्यावापृथिवी हव्यꣳ रक्षेथाम् । सशूकायामित्यादि । प्रोक्षणकाले देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामि सोमाय वो जुष्टं प्रोक्षामि सवित्रे वो जुष्टं प्रोक्षामि सरस्वत्यै वो जुष्टं प्रोक्षामि पूष्णे वो जुष्टं प्रोक्षामि मरुद्भ्यो वो जुष्टं प्रोक्षामि द्यावापृथिवीभ्यां वो जुष्टं प्रोक्षामि । उत्तानानि पात्राणीत्यादि । उत्करे त्रिर्निनीय यथाभागं व्यावर्तध्वम् । इदमग्नेः सवितुः पूष्णो मरुतां द्यावापृथिव्योः इति पेषणार्थान् । इदꣳ सोमस्य सरस्वत्याः चर्वर्थान् । कृष्णाजिनादानादि । देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टमधिवपामि सवित्रे जुष्टमधिवपामि पूष्णे जुष्टमधिवपामि मरुद्भ्यो जुष्टमधिवपामि द्यावापृथिवीभ्यां जुष्टमधिवपामि धान्यमसि धिनुहि देवान् ।
कपालानामुपधानकाले आग्नेयस्याष्टावुपधाय । ध्रुवोऽसि इति सौम्यस्थालीम् । सावित्रस्य वैश्वानरवद्द्वादशकपालानि । सरस्वत्याः पूष्णश्च स्थाल्यौ । मारुतस्याद्यैर्मन्त्रैस्सप्तकपालानि । ध्रुवमसि इत्येककपालं चोपधाय सायंदोहवत्प्रातर्दोहं दोहयति । एता आचरन्तीत्यादि सङ्क्षालननिनयनान्तम् । अधिवापवत्संवापः । संवपामीति मन्त्रं सन्नमति । पिष्टान्युत्पूय तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । समापो अद्भिरग्मत इत्यादि मखस्य शिरोऽसि इत्यन्तं कृत्वा । यथाभागं व्यावर्तध्वम् आग्नेयं विभज्य । यथाभागं व्यावर्तेथाम् तण्डुलान् । यथाभागं व्यावर्तध्वम् सावित्रम् । यथाभागं व्यावर्तध्वम् पौष्णम् । यथाभागं व्यावर्तेथाम् इतरौ । इदꣳ सोमस्य । इदꣳ सरस्वत्याः चर्वर्थान् । इदं मरुताम् । इदं द्यावापृथिव्योः पुरोडाशार्थान् । मारुतमधिश्रित्येत्यन्तं कृत्वा तप्ते प्रातर्दोहे सायंदोहमानयति । एककपालमधिश्रयति । प्रथनादिपुरोडाशानामन्तरितं सर्वेषाम् । आप्यलेपं निनीयेत्यादि ।
सम्प्रेषणकाले आज्येन दध्नोदेहि इति विशेषः । उपभृद्वत्पृषदाज्यधानीं सम्मृज्य न वाजिनपात्रसम्मार्गः । वेदमाज्यदधिस्थाल्यावादाय । पूषा वां बिले विष्यतु उभयोर्बिले अपावृत्य । अदिती स्थोऽच्छिद्रपत्रे आज्यदधिस्थाल्यावादाय । महीनां पयोऽसि इत्याज्यस्थाल्यामाज्यं निरुप्य । तेनैव दधि निर्वपति । इदं विष्णुः इति दक्षिणाग्नावधिश्रित्य न दध्यधिश्रयति सर्वत्र । उभे स्थाल्यौ पत्न्या अञ्जलौ निदधाति । तेजसी स्थस्तेजोऽनु प्रेतम् हरति । अग्नेर्जिह्वे स्थस्सुभुवौ देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवतम् स्फ्यस्य वर्त्मन् सादयति । अध्वर्युर्यजमानश्च - आज्यं दधि स्थस्सत्ये स्थस्सत्यस्याध्यक्षे स्थो हविषी स्थो वैश्वानरे वैश्वदेवे उत्पूतशुष्मे सत्यौजसौ सहसी स्थस्सहमाने स्थस्सहेथामरातीस्सहेथामरातीयतस्सहेथां पृतनास्सहेथां पृतन्यतः । सहस्रवीर्ये स्थस्ते मा जिन्वतमाज्यस्याज्यं दध्नो दधि स्थस्सत्यस्य सत्ये स्थस्सत्यायुषी स्थस्सत्यशुष्मे स्थस्सत्येन वामभिधारयामि तयोर्वां भक्षीय । शुक्रमसि इत्यादि आज्यमुत्यूय दध्युत्पुनाति । अद्भिराज्यं दध्याज्येन दध्नापस्सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शाक्वराभ्यामिमं यज्ञमवत संविदानाः । आज्यं दधि चोत्पूयमाने अभिमन्त्रयते । आज्यग्रहणकाले चतुर्गृहीतान्याज्यानि जुह्वां गृह्णाति पञ्चावत्तिनामपि । उपभृति आद्यैश्चतुर्भिर्गृह्णाति । महीनां पयोऽसि विश्वेषां देवानां तनूर्ऋध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसि विष्णोर्हृदयमस्येकमिष विष्णुस्त्वानु वि चक्रमे भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणमागम्याज्ज्योतिरसि वैश्वानरं पृश्नियै दुग्धम् इत्यनेन मन्त्रावृत्या पृषदाज्यधान्यां द्विराज्यं द्विर्दधि सकृदाज्यं गृह्णाति । आसादनकाले उपभृद्वत् पृषदाज्यधानीमासादयति । न दधिस्थाल्यासादनम् । न सूर्यज्योतिः आमिक्षायाः [४]। आग्नेयमभिघार्य । तूष्णीं सौम्यम् । आ प्यायतां घृतयोनिः ---सवित्रे जुष्टमभिघारयामि । सरस्वत्यै जुष्टमभिघारयाभि । पूष्णे जुष्टमभिघारयामि । तूष्णीं मारुतम् । यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान् हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यम् इत्यामिक्षामभिघारयति । तूष्णीमेककपालम् । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् आमिक्षामुद्वास्य । अभुक्तेन वाससा संशोध्य । यत् संवर्तते सामिक्षा । यदन्यत्तद्वाजिनम् । आमिक्षां द्वयोः पात्रयोरुद्धृत्य वाजिना एकदेशेनोपसिञ्चति । आशयपात्र उपस्तीर्य एककपालमुद्वास्य । अलङ्करणकाले आमिक्षावर्जं सर्वेषामलङ्करणम् । आज्येनैककपालमभिपूरयति । आविः पृष्ठं वा कृत्वा । प्रथमप्रयोगे व्याहृतीभिर्हवींष्यासादयति । द्वितीयादिषु प्रियेणेति । एवं शुनासीरीयायामपि । उत्करे वाजिनम् ।
यजमानः – यज्ञोऽसि इति चतुष्कृत्वः आग्नेयसावित्रसारस्वतपौष्णानभिमृशति । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशस्सह ओजस्सनेयं शृतं मयि श्रयताम् ॥ यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं पयस्या मां धिनोतु द्वाभ्यां आमिक्षाम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपत मरुतो भुवनान्नुदन्तामहं प्रजां वीरवतीं विदेय इति मारुतम् । ममाग्ने पञ्चहोता[५]1।
अथाग्निमन्थनम् । अग्नेर्जनित्रमसि अधिमन्थनशकलं निदधाति । वृषणौ स्थ: प्राञ्चौ दर्भौ । उर्वश्यसि अधरारणिमादत्ते । पुरूरवाः उत्तरारणिम् । देवो वाꣳ सविता मध्वानक्तु आज्यस्थाल्या बिलेऽङ्त्वा । घृतेनाक्ते वृषणं दधाथाम् उभे अभिमन्त्र्य । आयुरसि समवधाय । अग्नये मथ्यमानायानुब्रू३हि सम्प्रेष्यति । प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनुप्रजायस्व प्रथमम् । त्रैष्टुभं छन्दोऽनुप्रजायस्व द्वितीयम् । जागतं छन्दोऽनुप्रजायस्व तृतीयम् । ततो यथा प्राशु मन्थति । जातायाऽनुब्रू३हि जाते सम्प्रेष्यति । प्रह्रियमाणायानुब्रू३हि प्रहरन् सम्प्रेष्यति । भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः अग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा । ततः स्रुवेणाज्यमादाय अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयᳪँ、 स्वाहा । प्रहृत्य स्रुवेणाभि जुहोति । प्रविष्टायाग्नय इदम् ।
अयं वेद इत्यादि । त्रीन् प्रयाजानिष्ट्वा समानयनम् । तेन चतुर्थप्रभृतीन चतुरो यजति । सर्वमौपभृतमानीय उत्तमाविष्ट्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्येत्यादि । पृषदाज्यधानीमन्ततः । नोपभृतम्
यजमानः - आदितश्चतुर्भिश्चतुरोऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन दुरः प्रभृतीन्स्त्रीनुत्तमेन शेषौ ।
अध्वर्युः - आयतने स्रुचौ सादयित्वा आज्यभागाविष्ट्वा आग्नेयस्य प्रचारः । ततः सोमस्य । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । तत उपांशु सवितुः प्रचारः । सवित्रे (उपांशु) अनुब्रूहि (उच्चैः)। सवितारं (उपांशु) यज (उच्चैः) । सवित्र इदम् । सवितुरहं --- अन्नादो भूयासम् । सरस्वत्या अनुब्रूहि । सरस्वतीं यज । सरस्वत्या इदम् । सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् । पूष्णेऽनुब्रूहि । पूषणं यज । पूष्ण इदम् । पूष्णोऽहं देवयज्यया प्रजनिषीय प्रजया पशुभिः । मरुद्भ्योऽनुब्रूहि । मरुतो यज । मरुद्भ्य इदम् । मरुतामहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । स्रुवेण आमिक्षां द्विर्द्विरवद्यति द्वयोः पात्रयोः । पञ्चावत्तिनः पश्चार्धात्तृतीयमप्यवद्यति । विश्वेभ्यो देवेभ्योऽनुब्रहि । विश्वान् देवान् यज । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् । तत एककपालमुद्धृत्य बर्हिषदं कृत्वा उपस्तीर्य तूष्णीं कृत्स्नं पुरोडाशमवदाय स्रुवेण सर्वमाशयमन्वानीय अभिघार्य उपांशु प्रचारः । द्यावापृथिवीभ्यां (उपांशु) अनुब्रूहि (उच्चैः) । द्यावापृथिवी (उपांशु) यज (उच्चैः) । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर् ऋध्यासम् । प्रत्याक्रम्य चतुर्भिर्मासनामभिरेककपालमभिजुहोति । मधुश्च स्वाहा । मधव इदम् । माधवश्च स्वाहा । माधवायेदम् । शुक्रश्च स्वाहा । शुक्रायेदम् । शुचिश्च स्वाहा । शुचय इदम् । न पार्वणहोमः । नारिष्ठादि ।
आग्नेय सावित्र सारस्वत पौष्णानां विरुज्य प्राशित्रम् । तेषामेव चतुर्धाकरणम् । दक्षिणाकाले प्रथमजो वत्सः, तमन्तर्वेदि निधाय । रुद्राय गां इति प्रतिग्रहः । अनूयाजकाले पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेन नवानूयाजान् यजति । देवान् यज इति प्रथमं सम्प्रेष्यति । यज यज इतीतरान् । प्रथमविकाराश्चत्वारः । पूर्वार्धे समिधि जुहोति । तेषां प्रजावान् भूयासमित्यनुमन्त्रणम् । सर्वत्र अग्नय इदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् । द्वारामहं देवयज्यया प्रजावान् भूयासम् । उषासानक्तयोरहं देवयज्यया प्रजावान् भूयासम् । जोष्ट्र्योरहं देवयज्यया प्रजावान् भूयासम् । पञ्चमप्रभृति चतुरो मध्ये, पशुमान् भूयासमिति तेषामनुमन्त्रणम् । ऊर्जाहुत्योरहं देवयज्यया पशुमान् भूयासम् । दैव्ययोर्होत्रोरहं देवयज्यया पशुमान् भूयासम् । तिसृणां तिसृणां देवीनामहं देवयज्यया पशुमान् भूयासम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् । नवमेनेतराननु संभिनत्ति । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रस्तराञ्जनेऽपि पृषदाज्यधानी उपभृद्वद्भवति । प्रस्तरप्रहरणकाले शाखया सह प्रहरणम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । सवित्र इदम् । सवितुरहमुज्जितिम् । सरस्वत्या इदम् । सरस्वत्या अहमुज्जितिम् । पूष्ण इदम् । पूष्णोऽहमुज्जितिम् । मरुद्भ्य इदम् । मरुतामहमुज्जितिम् । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहमुज्जितिम् । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहमुज्जितिम् । एमा अग्मन् --- यज्ञो म आगच्छतु । संवत्सरीणाᳪ、, स्वस्तिमाशासे । अग्नीद्गमयेत्यादि । तिसृभिः संस्रावहोमः ।
अथ वाजिनपात्र उपस्तीर्य अन्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । वाजिभ्योऽनुब्रू३हि इति सम्प्रेष्यति । नाभिघारयति । वाजिनो यज इति वषट्कृतानुवषट्कृते चमसेन जुहोति । वाजिभ्य इदम् । अनुवषट्कृते अग्नये स्विष्टकृत इदम् । प्रत्याक्रम्य शेषेण दिग्यागः । दिशस्स्वाहा । दिग्भ्य इदम् । प्रदिशस्स्वाहा । प्रदिग्भ्य इदम् । आदिशस्स्वाहा । आदिग्भ्य इदम् । विदिशस्स्वाहा । विदिग्भ्य इदम् । इति प्रतिदिशं जुहोति । उद्दिशस्स्वाहा । उद्दिग्भ्य इदम् । इति मध्ये । स्वाहा दिग्भ्यः । दिग्भ्य इदम् । पश्चादारभ्य पूर्वपर्यन्तं हुत्वा । नमो दिग्भ्यः इत्युपस्थाय शेषं होने प्रयच्छति । होता तदञ्जलिना प्रतिगृह्य सर्वे समुपहूय भक्षयन्ति । असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । होताध्वर्युर्ब्रह्माग्नीद्यजमानश्च । उपहूत इति प्रतिवचनम् । होता प्रथमो भक्षयति यजमान उत्तमः । वाजिनां भक्षो अवतु वाजो अस्मान् रेतस्सिक्तममृतं बलाय । स न इन्द्रियं द्रविणं दधातु मा रिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामि इति भक्षयन्ति । हविश्शेषभक्षणादि ।
अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्त धुरि धुर्यौ पात इति तिसृणामासादनम् । प्रायश्चित्तान्ते त्रीणि समिष्टयजूंषि जुहोति । यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । यज्ञायेदम् । एष ते यज्ञो यज्ञपते सह सूक्तवाकस्सुवीरस्स्वाहा । यज्ञपतय इदम् । देवागातुविद इत्यादि । दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् ॥ इदꣳ हविः प्रजननम्मे अस्तु दशवीरꣳ सर्वगणᳪँ、 स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा उभाभ्यामामिक्षाभक्षणम् । यज्ञ शं च म वर्जम् । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् अप उपस्पृश्य । ब्राह्मणाᳪ、स्तर्पयितवै । सिद्धमिष्टिस्सन्तिष्ठते ।
वपनम् :
अथ पौर्णमास्या यजेत । पुनर्विहृत्य । तस्यान्ते यजमानः केशश्मश्रूपपक्षाणां वपनं करोति । अध्वर्युः तूष्णीं श्मश्रूपपक्षयोरुन्दनं कृत्वा वापयित्वा ततः प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चसे इति केशानामुन्दनं करोति । त्रेणीं शललीं इक्षुकाण्डं च गृहीत्वा कृष्णायसेन ताम्रमिश्रेण क्षुरेण करोति । ऋतमेव परमेष्ठ्यृतं नात्येति किं चन । ऋते समुद्र
आहित ऋते भूमिरियᳪँ、 श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा। शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये इति केशान् छिनत्ति । न तु निर्मूलान् करोति ।
यजमानः – तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासं इति जपित्वा ब्राह्मण एकहोतेत्यनुवाकं च जपति । ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून् पुष्टिं यशः । यज्ञश्च मे भूयात् ॥ अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून् पुष्टिं यशः । भर्ता च मे भूयात् ॥ पृथिवी त्रिहोता । स प्रतिष्ठा । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्रतिष्ठा च मे भूयात् ॥ अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून पुष्टिं यशः । विष्ठाश्च मे भूयात् ॥ वायुः पञ्चहोता । स प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणश्च मे भूयात् ॥ चन्द्रमाष्षड्ढोता । स ऋतून् कल्पयाति । स मे ददातु प्रजां पशून् पुष्टिं यशः । ऋतवश्च मे कल्पन्ताम् ॥ अन्नꣳ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात् ॥ द्यौरष्टहोता । सोऽनाधृष्यः । स मे ददातु प्रजां पशून् पुष्टिं यशः । अनाधृष्यश्च भूयासम् ॥ आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून् पुष्टिं यशः । तेजस्वी च भूयासम् ॥ प्रजापतिर्दशहोता । स इदꣳ सर्वम् । स मे ददातु प्रजां पशून् पुष्टिं यशः । सर्वं च मे भूयात् ॥
अन्तरालव्रतानि :-
तस्य पर्वसु अन्तरालव्रतानि । न मांसमश्नाति । न स्त्रियमुपैति । ऋत्वे वा जायाम् । नोपर्यास्ते । जुगुप्सेतानृतात् । प्राङ् शेते । अमध्वश्नाति । मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् । एवमेव सर्वेषु चातुर्मास्यान्तरालेषु व्रतं चरति । प्रथमे त्वेव संवत्सरे व्रतं चरेत् । यथाप्रयोगमित्यौपमन्यवः[६]
इति वैश्वदेवपर्व



  1. तैत्तिरीयसंहिता ३.२.२. ३ एवं मैत्रायणीसंहिता ३.६.१०. मध्ये उल्लेखः अस्ति यत् अध्वरस्य, ऋजुतमस्य पथस्य सर्जनाय अयमावश्यकं अस्ति यत् यः वैश्वदेवपर्वः अस्ति, तत् सोमयागस्य प्रातःसवनस्य रूपं भवेत्। प्रातःसवनस्य किं वैशिष्ट्यमस्ति। तत्र उपांशु - अन्तर्यामपात्रयोः प्रतिष्ठा भवति। अन्तर्यामपात्रस्य रहस्यं अन्तर्यामीभवने निहितमस्ति, अयं प्रतीयते। उपांशु किमस्ति। कार्यकारणे या कापि अनिरुक्ता स्थितिः भवेत्, तत् उपांशु भवितुं शक्यते। विश्वेदेवाः अनिरुक्ताः भवन्ति। शतपथब्राह्मणे उपांशुपात्रः द्रष्टव्यमस्ति। अन्या संभावना अस्ति यत् प्रातरनुवाके व्युष्टिकाले होतृसंज्ञकस्य ऋत्विजस्य या वाक् भवति, या अति अनिरुक्तावस्थायां भवति, तत् उपांशुः अस्ति।
  2. इहव विश्वेदेवा रमयन्तु गावः इति द्रा. प्र।
  3. आज्यदधिस्थाल्यौ
  4. तप्ते पयसि दधिप्रक्षेपे कृते सति तस्य द्रव्यस्य द्वौ भागौ भवतः। यो घनीभूतो भागः सा आमिक्षा इत्युच्यते। यस्तु जलरूपो भागः स वाजिन उच्यते - श्रौतपदार्थनिर्वचनम्
  5. अस्मदीय प्रयोगपुस्तके केवलं पञ्चहोत्रैव आसन्नाभिमर्शनं इति विद्यते । अस्माभिस्तु उपदेशमतं रुद्रदत्तमतं च अनुसृत्य, दर्शपूर्णमासविकारत्वाच्च आसन्नाभिमर्शनस्य सर्वे मन्त्राः संयोजिताः । एवमेव सर्वेषु पर्वसु विजानीयात् ।
  6. औपमन्यवाचार्यमते प्रयोगकालावधिकदिनेष्वेव ब्रह्मचर्यादि व्रतानि चरेदिति ।