आपस्तम्बीय श्रौतप्रयोगः/पवित्रेष्टिप्रयोगः

विकिस्रोतः तः

॥ अथ पवित्रेष्टिप्रयोगः ॥
श्री परमेश्वरप्रीत्यर्थं शुद्धिकामः पवित्रेष्ट्या यक्ष्ये । विद्युदसीत्यादि । पौर्णमासं तन्त्रम् । अग्नीनन्वाधाय वैश्वदेववत् इध्माबर्हिराहरति । प्रसूमयं बर्हिः प्रस्तरश्च । त्रयोविंशति दारुरिध्मः । पात्रप्रयोगकाले चतुश्चत्वारिंशत्कपालानि स्फ्यश्च द्वन्द्वम् । इतराणि प्रकृतिवत् । प्रणीताः प्रणीय चतुर्गृहीतं जुहोति ।
येन देवाः पवित्रेणात्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु मा स्वाहा । पावमानीभ्य इदम् ।
अपरं चतुर्गृहीतं गृहीत्वा प्राजापत्यं पवित्रꣳ शतोद्यामꣳ हिरण्मयम् । तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमहे स्वाहा ॥ पावमानीभ्य इदम् ।
अपरं चतुर्गृहीतं गृहीत्वा इन्द्रस्सुनीती सह मा पुनातु सोमस्स्वस्त्या वरुणस्समीच्या । यमो राजा प्रमृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु स्वाहा । पावमानीभ्य इदम् ।
अभ्यातानान् हुत्वा अग्निर्भूतानामित्यनुवाकम् । सं विशन्तामित्यादि । निर्वपणकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामग्नये पवमानाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामग्नये पावकाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामग्नये शुचये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यामग्नये वैश्वानराय जुष्टं निर्वपामि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वाग्ने पवमान हव्यꣳ रक्षस्वाग्ने पावक हव्यꣳ रक्षस्वाग्ने शुचे हव्यꣳ रक्षस्वाग्ने वैश्वानर हव्यꣳ रक्षस्व । सशूकायामित्यादि । देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नये पवमानाय वो जुष्टं प्रोक्षाम्यग्नये पावकाय वो जुष्टं प्रोक्षाम्यग्नये शुचये वो जुष्टं प्रोक्षाम्यग्नये वैश्वानराय वो जुष्टं प्रोक्षामि । अधिवपने देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नये पवमानाय जुष्टमधिवपाम्यग्नये पावकाय जुष्टमधिवपाम्यग्नये शुचये जुष्टमधिवपाम्यग्नये वैश्वानराय जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । कपालानामुपधानकाले आग्नेयादीनां प्रकृतिवत् । वैश्वानरस्य द्वितीय चतुर्थ षष्ठाष्टमानामावृत्तिः । अधिवापवत्संवापः । सं वपामीति मन्त्रं सन्नमति । समानमा पुरोडाशानामुद्वासनात् । सर्वेषां मन्त्रेणाभिघारणम् । प्रियेणेत्यासादनम् । यजमानः – यज्ञोऽसि इति पंचकृत्वः । ममाग्ने चतुर्होत्राभिमर्शनम् । आज्यभागाभ्यां प्रचर्य आग्नेयमिष्ट्वा उपांशु व्यत्यासं पञ्चभिराज्यहविर्भिर्यजति । अग्नयेऽनुब्रूहि । अग्निं यज । अग्नय इदम् । अग्नेरहं देवयज्ययान्नादो भूयासम् ।
 
सरस्वत्या प्रियायाः [उपांशु] अनुब्रूहि [उच्चैः] । सरस्वतीं प्रियां [उपांशु] यज [उच्चैः] सरस्वत्यै प्रियया इदम् । दब्धिरसि । अग्नये पवमानायानुब्रूहि । अग्निं पवमानं यज । अग्नये पवमानायेदम् । अग्नेः पवमानस्याहं देवयज्ययान्नादो भूयासम् । विष्णवे उरुक्रमाय [उपांशु] अनुब्रूहि [उच्चैः] । विष्णुमुरुक्रमं [उपांशु] यज [उच्चैः] । विष्णव उरुक्रमायेदम् । दब्धिरसि । अग्नये पावकायानुब्रूहि । अग्निं पावकं यज । अग्नये पावकायेदम् । अग्नेः पावकस्याहं देवयज्ययान्नादो भूयासम् । देवाय सवित्रे [उपांशु] अनुब्रूहि [उच्चैः] । देवं सवितारं [उपांशु] यज [उच्चैः] । देवाय सवित्र इदम् । दब्धिरसि । अग्नये शुचयेऽनुब्रूहि । अग्निं शुचिं यज । अग्नये शुचय इदम् । अग्नेश्शुचेरहं देवयज्ययान्नादो भूयासम् । वायवे नियुत्वते [उपांशु] अनुब्रूहि [उच्चैः] । वायुं नियुत्वन्तं [उपांशु] यज [उच्चैः] । वायवे नियुत्वत इदम् । दब्धिरसि । अग्नये वैश्वानरायानुब्रूहि । अग्निं वैश्वानरं यज । अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानरस्याहं देवयज्ययान्नादो भूयासम् । दधिक्राव्णे [उपांशु] अनुब्रूहि [उच्चैः] । दधिक्राव्णं [उपांशु] यज [उच्चैः] । दधिक्राव्ण इदम् । दब्धिरसि । नारिष्ठान
हुत्वा ।
उभाभ्यां देवसवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे स्वाहा ।। पावमानीभ्य इदम्।
वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तस्सधमाद्येषु । वयᳪँ、 स्याम पतयो रयीणाᳪँ、 स्वाहा ।। पावमानीभ्य इदम् ।
येन देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन ब्रह्मणा । इदं ब्रह्म पुनीमहे स्वाहा ।। पावमानीभ्य इदम् ।
यः पावमानीरध्येति । ऋषिभिस्संभृतꣳ रसम् । सर्वꣳ स पूतमश्नाति । स्वदितं मातरिश्वना स्वाहा ॥ पावमानीभ्य इदम् ।
पावमानीर्यो अध्येति । ऋषिभिस्संभृतꣳ रसम् । तस्मै सरस्वती दुहे । क्षीरꣳ सर्पिर्मधूदकᳪँ、 स्वाहा ।। पावमानीभ्य इदम् ।
पावमानीस्स्वस्त्ययनीः । सुदुघा हि पयस्वतीः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतꣳ हितᳪँ、 स्वाहा ।। पावमानीभ्य इदम् ।
पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान् समर्धयन्तु नः । देवीर्देवैस्समाभृताः स्वाहा ॥ पावमानीभ्य इदम् ।
 
पावमानीस्स्वस्त्ययनीः । सुदुघा हि घृतश्चुतः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतꣳ हितᳪँ、 स्वाहा ॥ पावमानीभ्य इदम् ।
स्विष्टकृदादि प्रतिपद्यते । सर्वेषां चतुर्धाकरणम् । अन्वाहार्यो दक्षिणा । देवानां पत्नीरिष्ट्वा पुरस्ताद्गृहपतेः यद्देवा देवहेडनं इत्यनुवाकेन स्रुवाहुतीरुपजुहोति । उपरिष्टाद्वा गृहपतेः । सपूर्णपात्रविष्णुक्रमाः । यज्ञ शं च म वर्जम् । ब्राह्मणतर्पणान्तं सन्तिष्ठते पवित्रेष्टिः ।।
॥ इति पवित्रेष्टिः ॥