आपस्तम्बीय श्रौतप्रयोगः/पुनराधेयः

विकिस्रोतः तः

॥ पुनराधेयप्रयोगः ॥
आधानस्य सङ्कल्पः :-
पुनराधेयं व्याख्यास्यामः । तस्य अग्न्याधेयवत्कल्पः । अग्नीनाधाय एतस्मिन् संवत्सरे यो नर्ध्नुयात् स पुनरादधीत, प्रजाकामः पशुकामः पुष्टिकामो ज्यान्यां पुत्रमर्त्यायां स्वेष्वारुध्यमानेषु यदा वा अङ्गेन विधुरतां नीयात् । पौर्णमासीमिष्ट्वा आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालं वारुणं दशकपालमग्नयेऽप्सुमतेऽष्टाकपालं मैत्रं चरुमग्निमुद्वासयिष्यन् ।
श्री परमेश्वरप्रीत्यर्थं ऋद्धिकामः अग्नीन् पुनराधास्यमानः उत्सर्गेष्ट्या यक्ष्ये । विद्युदसीत्यादि । अस्यां उत्सर्गेष्ट्यामध्वर्युं त्वां वृणीमहे इत्यादि । पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । पञ्चदश सामिधेन्यः । पात्रप्रयोगकाले अष्टात्रिंशत्कपालानि स्थाली स्फ्यश्च द्वंद्वम् । शेषं प्रकृतिवत् । निर्वपणकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामग्नये वैश्वानराय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां वरुणाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामग्नयेऽप्सुमते जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां मित्राय जुष्टं निर्वपामि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वाग्ने वैश्वानर हव्यꣳ रक्षस्व वरुण हव्यꣳ रक्षस्वाग्नेऽप्सुमन् हव्यꣳ रक्षस्व मित्र हव्यꣳ रक्षस्व । सशूकयामित्यादि । देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नये वैश्वानराय वो जुष्टं प्रोक्षामि वरुणाय वो जुष्टं प्रोक्षाम्यग्नयेऽप्सुमते वो जुष्टं प्रोक्षामि मित्राय वो जुष्टं प्रोक्षामि । कृष्णाजिनादानादि उत्करे त्रिर्निनीय । प्रागधिवपनाद्विभजति यथाभागं व्यावर्तध्वं इदमग्नेरग्नेर्वैश्वानरस्य वरुणस्याग्नेरप्सुमतः पुरोडाशार्थान् । इदं मित्रस्य चर्वर्थान् । देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नये वैश्वानराय जुष्टमधिवपामि वरुणाय जुष्टमधिवपाम्यग्नयेऽप्सुमते जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । कपालानामुपधानकाले आग्नेयस्य अष्टावुपधाय । द्वितीय चतुर्थ षष्ठाष्टमानामावृत्या द्वादशकपालानि वैश्वानरस्योपधाय । वरुणस्य प्रकृतिवदष्टावुपध्याय तूष्णीं द्वे । अग्नयेऽप्सुमतेऽष्टाकपालान्युपधाय । मित्राय ध्रुवोऽसि इति चरुस्थालीमुपदधाति । अधिवापवत्संवापः । सं वपामीति मन्त्रं सन्नमति । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति अपश्चोत्पूय स्थाल्यामासिञ्चति । अधिश्रयणकाले घर्मोऽसि विश्वायुः स्थाल्यां तण्डुलानावपति । आज्यग्रहणकाले प्रकृतिवदाज्यानि गृह्णाति । सर्वेषां मन्त्रेणाभिघारणम् । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । प्रियेणेत्यासादनम् । यजमानः – यज्ञोऽसि इति पञ्चकृत्वः । अयं यज्ञो, ममाग्ने चतुर्होत्राभिमर्शनम् । अयं वेद इत्यादि प्रकृतिवदाज्यभागाभ्यां प्रचर्य । उपांशु हविषा प्रचरति । आग्नेयेन प्रचर्य, अग्नये वैश्वानराय, अनुब्रूहि अग्निं वैश्वानरं, यज
 
। अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानस्याहं देवयज्ययान्नादो भूयासम् । वरुणाय, अनुब्रूहि । वरुणं, यज । वरुणायेदम् । वरुणस्याहं --- अन्नादो भूयासम् । अग्नयेऽप्सुमते, अनुब्रूहि अग्निं अप्सुमन्तं, यज । अग्नये अप्सुमत इदम् । अग्नेरप्सुमतो --- अन्नादो भूयासम् । मित्राय, अनुब्रूहि । मित्रं, यज । मित्रायेदम् । मित्रस्याहं --- अन्नादो भूयासम् । न पार्वणहोमः । नारिष्ठान् हुत्वा । या ते अग्ने उत्सीदतः पवमाना प्रिया तनूः । तया सह पृथिवीमाविश रथन्तरेण साम्ना गायत्रेण च छन्दसा स्वाहा । अग्नये पवमानायेदम् । या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूः । तया सहान्तरिक्षमाविश वामदेव्येन साम्ना त्रैष्टुभेन च छन्दसा । ततो न ऊर्जमाकृधि गृहमेधं च वर्धय स्वाहा। अग्नये पावकायेदम् । या ते अग्ने सूर्ये शुचिः प्रिया तनूश्शुक्रेध्यधि सम्भृता । तया सह दिवमाविश बृहता साम्ना जागतेन च छन्दसा ततो नो वृष्ट्यावत स्वाहा । अग्नये शुचय इदम् । यास्ते अग्ने कामदुघा विभक्तीरनुसम्भृताः । ताभिर्नः कामान् धुक्ष्वेह पुष्टिमथो धनᳪँ、 स्वाहा ॥ अग्नय इदम् । यास्ते अग्ने सम्भृतीरिन्द्रः सूकर आभरत् । तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत्स्वाहा। अग्नये वैश्वानरायेदम् । ये ते अग्ने वानस्पत्याः सम्भारास्सम्भृतास्सह । तेभिर्गच्छ वनस्पतीन्स्वां योनिं यथायथᳪँ、 स्वाहा । अग्नय इदम् । अगन्नग्निर्यथालोकमसदत्सदने स्वे । अवीरहत्यं देवेषूपागां मनसा सह स्वाहा । अग्नय इदम् । इति पुरस्तात्स्विष्टकृतः सप्ताहुतीरुपजुहोति । स्विष्टकृदादि । सर्वेषां विरुज्यप्राशित्रम् । सर्वेषां चतुर्धाकरणम् । अन्वाहार्यो दक्षिणा । सूक्तवाके । अग्नेरहम् । सोमस्याहम् । अग्नेरहम् । अग्नेर्वैश्वानरस्याहम् । वरुणस्याहम् । अग्नेरप्सुमतोऽहम् । मित्रस्याहम् । देवेभ्य आज्यपेभ्य इत्यादि । यज्ञो बभूव, यज्ञ शं च म वर्जम् । ब्राह्मणतर्पणान्तमिष्टिस्सन्तिष्ठते । ब्राह्मणभोजनान्ते आयतनस्थान् ज्वलतोऽग्नीनुत्सृजति । संवत्सरपरार्ध्यमुत्सृष्टाग्निर्भवति ।
वर्षासु शरदि वा आदधीत । रोहिणी पुनर्वसू अनूराधाः इति नक्षत्राणि । पूर्वेद्युः प्रातरौपासनं कृत्वा । दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य देशकालौ सङ्कीर्त्य । उपात्तसकलदुरितक्षयद्वारा श्री परमेश्वरप्रीत्यर्थं ऋद्धिकामः अग्नीन्पुनराधास्ये । अयज्ञत्वान्न विद्युत् । कृताकृताः संभारा यजूंषि च भवन्ति । अपि वा पञ्च पार्थिवान् सम्भारानाहरत्येवं वानस्पत्यान् । अस्मिन्पुनराधेये अध्वर्युं त्वां वृणीमहे । वृतोऽस्मि करिष्यामीत्यध्वर्युः । एवं ब्रह्मादीन्वृणीते ।
यो अश्वत्थश्शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिस्सह पूर्वकृतावेव अरणी आहरति । अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियाꣳ संभरामि । शान्तयोनिꣳ शमीगर्भमग्नये प्रजनयितवे । आयुर्मयि धेह्यायुर्यजमाने युगपदरणी अभिमन्त्र्य ।
 
पार्थिवसम्भाराणामाहरणम् :-
सम्भारानाहरति । वैश्वानरस्य रूपं पृथिव्यां परिस्रसा । स्योनमा विशन्तु नः सिकताः । यदिदं दिवो यददः पृथिव्यास्सञ्जज्ञाने रोदसी सं बभूवतुः । ऊषान् कृष्णमवतु कृष्णमूषा इहोभयोर्यज्ञियमागमिष्ठाः ऊषान् । ऊतीः कुर्वाणो यत्पृथिवीमचरो गुहाकारमाखुरूपं प्रतीत्य । तत्ते न्यक्तमिह सं भरन्तश्शतं जीवेम शरदस्सवीराः आखुकरीषम् । ऊर्जं पृथिव्या रसमाभरन्तश्शतं जीवेम शरदः पुरूचीः । वम्रीभिरनुवित्तं गुहासु श्रोत्रं त उर्व्यबधिरा भवामः वल्मीकवपाम् । प्रजापतिसृष्टानां प्रजानां क्षुधोपहत्यै सुवितन्नो अस्तु । उप प्रभिन्नमिषमूर्जं प्रजाभ्यस्सूदं गृहेभ्यो रसमाभरामि सूदम् । यस्य रूपं बिभ्रदिमामविन्दद्गुहा प्रविष्टाꣳ सरिरस्य मध्ये । तस्येदं विहतमाभरन्तोऽछम्बट्कारमस्यां विधेम वराहविहतम् । याभिरदृꣳहज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भर्त्रीम् । तानश्शिवाश्शर्करास्सन्तु सर्वाः शर्कराः । अग्ने रेतश्चन्द्रꣳ हिरण्यमद्भ्यस्सम्भूतममृतं प्रजासु । तत्सम्भरन्नुत्तरतो निधायाति प्रयच्छन्दुरितिं तरेयम् त्रीणि हिरण्यशकलानि । इत्यष्टौ पार्थिवान् । तूष्णीं त्रीणि रजतशकलानि निधाय । यदि पञ्च, औदुम्बराणि लोहशकलानि पञ्चमो भवति ।
वानस्पत्यसम्भाराहरणम् :-
अश्वो रूपं कृत्वा यदश्वत्थे तिष्ठस्संवत्सरं देवेभ्यो निलाय । तत्ते न्यक्तमिह सम्भरन्तश्शतं जीवेम शरदस्सवीराः अश्वत्थम् । ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो वि रोह । त्वया वयमिषमूर्जं मदन्तो रायस्पोषेण समिषा मदेम उदुम्बरम् । गायत्र्या ह्रियमाणस्य यत्ते पर्णमपतत्तृतीयस्यै दिवोऽधि । सोऽयं पर्णस्सोमपर्णाद्धि जातस्ततो हरामि सोमपीथस्यावरुध्यै ॥ देवानां ब्रह्मवादं वदतां यदुपाशृणोस्सुश्रवा वै श्रुतोऽसि । ततो मामाविशतु ब्रह्मवर्चसं तत्संभरᳪँ、स्तदवरुन्धीय साक्षात् एताभ्यां पर्णम् । यया ते सृष्टस्याग्नेर्हेतिमशमयत्प्रजापतिः । तामिमामप्रदाहाय शमीꣳ शान्त्यै हराम्यहम् शमीमयीम् । यत्ते सृष्टस्य यतो विकङ्कतं भा आर्च्छज्जातवेदः । तया भासा सम्मित उरुन्नो लोकमनु प्रभाहि विकङ्कतम् । यत्ते तान्तस्य हृदयमाच्छिन्दन् जातवेदो मरुतोऽद्भिस्तमयित्वा । एतत्ते तदशनेस्सम्भरामि सात्मा अग्ने सहृदयो भवेह अशनिहतस्य वृक्षस्य शकलम् । यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम् । तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथनꣳ हरामि पुष्करपर्णमेकम् । तूष्णीं पुराणान् दर्भान् सम्भृत्य ।
आहृतसम्भाराणां एकत्र सम्भरणम् :-
 
तूष्णीमेकस्मिन् वेणुपात्रे संभृत्य । यं त्वा समभरन् जातवेदो यथा शरीरं भूतेषु न्यक्तम् । स सम्भृतस्सीद शिवः प्रजाभ्य उरुन्नो लोकमनु नेषि विद्वान् सम्भृत्य निदधाति ।
नांदीश्राद्धम् :-
ततो नान्दीश्राद्धं यजमानः करोति ।
मातुः श्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ।
ततो मातामहानां च नान्दी श्राद्धं प्रचक्षते ।।
आगूररण्याहरणादि यं त्वा श्राद्धं भवेन्नान्दिमुखाभिधानम् ।
उद्धन्यमानं वपनं निधानं ब्रह्मौदनाग्नेरशनं च पत्योः ।
वेदेः निर्माणम् :-
उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवानस्सन्तु प्रदिशश्चतस्रः शन्नो माता पृथिवी तोकसाता प्राचीनप्रवणं देवयजनमुद्धत्य । अप उपस्पृश्य । शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः अद्भिरवोक्ष्य । तस्मिन्नुदीचीनवंशं शरणं करोति । तस्याग्रेण मध्यमं वंशं गार्हपत्यायतनं भवति । तस्मात्प्राचीनमष्टसु प्रक्रमेषु ब्राह्मणस्याहवनीयायतनम् । एकादशसु राजन्यस्य । द्वादशसु वैश्यस्य । चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते । दक्षिणतः पुरस्तात् वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेरायतनम् । अन्यदाहवनीयागारमन्यद्गार्हपत्यस्य । अग्रेणाहवनीयं सभायां सभ्यः । तं पूर्वेणावसथ आवसथ्यः ।
प्राचीं निश्चित्य तत्पश्चान्मध्यान्मन्वङ्गुलेन तु ।
सूत्रेण भ्रमयेद्गार्हपत्यायतनमुच्यते ॥
तद्बहिः प्राक्पदान्यष्टौ गत्वा तु चतुरश्रकम् ।
द्विसूर्याङ्गुलिमानेन कुर्यादाहवनीयकम् ॥
प्रत्यग्नेः प्राक्पदं गत्वा दक्षिणेन पदद्वयम् ।
अङ्गुल्येकोनविंशत्या मण्डलार्धं तु दक्षिणा ।
चतुष्षष्ट्यङ्गुलं तिर्यक्प्रत्यग्नेः पुरतो भवेत् ।
पश्चादाहवनीयस्य चतुस्सूर्याङ्गुलं भवेत् ॥
पार्श्वे सन्नमयेद्रज्जुं द्व्यङ्गुलाधिकसूत्रतः ।
 

वेद्यायतननिर्माणं द्वित्रिर्मेखलकं क्रमात् ॥
यावत्प्रमाणा रज्जुः स्यात्तावानेवागमो भवेत् ।
आगमार्धे तु शङ्कुस्स्यादन्तरर्धे निरञ्छनम् ॥
वेद्यायामोष्टधा कार्यः पञ्चिका मध्यमेऽक्ष्णया ।
त्रिका तिर्यक्त्रिकार्धेंऽसौ श्रोणी अध्यर्धके परे ॥
आयामं पञ्चधा कृत्वा षोढा वाऽऽगन्तु षष्ठकम् ।
सप्तमं वा समं त्रेधा दक्षिणाग्न्यपरत्रिके ॥
जायापत्योर्वपनम् :-
ततो यजमानः केशश्श्मश्रु वपते नखानि निकृन्तते स्नाति । एवं पत्नी केशवर्जम् । क्षौमे वसानौ जायापती अग्निमादधीयाताम् । ते दक्षिणाकाले अध्वर्यवे दत्तः । ब्रह्मौदनाग्नेः आधानम् :-
अपराह्णे अधिवृक्षसूर्ये वा औपासनादग्निमाहृत्य अपरेण गार्हपत्यायतनं ब्राह्मौदनिकमादधाति । औपासनं वा सर्वं निर्मन्थ्यं वा । यत्रक्वचेति विधिना ।
प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् ।
अथोदीचीः पुरस्संस्थं पश्चिमारम्भमालिखेत् ॥
अवाक्करोभ्युक्ष्य निधाय वह्निम् उत्सिच्यतेऽवोक्षणतोयशेषम् । .
प्राक्तोयमन्यं निदधात्त्युदग्वा यथा बहिः स्याच्च परिस्तरणाम् ।।
जायापत्योर्भोजनं, ब्रह्मौदनं च :-
ततो जायापत्योर्भोजनम् । अपरेण ब्राह्मौदनिकं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि पाजके वा निशायां ब्रह्मौदनं चतुश्शरावं निर्वपति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां ब्रह्मणे प्राणाय जुष्टं निर्वपामि प्रथमम् । देवस्य त्वा --- हस्ताभ्यां ब्रह्मणेऽपानाय जुष्टं निर्वपामि द्वितीयम् । देवस्य त्वा --- हस्ताभ्यां ब्रह्मणे व्यानाय जुष्टं निर्वपामि तृतीयम् । देवस्य त्वा --- हस्ताभ्यां ब्रह्मणे जुष्टं निर्वपामि चतुर्थम् । तूष्णीं वा सर्वाणि । तूष्णीमवहत्य । चतुर्षूदपात्रेषु पचति । न प्रक्षालयति न प्रस्रावयति । क्षीरे भवतीत्येके । जीवतण्डुलमिव श्रपयतीति विज्ञायते । तमभिघार्य अनभिघार्य वोद्वास्य ।
ब्रह्मौदनस्य होमः :-
औपासनदर्व्या ब्रह्मौदनादुद्धृत्य । प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो
 

भयमभयं तन्नो अस्त्वव देवान् यजे हेड्यान्त्स्वाहा । प्रवेधसे ब्रह्मण इदम् । यजमानश्चतुर्धा ब्रह्मौदनं व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य । कर्षन्ननुच्छिन्दन् चतुर्थ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति । इदमध्वर्यवे । इदं ब्रह्मणे । इदꣳ होत्रे । इदमग्नीधे । अपात्ताः प्रथमे पिण्डाः भवन्त्यप्रतिहताः पाणयः । अध्वर्युः गृहीतपिण्ड एव । अथ ब्रह्मौदनशेषं सङ्कृष्य, तस्मिन् आज्यशेषमानीय, तस्मिन्श्चित्रियस्याश्वत्थस्य तिस्रस्समिध आर्द्रास्सपालाशाः प्रादेशमात्र्यः स्तिभिगवत्यो विवर्तयति । चित्रियादश्वत्थात्सम्भृता बृहत्यश्शरीरमभि सᳪँ、स्कृतास्स्थ । प्रजापतिना यज्ञमुखेन सम्मितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्यै चरुशेषे लोडयति । अथादधाति घृतवतीभिराग्नेयीभिर्गायत्रीभिर्ब्राह्मणस्य । त्रिष्टुग्भी राजन्यस्य । जगतीभिर्वैश्यस्य । समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन् हव्या जुहोतन । अग्नय इदम् । उप त्वाग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम । अग्नय इदम् । तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य । अग्नय इदम् । यजमानः समित्सु तिस्रो वत्सतरीर्ददाति । अध्वर्यो तिस्रो वत्सतरीस्ते ददामि । प्रतिगृह्णामि । प्राश्नन्ति ब्राह्मणा ओदनम् । प्राशितवद्भ्यः समानं वरं ददाति । प्राशितवन्तो ब्राह्मणाः समानं वरं वो ददामि । सर्वे प्रतिगृह्णामीति ब्रूयुः । प्रजा अग्ने संवासयाशाश्च पशुभिस्सह । राष्ट्राण्यस्मा आधेहि यान्यासन्त्सवितुस्सवे उत्तरेण गार्हपत्यायतनं कल्माषमजं बध्नाति । व्रतग्रहणं, अग्नेः समिन्धनम् :-
अथ यजमानो व्रतमुपैति वाचं च यच्छति । अनृतात्सत्यमुपैमि मानुषाद्देव्यमुपैमि । दैवीं वाचं यच्छामि वाचं यच्छति । वीणातूणवेन एनमेतां रात्रिं जागरयन्त्यपि वा न जागर्ति न वाचं यच्छति । शल्कैरेतां रात्रिमेतमग्निमिन्धान आस्ते शल्कैरग्निमिन्धान उभौ लोको सनेमहम् । उभयोर्लोकयोर् ऋध्वाऽति मृत्युं तराम्यहम् आ निष्टपनात् प्रतिशल्कं मन्त्रावृत्तिः । नोद्देशत्यागः ।
ब्रह्मौदनाग्नौ अरण्योः निष्टपनम् :-
तस्मिन्नुपव्युषमरणी निष्टपति । जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहꣳ शमीगर्भाज्जनयन्, यो मयोभूः ॥ अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जाननग्न आ रोहाथा नो वर्धया रयिम् एताभ्यामरणी निष्टप्य । निष्टपने कृते अग्निमनुगमयति । अग्नी रक्षाꣳसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्यः अरणी अभिमन्त्र्य । यजमानः – मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगाम् अरणी आह्रियमाणे प्रतीक्षते ।
 
यजमानेन अरण्योः ग्रहणम् :-
अध्वर्युः - दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामि यजमानाय प्रयच्छति । यजमानः - आ रोहतं दशतꣳ शक्वरीर्मम ऋतेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समां दर्शमहं पूर्णमासं यज्ञं यथा यजै हस्तद्वयेन प्रतिगह्य । ऋत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं दधे । तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्र जनिष्येथे ते मा प्रजाते प्र जनयिष्यथः । प्रजया पशुभिर्बह्मवर्चसेन सुवर्गे लोके प्रतिगृह्याभिमन्त्रयते । मयि गृह्णाम्यग्रे अग्निꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजां मयि वर्चो दधाम्यरिष्टास्स्याम तनुवा सुवीराः ॥ यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्याꣳ आविवेश । तमात्मन् परि गृह्णीमहे वयं मा सो अस्माꣳ अवहाय परागात् उभौ जपतः ।
वेदिसंस्कारः :-
अध्वर्युः - अपेत वीत वि च सर्पताऽतो येऽत्र स्थ पुराणा ये च नूतनाः । अदादिदं यमोऽवसानं पृथिव्या अक्रन्निमं पितरो लोकमस्मै गार्हपत्यायतनमुद्धत्य । अप उपस्पृश्य । शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः अद्भिरवोक्ष्य । एवं दक्षिणाग्नेरावहवनीयस्य सभ्यावसथ्ययोश्च । एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ।
आयतनेषु पार्थिवसम्भाराणां निवपनम् :-
सिकतानामर्धं द्वैधं विभज्य अर्धं गार्हपत्यायतने निवपत्यर्धं दक्षिणाग्नेः शिष्टार्धमाहवनीयस्य । एतेनैव कल्पेन सर्वान् पार्थिवान् सम्भारान्निवपति । अग्नेर्भस्मास्यग्नेः पुरीषमसि सिकता निवपति । संज्ञानमसि कामधरणं मयि ते कामधरणं भूयात् ऊषान् । तान्निवपन् यददश्चन्द्रमसि कृष्णं तदिहास्तु मनसा ध्यायति । उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतस्सधस्थात् । आखुन्त्वा ये दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाम् आखुकरीषम् । यत्पृथिव्या अनामृतꣳ सं बभूव त्वे सचा । तदग्निरग्नये ददात्तस्मिन्नाधीयतामयम् गार्हपत्यायतने वल्मीकवपां निवपति । यदन्तरिक्षस्यानामृतꣳ सं बभूव त्वे सचा । तदग्निरग्नये ददात्तस्मिन्नाधीयतामयम् दक्षिणाग्नेः । यद्दिवोऽनामृतꣳ सं बभूव त्वे सचा । तदग्निरग्नये ददात्तस्मिन्नाधीयतामयम् आहवनीयस्य । उत्समुद्रान्मधुमाꣳ ऊर्मिरागात्साम्राज्याय प्रतरान्दधानाः । अमी च ये मघवानो वयं चेषमूर्जं मधुमत्संभरेम सूदम् । इयत्यग्र आसीः वराहविहतम् । अदो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता व्यसर्पो महित्वा । अदृꣳहथाश्शर्कराभिस्त्रिविष्टप्यजयो लोकान्प्रदिशश्चतस्रः पाप्मन् शर्कराः ।
 
द्वेष्यं मनसा ध्यायति । ऋतᳪँ、 स्तृणामि पुरीषं पृथिव्यामृतेध्यग्निमा दधे । सत्येध्यग्निमादधे निवपनक्रमेणायतनेषु संभाराननु व्यूहति ।
वानस्पत्यसंभाराणां निवपनम् :-
सं या वः प्रियास्तनुवस्सं प्रिया हृदयानि वः । आत्मा वो अस्तु सं प्रियस्सं प्रिया स्तनुवो मम ॥ सं वस्सृजामि हृदयानि सꣳ सृष्टं मनो अस्तु वः । सꣳ सृष्टः प्राणो अस्तु वः द्वाभ्यां वानस्पत्यान् संसृज्य । सिकतावद्विभ्यज्य निवपति इतः प्रथमं जज्ञे अग्निस्स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन् इत्येतया ।
हिरण्यनिवपनम् :-
यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष दिवि या पृथिव्याम् । ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने गार्हपत्यायतने सौवर्णं हिरण्यशकलमुत्तरतः संभारेषूपास्यति । चन्द्रमग्निं चन्द्ररथꣳ हरित्वचं वैश्वानरमप्सुषदꣳ सुवर्विदम् । विगाहन्तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्श्रियं दधुः उपास्तमभिमन्त्रयते । द्वेष्याय रजतं प्रयच्छति । पाप्मने रजतं निरस्याप उपस्पृश्य । यदि द्वेष्यं नाधिगच्छेद्यां दिशं द्वेष्यः स्यात्तां दिशं निरस्येत् । एवं सर्वेषूपास्य करोति । ततः आयतनेषु पुराणान् दर्भान् संस्तीर्य ।
अग्निमन्थनम् :-
ब्राह्मौदनिकात् भस्मापोह्य, तस्मिञ्छमीगर्भादग्निं मन्थति । उद्यत्सु रश्मिषु दशहोत्रारणी समवदधाति । चित्तिस्स्रुक्। चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः ॥ सहाग्नेऽग्निना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह पशुभिस्सह ब्रह्मवर्चसेन । उपतिष्ठत्यश्वेऽग्निं मन्थति । मथ्यमाने शक्तेस्साङ्कृतेस्साम गायति । धूमे जाते गाथिनः कौशिकस्य । अरण्योर्निहितो जातवेदा इति च । बलवति जाते उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । आयुः प्रजाꣳ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे निर्वर्त्यमानमभिमन्त्रयते यजमानः । अत्र चतुर्होतॄन् यजमानं वाचयति । चित्तिः पृथिव्यग्निः सूर्यं ते चक्षुर्महाहविर्होता।
चित्ति स्स्रुक्। चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः ।
पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता ।
 
अग्निर्होता । अश्विनाध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता ।
सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीꣳ शरीरैः ।
महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाऽप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता ।
अजन्नग्निः पूर्वः पूर्वेभ्यः पवमानश्शुचिः पावक ईड्यः जातमभिमन्त्र्य । जाते यजमानो वरं ददाति । अध्वर्यो वरं ते ददामि । प्रतिगृह्णामि इति प्रतिवचनम् । जातं यजमानोऽभिप्राणिति । प्रजापतेस्त्वा प्राणेनाभि प्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शतꣳ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्याय उपर्यग्नेरुच्छ्वसिति । अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवस्समीचीः पुमाꣳसं जातमभि सꣳ रभन्ताम् जातमध्वर्युरञ्जलिनाऽऽभिगृह्य । सम्राडसि विराडसि सारस्वतौ त्वोत्सौ समिन्धातामन्नादं त्वाऽन्नपत्याय उपसमिध्य ।
गार्हपत्याधानम् :-
अथैनं प्राञ्चमुद्धृत्य आसीनस्सर्वेषां मन्त्राणामन्तेन रथन्तरे गीयमाने यज्ञायज्ञिये च, यथर्ष्याधानेन प्रथमया व्याहृत्या द्वाभ्यां वा, प्रथमाभ्यां च सर्पराज्ञीभ्यां, प्रथमेन च घर्मशिरसा । अङ्गिरसान्त्वा देवानां व्रतपते व्रतेनादधामि । भूर्भुवः । भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन्त्सुवः ॥ घर्मः शिरस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । छर्दिस्तोकाय तनयाय यच्छ । न यजमानः । यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिस्सम्भूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने । प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्ने गृहपतेऽहे बुध्निय परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्त्सादयामि यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाभि निदधामि । भूमिर्भूम्ना --- आदधे ॥ आयं गौः --- सुवः ॥ त्रिꣳशद्धाम --- द्युभिः ।। अस्यप्राणादपानती --- सुवः ॥ संभारेषु निदधाति । सुगार्हपत्यो विदहन्नरातीरुषसः
 
श्रेयसीश्श्रेयसीर्दधत् । अग्ने सपत्नाꣳ अप बाधमानो रायस्पोषमिषमूर्जमस्मासु धेहि आधीयमानमभिमन्त्रयते यजमानः । घर्मशिरांसि चैनमध्वर्युर्वाचयति । घर्मश्शिरस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । छर्दिस्तोकाय तनयाय यच्छ । वातः प्राणस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । स्वदितं तोकाय तनयाय पितुं पच ॥ अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्चश्शुक्रा तनूः । शुक्रं ज्योतिरजस्रम् । तेन मे दीदिहि तेन त्वा दधे । अग्निनाग्ने ब्रह्मणा ॥ नाहितमनभिहुतमग्निमुपस्पृशति ।
ओषधिहोमः :-
आज्येनौषधीभिश्च शमयितव्यः । सर्वोषधीराज्यमिश्राः कृत्वा जुह्वामवधाय । या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसि तां त एतेनावयजे स्वाहा । अग्नेः पवमानायै प्रियायै तन्वा इदम् । या ते अग्नेऽप्सु पावका प्रिया तनूर्या अन्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसि तां त एतेनावयजे स्वाहा । अग्नेः पावकायै प्रियायै तन्वा इदम् । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि याऽदित्ये या बृहति या जागते छन्दसि तां त एतेनावयजे स्वाहा । अग्नेश्शुच्यै प्रियायै तन्वा इदम् । मनो ज्योतिर्जुषतां --- मादयन्ताम् यजमानः बृहस्पतिवत्यर्चोपतिष्ठते । मध्यन्दिने इतरानादधाति । गार्हपत्यात् उपोलवैर्दर्भैः परुत्कैः संवत्सरप्रवतैः आहवनीयं ज्वलन्तमुद्धरति, तथोपायः क्रियते यथा अननुगच्छत्यग्निः । सिकताभिश्चोपयमनीरुपकल्पयते । तमुद्यच्छति ।
आहवनीयार्थं अग्नेः उद्यमनम् :-
ओजसे बलाय त्वोद्यच्छे वृषणे शुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः ॥ यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः । पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि ॥ दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्यो अध्योषधीभ्यः । यत्र यत्र जातवेदस्सम्बभूथ ततो नो अग्ने जुषमाण एहि ॥ उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥ एताभिश्चतसृभिरुपरीवाग्निमुद्यच्छति । उद्यतमुपयतं धारयति । अथाश्वस्य दक्षिणे कर्णे निहितमुखं यजमानमग्नितनूर्वाचयति । या वाजिन्नग्नेः पशषु पवमाना प्रिया तनूस्तामावह । या वाजिन्नग्नेरप्सु पावका प्रिया तनूस्तामावह । या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावह । धारयत्येवाग्निम् ।
दक्षिणाग्नेः आधानम् :-
 
अथाग्नीध्रो लौकिकमग्निमाहृत्य मथित्वा गार्हपत्याद्वा ऊर्ध्वज्ञुरासीनो दक्षिणमग्निमादधाति । यज्ञायज्ञिये गीयमाने यथर्ष्याधानेन द्वितीयया व्याहृत्या तिसृभिः सर्पराज्ञीभिर्द्वितीयेन च घर्मशिरसा यत्त्वा कृद्धः परोवपेति च । अङ्गिरसान्त्वा देवानां व्रतपते व्रतेनादधामि । भुवः । भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन्त्सुवः ॥ त्रिꣳशद्धाम विराजति वाक्पतङ्गाय शिश्रिये । प्रत्यस्य वह द्युभिः ॥ वातः प्राणस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । स्वदितन्तोकाय तनयाय पितुं पच । न यजमानः । यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिस्संभूय सगणस्सजोषा हिरण्ययोर्निर्वह हव्यमग्ने । व्यानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वं पशुमादधे । अग्नेऽन्नपा मयो भुव सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्त्सादयामि यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाभि निदधामि । यत्त्वा कृद्धः परोवप मन्युना यदवर्त्या । सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि । संभारेषु निदधाति । पूर्ववच्छमनहोमः । यजमानः मनोज्योतिरिति बृहस्पतिवत्यर्चोपतिष्ठते । आहवनीयाग्नेः उद्धरणम् :-
वामदेव्यमभिगायत आहवनीय उद्ध्रियमाणे । प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्निर्भवेह । विश्वा आशा दीद्यानो विभाह्यूर्जं नो धेहि द्विपदे चतुष्पदे ॥ वि क्रमस्व महाꣳ असि वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि । प्रजया च धनेन च ॥ इमा उ मामुप तिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेदः ॥ प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति । दक्षिणतो ब्रह्मा रथं रथचक्रं वा वर्तयति । यावच्चक्रं त्रिः परिवर्तते । षट्कृत्वो द्वेष्यस्य । जानुदघ्ने धारयमाणस्तृतीयमध्वनोऽग्निं हरति । नाभिदघ्ने द्वितीयमास्यदघ्ने तृतीयम । न कर्णदघ्नमत्युद्गह्णाति । यद्युद्गृह्य निगृह्णीयात् मुखेन समं दध्यात् । नाग्निमादित्यं च व्यवेयात । दक्षिणतः परिगृह्य हरति । अर्धाध्वे यजमानो वरं ददाति । अध्वर्यो वरं ते ददामि । प्रतिगृह्णामि । अर्धाध्वे हिरण्यं निधाय । नाकोऽसि ब्रध्नः प्रतिष्ठा सङ्क्रमणः अतिक्रामति ।
अश्वेनाक्रमणम् :-
आहवनीयं प्राप्य । प्राञ्चमश्वम् । अभ्यस्थाद्विश्वाः पृतना अरातीस्तदग्निराह तदु सोम आह । बृहस्पतिस्सविता तन्म आह पूषा माऽधात् सुकृतस्य लोके दक्षिणेन पदोत्तरतः

संभारानाक्रमयति । यथाहितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन् । प्रदक्षिणमावर्तयित्वा । यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुतं जनिम तत्ते अर्वन् पुनरेवाक्रमयति । पुरस्तात्प्रत्यञ्चमश्वं धारयति । पूर्ववाडश्वो भवति । तदभावे अनड्वान् पूर्ववाडेतानि कर्माणि करोतीति पैङ्गायनिब्राह्मणं भवति । अथ यजमानः शिवा जपति ।
ये ते अग्ने शिवे तनुवौ । विराट्च स्वराट्च । ते मा विशतां ते मा जिन्वताम् ॥ ये ते अग्ने शिवे तनुवौ । सम्राट्चाभिभूश्च । ते मा विशतां ते मा जिन्वताम् ॥ ये ते अग्ने शिवे तनुवौ। विभूश्च परिभूश्च । ते मा विशतां ते मा जिन्वताम् ॥ ये ते अग्ने शिवे तनुवौ । प्रभ्वी च प्रभूतिश्च । ते मा विशतां ते मा जिन्वताम् ॥ यास्ते अग्ने शिवास्तनुवः । ताभिस्त्वाऽदधे । यास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ ।
यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्नुक्चानाहुतिश्च । अशनया च पिपासा च । सेदिश्चामतिश्च । एतस्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यं च वयन्द्विष्मः ॥ स्निक्च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च । सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यञ्च वयन्द्विष्मः ॥
ताभिरेवैनं पराभावयत्यरण्येऽनुवाक्या भवन्ति । यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाश्शंभूः प्रजाभ्यस्तनुवे स्योनः अग्निमभिमन्त्र्य ।
आहवनीयाधानम् :-
पुरस्तात् प्रत्यतिष्ठन्नाहवनीयमादधाति । बृहति गीयमाने श्यैत वारवन्तीययोर्यज्ञायज्ञिये च यथर्ष्याधानेन सर्वाभिर्व्याहृतीभिस्सर्वाभिः सर्पराज्ञीभिस्तृतीयेन च घर्म शिरसा यत्ते मन्युपरोप्तस्येत्येतया । अङ्गिरसान्त्वा देवानां व्रतपते व्रतेनादधामि । भूर्भुवस्सुवः । भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन् सुवः ॥ त्रिꣳशद्धाम विराजति वाक्पतङ्गाय शिश्रिये । प्रत्यस्य वह द्युभिः ॥ अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन्महिषस्सुवः ॥ अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निस्सम्प्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्चश्शुक्रा तनूः शुक्रं ज्योतिरजस्रं तेन मे दीदिहि तेन त्वा दधे अग्निनाग्ने ब्रह्मणा ॥ न यजमानः । यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत
 
पार्थिवीर्याः । ताभिस्सम्भूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने ॥ अपानं त्वाऽमृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्व पशुमादधे । अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्त्सादयामि यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाभि निदधामि । यत्ते मन्युपरोप्तस्य पृथिवीमनु दध्वसे । आदित्या विश्वे तद्देवा वसवश्च समाभरन् सम्भारेषु निदधाति । आनशे व्यानशे सर्वमायुर्व्यानशे । अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः आधीयमानमभिमन्त्रयते यजमानः । पूर्ववच्छमनहोमः । यजमानः मनोज्योतिरिति बृहस्पतिवत्यर्चोपतिष्ठते । ब्रह्माग्न्याधेये सामानि गायति । प्रतिषिद्धान्येकेषाम् । व्याहृतीभिरेवोद्गीथं भवतीति वाजसनेयकम् ।।
समिदाधानम् :-
तिस्र आश्वत्थ्यस्समिध एकैकस्मिन्नादधात्याहवनीये वा तिस्रः । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥ अग्नये पवमानायेदम् । अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधद्रयिं मयि पोषम् ॥ अग्नये पवमानायेदम् । अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महा गयम् ॥ अग्नये पवमानायेदम् ।
शमीमय्यो घृतान्वक्तास्तिसृभिः तिस्र एकैकस्मिन्नादधात्याहवनीये वा तिस्रः । समुद्रादूर्मिर्मधुमाꣳ उदारदुपाꣳशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः । आदित्यात्मने ब्रह्मण इदम् । वयन्नाम प्रब्रवामा घृतेनास्मिन्, यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुश्शृङ्गोऽवमीद्गौर एतत् ॥ यज्ञात्मने ब्रह्मण इदम् । चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ आविवेश ॥ यज्ञात्मने ब्रह्मण इदम् । एवं नानावृक्षीयाः । प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । ताꣳ शश्वन्त उपयन्ति वाजाः औदुम्बरीम् । अग्नय इदम् । विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे । यस्माद्योनेरुदारिथा यजे तं प्रत्वे हवीꣳषि जुहुरे समिद्धे वैकङ्कतीम् । अग्नय इदम् । ताꣳ सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमतिं विश्वजन्याम् । यामस्य कण्वो अदुहत्प्रपीनाꣳ सहस्रधारां पयसा महीं गाम् शमीमयीम् । सवित्र इदम् । अग्निहोत्रम् :-
 
ततः सप्त ते अग्ने इत्यग्निहोत्रं जुहोति । विश्वदानीमाभरन्त इत्यारभ्य आयुर्मे यच्छ इति कूर्चे सादयतीत्यन्ते कृते । विद्युदसि । एषा ते अग्ने । ओं भूर्भुवस्सुवः सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरापृणस्वा घृतेन स्वाहा पूर्वाहुतिं जुहोति । अग्नये सप्तवत इदम् । गर्भेभ्यस्त्वेत्यत्र आग्नेयꣳ हविरिति विशेषः । अन्नादास्स्थेत्यन्तं समानम् ।
अथ यजमानो घोरा जपति । यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्नुक्चानाहुतिश्च । अशनया च पिपासा च । सेदिश्चामतिश्च । एतास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यञ्च वयन्द्विष्मः ॥
स्निक्च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च । सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यञ्च वयन्द्विष्मः ॥
पूर्णाहुतिः, शिवा जपश्च :-
द्वादशगृहीतेन स्रुचं पूरयित्वा । सप्तवत्या पूर्णाहुतिं जुहोति । सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरापृणस्वा घृतेन स्वाहा । अग्नये सप्तवत इदम् । हुतायां यजमानो वरं दत्त्वा शिवा जपति । अध्वर्यो वरं ते ददामि । प्रतिगृह्णामि । [अग्न्याधाने पूर्णाहुतिं हुत्वा कूश्माण्डैर्जुहोति ।]
अथ यजमानः शिवा जपति । ये ते अग्ने शिवे तनुवौ । विराट्च स्वराट्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । सम्राट्चाभिभूश्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । विभूश्च परिभूश्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । प्रभ्वी च प्रभूतिश्च । ते मा विशतां ते मा जिन्वताम् । यास्ते अग्ने शिवास्तनुवः । ताभिस्त्वाऽदधे ॥ शिवा जपान्तमग्न्याधेयम् ।।
शिवा जपान्ते अविज्ञात प्रायश्चित्तानि । अन्तरिकं प्रायश्चित्तं च । यद्यग्नाधेये सूर्योऽनाविः स्यात् । उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमᳪँ、 स्वाहा ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यᳪँ、 स्वाहा ॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा इत्याहुतीर्जुहुयात् । अग्न्याधेये यजुर्भ्रेषप्रायश्चित्तं करिष्ये । भुवस्स्वाहा इति दक्षिणाग्नौ ।
 
वायव इदम् । जुह्वां सकृद्गृहीत्वा । ये अग्नयो दिवो ये पृथिव्यास्समागच्छन्तीषमूर्जं दुहानाः । ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहा । अग्निभ्य इदम् ।
अग्नीनां उपस्थानम् :-
अथ विराट्क्रमैरग्नीन् यजमान उपतिष्ठते । अथर्व पितुं मे गोपायान्नं प्राणेन सम्मितम् । त्वया गुप्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेम अन्वाहार्य पचनम् । नर्य प्रजां मे गोपाय मूलं लोकस्य सन्ततिम् । आत्मनो हृदयान्निर्मितां तां ते परिददाम्यहम् गार्हपत्यम् । शᳪँ、स्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दम् ताᳪ、स्ते परिददाम्यहम् आहवनीयम् । पञ्चधाग्नीन्व्यक्रामद्विराट् सृष्टा प्रजापतेः । ऊर्ध्वा रोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिः सर्वानग्नीन् । अग्नित्रित्वेऽपि पञ्चधा ।। सन्तिष्ठते अग्न्याधानम् ।
॥ पुनराधानेष्टिः ॥
आद्या वा, इति पक्षमाश्रित्य आग्निवारुणं आग्नेयेन सह समानं तन्त्रं कुर्वन्निष्ट्या यक्ष्ये । विद्युदसि । अद्य यज्ञाय । इमामूर्जम् । ऐष्टꣳ हविः । पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । सप्तदश सामिधेन्यः । अलङ्कृत्य परिस्तरणम् । देवा देवेषु । कर्मणे वामित्यादि । पात्रप्रयोगकाले नवदशकपालानि स्फ्यश्च द्वन्द्वम् । अन्वाहार्यस्थाली वर्जमितराणि प्रकृतिवत् । पवित्रे कृत्वा । यजमान वाचं यच्छ । संविशन्तामित्यादि ।
निर्वापकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामग्नीवरुणाभ्यां जुष्टं निर्वपामि । इदं देवानामित्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वाग्नीवरुणौ हव्यꣳ रक्षेथाम् ।
सशूकायामित्यादि । प्रोक्षिताः स्थेत्यन्तं कृत्वा । क्लृप्तसामनसीभ्यामग्नीन् यजमान उपतिष्ठते । कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रताः ॥ येऽग्नयस्समनसोऽन्तरा द्यावापृथिवी वासन्तिकावृतू 1 अभि कल्पमाना इन्द्रमिव देवा अभि सं विशंतु ॥ ब्रह्मन् प्रोक्षिष्यामि । ब्रह्मा - प्रोक्ष यज्ञं - ओं ३ प्रोक्ष। देवस्य त्वा ---हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नीवरुणाभ्यां वो जुष्टं प्रोक्षामि प्रोक्ष्य । कृष्णजिनादानादि । उत्करे त्रिर्निनीय । कृष्णाजिनादानादि । देवस्य त्वा --- हस्ताभ्यामग्नये
१. अत्र यथर्तु उपतिष्ठेत ।
 
जुष्टमधिवपाम्यग्नीवरुणाभ्यां जुष्टमधिवपामि धान्यमसि । कपालानामुपधानकाले आग्नेयस्याष्टावुपधाय । आग्निवारुणमेकादशकपालं अष्टाभ्य ऊर्ध्वं तूष्णीं त्रीणि । अन्तरितम् । अविदहन्त श्रपयत ।
आज्यग्रहणकाले प्रकृतिवदाज्यानि गृह्णाति । आग्निवारुणं तूष्णीमभिघारणम् प्रियेण इत्यासादनम् । यज्ञोऽसि, अयं यज्ञो, ममाग्ने चतुर्होता इत्यासन्नाभिमर्शनम् । अयं वेद इत्यादि । सामिधेनी प्रभृति उपांशु यजति आ उत्तमादनूयाजात् । उच्चैः स्विष्टकृतम् । प्रचरणकाले । पुनरूर्जा सह रय्येति अभितः पुरोडाशमाहुती जुहोति । अपि वा पुनरूर्जेति पुरस्तात्प्रयाजानां सहरय्येत्युपरिष्टादनूयाजानाम् । पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतस्स्वाहा ॥ अग्नय इदम् । उपांशु प्रचारः । आ प्यायतां मा भेरा प्यायतां यदवदानानि ते । अग्नये अनुब्रूहि । अग्निं यज । अग्नय इदम् । अग्नेरहमन्नादः । प्रत्याक्रम्य सह रय्या निवर्तस्वाग्ने पिबस्व धारया । विश्वप्स्निया विश्वतस्परि स्वाहा ॥ अग्नय इदम् । आ प्यायतां मा भेरा प्यायतां यदवदानानि ते । अग्नीवरुणाभ्यामनुब्रूहि । अग्नीवरुणौ यज । अग्नीवरुणाभ्यामिदम् । अग्नीवरुणयोरहं वृत्रहा । प्रत्याक्रम्य न पार्वण होमः । नारिष्ठान् हुत्वा । स्विष्टकृदादि ।
दक्षिणाकाले । उभयीर्दक्षिणा ददाति । आग्न्याधेयिकीः पौनराधेयिकीश्च । पुनर्निष्कृत इत्येताः शतमानं च हिरण्यम् । यदीतराणि न विद्येरन् अप्यनड्वाहमेव दद्यात् । अनडुहि वा एते च कामाः अतश्च भूयांस इति पैङ्गायनि ब्राह्मणम् । अग्नीत् अजं पूर्णपात्रमुपबर्हणं सार्वसूत्रं ते ददामि । ब्रह्मन् वहीनमश्वं ते ददामि । होतर्धेनुं ते ददामि । अध्वर्यो अनड्वाहं ते ददामि । ब्राह्मणाः वासो मिथुनौ गावौ नवं च रथं गां च वो ददामि । पुनर्निष्कृतं रथं, पुनरुत्स्यूतं वासः, पुनरुत्सृष्टमनड्वाहं, शतमानं च हिरण्यं वो ददामि । अपि वा ब्राह्मणा अनड्वाहं वो ददामि । यथाभागं प्रतिगृह्णीध्वम् । अयज्ञत्वान्न प्रतिग्रह मन्त्रः । उपांशु द्वौ प्रयाजौ इष्टवा उच्चैरुत्तमं सम्प्रेष्यति । सूक्तवाके । अग्नय इदम् । अग्नेरहमुज्जितिम् । अग्नीवरुणाभ्यामिदम् । अग्नीवरुणयोरहमुज्जितिम् । देवेभ्य आज्यपेभ्य इत्यादि । यज्ञो बभूव । यज्ञ शं च म वर्जम । ब्राह्मण तर्पणान्तं इष्टिस्सन्तिष्ठते ।
आधानानन्तरं द्वादशाहमजस्रं, अग्निहोत्रर्थं दशहोतृहोमः, अग्निहोत्रस्य व्याहृतीभिरुपसादनं, सारस्वतहोमौ, अन्वारम्भणीया, दर्शपूर्णमासार्थं चतुर्होतृहोमः इत्येतानि न विद्यन्ते ।।
॥ इति पुनराधेयप्रयोगः ॥