आपस्तम्बीय श्रौतप्रयोगः/दर्शपूर्णमासयोः आरम्भः

विकिस्रोतः तः

॥ दर्शपूर्णमासयोः आरम्भः ॥
अग्नी परित्यज्य । दर्शपूर्णमासावारप्स्यमानः चतुर्होतारं होष्यामि । इति सङ्कल्प्य अस्मिन् चतुर्होतृहोमेऽध्वर्युं त्वां वृणीमहे । अध्वर्युः आहवनीयं विहृत्य सकृद्गृहीत्वा पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति सन्ततं मनसा जपित्वा । अथ उपांशु जपो वाक्यशः पाठश्च वाचस्पते वाचो वीर्येण । सम्भृततमेनायक्ष्यसे । यजमानाय वार्यम् । आ सुवस्करस्मै । वाचस्पतिस्सोमं पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा ॥ वाचस्पतये ब्रह्मण इदम् । अग्निं परित्यज्य पुनस्सङ्कल्प्य दर्शपूर्णमासावारप्स्यमानः कूष्माण्डैर्होष्यामि इति सङ्कल्प्य । अस्मिन् कूष्माण्डहोमेऽध्वर्युं त्वां वृणीमहे । अध्वर्युः आहवनीयं विहृत्य कूष्माण्डैर्हुत्वा । अग्निं परित्यज्य । यजमानः ममोपात्तसमस्तदुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं ऐन्द्रं वैमृधं अनुनिर्वाप्यं समानतन्त्रं कुर्वन् पूर्णमासेन यक्ष्ये इति सङ्कल्प्य । केशश्मश्रुवपनं कृत्वा पूर्णमासेन यजते ।
॥ इति दर्शपूर्णमासयोः आरम्भः ॥