आपस्तम्बीय श्रौतप्रयोगः/चातुर्मास्यप्रयोगः

विकिस्रोतः तः

॥ अथ चातुर्मास्यप्रयोगः ॥
ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्या सम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः
नत्वा गणेशपादाभ्यां गुरूनथ महाशयान् ।
कुर्वे त्र्यम्बकनामाहं चातुर्मास्याख्यमादृतः ॥
अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति । फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजते ।। पञ्चाहिकानां कालस्तु बोधायनेन उक्तः 1॥ उदगयन आपूर्यमाणपक्षे देवनक्षत्रे वैश्वदेवस्य सद्यस्कालोऽपि विकल्पेन उक्तः ।।
अथ प्रयोगः
चतुर्दश्यां प्रातरग्निहोत्रं हुत्वा करिष्यमाणचातुर्मास्यानां निर्विघ्नता सिद्ध्यर्थं गणपतिपूजनं स्वस्ति पुण्याहवाचनं करिष्ये इति सङ्कल्प्य, कृत्वा2 । दर्भेष्वासीनो दर्भान्धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य । ऐष्टिकैश्चातुर्मास्यैर्यक्ष्ये इति सङ्कल्प्य । एषु ऐष्टिकचातुर्मास्येषु अध्वर्युं त्वां वृणीमहे । एवं ब्रह्माणं होतारमाग्नीध्रं च वृत्वा ।
पञ्चहोतृहोमः :-
प्राणानायम्य, चातुर्मास्यान्यारप्स्यमानः3 पञ्चहोतारं सग्रहं होष्यामीति सङ्कल्प्य । अध्वर्युः - आहवनीयं विहृत्य । जुह्वां सकृद्गृहीत्वा अग्निर्होता । अश्विनाध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता। इति सन्ततं मनसा जपित्वा । अथ उपांशुजपो वाक्यशः पाठश्च । सोमस्सोमस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनश्रुतस्स्वाहा आहवनीये जुहोति । वाचस्पतये ब्रह्मण इदम् । अग्निं परित्यज्य । चातुर्मास्यान्यारप्स्यमानः पञ्चहोतारं हुत्वा कूष्माण्डैर्जुहुयात्
अन्वारम्भणीया :-
पुनः प्राणानायम्य । चातुर्मास्यान्यारप्स्यमानः अन्वारम्भणीयया यक्ष्ये । विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि । अध्वर्युः विहरणादि पौर्णमासवत्करोति । अद्य यज्ञाय । इमामूर्जं
१. यथाप्रयोगमित्यौपमन्यवः इति बौधायनसूत्रस्य अस्माकं प्रयोगकारैः एषोऽर्थः अभिहितः । परं तु तत्सूत्रस्य पूर्वसूत्रानुगुण्येन अर्थे क्रियमाणे व्रतपरत्वमवगम्यते इत्येवं रुद्रदत्तमहादेवाभ्यां व्याख्यातम् ।
२. प्रथमचातुर्मास्यप्रयोगे नान्दीश्राद्धं, ऋत्विजां मधुपर्कश्च कर्तव्यः । तदा नान्दीश्राद्धं कृत्वा ततः ऋत्विग्वरणं ततो वरणक्रमेण तेषां मधुपर्कः ततः पञ्चहोतृहोमः ।
३. आरप्स्यमानः इत्युक्तत्वात् प्रथमे त्वेव चातुर्मास्ये पञ्चहोतारं जुहुयात् । न तु पुनरालभ्यमाने । केचित्तु बहुकालविच्छिन्नचातुर्मास्येऽपि कर्तव्यमित्याहुः ।


चतुर्दशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिहतानावहतु । अन्वारम्भणीयꣳ हविरिदमेषां मयि । परिस्तरणान्तं कृत्वा । कर्मणे वां इत्यादि । पात्रासादनकाले द्वादशकपालानि स्थाली स्फ्यश्च द्वन्द्वम् । पुरतः अन्वाहार्यस्थालीवर्जमितराणि प्रयुज्य । पवित्रकरणादि । निर्वपणकाले देवस्य त्वा --- अग्नये वैश्वानराय जुष्टं निर्वपामि । पर्जन्याय जुष्टं निर्वपामि । अग्ने वैश्वानर हव्यꣳ रक्षस्व । पर्जन्य हव्यꣳ रक्षस्व । सशूकायामित्यादि । देवस्य त्वा --- हस्ताभ्यामग्नये वैश्वानराय वो जुष्टं प्रोक्षामि पर्जन्याय वो जुष्टं प्रोक्षामि । विभागकाले यथाभागं व्यावर्तेथाम् । इदमग्नेर्वैश्वानरस्य पेषणार्थान् । इदं पर्जन्यस्य चर्वर्थान् । कृष्णाजिनादानादि । देवस्य त्वा --- हस्ताभ्यामग्नये वैश्वानराय जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । कपालानामुपधानकाले द्वितीयचतुर्थषष्ठाष्टमानामावृत्या द्वादशकपालानि वैश्वानरस्योपधाय । ध्रुवोऽसि इति चरुस्थालीमुपदधाति । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । पुरोडाशमधिश्रित्य घर्मोऽसि इति तण्डुलानावपति । प्रथनादि पुरोडाशस्य । अन्तरितं इत्युभयोः । आप्यलेपं निनीय । वेदिकरणादि । आप्यायतां घृतयोनिः --- पशूनां तेजासाग्नये वैश्वानराय जुष्टमभिघारयामि । पर्जन्याय जुष्टमभिघारयामि । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । उभयोरलङ्करणम् । प्रियेण नाम्ना प्रियꣳ सद आसीद इति हविरासादनम् । एवं सर्वत्र विकृतिषु । यज्ञोऽसि इति द्विः । अयं यज्ञ इत्यादि पौर्णमासवदभिमर्शनम् । वेदनिधानादि । आज्यभागानुमन्त्रणे विशेषः । अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुष्मान्भूयासम् । सोमेन यज्ञश्चक्षुष्मान् सोमस्याहं देवयज्यया चक्षुष्मान्भूयासम् इति सर्वत्र विकृतिषु इदमेव अनुमन्त्रणम् । उपांशु हविषा प्रचरति अग्नये वैश्वानराय, अनुब्रू३हि । अग्निं वैश्वानरम्, यज । अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानरस्याहं देवयज्ययान्नादो भूयासम् । पर्जन्याय, अनुब्रू३हि । पर्जन्यम्, यज । पर्जन्यायेदम् । पर्जन्यस्याहं देवयज्ययान्नादो भूयासम् । न पार्वण होमः सर्वत्र । नारिष्ठान् हुत्वा । विरुज्य प्राशित्रम् । चतुर्धाकरणं चोभयोः । दक्षिणाकाले हिरण्यं धेनुं च अन्तर्वेद्यासाद्य । ब्रह्मा- ब्रह्मणी ब्रह्मणी स्थो ब्रह्मणे वां हुताद्य मा मा हिꣳसिष्टमहुते मह्यं शिवे भवतम्1 । दक्षिणाकाले । ब्रध्न पिन्वस्व--- । सहस्रधारे उत्से अक्षीयमाणे । ते दध्रतुः --- ताभ्यां हिरणधेनुभ्यामतितराणि मृत्युम् । अग्नये हिरण्यम् । रुद्राय गां इति प्रतिग्रहः । यज्ञ शं च म वर्जं । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् । सिद्धमिष्टिस्सन्तिष्ठते । अग्नी परित्यज्य । सन्तिष्ठतेऽन्वारम्भणीयेष्टिः ।
॥ इति चातुर्मास्यान्वारम्भणीया ॥
१. ब्रह्मण्यौ ब्रह्मण्यौ स्थो ब्रह्मणे वां हुताद्य मा मा हिꣳसिष्टमहुते मह्यं शिवे भवतम् । इति द्रा. प्र।