आपस्तम्बीय श्रौतप्रयोगः/वरुणप्रघासाः

विकिस्रोतः तः

॥ अथ वरुणप्रघासाः ॥
ततश्चतुर्षु मासेषु आषाढ्यां श्रवणायां वोदवसाय वरुणप्रघासैर्यजते । प्ररूढकक्षे यष्टव्यमिति बह्वृचब्राह्मणम् । तस्य वैश्वदेववत्कल्पः । वेदौ कृत्वाग्रेण गार्हपत्यं समे प्राची वेदी भवतः । यूकोन सार्धविंशत्यङ्गुलपरिमितव्यासार्ध सूत्रभ्रमणेन गार्हपत्यायतनं कृत्वा तत्पौरस्त्यात् पृष्ठ्याश्शङ्कोः पञ्चारत्नौ देशे शङ्कुः । स उत्तरवेदि पश्चिमप्रान्तः । तत्पुरस्तात्सार्धारत्नौ उत्तरवेदि पूर्वप्रान्तशङ्कुं च निहत्य तयोश्शङ्क्वोः यावत्प्रमाणा रज्जुः स्यादित्यादि विधिना उत्तरवेद्यर्थं षट्त्रिंशदङ्गुलं समचतुरस्रं कृत्वा गार्हपत्यायतनोत्तरवेदिमध्यशङ्क्वोः रज्जुं निपात्य आयामं पञ्चधा कृत्वेत्यादि विधिना मध्यान्मध्यपक्षेणैव किञ्चिदून एकोनत्रिंशदङ्गुलव्यासार्धपरिमितं (२८.७२अङ्गुलम् । २८.२४ तिलाः) करोति । उत्तरवेदेः पश्चात् साष्टाङ्गुलद्व्यरत्नौ उत्तरवेदेः पुरस्ताच्चतुरङ्गुलदेशे शङ्कुद्वयं उत्तरवेद्यर्थं निखाय वेद्यायामोष्टधाकार्य इत्यादि त्रिका तिर्यगित्यन्तं प्रकृतिवत्कृत्वा । त्रिके श्रोणी सार्धत्रिकार्धे त्वंसौ कुर्यात् । उत्तरवेद्यनुरोधेन श्रोण्यंसयोरन्तरालवृद्धिः । अत एव सन्नमनमपि स्वल्पमेव कार्यम् । ततः श्रोणीशङ्कुद्वयसंलग्नतया दक्षिणोत्तरसूत्रे समतया धृते दक्षिणश्रोणेर्दक्षिणतः प्रादेशमाने शङ्कुं निखाय तद्दक्षिणतः चतुःपञ्चाशदगुले शङ्कुं निहन्यात् । ते दक्षिणविहारस्य वेदिश्रोणी । एवमंसशङ्कुद्वयसंलग्नतया दक्षिणोत्तरसूत्रे समतया धृते दक्षिणांसाद्दक्षिणतः एकविंशत्यङ्गुले प्रादेशमात्रे वा शङ्कुं निखाय तदक्षिणतः षट्त्रिंशदङ्गुले शङकुं निहन्यात् । तौ दक्षिणविहारवेद्यंसौ । प्रकतिवच्च दक्षिणविहारसन्नम् 1 ।
अथापरं बौधायनस्य तु मतेन पाशुबन्धिकी उत्तरा दार्शिकी दक्षिणेति । न तु तिर्यक्त्वेन समे । अर्था यथा सिध्यन्ति तथाभावलक्षणं तिर्यक्त्वम् । अस्मिन्कल्पे सार्धविंशत्यङ्गुलपरिमित व्यासार्धसूत्रभ्रमणेन गार्हपत्यायतनं कृत्वा । तत्पौरस्त्यात् पृष्ठ्याः शङ्कोः अरत्निद्वयं विशं त्यक्त्वा शङ्कुं निहन्यात् । स उत्तरस्या वेदेः (महावेदेः) पश्चिमप्रान्तः । तत्पुरस्तात् षडरत्नौ शङ्कुः । स उत्तरस्या वेदेः (महावेदेः) पूर्वप्रान्तशङ्कुः । चतुर्भिररत्निभिः पश्चात्तिर्यक् । षड्भिररत्निभिः प्राची । त्रिभिररत्निभिः पुरस्तात्तिर्यक् । यावत्प्रमाणा रज्जुस्स्यादित्यादि विधिना महावेदिं कृत्वा पूर्वप्रान्तशङ्कोः चतुरङ्गुले पश्चात् शङ्कुः । तत्पश्चात् षट्त्रिंशदङ्गुले शङ्कुः । अत्रापि यावत्प्रमाणा इत्यादि विधिना षट्त्रिंशदगुलात्मकं समचतुरस्रं करोति । महावेदेः दक्षिणस्याः श्रोण्याः पृथमात्रं ( बाह्वोरन्तरालं ) सञ्चरमवशिष्य शङ्कुं निहन्ति । तद्दक्षिणतः द्वात्रिंशदगुले चतुष्षष्ठ्यङ्गुले च शङ्कुः । द्वात्रिंशदङ्गुले निहताच्छङ्कोः पुरस्तात् षडरत्नौ शङकुः । एवं षडरत्निप्रमाणकं दार्शपूर्णमासिकं वेदिं कल्पयित्वा पूर्वस्मिन्प्रान्ते वेद्यामेव
१. अस्मिन् विहारमानविषये भूमिकां पश्यन्तु ।
 
चतुर्विंशतिप्रमाणकं चतुरस्रमाहवनीयं करोति । एषः दक्षिणविहारः ।
अग्रेण गार्हपत्यं समे प्राची वेदी द्वे भवतः । प्राक्त्वेन समे न तिर्यक्त्वेन । तत्र श्लोकाः 1 =
गार्हपत्यपुरश्शङ्कोः द्व्यरत्नौ शङ्कुरिष्यते ।
ततश्चतुररत्नौ तु पृष्ठ्या तु षडरत्निका ।
पाशिन्युभयतः पाशं स्याच्चत्वारिंशदङ्गुले ।
लक्षणं मध्यमे शङ्कौ पूर्वशङ्कौ च पाशकौ ।।
प्रतीच्यामन्तरा तु स्याच्छ्रोणी द्वयमरत्नितः ।
कुर्युर्व्यत्यासतश्चांसौ यथाश्रोणी प्रकल्पयेत् ॥
द्व्यङ्गुलाद्यन्तरं हित्वा वेदिं कुर्यात्तु दक्षिणाम् ।
श्रोण्यंसयोर्दक्षिणयोः पाशावामुच्य पूर्ववत् ।।
लक्षणे रज्जुमायम्य बध्नीयाद्यष्टमात्रया ।
तया दक्षिणवेदेस्तु तिर्यङ्मान्यार्जवं भवेत् ॥
द्व्यङ्गुलादिषु शङ्कुस्स्यात्ततो दक्षिणतोऽपि च ।
द्व्यरत्नौ शङ्कुरेवं स्यात् व्यत्ययादंसकल्पना ॥
वेदिद्वयस्य श्रोण्यंसौ विस्तारायामतः समम् ।
उदग्वेदेः पुरश्शङ्कोः मध्यमात् परतो भवेत् ।
शम्यामात्रे तथा शङ्कुः तयोः शङ्क्वोश्च पार्श्वयोः ।
अष्टादशाङ्गुलेषु स्युः चत्वारश्शङ्कवो मताः ॥
एवमुत्तरवेद्यां तु भवेदुत्तरवेदिका ।
अबाधित्वोत्तरां वेदिं नमयेद्वेदिमुत्तराम् ॥
प्राक्त्वमुत्तरवेदेस्तु अञ्जसान्यत्र गौणतः ।
वरुणप्रघासवेदिकारिकायाः पाठान्तरम् :-
गार्हपत्य पुरश्शङ्कोः द्व्यरत्नौ शङ्कुरिष्यते ।
ततश्चतुररत्नौ च पृष्ठ्या तु षडरत्निका ।।
१. वेदिमानकारिकासु बहवः पाठभेदाः भवन्ति अस्माभिः पाठद्वयमत्र गृहीतमस्ति ।
 
पाशिन्युभयतः पश्चात् स्याच्चत्वारिंशदङ्गुले ।
लक्षणं मध्यमे शङ्कौ पूर्वशङ्कौ च पार्श्वकौ ।
प्रतिमुच्याङ्कमाकृष्य श्रोणी द्वयमरत्नितः ।
कुर्याद्व्यत्यासतश्चांसौ यथाश्रोणि प्रकल्पयेत् ॥
द्व्यङ्गुलाद्यन्तरं हित्वा वेदिं कुर्वीत दक्षिणाम् ।
श्रोण्यंसयोर्दक्षिणयोः पाशावामुच्य पूर्ववत् ॥
लक्षणे रज्जुमागन्तुं बध्नीयादिष्टमात्रया ।
तया दक्षिणवेदेस्तु तिर्यङ्मान्यार्जवं भवेत् ॥
द्व्यङ्गुलादिषु शङ्कुस्स्यात्ततो दक्षिणतोऽपि च ।
द्व्यरत्नौ शङ्कुरेवं स्यात् व्यत्ययादंसकल्पना ॥
वेदिद्वयस्य श्रोण्यंसौ विस्तारायामतः समाः ।
तावतीं रज्जुमित्यादि विधिमान नं द्वयोः ॥
अबाधित्वोत्तरां वेदिं नमयेद्वेदिमुत्तराम् ।
दक्षिणस्यास्तु नमनं वेदेः प्रकृतिवद्भवेत् ॥
उत्तरस्याः पुरश्शङ्कोः मध्यमात् परतस्तथा ।
शम्यामात्रे भवेच्छङ्कुः तयोः शङ्क्वोश्च पार्श्वयोः ।
अष्टादशाङ्गुलेषु स्युः चत्वारश्शङ्कवो मताः ।
एवमुत्तरवेद्यां तु भवेदुत्तरवेदिका ॥
एकविंशत्यङ्गुले स्यात् भ्रमणं गार्हपत्यके ।
अन्तरालादि विहिता दक्षिणाग्नेश्च कल्पनम् ॥
प्राक्त्वमुत्तरवेदे स्यात् अञ्जसान्यत्र गौणतः ॥
॥ इति वरुणप्रघासवेदिलक्षणकारिकाः ॥
वरुणप्रघासानां विशेष नियमाः :-
उत्तरे विहारेऽध्वर्युश्चरति दक्षिणे प्रतिप्रस्थाता । उभयत्र कृत्स्नं तन्त्रम् । अपि पत्नीसंयाजाः । एकवत्सम्प्रेषौ द्विवद्ब्रह्मानुजानाति । ब्रह्मन् प्रोक्षिष्यामीत्युक्ते प्रोक्षतं यज्ञमित्यादि निदर्शनम् । ओं निर्वपतं, अनुप्रहरतं, अगतमिति च लभ्यते । यदेवाध्वर्युः करोति तत्प्रतिप्रस्थाता करोति । कृतानुकारित्वं
 
प्रतिप्रस्थातुः । यत्किञ्च वाचाकर्मिणमध्वर्युरेव कुर्यात् 1। युगपत्कालान् वा निगदान् 2। साधारण द्रव्यांश्च संस्कारानध्वर्युरेव करोति । यथा गार्हपत्यपरिस्तरण होतृषदनकल्पन ब्रह्मयजमानासनादि ।
इदं तस्मा इदमहमग्निज्येष्ठेभ्यो व्रतोपायनीयमेता आचरन्त्युभावग्नी देवा देवेषु कस्त्वा युनक्त्यङ्गिरसो मास्य दशहोता समिद्धो अग्निर्देवाः पितरोऽशिश्रेम पृथिवी होता प्रयाजादि वषट्कारप्रदान त्यागानुमन्त्रणं भूयस्येहि सप्तहोतैमा अग्मन्त्सा मे सत्याशीः परिवत्सरीणां विष्णोश्शंयोरिडास्मान् या सरस्वती वसुमान् यज्ञो यो नस्सपत्नो यो रण इत्येते याजमानमन्त्रास्सकृत् । अन्येषां मन्त्राणामावृत्तिः । कर्मारम्भः, महावेदिकरणम् :-
वरुणप्रघासैर्यक्ष्ये 3। समारोप्य देवयजनं गत्वा उद्धत्य अवोक्ष्य । गार्हपत्यदक्षिणाग्न्योरायतने कल्पयित्वा । मथित्वा लौकिकाग्नौ वा उपावरोह्य आयतने निधाय । विद्युदसि । एषु वरुणप्रघासेषु प्रतिप्रस्थातारं त्वां वृणीमहे । शौल्बमानेन वेदिद्वयमानं कृत्वा । त्वया वेदिमित्यादि उभौ वेदौ कुरुतः । स्फ्यादानादि वेदिकर्म द्वौ कुरुतः । यजमानः क्रमेण उभयोर्याजमानान् पठेत् । यजमानः - चतुश्शिखण्डा इति द्विः वेदी सम्मृज्यमाने । यो मा हृदा इति द्विः स्तम्बयजुर्ह्रियमाणे । अन्तरा वेदी प्रतिप्रस्थातुस्सञ्चरः । अपरेणोत्तरां वेदिं स्तम्बयजुर्हरन्नाध्वर्युमभिपरिहरति । उत्करे निवपति । समान उत्करः । आग्नीध्रः तन्त्रेण उभयं गृह्णाति । यजमानः - इदं तस्मा इति सकृत् उत्करमभिगृह्यमाणम् । ऋतमसि इति पूर्वपरिग्रहः । यजमानः - यज्ञस्य त्वा इति द्विः वेदी परिगृह्यमाणे । समुद्धतस्याग्नीध्रः । पर्यायेण उत्करे त्रिर्निवपति । यजमानः – यदुद्घ्नन्तो जिहिꣳसिम पृथिवीं --- भुवनेभिरस्तु इति द्विः वेदी उद्धन्यमाने । इमां नरा इत्यध्वर्युरेव । देवस्य सवितुस्सवे इत्याग्नीध्रः क्रमेण । यजमानः - भूमिर्भूत्वा इति द्विः वेदी क्रियमाणे । मध्ये सन्नततरे इत्यन्ते कृते अध्वर्युः स्फ्येन एकयत्नेन दक्षिणवेदेः उत्तरां श्रोणिमारभ्य उत्तरस्याः दक्षिणांसपर्यन्तं एकां रेखां करोति ।
उत्तरवेदिकरणम् :
अथोत्तरवेदिमुपवपति । शम्यां पुरस्तादुदगग्रान्निधाय । स्फ्येनोदीचीमभ्यन्तरं परिलिखति वित्तायनी मेऽसि । अप उपस्पृश्य । एवं दक्षिणतः प्राचीम् तिक्तायनी मेऽसि । पश्चादुदीचीम् अवतान्मा नाथितम् । उत्तरतः प्राचीम् अवतान्मा व्यथितम् । उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालः । तमुत्तरवेदिवत्तूष्णीं
१. मन्त्रजातं सकलमित्यर्थः । तदा प्रतिप्रस्थातुः कर्म अमन्त्रकम् । क्रियामात्र एव । २. तदा निगदवर्जं प्रतिप्रस्थाता मंत्रं ब्रूयात् । प्रोक्षणीरासादयेत्यादि निगदाः ।
३. वरुणप्रघासैर्यक्ष्यमाणः अग्निं समारोपयिष्ये इत्युक्त्वा समारोप्याग्निं देशान्तरगमनम् । यागदेशं गत्वा उद्धत्य अवोक्ष्य । गार्हपत्यदक्षिणाग्न्योरायतने कल्पयित्वा । लौकिकाग्नौ उपावरोह्य आयतने निधाय । वरुणप्रघासैर्यक्ष्ये । विद्युदसि इति अस्मद्ग्रामीण पाठः ।।
 
शम्यया परिमित्य । देवस्य त्वा --- हस्ताभ्यामाददेऽभ्रिरसि नारिरसि अभिमादाय । परिलिखितꣳ रक्षः परिलिखिता अरातय इदमहꣳ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामि त्रिः प्रदक्षिणं परिलिख्य । तूष्णीं जानुदघ्नं त्रिवितस्तं वा खात्वोत्तरवेद्यर्थान्पांसून हरति विदेरग्निर्नभो नामाग्ने अङ्गिरो योऽस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे । सिꣳहीरसि महिषीरसि उत्तरवेद्यां निवपति । एतेनैव विदेरग्निर्नभो नामाग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे इति द्वितीयम् । विदेरग्निर्नभो नामाग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे इति तृतीयम् । तूष्णीं चतुर्थं हृत्वा । सिꣳहीरसि महिषीरसि इति निवपति । उरु प्रथस्वोरु ते यज्ञपतिः प्रथतां प्रथयित्वा । ध्रुवासि शम्यया संहत्य । देवेभ्यः कल्पस्व अभिमन्त्र्य । देवेभ्यश्शुन्धस्व अद्भिरवोक्ष्य । देवेभ्यश्शुम्भस्व सिकताभिरवकीर्य । प्रोक्षणीशेषमुत्तरत उत्तरवेद्यै निनीय । आपो रिप्रं निर्वहत स्फ्येनोदीचीमेकस्फ्यां निस्सार्य । विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजति उत्तरवेद्या अन्तान्त्संमृशति । अथास्या मध्ये प्रादेशमात्रीं गोपदमात्रीमश्वशफमात्रीं वोत्तरनाभिं चतुस्स्रक्तिं कृत्वा । चतुश्शिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधि सं वसन्त उत्तमे नाक इह मादयन्तां उभे अभिमन्त्र्य ।
इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पातु पुरस्तात्प्रत्यङ् तिष्ठन्नुत्तरवेदिं प्रोक्षति । मनोजवास्त्वा पितृभिर्दक्षिणतः पातु दक्षिणतः । प्रचेतास्त्वा रुद्रैः पश्चात्पातु पश्चात् । विश्वकर्मा त्वादित्यैरुत्तरतः पातु उत्तरतः । त्वष्टा त्वा रूपैरुपरिष्टात्पातु मध्यम् । प्रोक्षणीशेषं दक्षिणत उत्तरवेद्यै निनयेत् शुचा त्वार्पयामि पाप्मन् । आपो रिप्रं निर्वहत पूर्ववदेकस्फ्यां दक्षिणतो निस्सार्य ।
अग्निप्रणयनम् :-
अध्वर्युः प्रतिप्रस्थाता च गार्हपत्ये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्य गार्हपत्यादाहवनीयार्थं ज्वलन्तमुद्धरति 1 । नोद्यतहोमौ जुहुतः । अग्नये प्रणीयमानायानुब्रू३हि । अध्वर्युरेव सम्प्रेष्यति । अध्वर्युः दक्षिणाग्निं प्रणयति । प्रथमायां त्रिरनूक्तायां उपयमनीभिरुपयम्य हरति । अन्तरा वेदी प्रतिप्रस्थाता प्रतिपद्यते । ऊर्णावन्तं प्रथमस्सीद योनिमिति होतुरभिज्ञाय । अन्यस्मा अग्निं प्रदाय, उत्तरवेद्या उपर्यग्नौ
१. सर्वधारणवतः गतश्रियोऽपि न आहवनीयात् प्रणयनम् । न वा दक्षिणस्यैकस्य । गार्हपत्यादग्नी प्रणयतः इति द्विवचनात् । अतो गतश्रियः पृथक् समारोप्य उदवसाय मथित्वाग्नीन् देवयजनं कृत्वा वेदिद्वयं कृत्वा उत्तरवेदिं च कृत्वा विभज्याहवनीयं महावेदेः पश्चात् पात्रद्वये निदधाति । ततः अग्न्योः प्रणयनीयौ इध्मौ क्षिपतः । ततो अग्नये प्रणीयमानायानु ब्रूहि इत्युक्ते अध्वर्युप्रतिप्रस्थातारौ एकैकमग्निं नयतः । अग्निप्रतिष्ठापनाद्यतिमुक्तिहोमान्तं पूर्ववत् ।
 
धार्यमाणे जुह्वां पञ्चगृहीतं गृहीत्वा । सर्वत्र हिरण्यमुपास्यन्नक्ष्णयोरुत्तरवेदिमुत्तरनाभिं वा व्याघारयति । सिꣳहीरसि सपत्नसाही स्वाहा। सिᳪँ、ह्या इदम् । दक्षिणमंसम् । सिꣳहीरसि सुप्रजावनिस्स्वाहा । सिᳪँ、ह्या इदम् । उत्तरां श्रोणिम् । सिꣳहीरसि रायस्पोषवनिस्स्वाहा । सिᳪँ、ह्या इदम् । दक्षिणां श्रोणिम् । सिꣳहीरस्यादित्यवनिस्स्वाहा । सिᳪँ、ह्या इदम् । उत्तरमंसम् । सिꣳहीरस्यावह देवान् देवयते यजमानाय स्वाहा । सिᳪँ、ह्या इदम् । मध्यम् । भूतेभ्यस्त्वा स्रुचमुद्गृह्य । नात्र परिधयः । प्रतिप्रस्थाता स्व आहवनीयदेशं प्राप्य न व्याघारणम । उभावपि अग्नेर्भस्मास्यग्नेः पुरीषमसि ऊर्णास्तुकां निधत्तः । अग्ने बाधस्व विमृधो नुदस्वापामीवा अप रक्षाꣳसि सेध । अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नस्सृजेह । यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुथा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नधामृतेन जरितारमङ्ग्धीह यज्ञः प्रत्यष्ठात् पूर्वोऽध्वर्युः उत्तरवेद्यामग्निं प्रतिष्ठापयति जघन्यः प्रतिप्रस्थाता दक्षिणस्याम् । अग्नेः पुरीषमसि उत्तरत उपयमनीर्न्युप्य । मनुष्वत्त्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज उपसमिध्य । द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्वा घृतेन स्वाहा सप्तवत्या पूर्णाहुतिं जुहुतः । अग्नये सप्तवत इदम् ।
ततस्सकृत्सकृद्गृहीत्वा अग्निर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । अग्नय इदम् । वायुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा। वायव इदम् । आदित्यो नयतु यज्ञं प्रजानन्मैनं यज़हनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । आदित्यायेदम् । विष्णुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहा । विष्णव इदम् । चतस्रोऽतिमुक्तीर्जुहुतः 1।
॥ अथ द्व्यहकालप्रयोगः ॥
देवा गातुविद इत्यादि अग्नीनन्वादधाति । प्रतिप्रस्थाता ममाग्ने इति स्वाग्नावेव । गार्हपत्यदक्षिणाग्नी अध्वर्युरेवान्वादधाति ।
यजमानः – अग्निं गृह्णामि --- वारुणप्रघासꣳ हविरिदमेषां मयि 2 अन्वाधीयमानजपमुभयत्र कृत्वा । पश्चादुभयत्र अन्तराग्नी जपः । इह प्रजा विश्वरूपा रमन्तां इति गार्हपत्यान्वाधीयमानजपं अयं पितृणामग्निः इति अन्वाहार्यपचनान्वाधीयमानजपं च सकृत् जपित्वा उत्तरस्य विहारास्योत्तरत उपविश्य इदमहमग्निज्येष्ठेभ्य इति अन्वाहितेषु सकृज्जपति ।
१ एतत्पर्यन्तं सद्यस्कालायामपि समानम् ।
२. वारुणप्रघासिकꣳ हविरिदमेषां मयि इति पाठान्तरम् ।
 
शाखाहरणे पूर्वं प्रतिप्रस्थाता पश्चादध्वर्युः । वायवस्स्थोपायवस्स्थ वत्सानपाकुरुतः । पयस्वतीरोषधय इत्यादि आदित्योपस्थानान्तं सकृत् । अपरेणाहवनीयं वेदिद्वयं दक्षिणातिक्रम्य दक्षिणेन दक्षिणमाहवनीयमवस्थाय उभावग्नी अभिसन्धाय व्रतोपायनम् । देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया मरुद्भ्यो देवभागम् इति प्रतिप्रस्थाता । देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया वरुणाय देवभागम् इत्यध्वर्युः । उभौ शाखोपगूहनान्तं कुरुतः । वैश्वदेववत् इध्माबर्हिषोराहरणादि । इध्मप्रवचनानि निदधातीत्यन्तं कृत्वा । न वेदकरणम् । उपवेषोऽसि इति उपवेषं कृत्वा वसूनां पवित्रमसि इति शाखापवित्रं कुरुतः ।
यजमानः - त्रिवृत्पलाशे दर्भ इति शाखापवित्रानुमन्त्रणं द्विः । कुम्भीलेपनान्तं कुरुतः । तस्यां रात्र्यां उत्तरवेद्यां यवाग्वाग्निहोत्रं जुहोति । अग्निहोत्रोच्छेषणं द्विधा विभज्य आतञ्चनार्थं निदधाति । हुते सायमग्निहोत्रे यथादैवतं सायंदोहौ दोहयतः । सर्वत्र सान्नाय्ये प्रतिप्रस्थातुः कर्म पूर्वं पश्चादध्वर्योः । आहवनीयं परिस्तीर्येत्यादि ।
यजमानः - आपो देवीश्शुद्धास्स्थ इति द्विरभिमन्त्र्य एता आचरन्ति इति सकृदेव गा आयतीः प्रतीक्षते । त्रयस्त्रिꣳशोऽसि, अयक्ष्मा वः, द्यौश्चेमं, उत्सं दुहन्ति इत्येतान्यनुमन्त्रणानि द्विः । कामधुक्षः प्र णो ब्रूहि मरुद्भ्यो हविरिन्द्रियम् इति प्रतिप्रस्थाता । कामधुक्षः प्र णो ब्रूहि वरुणाय हविरिन्द्रियम् इत्यध्वर्युः । तिस्रो दोहयित्वा । बहुदुग्धि मरुद्भ्यो देवेभ्यो हव्यमाप्यायतां पुनः इति प्रतिप्रस्थाता । बहुदुग्धि वरुणाय देवेभ्यो हव्यमाप्यायतां पुनः इत्यध्वर्युः ।
यजमानः - अमृन्मयं देवपात्रं इति द्विः पिधीयमाने ।
शाखापवित्रं निधाय । प्रातर्दोहाय वत्सानपाकुरुतः । परिस्तरणादि प्रतिप्रस्थाता स्वाग्नावेव ।
यजमानः – उभावग्नी, देवा देवेषु इति सकृज्जपति । प्रागुदयादारंभः । पञ्चर्त्विजः । कर्मणे वामित्यादि।
॥ सद्यस्कालमाश्रित्य प्रयोगः ॥
देवा गातुविद इत्यादि अग्नीनन्वादधाति । प्रतिप्रस्थाता ममाग्ने स्वाग्नावेव । गार्हपत्यदक्षिणाग्नी अध्वर्युरेवान्वादधाति ।
यजमानः – अग्निं गृह्णामि --- अद्य यज्ञाय --- इमामूर्जं पञ्चदशीं ये प्रविष्टाः --- वारुणप्रघासꣳ हविरिदमेषां मयि 1 अन्वाधीयमानजपमुभयत्र कृत्वा । पश्चादुभयत्र अन्तराग्नीजपः । इह प्रजा विश्वरूपा रमन्तां इति गार्हपत्यान्वाधीयमानजपं, अयं पितृणामग्निः इति अन्वाहार्यपचना
१. वारुणप्रघासिकꣳ हविरिदमेषां मयि इति पाठान्तरम् ।
 
न्वाधीयमानजपं च सकृत् जपित्वा उत्तरस्य विहारास्योत्तरत उपविश्य इदमहमग्निज्येष्ठेभ्य इति अन्वाहितेषु सकृज्जपति । शाखाहरणे पूर्वं प्रतिप्रस्थाता पश्चादध्वर्युः । पयस्वतीरोषधय इत्यादि आदित्योपस्थानान्तं सकृत् । अपरेणाहवनीयं वेदिद्वयं दक्षिणातिक्रम्य दक्षिणेन दक्षिणमाहवनीयमवस्थाय उभावग्नी अभिसन्धाय व्रतोपायनम् । वैश्वदेववत् इध्माबर्हिषोराहरणादि । इध्मप्रव्रश्चनानि निदधातीत्यन्तं कृत्वा । न वेदकरणम् । उपवेषोऽसि इति उपवेषं कृत्वा वसूनां पवित्रमसीति शाखापवित्रं कुरुतः।
यजमानः - त्रिवृत्पलाशे दर्भ इति शाखापवित्रानुमन्त्रणं द्विः ।
कुम्भीलेपनान्तं कुरुतः । अत्र वत्सापकरणम् । वायवस्स्थोपायवस्स्थ इति वत्सानपाकुरुतः । परिस्तरणादि प्रतिप्रस्थाता स्वाग्नावेव 1 । पञ्चर्त्विजः । कर्मणे वां इत्यादि । ब्रह्मयजमानयोरासनप्रकल्पनं अध्वर्युरेव दक्षिणवेदेर्दक्षिणतः करोति । उत्तरेण गार्हपत्याहवनीयौ दर्भान् संस्तीर्य यथार्थं पात्राणि प्रयुनक्ति । चत्वारिंशत् कपालानि स्थालीद्वयं स्फ्यश्च द्वन्द्वम् । इतराणि वैश्वदेववत् 2 । प्रतिप्रस्थातुः शमीमय्यो हिरण्मय्यो वा स्रुचो भवन्ति । एकादश कपालानि स्फ्यश्च द्वन्द्वम् । ऐषीकशूर्पं प्राकृतशूर्पं च अग्निहोत्रहवण्या सह द्वन्द्वम् । न प्राशित्रं नेडापात्रं न योक्त्रं शेषाणि यथार्थानि स्वाग्नेरुत्तरतः । पवित्रकरणादि । ब्रह्मवरणं अध्वर्युरेव करोति साधारणत्वात् । द्वयोश्चापां प्रणयनम् । ब्रह्मन्नपः प्रणेष्यामि इत्यध्वर्युरेव ।
ब्रह्मा:- प्रणयतं यज्ञं देवता वर्धयतम् । युवां नाकस्य पृष्ठे --- यजमानं च धत्तम् । ओं प्रणयतम् ।
यजमानः - भूश्च कश्च इति प्रणीताप्रणीयमानानुमन्त्रणं द्विः ।
हविर्निर्वपणम् :-
यजमान हविर्निर्वप्स्यामि इत्यध्वर्युरेव । यजमानः ओं निर्वपतम् । धूरसि इत्युभयोः । सर्वे यवा भवन्ति । अपि वा पौष्णः करम्भपात्राणि मेषाविति यवानाम् । व्रीहीणामितराणि । यवपक्षमाश्रित्य प्रयोगः । अध्वर्युः पौष्णान्तानि पञ्च सञ्चराणि निरुप्य ऐन्द्राग्नं निर्वपति इन्द्राग्निभ्यां जुष्टं निर्वपामि । विरमत्यध्वर्युः 3 । ततः प्रतिप्रस्थाता देवस्य त्वा --- मरुद्भ्यो जुष्टं निर्वपामि मेष्यर्थान्निर्वपति । अध्वर्युः - वरुणाय जुष्टं निर्वपामि मेषार्थान् निर्वपति । काय जुष्टं निर्वपामि । प्रतिप्रस्थाता
१. इत ऊर्ध्वं द्वयोः पक्षयोरपि समानप्रयोगः ।
२. पुरतः उपभृद्द्वयं ध्रुवया सह द्वन्द्वम् । पात्र्या सह आशयपात्रं वेदेन द्वन्द्वम् । स्थाल्यौ प्राशित्रहरणेन । प्रणीताप्रणयनमुत्पवनपात्रं इडापात्रेण सह । सान्नाय्यपात्रैस्सह वाजिनपात्रं पालाशं चमसं स्रुचं वा । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । अधिमन्थनशकलं दर्भौ च।
३. आसादनप्रोक्षणाधिवापसंवापेषु अध्वर्योर्विरमणं नास्ति इति अस्मद्ग्रामीणहस्तप्रतिपाठः ।
 
ऐषीके शूर्पे करम्भपात्रार्थान् अमात्यसङ्ख्यया एकमधिकं च तूष्णीं चतुरश्चतुरो मुष्टीन्निर्वपति । इदं देवानां इत्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्व सोम हव्यꣳ रक्षस्व सवितर्हव्यꣳ रक्षस्व सरस्वति हव्यꣳ रक्षस्व पूषन् हव्यꣳ रक्षस्वेन्द्राग्नी हव्यꣳ रक्षेथाम् इत्यन्ते विरमत्यध्वर्युः । प्रतिप्रस्थाता - अदित्यास्त्वोपस्थे सादयामि मरुतो हव्यꣳ रक्षध्वम् । अध्वर्युः - वरुण हव्यꣳ रक्षस्व क हव्यꣳ रक्षस्व । एवं प्रोक्षणादावपि विरमणम् । सशूकायामित्यादि।
यजमानः – कस्त्वा युनक्ति स त्वा युनक्तु इति सकृदुक्त्वा सर्वं विहारमनुवीक्षते । हविस्संस्काराः :-
ब्रह्मा - प्रोक्षतं यज्ञं ---युवां नाकस्य पृष्ठे --- यजमानं च धत्तम् । ओं प्रोक्षतम्
अध्वर्युः - देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामि सोमाय वो जुष्टं प्रोक्षामि सवित्रे वो जुष्टं प्रोक्षामि सरस्वत्यै वो जुष्टं प्रोक्षामि पूष्णे वो जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि विरमत्यध्वर्युः । प्रतिप्रस्थाता - देवस्य त्वा --- हस्ताभ्यां मरुद्भ्यो वो जुष्टं प्रोक्षामि । पश्चादध्वर्युः वरुणाय वो जुष्टं प्रोक्षामि काय वो जुष्टं प्रोक्षामि त्रिर्हविः प्रोक्षतः । शुन्धध्वमित्यादि।
प्रतिप्रस्थाता उत्कर एव अवधूननादि करोति । पर्यायेण पत्न्यवहन्ति, फलीकरणं च करोति । करम्भपात्रार्थानां यवानां तूष्णीमवघातादिकं च करोति । आग्नीध्रः पर्यायेण दृषदुपले समाहन्ति । तुषान् प्रस्कन्दयित्वा इत्यन्तं कृत्वा न तुषोपवापः । अवभृथार्थं तुषान् संस्थापयित्वा उदकेन यवान् संयौति । तण्डुलानां विभागकाले यथाभागं व्यावर्तध्वम् । इदमग्नेस्सवितुः पूष्ण इन्द्राग्नियोर्वरुणस्य कस्य पेषणार्थान् । इदꣳ सोमस्य सरस्वत्याः चर्वर्थान् । कृष्णाजिनादानादि । देवस्य त्वा -- -हस्ताभ्यामग्नये जुष्टमधिवपामि सवित्रे जुष्टमधिवपामि पूष्णे जुष्टमधिवपामीन्द्राग्निभ्यां जुष्टमधिवपामि विरमत्यध्वर्युः । प्रतिप्रस्थाता - देवस्य त्वा --- हस्ताभ्यां मरुद्भ्यो जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । अध्वर्युः – वरुणाय जुष्टमधिवपामि काय जुष्टमधिवपामि धान्यमसि धिनुहि देवान् ।
धृष्ट्यादानादि पौष्णान्तानि उपदधाति । ऐन्द्राग्नस्य एकादशकपालान्युपधाय । प्रतिप्रस्थाता मेष्याः कपालान्युपदधाति । आदितः परिचिदसि इत्यन्तमुपधाय । प्रथमचतुर्थयोः पश्चान्मध्ये मरुताꣳ शर्धोऽसि इत्युपधाय । पञ्चमस्य पश्चात् धर्मासि इत्युपधाय । तयोरुत्तरतः मध्ये चितस्स्थ प्रजाम् इत्यष्टमम् । द्वितीयतृतीययोर्दक्षिणतः मध्ये एकम् । द्वितीयस्योत्तरत एकम् । तृतीयस्योत्तरत एकम् । अथ अध्वर्युः मेषस्योपदधाति ध्रुवमसि इति मध्यममुपधाय सव्यपाणेरङ्गुल्याभिनिधाय निर्दग्धꣳ
 
रक्षः । धर्त्रमसि इति तस्य पश्चात्पूर्ववत् अङ्गुल्याभिनिधानमङ्गारात्याधानं सर्वत्र । धरुणमसि इति मध्यमात्पुरतः । चिदसि इति त्रयाणामपरे एकम् । परिचिदसि इत्यादि चत्वारि तान्युत्तरेण प्रागपवर्गमुपदधाति । कायमेककपालमुपधाय । सायन्दोहवत् प्रातर्दोहौ दोहयतः । मरुद्भ्यो देवेभ्यो हव्यमाप्यायतां पुनः । वरुणाय देवेभ्यो हव्यमाप्यायतां पुनः । संवपनकाले देवस्य त्वा --- अग्नये जुष्टꣳ संवपामि सवित्रे जुष्टꣳ संवपामि पूष्णे जुष्टꣳ संवपामीन्द्राग्निभ्यां जुष्टꣳ संवपामि इत्यन्तं कृत्वा विरमत्यध्वर्युः । प्रतिप्रस्थाता - देवस्य त्वा --- मरुद्भ्यो जुष्टꣳ संवपामि । अध्वर्युः - वरुणाय जुष्टꣳ संवपामि काय जुष्टꣳ संवपामि । पिण्डं कृत्वा यथाभागं व्यावर्तध्वम् इत्यादि पूर्ववत् । इदꣳ सोमस्य इदꣳ सरस्वत्याः इति चरू । इदं वरुणस्य इदं कस्य अन्त्ययोरेव निर्देशः ।
 प्रतिप्रस्थाता स्त्रीव्यञ्जनां मेषीं करोति । अध्वर्युः – पुंव्यञ्जनं मेषं करोति । पत्नी करम्भपात्रार्थं पिष्टं गृहीत्वा उष्णेन वारिणा संसृज्य यावन्तो यजमानस्यामात्यास्सपिण्डास्सस्त्रीकाः यजमानः पत्नी च अप्रत्ताः कन्यास्तावन्त्येकातिरिक्तानि शमीपर्णकरीराणां धारणार्थं बिलवन्ति करम्भपात्राणि करोति । इदमहꣳ सेनाया इत्यादि । ऐन्द्राग्नपर्यन्तमधिश्रित्य । प्रतिप्रस्थाता एकादशसु कपालेषु मेषीमधिश्रयति । त्रिषु त्रिषु कपालेषु एकैकं पादं द्वयोरेकं पादम् । अध्वर्युः - अष्टसु कपालेषु मेषमधिश्रयति । द्वयोर्द्वयोरेकैकं पादमधिश्रयति । तप्ते प्रातर्दोहे सायन्दोहमानयतः । सद्यस्कालश्चेत् लौकिकं दध्यानयतः । पूर्वं प्रतिप्रस्थाता ततोऽध्वर्युः । अध्वर्युः – एककपालमधिश्रयति । मेषीमेषयोर्न प्रथनम् । आप्यलेपं निनीय ।
ब्रह्मन्नुत्तरं इत्यादि । ब्रह्मा - बृहस्पते परिगृहाण वेदी स्वगा वो देवास्सदनानि सन्तु । तयोर्बर्हिः 1 प्रथताꣳ साध्वन्तर हिꣳस्राणः पृथिव्यौ देव्यौ स्तां देवता वर्धयतं युवां नाकस्य पृष्ठे यजमानो अस्तु --- यजमानं च धत्तम् । ओं परिगृह्णीतम् । वसवस्त्वा परिगृह्णन्तु इत्यादि । प्रोक्षणीरासादयेति वैश्वदेववत् प्रैषः । अपि वा न प्रैषः । प्रैषार्थमुभौ कुरुतः 1 ।
यजमानः - ईडेन्य क्रतूः, ऊर्णामृदु इति द्विः ।
ततः पत्नी सन्नहनं अध्वर्युरेव करोति । युक्ता मे इति सकृत् । पूषा वां च अध्वर्युरेव करोति । पत्नी - महीनां पयोऽसि इति आवृत्या उभयं क्रमेण अवेक्षते । स्वस्ववेद्यां प्रतिष्ठापयतः । आज्यं दधि स्थ इत्यादि।
यजमानः – आज्यं दधि स्थ इति उत्तरे विहारे कृत्वा दक्षिणे विहारे करोति । अद्भिराज्यम् इति द्विः ।
१. तयोर्बर्हिषी प्रथेतां इति पाठान्तरम् । २. यद्याग्नीध्रः करोति उभयोः कर्म तन्त्रेण मन्त्रावृत्या करोति ।
 
पृषदाज्यधान्यां सकृदाज्यं गृह्णीतः द्विर्दधि द्विराज्यम् । यद्यु वै श्रवणायां 1 संसृज्य गृह्णीयात् ।
यजमानः – शुक्रं त्वा शुक्रायां इत्यादि आज्यग्रहणानुमन्त्रणानि द्विरावर्तन्ते । अशिश्रेम इति द्विः बर्हिरासाद्यमानम् । चतुश्शिखण्डा इति बर्हिरास्तीर्यमाणायाः वेदेः अनुमन्त्रणप्रभृति आज्यस्थाल्यासादनपर्यन्तं सर्वे याजमानमन्त्राः द्विः ।
वैश्वदेववत् पौष्णाभिघारणान्तं कृत्वा । तूष्णीमैन्द्राग्नस्य । पूर्ववदामिक्षाभिघारणम् । प्रतिप्रस्थाता तूष्णीं मेषीम् । अध्वर्युः – वरुणाय जुष्टमभिघारयामि इति मेषस्य । काय जुष्टमभिघारयामि इत्येककपालस्य । आग्नेयादि ऐन्द्राग्नपर्यन्तमुद्वास्य पात्र्यां तूष्णीं प्रतिष्ठापयति । दृꣳह इत्यादि आमिक्षामुद्वास्य वाजिनैकदेशेनोपसिञ्चतीत्यन्तमुभौ कुरुतः । आर्द्रो भुवनस्य गोपाश्शृतोत्स्नाति जनित्री मतीनाम् 2 मेषीमुद्वासयति । आर्द्रो भुवनस्य इति मेषम् । तूष्णीमुभयोरुद्वासनमिति केचित् । पात्र्यां तूष्णीं प्रतिष्ठापयतः । अनैडकीभिरूर्णाभिर्मेषप्रतिकृती लोमशौ कुरुतः । तदभावे कुशोर्णा निश्लेषणम् । मारुत्यां मेषमवदधाति । वारुण्यां मेषीम् । एककपालमुद्वास्य इरा भूतिः इत्यादि एककपालमभिपूरणान्तं कृत्वा । ततोऽध्वर्युरेव मेषी मेषाभ्यां शमीपर्णकरीराण्युपवपति परश्शतानि परस्सहस्राणि वा । करम्भपात्रेषु चान्वोप्य । अभावे बदरीफलानि । अध्वर्युः - अष्टौ हवींष्युत्तरस्यां वेद्यां प्रियेण नाम्ना प्रियꣳ सद आ सीद इत्यासादयति । एकां मारुतीं प्रतिप्रस्थाता प्रियेण इति दक्षिणस्यामासादयति । ऐषीके शूर्पे करम्भपात्राण्योप्य तूष्णीं सादयति । उत्करे वाजिनद्वयं सादयतः । अत्र मेषप्रतिकृती व्यतिहरतः शमीपर्णकरीराणि 3 च । अध्वर्युः - मारुत्यां मेषीमवदधाति । प्रतिप्रस्थाता - वारुण्यां मेषम् ।
ततो यजमानः आसन्नान्यभिमृशति यज्ञोऽसि इति आग्नेयसावित्रसारस्वतपौष्णकानाम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इत्यैन्द्राग्नस्य । इदमिन्द्रियममृतं --- शृतं मयि श्रयताम् इत्यामिक्षां यदि सद्यस्कालपक्षः । द्व्यहकालत्वे इदमिन्द्रियं --- श्रयताम् । यत्पृथिवीमचरत् - -- दधिनोन्महेन्द्रं पयस्या मां धिनोतु इति द्वाभ्याम् । ममाग्ने पञ्चहोता । अथ प्रतिप्रस्थातुः वेद्यामासन्नं हविरभिमृशति । अयं यज्ञः । इदमिन्द्रियममृतं --- शृतं मयि श्रयताम् इत्यामिक्षां यदि सद्यस्कालपक्षः । द्व्यहकालत्वे इदमिन्द्रियं --- श्रयताम् । यत्पृथिवीमचरत् --- दधिनोन्महेन्द्रं पयस्या मां धिनोतु इति द्वाभ्याम् । ममाग्ने पञ्चहोता । मेषी मेषयोर्नासन्नाभिमर्शनम् । न करम्भपात्राणाम् । वैश्वदेववन्निर्मन्थ्यौ । लौकिकारणी दक्षिणे विहारे । उभयत्र जाते अध्वर्युरेव सम्प्रेष्यति । वेदनिधानादि । अवभृथार्थं तृणमवशेषयित्वा होतृषदनकल्पनम् ।
१. यदि श्रावण्यां पौर्णमास्यां वरुणप्रघासाः अनुष्ठीयेरन् ।
२. आर्द्रा प्रथस्नुर्भुवनस्य गोप्त्री शृतोत्स्नाति जनित्री मतीनाम् इति अ. ह पाठः ।
३. सोमाकृतेर्वृक्षस्य फलानि करीराणि ।
 
यजमानः- दशहोतृप्रभृति होतृप्रवरानुमन्त्रणपर्यन्तं सकृत् । उच्छुष्मो अग्ने इत्यस्य तु आवृत्तिः । मनोऽसि इति द्विः ।
आग्नीध्रः पर्यायेण परिधीन् संमार्ष्टि तेन तेन स्फ्येन । संमृष्ट उत्तरोऽग्निरसंमृष्टो दक्षिणः । अथ प्रतिप्रस्थाता प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः उत्तरेण गार्हपत्यं पत्नीमुदानयति । प्रतिपत्नि मन्त्रावृत्तिः । पुनरिमं मन्त्रं वाचयति । तां पृच्छति पत्नि कति ते जारा इति । तानाचष्टे पाप्मानो मे जारा इति निर्दिशेत् । तान् वरुणो गृह्णातु इत्यध्वर्युः।
अथ अन्तरा वेदी गत्वा यजमानः पत्नी च उत्तरेण वा उत्तरां वेदिं ऐषीके शूर्पे करम्भपात्राण्योप्य शीर्षन्नधिनिधाय पुरस्ताद्दक्षिणाहवनीयस्य प्रत्यङ्मुखौ तिष्ठन्तौ दक्षिणो यजमानः उत्तरतः पत्नी ऐषीकेण शूर्पेण करम्भपात्राणि जुहुतः । मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्नवया । मही ह्यस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः इति यजमानो पुरोनुवाक्यामन्वाह । यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्य एनश्चकृमा वयम् । यदेकस्याधि धर्मणि तस्यावयजनमसि स्वाहा इत्युभौ याज्यां पठित्वा तिष्ठन्तौ शीर्णाभ्यामेव जुहुतः । वरुणायेदम् 1 । अक्रन् कर्म कर्मकृतस्सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वास्तं प्रेत सुदानवः स्वस्थानं गच्छन्तौ जपतः । अपि वा अध्वर्युः प्रतिप्रस्थाता वा जुहुयात् । अन्वारभेयातामितरौ ।
अत्र दक्षिणमग्निं संमार्ष्टि । भुवनमसि इत्यादि । समारभ्योर्ध्वो अध्वर इत्यादि क्रमेण स्रुच्यमाघारयतः । यजमानोऽपि क्रमेणान्वारभ्य वागस्यैन्द्री इति क्रमेण जपति । उत्तरवेद्यां अध्वर्युः द्वौ स्फ्यौ गृहीत्वा क इदमित्यादि ।
यजमानः - देवाः पितर इति अध्वर्युप्रवरानुमन्त्रणमपि सकृत् । पृथिवी होता प्रयाजादि वषट्कारप्रदानत्यागानुमन्त्रणानि सकृत् ।
जुहूपभृतावादायेत्युभयोः । प्रतिप्रस्थाता अपि वषट्कृते जुहुयात् । वैश्वदेववन्नवप्रयाजाः । आज्यभागान्तं कृत्वा । प्रतिप्रस्थाता हस्ते एव स्रुचौ धृत्वा विरमति । ऐन्द्राग्नपर्यन्तं प्रचर्य विरमत्यध्वर्युः । अथ प्रतिप्रस्थाता जुह्वामुपस्तीर्य ।
यजमानः – पुनः पञ्चहोता ।
मा भेर्मा इत्यनूहेन स्रुवेण आमिक्षया सह अवदानेन मारुत्यास्सर्वां मेषीमवद्यति । पूर्वार्धेन सह शमीपर्णकरीराणि च । पश्चार्धात् पञ्चावत्तिनाम् । एवं द्वितीयपात्रस्थामामिक्षामवदाय अभिघारणादि ।
१. इन्द्रायेदम् इति अ. ह. पाठः ।
 
.
उभयत्र मन्त्रेण हविः प्रत्यभिधारणम् । मरुद्भ्योऽनुब्रू३हि । मरुतो यज वषट्कृते जुहोति । मरुद्भ्य इदम् ।
यजमानः – मरुतामहं देवयज्ययेन्द्रियावीन्द्रियाव्यन्नादो भूयासम् । जेमानं महिमानमिन्द्रिया व्यन्नादो भूयासम् इति महेन्द्रयाजिनः ।
प्रत्याक्रम्य विरमति । अथाध्वर्युः मा भेर्मा इत्यनूहेन स्रुवेण आमिक्षया सहावदानेन वारुण्याः मेषमवद्यति पूर्वार्धेन सह शमीपर्णकरीराणि च । अथ द्वितीयपात्रस्थामामिक्षामवद्यति वरुणायानुब्रू३हि । वरुणं यज । वरुणायेदम् ।
यजमानः – वरुणस्याहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । जेमानं महिमानमन्नाद इति महेन्द्रयाजिनः । पूर्ववदेककपालस्य प्रचारः काय (उपांशु)अनुब्रूहि (उच्चैः) । कं (उपांशु) यज (उच्चैः) । कायेदम् ।
यजमानः- कस्याहं देवयज्ययान्नादो भूयासम् ।
प्रत्याक्रम्य चतुर्भिर्मासनामभिरेककपालमभिजुहोति । नभश्च स्वाहा । नभायेदम् । नभस्यश्च स्वाहा । नभस्यायेदम् । इषश्च स्वाहा । इषायेदम् । ऊर्जश्च स्वाहा । ऊर्जायेदम् । नारिष्ठादि ।
प्रतिप्रस्थातुर्न प्राशित्रम् । अग्निर्मा दुरिष्टात्पातु इति सकृत् । इडोपस्तरणादि, सप्तानां हविषां समवदाय अध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति । तस्मिन् प्रतिप्रस्थाता मारुत्याः अन्ववदधाति । सुरूपवर्षवर्ण इति द्विः । भूयस्येहि इत्यादि इडानुमन्त्रणं सकृत् । उपहूतां प्राश्नन्ति । उपहूतः पशुमानसानि इत्युभयोः । प्रतिप्रस्थाता – स्वामिडां प्राश्य आचम्य । अध्वर्युव्यतिरिक्तानां सर्वेषां प्रतिप्रस्थातुरिडाभक्षणम् । स्वस्यां स्वस्यां वेद्यां मार्जनम् । ब्रध्न पिन्वस्व इत्यादि चतुर्धाकरणासन्नाभिमर्शनं दक्षिणाभिमर्शनं च सकृत् । यः प्रवया इव ऋषभः तमुत्तरवेद्यां स्थापयित्वा । रुद्राय गां इति प्रतिग्रहः । धेनुर्दक्षिणेत्येके । कामं तु ततो भूयो दद्यात् । अध्वर्युः - ब्रह्मन् प्रस्थास्यामः इत्यादि । ब्रह्मा – देव सवितः इत्यादि
ओं प्रतिष्ठतम् । आग्नीध्रः समिदाधानादि क्रमेण ।
यजमानः – यं ते अग्ने, वेदिर्बर्हिः इति द्विः । महाहविर्होता, अनूयाजानुमन्त्रणं सकृत् । वाजस्य मा इत्यादि वाजवतीजपः वसून्देवान् इत्यादि अज्यमानानुमन्त्रणानि समङ्क्तां इति प्रस्तरस्य अज्यमानानुमन्त्रणं च द्विः । सूक्तवाकदेवतानुमन्त्रणं एमा अग्मन्, सा मे सत्याशीः इत्येतानि सकृत् । इन्द्राग्नियोरहमुज्जितिम् । मरुतामहमुज्जितिम् । वरुणस्याहमुज्जितिम् । कस्याहमुज्जितिम् । यज्ञो म आगच्छतु इत्युक्त्वा परिवत्सरीणाᳪ、 स्वस्तिमाशासे । रोहितेन त्वाग्निः इत्यावर्तते याजमानमपि । दिवः खीलोवतत इति प्रस्तरतृणे प्रह्रियमाणे द्विः ।
 
आग्नीध्रः अनुप्रहरतम् । संवदेथाम् । अगानग्नीत् इत्युभयोः । अगतम् । श्रावय इत्यादि स्वगा दैव्या इत्यध्वर्युः ।
यजमानः - वि ते मुञ्चामि इति द्विः । विष्णोः शंयोः, यज्ञ नमस्ते यज्ञ इति सकृत् । इष्टो यज्ञ इति संस्रावे हुते द्विः ।
वाजिनयागमुभौ कुरुतः । शेषौ समवनीयोत्तरे विहारे सर्वे समुपहूय भक्षयन्ति । असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । उपहूतः इति प्रतिवचनम् । होताध्वर्युर्ब्रह्मा प्रतिप्रस्थाताग्नीद्यजमानश्च । उपाह्वाने प्रतिप्रस्थाता तृतीयः । भक्षणे चतुर्थः पूर्ववद्भक्षयन्ति । आ मा विशत्विन्दव आगल्गा धवनीनाꣳ रसेन मे रसं पृण । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामि हविश्शेषभक्षणकाले वारुणहविश्शेषं निधाय इतरान् हविश्शेषान् भक्षयन्ति । अध्वर्युः - वेदद्वयं होत्रे प्रयच्छति एकं वा । स्फ्यद्वयं स्थालीद्वयं चाग्नीध्रः । पत्नीसंयाजानां हुतानुमन्त्रणं आज्येडानुमन्त्रणं च सकृत् । आज्येडायां पर्वाञ्जनादि उभयोरन्वारम्भः । वेदिद्वयेऽपि यजमानस्य वेदाभिमर्शनम् । उभयोस्संपत्नीयहोमः । पत्नी क्रमेणान्वारभते । इदमादि पिष्टलेपफलीकरणहोमान्तमुभौ कुरुतः । या सरस्वती इति सकृत् । योक्त्रविमोकसमायुषा च न स्तः । पुष्टिमती पशुमती इत्युपतिष्ठते । यथेतमित्यादि । उभौ वैश्वदेववत् समिष्टयजूंषि जुहुतः । वसुर्यज्ञ इति समिष्टयजुषः हुतानुमन्त्रणं द्विः । उभयोरामिक्षां यजमानः तन्त्रेण प्राश्नाति । अन्तर्वेदि प्रणीतासादनान्तमुभौ कुरुतः । न धारास्रावणं अवभृथस्थानत्वात् । केचित् दक्षिणस्यां वेद्यां धारास्रावणं कृत्वा मुखसंमार्गान्तं कुर्वन्ति ॥
अवभृथेष्टिः
ततो अवभृथस्य कर्म अध्वर्युरेव प्रक्रमयति । निष्कासपक्षमाश्रित्य प्रयोगः । अवेदिपक्षं च । वेदं कृत्वा पूर्वास्तृतेष्वेव दर्भेषु वेदं प्रयुज्य । पवित्रे कृत्वा । सं विशन्ताम् । वेदमभिमृश्य पूर्ववत् प्रोक्षणीस्संस्कृत्य ब्रह्माणमामन्त्र्य । शुन्धध्वम् सर्वाभिरद्भिस्त्रिः प्रोक्षति । स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहि इति संप्रैषः 1 । पूषा ते बिलं इत्यादि आज्यस्योत्पवनान्तं कृत्वा । चतुर्गृहीतान्याज्यानि गृह्णाति पञ्चावत्तिनामपि । अननूयाजपक्षे आद्यैश्चतुर्भिरुपभृति । यदनूयाजौ पञ्चानां त्वा दिशां, पञ्चानां त्वा पञ्चजनानां, चरोस्त्वा पञ्चबिलस्य, ब्रह्मणस्त्वा तेजसे इत्येतैश्चतुर्भिर्गृह्णाति । सुप्रजास्त्वाय इति चतुर्ध्रुवायाम् । अयं प्राणश्च इति वेद्यां पवित्रे अपिसृज्य । वारुण्यामिक्षामाज्यानि
१. आज्येनोदेहि इत्येव प्रैषः इति पाठान्तरम् ।
 
तुषान् दधि चोदुम्बरशाखां वेदस्फ्यसमिद्दर्भान् एतान्नवसम्भारानादायावभृथार्थं गच्छति । नायुर्दा नाभिप्रव्रजनमन्त्रम् । न साम गायति । सर्वा दिशोऽवभृथगमनमाम्नातम् । नोदीचीरभ्यवेत्या इत्येके । यां दिशं गच्छेयुस्तथामुखाः प्रचरेयुरित्येके । वहन्तीनां स्थावरा अभ्यवेत्याः । तदभावे याथाकामी ।
शतं ते राजन् भिषजस्सहस्रमुर्वी गम्भीरा सुमतिष्टे अस्तु । बाधस्व द्वेषो निर्ऋतिं पराचैः कृतं चिदेनः प्रमुमुग्ध्यस्मत् अपो दृष्ट्वा जपति । अध्वर्युः – सूर्यो वः पुरस्तात्पातु कस्याश्चिदभिशस्त्याः अपोऽभिमन्त्रयते ।
यजमानः - युनज्मि वो ब्रह्मणा दैव्येन हव्यायास्मै वोढव आपः । इन्धाना वस्सुप्रजसस्सुवीरा ज्योग्जीवेम बलिहृतो वयं वः ॥ यन्म आपो अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णवः ॥ तेन हन्मि सपत्नं दुर्मरायुर्मैनं दधामि निर्ऋत्या उपस्थे । तेजिष्ठा वस्तपना या च रोचना प्रत्योषन्तीस्तनुवो या व आपः । ताभिर्वर्माण्यभितो व्ययध्वं मा वो दभन्, यज्ञहनः पिशाचाः अभिमन्त्रयते 1। अभिष्ठितो वरुणस्य पाशः उदकान्तमभितिष्ठन्ते । सर्व ऋत्विजो यजमानः पत्नी च अपः प्रविश्य तिष्ठन्तोऽवभृथेन चरन्ति । तृणं प्रहृत्य स्रौवमाघारयति । यदि वा पुरा तृणं स्यात्तस्मिन् जुहुयात् । तस्मिन्नेव सर्वे होमाः । आ प्यायताम् । अग्नीदपस्त्रिस्संमृड्ढि इति सम्प्रेष्यति । आग्नीध्रः - आपो वाजजितो वाजं वस्सरिष्यन्तीर्वाजं जेष्यन्तीर्वाजिनीर्वाजजितो वाजजित्यायै संमार्ज्म्यपो अन्नादा अन्नाद्याय स्फ्येनैव अपः प्राञ्चं निस्संमार्ष्टि ।
भुवनमसि विप्रथस्वापो यष्ट्र्य इदं नमः । जुह्वेहि इत्यादि । नाग्नाविष्णू, न विष्णोस्स्थानमसि । अग्नेरनीकमप आ विवेश । अपान्नपात् प्रतिरक्षन्नसुर्यं दमेदमे समिधं यक्ष्यग्ने । प्रति ते जिह्वामुच्चरण्येत् स्वाहा स्रुच्यमाघारयति । वागस्याग्नेयी सपत्नक्षयणी इत्यनुमन्त्रयते । अग्नय इदम् । नात्राभिप्राणनं हुत्वा बृहद्भाः । न च पाहि माग्ने । मखस्य शिरोऽसि इत्यादि । आयतने स्रुचौ सादयति । क इदमित्यादि लोपः । घृतवतिशब्दे जुहूपभृतावादाय । चतुर्होता यजमानः । बहिर्वर्जं त्रीन् प्रयाजानिष्ट्वा औपभृतं सर्वमानयति । अनूयाजपक्षे अर्धमानयति । उत्तमामिष्ट्वा शेषेण ध्रुवामभिघार्य वारुणनिष्कासमभिघारयति । नोपभृतं अननूयाजपक्षे । अनूयाजपक्षे उपभृतमन्ततः । आयतने स्रुचौ सादयित्वा । आज्यभागाविष्ट्वा जुह्वामुपस्तीर्य ।
१. याज्ञिकैः एवमपामभिमन्त्रणं यजमानस्य अभिमन्त्रणं च एतद्द्वयमप्यनुष्ठीयमानमस्ति । परं तु एतद्द्वयमपि न युक्तिसहम् । सूर्यो व इति मंत्रस्य परिध्यंगत्वात् युनज्मि त्वा मंत्रस्य अग्नींधने विनियुक्तत्वात् अपां च इन्धनाभावात् एतद्द्वयस्य निवृत्तिरेव समीचीनं इति भाति ।
 
यजमानः – पञ्चहोता । स्रुवेण पूर्ववदवदायाभिघार्य । न ध्रुवाप्यायनम् । वरुणायानुब्रू३हि । वरुणं यज । वरुणायेदम् । वरुणस्याहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति महेन्द्रयाजिनः । नारिष्ठान् हुत्वा पुनरुपस्तीर्य । कृत्स्नमवदाय द्विरभिघारणे ध्रौवसमाप्तिः । अग्नीवरुणाभ्यामनुब्रू३हि । अग्नीवरुणौ यज । अग्नीवरुणाभ्यामिदम् । अग्नीवरुणयोरहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । अननूयाजपक्षे नोत्तरं क्रियते ।
अनूयाजपक्षे अग्नीदपस्सकृत् संमृड्ढि इति सम्प्रेष्यति । आग्नीध्रः आपो वाजजितो वाजं वस्सस्रुषीर्वाजं जिग्युषीर्वाजिनीर्वाजजितो वाजजित्यायै सं मार्ज्म्यपो अन्नादा अन्नाद्याय सकृदपस्स्फ्येनैव संमार्ष्टि । औपभृतं जुह्वामानीय । अपबर्हिषावनूयाजौ यजति । देवौ यज इति प्रथमं सम्प्रेष्यति । यज इत्युत्तरम् ।
दध्ना औदुम्बरशाखया तूष्णीं तुषान् प्रोक्ष्य तुषैस्स्थालीं पूरयित्वा । समुद्रे ते हृदयमप्स्वन्तस्सं त्वा विशन्त्वोषधीरुतापो यज्ञस्य त्वा यज्ञपते हविर्भिः। सूक्तवाके नमोवाके विधेम अप्सूपमारयति । इमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोमि पत्नी योक्त्रं विमुञ्चति । देवीराप एष वो गर्भस्तं वस्सुप्रीतꣳ सुभृतमकर्म देवेषु नस्सुकृतो ब्रूतात् अवभृथं यजमानोऽनुमन्त्र्य । सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः होमदेशे उभौ अपः प्रगाह्य सशिरस्कौ अनुपमक्षन्तौ 1 स्नातः पत्नी यजमानश्च । अन्योन्यस्य पृष्ठे प्रधावतः । काममेते वाससी यस्मै कामयेयातां तस्मै दद्याताम् 2 । न हि दीक्षितवसने भवत इति वाजसनेयकम् । अपि वा न दानम् । जलमध्ये शुक्लवस्त्रपरिधानं कृत्वा । उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् उभयोरादित्योपस्थानम् । प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः उदकान्तं प्रत्यसित्वा । सर्वेऽपि तिस्रस्तिस्रस्समिधः कृत्वा अप्रतीक्षमाणाः तूष्णीं एत्य आहवनीयदेशं गत्वा एधोऽस्येधिषीमहि । समिदसि । तेजोऽसि तेजो मयि धेहि आहवनीये तिस्रस्समिध आधाय । अपो अन्वचारिषꣳ रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमं तं मा सꣳ सृज वर्चसा इत्युपतिष्ठन्ते । प्रतिप्रस्थाता स्वाग्नावेव करोति । यं देवा मनुष्येषु इत्यादि । उत्तरे विहारे, विष्णुक्रमादि । समिद्धो अग्ने मे दीदिहि इति उभयत्र आहवनीयोपसमिन्धनम् । वसुमान् यज्ञः, यो नस्सपत्न इति सहोपस्थानमुभयोराहवनीययोः । शेषमुत्तरे विहारे । एकस्य वेदस्य द्वयोर्वा उपस्थे आधायातिमोक्षान् जपति । वृष्टिरसि। ब्राह्मणभोजनान्तम् । इष्टिस्सन्तिष्ठते । इति सावभृथपक्षे प्रयोगः ।
१. अशोधयन्तौ मलं इत्यर्थः । २. ऋत्विजां मध्ये इत्यर्थः ।
 
अनवभृथपक्षः :-
अथ अनवभृथपक्षे प्रणीताविमोकान्तं कृत्वा । जलाशयं गत्वा । अध्वर्युः तुषनिष्कासौ तूष्णीं अप्सूपवपति । योक्त्रविमोकादि आहवनीयोपस्थानान्तं कर्म पूर्वेण समानम् । वपनम् :-
अत्र पौर्णमास्येष्ट्वा उन्दनादि, पूर्ववन्निवर्तनम् । सर्वं वा वापयेत् । मन्त्रादिर्विक्रियते यद्घर्मः पर्यवर्तयदन्तान्पृथिव्या दिवः । अग्निरीशान ओजसा वरुणो धीतिभिस्सह । इन्द्रो मरुद्भिस्सखिभिस्सह । अग्निस्तिग्मेनेति समानम् । अपि वा स्नात्वा उप्त्वा केशश्मश्रूणि अरण्योरग्नीन् समारोप्योदवसाय निर्मथ्य पौर्णमासेन यजते ।
॥ इति वरुणप्रघासाः ॥