आपस्तम्बीय श्रौतप्रयोगः/द्विपशुप्रयोगः
॥ द्विपशुप्रयोगः ॥
पशुशाखाहरणे एकैव शाखा मन्त्रेण । एकामेव प्लक्षशाखां तूष्णीम् । त्रिवृत्पलाशे दर्भ -- - पशू हव्यं करोतु मे । प्रतिपशु स्वरुः 1। दिवस्सूनू स्थः तन्त्रेण स्वरू आदाय । अन्तरिक्षस्य वाꣳ सानाववगूहामि । इषे त्वेत्यादि । अग्नीषोमाभ्यां त्वा जुष्टमुपाकरोमि । प्रज्ञाते बर्हिषी निधाय । अन्ये बर्हिषी आदाय । तयैव प्लक्षशाखया इन्द्राग्निभ्यां त्वा जुष्टमुपाकरोमि । तेऽपि बर्हिषी प्रज्ञाते निधाय । उपाकृत्य पञ्च जुहोति । प्रजानन्तः --- सुवर्गं यातं पथिभिः --- प्रतितिष्ठतꣳ शरीरैस्स्वाहा । पशुभ्यामिदम् । येषामीशे --- निष्क्रीताविमौ यज्ञियं भागमिताꣳ रायस्पोषा --- स्वाहा ॥ ये बध्यमानावनुबध्यमाना अभ्यैक्षन्त --- स्वाहा । य आरण्याः --- स्वाहा ॥ प्रमुञ्चमाना --- देवाः । उपाकृतौ शशमानौ यदस्थाज्जीवं देवानामपीतां पाथस्स्वाहा ॥ देवस्य त्वेत्यादि । अग्नीषोमाभ्यां त्वा जुष्टं नियुनज्मि । पुनर्देवस्य त्वेत्यादि । इन्द्राग्निभ्यां त्वा जुष्टं नियुनज्मि । उत्तरतो यूपस्य नियुनक्ति । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि । इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि । अपां पेरुरसीत्यादि सर्वतश्च प्रोक्ष्येत्यन्तं एकस्य कृत्वा पुनरन्यस्य करोति2 । स्रुच्यमाघार्य प्रत्याक्रम्य । जुह्वा पशू समनक्ति । सं ते प्राणो इत्यादि । श्रोण्यां, इत्यन्तं एकस्य कृत्वा इतरस्य करोति । ध्रुवा समञ्जनादि कर्म प्रतिपद्यते । दश प्रयाजानिष्ट्वा प्रत्याक्रम्य जुह्वा स्वरुद्वयं स्वधितिं च अनक्ति । स्वर्वञ्जनं तन्त्रेण करोति । सकृत् स्वधितेरन्यतरां धाराम् । स्वरुमन्तर्धाय स्वधितिना एकं पशुं समनक्ति । पुनः स्वधित्यञ्जनम् । अन्यं स्वरुमन्तर्धाय स्वधितिना एवमितरं समनक्ति । पर्यग्निकरणं तन्त्रेण । पर्यग्नये क्रियमाणायानुब्रूहि इत्यनूहेन सम्प्रेष्यति । प्रजानन्तः --- सुवर्गं यातं --- प्रतितिष्ठतꣳ शरीरैस्स्वाहा ॥ पशुपतेः पशवो --- तेषां यौ वव्रिरे देवास्तौ स्वराडनुमन्यता88 स्वाहा ॥ उभयोस्तन्त्रेण प्रमोकः । ये बध्यमानावनु बध्यमाना --- स्वाहा ॥ प्रमुञ्चमाना --- देवाः । उपाकृतौ शशमानौ यदस्थाज्जीवं देवानामपीतां पाथस्स्वाहा ॥ प्रणीयमाने । वपाश्रपणीभ्यां मुख्यं पशुमन्वारभेते अध्वर्युर्यजमानश्च । एक एव अध्रिगु संप्रैषः । तन्त्रेण अग्नेर्हरणम् । नाना प्राणो यजमानस्य पशुभ्यां यज्ञो देवेभिस्सह देवयानः । जीवं देवानामपीतां पाथस्सत्यास्सन्तु यजमानस्य कामाः ॥ अध्वर्युर्जपति । पृथिव्यास्संपृचः पाहि इत्यावर्तते । अमायुं कृण्वन्तौ संज्ञपयत इति सम्प्रैषः । स्वर्विदौ स्थस्स्वर्वित्वा स्वरित88 स्वर्मह्य88 स्वः पशुभ्यो लोकविदौ स्थो लोकं
१. एक एव स्वरुरिति द्रा प्र।
२. अत्र काण्डानुसमयः उक्तः । अपां पेरुरसीत्यादौ पदार्थानुसमयेनापि अनुष्ठातुं शक्यते ।
वित्वा लोकमितं लोकं मह्यं लोकं पशुभ्यो गातुविदौ स्थो गातुं वित्वा गातुमितं गातुं मह्यं गातुं पशुभ्यो नाथविदौ स्थो नाथं वित्वा नाथमितं नाथं मह्यं नाथं पशुभ्यः ॥ न वा उवे तन्म्रियेथे न रिष्यथो देवाꣳ इदिथो पथिभिस्सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र वां देवस्सविता दधातु ॥ आशानां वामाशापालेभ्यः --- वयम् ॥ नाना प्राणो यजमानस्य पशुभ्यां यज्ञो --- जीवं देवानामपीतां पाथः --- कामाः ॥ इन्द्रस्य भागः सुविते -- - यो नो द्वेष्ट्यनु तꣳ रवेथां -- वीराः । यदस्य पारे रजसः --- स्वाहा । यस्माद्भीषा वाशिषाथां ततो नो अभयं कृतम् 1 । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- स्वाहा ॥ यस्माद्भीषान्यषदतं ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- स्वाहा ॥ यस्माद्भीषा वेपिषाथां ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- स्वाहा ॥ यस्माद्भीषा पलायिषाथां ततो नो अभयं कृतम । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- स्वाहा । यस्माद्भीषा समज्ञासाथां ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- स्वाहा ॥ यस्माद्भीषा निमेहथः ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ यस्माद्भीषा शकृत्कुरुथस्ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ यत्पशू मायुमकृषातामुरो वा पद्भिराहेते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वꣳहसस्स्वाहा ॥ वपाश्रपण्योः तन्त्रेण प्रतितपनम् । शमितार उपेतन --- पाशाभ्यां पशू प्रमुञ्चत --- परि ॥ अदितिः पाशं प्रमुमोक्त्वेतं नमः पशुभ्यः पशुपतये करोमि इति क्रमेण पाशौ प्रमुच्य अरातीयन्तमिति तन्त्रेण व्युदसनम् । वाक्त आप्यायतां इति क्रमेण आप्यायनम् । शमोषधीभ्य इति शेषमन्ते निनीय । ओषधे त्रायस्वैनं इत्यादि क्रमेण । रक्षसां भागौ स्थः इति निरसनम् । अग्नीषोमाभ्यां त्वा जुष्टामुत्कृन्तामि । इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामि । शमिता तु वपोद्धरणापिधानं मुख्यस्यैव करोति । प्रत्युष्टं इति शामित्रे प्रतितपनं तन्त्रेण । मुख्यस्य वपाश्रपण्योरन्वारम्भः । निर्दग्धं इति आहवनीयस्य अन्तमे अङ्गारे वपां निकूडनं तन्त्रेण । वायो वीहि इति भेदेन । त्वामु ते दधिरे इति अभिहोमः तन्त्रेण । यस्त आत्मा इति प्रत्येकमनूहेन अभिघारणम् । केचिदूहमिच्छन्ति 2
१. अभयं कुरुतं इति द्रा. प्र. ।
२. यौ वामात्मानो पशुषु प्रविष्टौ देवानां विष्ठामनुयौ वितस्थाते । आत्मन्वन्तौ सोम घृतवन्तौ हि भूत्वा देवान्गच्छतꣳ सुवर्विन्दतं यजमानाय मह्यम् ।। इत्यूहित्वा तन्त्रेणाभिघारः ।
। दृꣳहतं गा दृꣳहतं गोपतिं मा वो यज्ञपती रिषत् इति तन्त्रेणोद्वास्य । सुपिप्पला ओषधीः कृतं इति तन्त्रेणासादनम् 1 । प्रयुता द्वेषाꣳसि इत्यावृत्तिः । इदमिन्द्रियं इति भेदेन अभिमर्शनम् । उत्तमप्रयाजादि । पूर्वं परिवप्यं हुत्वा क्रमेण वपाप्रचारः । अग्नीषोमाभ्यां छागस्य वपाया मेदसोऽनुब्रूहि । अग्नीषोमाभ्यां छागस्य वपाया मेदसः प्रेष्य । इन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहि । इन्द्राग्निभ्यां छागस्य वपाया मेदसः प्रेष्य । उभयोरिन्द्रियावी भूयासम् । जैमानमिति वा । उत्तरं परिवप्यं हुत्वा । पृथग्वपोद्धरणाभिघारणं वपाश्रपणी प्रहरणं च । सकृदेव संस्रावेणाभिजुहोति ।
पशुपुरोडाशकाले द्वाविंशतिकपालानि । निर्वपणकाले अग्नीषोमाभ्यां त्वा जुष्टं निर्वपामि । इन्द्राग्निभ्यां त्वा जुष्टं निर्वपामि । अग्नीषोमौ हव्यꣳ रक्षेथामिन्द्राग्नी हव्यꣳ रक्षेथाम् । एवमेव प्रोक्षणमधिवापस्संवापश्च । हविष्कृता वाचं विसृज्य पशुं विशास्ति । गुदे मा निर्व्लेषीर्वनिष्ठू मा निर्व्लेषीः इति संप्रेष्यति । उभयोस्तूष्णीमभिघारणम् । प्रियेणेत्यासादनम् । अयं यज्ञो, यो नः कनीयो, ममाग्ने, पञ्चहोतेत्यासन्नाभिमर्शनम् । प्रचरणकाले अग्नीषोमाभ्यां पुरोडाशस्यानुब्रूहि । अग्नीषोमाभ्यां पुरोडाशस्य प्रेष्य । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् । इन्द्राग्निभ्यां पुरोडाशस्यानुब्रूहि । इन्द्राग्निभ्यां पुरोडाशस्य प्रेष्य । इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । शृतꣳ हवीश्शमितः इत्याद्यनूहः । सं ते मनसा --- अग्नीषोमाभ्यां त्वा जुष्टमभिघारयामि । अन्यः पृषदाज्यमानयति । अध्वर्युः पुनः सं ते मनसा --- इन्द्राग्निभ्यां त्वा जुष्टमभिघारयामि । यस्त आत्मेति क्रमेण आज्येन पशुमभिघारयति । स्वाहोष्मण इति ऊष्माभिमन्त्रणं तन्त्रेण । उद्वासनं क्रमेण स्वेन स्वेन हृदयशूलेन सह । पञ्चहोत्रासादनं क्रमेण । इदमिन्द्रियमिति क्रमेण । अभ्यावर्तते मनोता । चतसृषूपस्तृणीतेत्यादि । जुह्वां दैवतान्यवधाय उपभृति स्विष्टकृदर्थं त्र्यङ्गान्यवधाय नाभिघारयति । अथ हविषा प्रचरति । अग्नीषोमाभ्यां छागस्य हविषोऽनुब्रू३हि । अग्नीषोमाभ्यां छागस्य हविषः प्रेष्य । अर्धर्चे वसाहोमं कृत्वा न दिग्यागः । वसाहोमशेषमन्यत्र निधाय । पुनः जुहूं वसाहोमहवनीं चोपस्तीर्य दैवतान्यवधाय उपभृति हविष्येव त्र्यङ्गान्यवधाय द्विरभिघारयति । ऐन्द्राग्नयागः । इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रू३हि । इन्द्राग्निभ्यां छागस्य हविषः प्रेष्य । पूर्ववद्वसाहोमं कृत्वा उभयोर्वसाशेषमेकीकृत्य दिग्यागः । उभयोरिन्द्रियावी भूयासम् । जैमानमिति वा । वनस्पतियागादि । गुदहोमे उभयोर्गुदकाण्डैरुपयज उपयजति । समुद्रं
१. दृꣳहेति आवृत्या उद्वासनम्, सुपिप्पला इत्यासादनं भेदेन इति पक्षान्तरम् ।
गच्छत88 स्वाहान्तरिक्षं गच्छत88 स्वाहा इत्यादि सर्वत्र ऊहः । न स्वरुहोमः । न शूलद्वयोरुद्वासनम् । अननूबन्ध्यापक्षे सवनीयेन सह स्वरुहोमः शूलोद्वासनं च । उभयोर्जाघनीभ्यां तन्त्रेण पत्नीस्संयाजयन्ति । सन्तिष्ठते द्विपशुप्रयोगः ।
॥ इति द्विपशु प्रयोगः ॥