आपस्तम्बीय श्रौतप्रयोगः/दर्शपूर्णमासप्रयोगः/प्रथमोऽध्यायः

विकिस्रोतः तः

॥ अथ दर्शपूर्णमासेष्टि प्रयोगः ॥
॥ अथ प्रथमोऽध्यायः ॥
संकल्पः, ऋत्विग्वरणं च :-
अथातो दर्शपूर्णमासौ व्याख्यास्यामः । प्रातरग्निहोत्रं हुत्वा । दर्भेष्वासीनो दर्भान्धारयमाण: पवित्रपाणि: पत्न्या सह प्राणानायम्य । ममोपात्त सकल दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं दर्शेन यक्ष्ये । अनुनिर्वाप्यैन्द्रवैमृधेन सह पूर्णमासेन यक्ष्ये इति वा संकल्प्य1 । ततो वपनम् । अप्यल्पशो लोमानि वापयते इति वाजसनेयकम् । विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि यक्ष्यमाणोऽप उपस्पृशति . । अस्यां दर्शेष्ट्यां अध्वर्युं त्वां वृणीमहे अध्वर्युं वृणोति । एवं ब्रह्माणं होतारं आग्नीध्रं च ।
अग्न्यन्वाधानम् :-
अध्वर्युः – वृतोऽस्मि करिष्यामीति प्रतिवचनम् । गार्हपत्यादाहवनीयार्थं ज्वलन्तमग्निमुद्धृत्य । तूष्णीं दक्षिणाग्निं प्रणीय । तूष्णीमाहवनीयं प्रणयति । विहारस्योत्तरत उपविश्य । देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यताम् इति जपित्वा अग्नीनन्वादधाति । ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तनुवं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम आहवनीयमुपसमिन्धे ।।
यजमान: - अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमꣳ श्वो यज्ञाय रमतां देवताभ्यः ॥ वसून्रुद्रानादित्यानिन्द्रेण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥ इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु । पौर्णमासꣳ हविरिदमेषां मयि इति पौर्णमास्याम् । इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु । आमावास्यꣳ हविरिदमेषां मयि इत्यमावास्यायाम् । यथालिङ्गमाहवनीयेऽन्वाधीयमाने जपति2 । अन्तराग्नी पशवो देवसꣳसदमागमन् । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषया अन्तराग्नी तिष्ठन् जपति ।
अध्वर्युः - मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरु
१. तेन श्री परमेश्वरं प्रीणयानि इति अस्मद्ग्रामीण हस्तप्रति पाठः ।।
२. सद्यस्कालपक्षे अग्निं गृह्णामि, इमामूर्जं इति द्वयोरपि लोपः इति प्रायिकमनुष्ठानम् । प्रथमे मन्त्रे श्वो पदस्य, द्वितीये मन्त्रे पञ्चदशीं पदस्य लोपः इति द्वितीयः पक्षः । अल्पिकायां पर्वणि सद्यस्कालपक्षे श्वो पदस्यैव लोपः इति मतान्तरम् । पदद्वयमप्यूहनीयं इति तृतीयः पक्षः ।।
 
)गोपमस्तु मह्यं वातः पवतां कामे अस्मिन् गार्हपत्यमुपसमिन्धे ।
यजमानः – इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥ इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषया गार्हपत्ये अन्वाधीयमाने जपति ।
अध्वर्युः – मयि देवा द्रविणमायजन्तां मय्याशीरस्तु मयि देवहूतिः । दैव्या होतारावनिषन्त पूर्वेऽरिष्टास्स्याम तनुवा सुवीराः दक्षिणाग्निमुपसमिन्धे ।
यजमानः – अयं पितॄणामग्निरवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णाम्यविषं नः पितुं करत् अन्वाहार्यपचने अन्वाधीयमाने जपति । विहारस्योत्तरत उपविश्य । इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमीदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमीदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमि अन्वाहितेषु जपति । शाखाहरणं वत्सापाकरणं च :-
अध्वर्युः - अमावास्यायां सन्नयतः पलाशशाखां शमीशाखां वा आहरति । बहुपर्णां बहुशाखां अप्रतिशुष्काग्रामसुषिराम् । सा या प्राच्युदीची प्रागुदीची वा भवति इषे त्वोर्जे त्वा तां शाखामाच्छिनत्ति । अप उपस्पृश्य 1 । इमां प्राचीमुदीचीमिषमूर्जमभिसꣳस्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहं आहरति । वायवस्स्थोपायवस्स्थ तया षट्कृत्वो षडवरार्ध्यान् वत्सानपाकरोति । बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायाम् । व्रतोपायनम् :
यजमानः - पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सꣳसृज अप आचामति अप उपस्पृशति च 2 । एवं पत्नी च।।
अन्वाधाने कृते पूर्वं शाखाभोजनमेव च ।
वत्सानां बन्धनं चैव व्रतं बर्हिस्तथैव च ।।
अन्वाधानेऽशनं बर्हिर्व्रतं मुष्टीध्मबन्धने ।
वेदोपवेषाऽलङ्काराः पौर्णमास्या यथाक्रमम् ॥
अपरेणाहवनीयं दक्षिणातिक्रामति । एष एवात ऊर्ध्वं यजमानस्य सञ्चरो भवति । दक्षिणेनाहवनीयमुपस्थाय । व्रतꣳ समुद्रस्तदुपैष्यामि समुद्रं मनसा ध्यात्वा । अग्नीन् देवानभिसन्धाय
१. इषे त्वा शाखामाच्छिनत्ति । अप उपस्पृश्य । ऊर्जे त्वा सन्नमयत्यनुमार्ष्टि वा इत्यस्मद्ग्रामीण हस्तप्रति पाठः ।
२. उपस्पृशति वा अस्मद्ग्रामीण हस्तप्रति पाठः ।
 
। अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् इति जपित्वा । सम्राडसि व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासम् आदित्यमुपतिष्ठते । यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिष्ठन् एतद्यजुर्जपेत् । ।
गवां प्रस्थापनम् :--
अध्वर्युः - देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया इन्द्राय देवभागं ऊर्जस्वतीः पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वस्तेन ईशत माघशꣳसः । देवो वस्सविता --- महेन्द्राय देवभागं --- माघशꣳसः1 शाखया गोचराय गाः प्रस्थापयति । प्रस्थितानामेकां शाखयोपस्पृशति । शुद्धा अपस्सुप्रपाणे पिबन्तीश्शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्तु प्रस्थिता अनुमन्त्रयते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वीः यजमानस्य गृहानभ्यैति ! यजमानस्य पशून्पाहि अग्निष्ठेऽनस्यग्न्यगारे वा पुरस्तात्प्रतीचीं शाखामुपगूहति पश्चात् प्राचीं वा।
इध्माबर्हिराहरणम् :-
उत्तरेण गार्हपत्यमसिदो निहितो भवति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे असिदमादाय । यज्ञस्य घोषदसि गार्हपत्यमभिमन्त्र्य । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः गार्हपत्ये प्रतितप्य । प्रेयमगाद्धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा त आवहन्ति कवयः पुरस्ताद्देवेभ्यो जुष्टमिह बर्हिरासदे इत्युक्त्वा । उर्वन्तरिक्षमन्विहि असिदमुदकमण्डलुं चादाय दर्भदेशं गच्छति । प्राचीमुदीचीं वा दिशमभिप्रव्रज्य यतःकुतश्चिद्दर्भमयं बर्हिराहरति । देवानां परिषूतमसि वर्षवृद्धमसि दर्भान् परिषौति । अतिसृष्टो गवां भागः एकां द्वे तिस्रो वा नाडीरुत्सृजति । इदं देवानाम् परिषूतानभिमृशति । इदं पशूनाम् अतिसृष्टान् । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभे विशाखेषु दर्भानारभते । देवबर्हिर्मा त्वान्वङ्मा तिर्यक वामेन संयच्छति । पर्व ते राध्यासम् असिदमधिनिदधाति । आच्छेत्ता ते मा रिषम् आच्छिनत्यप उपस्पृश्य । पृथिव्यास्सम्पृचः पाहि अनधो निदधाति । सन्नखं मुष्टिं लुनोति । स प्रस्तरः । एवं देवस्य त्वेत्यादि पृथिव्यास्सम्पृचः पाहीत्यन्तं त्रिरावर्तते । तदेकं निधनम् । एवं त्रीणि निधनानि लुनोति । प्रस्तरमेव मन्त्रेण दाति तूष्णीमितरदिति वाजसनेयकम् । सर्वं लुत्वा । देवबर्हिश्शतवल्शं वि रोह
१. संवत्सरमिन्द्रं यजेत । संवत्सरानन्तरं महेन्द्रायेति मन्त्रं सन्नमति ।
 
आलवानभिमृशति । सहस्रवल्शा वि वयꣳ रुहेम आत्मानं प्रत्यभिमृश्य । अप उपस्पृश्य । अदित्यै रास्नासि त्रिधातु पञ्चधातु वा शुल्बं करोति । अयुपिता योनिः प्रतिसन्दधाति । धातौ धातौ मन्त्रावृत्तिः । अदित्यै रास्नासि उदगग्रं वितत्य । सुसंभृता त्वा संभरामि तस्मिन्छेदनक्रमेण निधनानि संभरति । प्रतिनिधनं मन्त्रावृत्तिः । प्रागग्रं दक्षिणाप्रागग्रं प्रागुदगग्रं च सम्भृत्य । अलुभिता योनिः उत्तमे निधने प्रस्तरमत्याधाय । इन्द्राण्यै सन्नहनं सन्नह्यति । पूषा ते ग्रन्थिं ग्रथ्नातु ग्रन्थिं करोति । स ते माऽऽस्थात् पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति । पश्चात्प्राञ्चं वा । आपस्त्वामश्विनौ त्वामृषयस्सप्त मामृजुः । बर्हिस्सूर्यस्य रश्मिभिरुषसां केतुमारभे बर्हिरारभते । इन्द्रस्य त्वा बाहुभ्यामुद्यच्छे उद्यच्छते । बृहस्पतेर्मूर्ध्ना हरामि शीर्षन्नधि निधत्ते । प्रेयमगाद्धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा त आवहन्ति कवयः पुरस्ताद्देवेभ्यो जुष्टमिह बर्हिरासदे इत्युक्त्वा1 । उर्वन्तरिक्षमन्विहि प्रत्येत्य । अदित्यास्त्वोपस्थे सादयामि अन्तर्वेदि परिधिदेशे अनधस्सादयति । अत्र पौर्णमास्यां व्रतोपायनम् । पयस्वतीरोषधय इत्यादित्योपस्थानान्तम् ।
 अध्वर्युः - बर्हिरसि देवङ्गमम् आसन्नमभिमन्त्रयते । देवङ्गममसि अनधो निदधाति । यथा प्रागुपसादयेत् । तूष्णीं दर्भदेशं गत्वा । या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यसं परिस्तरमाहरन्न् परिस्तरण्यामसिदमधि निदधाति । अपां मेध्यं यज्ञियꣳ सदेवꣳ शिवमस्तु मे । आच्छेत्ता वो मा रिषं जीवानि शरदश्शतम् आच्छिनत्यप उपस्पृश्य । अपरिमितानां परिमितास्सन्नह्ये सुकृताय कम् । एनो मा नि गां कतमच्चनाहं पुनरुत्थाय बहुला भवन्तु सन्नह्यति । परिस्तरण्यामसिदमधिनिधान्याच्छेदनी सन्नहनीति यथालिङ्गं करोति 2। तूष्णीं परिभोजनीमुलपराजीं च वेदार्थं च दर्भांश्छित्वा अप उपस्पृश्य ।
 पूर्ववत्तूष्णीं शुल्बं कृत्वा, खादिरं पालाशं वा एकविंशतिदारुमिध्मं करोति । त्रयः परिधयः । पालाशकार्ष्मर्यखदिरोदुम्बरबिल्वरोहीतकविकङ्कतानां ये वा यज्ञिया वृक्षाः । आर्द्राः शुष्का वा सत्त्वक्काः । स्थविष्ठो मध्यमोऽणीयान् द्राघीयान् दक्षिणार्योर ऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः । द्वे आघारसमिधावनूयजसमिदेकविंशीति । तूष्णीमिध्मं छित्वा । अप उपस्पृश्य । अदित्यै रास्नासि शुल्बमुदगग्रं वितत्य । यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविꣳशतिधा सम्भरामि सुसम्भृता । त्रीन्परिधीꣳस्तिस्रस्समिधो यज्ञायुरनुसञ्चरान् । उपवेषं मेक्षणं धृष्टिꣳ संभरामि सुसम्भृता शुल्बे इध्मं सम्भरति । कृष्णोऽस्याखरेष्ठो देवपुरश्चर सघ्यासं त्वा सन्नह्यत्यनधो निदधाति ।
१. यौ गमनौ तौ प्रत्यायनौ इति पाठान्तरम् ।।
२. वत्सेष्वमा बर्हिषा पूर्णमासे व्रतमुपैत्याच्छेदनी सन्नहनीति यथालिङ्गम् । अ. ह. पाठः ।
 
इध्मप्रव्रश्चनानि निदधाति । त्वया वेदि विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान्त्वया होता सन्तनोत्यर्धमासान् वत्सज्ञुतुल्यं दर्भाणां वेदं कृत्वा शुल्बात्प्रादेशे परिवास्य । अप उपस्पृश्य । वेदपरिवासनानि निदधाति । अमावास्यायां वेदो वेदिः । देवस्य त्वेत्यादि प्रागुत्तरात्परिग्राहात्कृत्वा । पौर्णमास्यां वेदं कृत्वोपवेषः ।।
उपवेषकरणम् :-
अन्तर्वेदि शाखाया: पलाशान्यसर्वाणि प्रशात्य । मूलतश्शाखां परिवास्य उपवेषं करोति । शाखारहिते यस्यकस्यचिद्यज्ञियकाष्ठस्योपवेषः । उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तश्शिवश्शग्मो भवासि नः उपवेषं कुर्वन् पर्णवल्कं पातयति । छित्वाप उपस्पृश्य । तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय सन्नयितुं वकलमन्तरमा ददे प्रथमपरिवासनशकलमादाय प्रज्ञातं निधाय । त्रिवृद्दर्भमयं पवित्रं कृत्वा । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारं शाखायां शिथिलमवसजति । मूले मूलान्यग्रे अग्राणि, न ग्रन्थिं करोति ।
यजमान: - त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे ॥ इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने शाखापवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवत: । पयस्वतीरोषधय इति जायापती अश्नीतः । अमाषममांसमाज्येन दध्ना पयसा वा । अमावास्यायां रात्र्यां स्वयं यजमानो यवाग्वा अग्निहोत्रं जुहोति1 । अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति । नास्यैतां रात्रिं कुमाराश्चन पयसो लभन्ते ।
सायन्दोहः :-
अध्वर्युः – हुते सायमग्निहोत्रे सायन्दोहं दोहयति । आहवनीयं परिस्तीर्य । सान्नाय्यपात्राणि प्रक्षाल्य । उत्तरेणाहवनीयं दर्भान्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । कुम्भी शाखापवित्रं, अभिधानीं निधाने, दारुपानं दोहनं अयस्पानं दारुपानं वा पिधानार्थं, अग्निहोत्रहवणीमुपवेषं, पर्णवल्कं तृणं च । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते । पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु तृणं काष्ठं वान्तर्धाय छिनत्ति । न नखेन । अप उपस्पृश्य । विष्णोर्मनसा पूते स्थः अद्भिरनुमृज्य ।
१. यवागूहोमः दधिप्रयुक्तः न कालप्रयुक्तः अतः दैवात् प्रतिपदि इष्ट्यननुष्ठानपक्षे यवागूहोमो न भवति । अपि च वैश्वदेवपर्वणः द्व्यहकालपक्षे अपर्वणि क्रियमाणेऽपि यवागूहोमो भवत्येव ।।
 
पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीय । देवो वस्सवितोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोस्सूर्यस्य रश्मिभिः उदगग्राभ्यां पवित्राभ्यां प्रोक्षणीः त्रिरुत्पूय । आपो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्ये प्रोक्षितास्स्थ इत्यभिमन्त्र्य । उत्तानानि पात्राणि पर्यावर्त्य । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै सपवित्रेण पाणिना सर्वाभिरद्भिस्त्रि: प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । पवित्रे प्रज्ञातं निदधाति ।
यजमान: - आपो देवीश्शुद्धास्स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोस्सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुꣳ सर्वा पात्राणि शन्धत प्रोक्ष्यमाणान्यभिमन्त्र्य । एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुप जायमाना इह व इन्द्रो1 रमयतु गावः गा आयतीः प्रतीक्षते ।
अध्वर्युः – निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः आहवनीये सान्नाय्यपात्राणि प्रतितप्य । धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । निरूढं जन्यं भयं निरूढास्सेना अभीत्वरीः आहवनीयादुदीचोऽङ्गारान्निरूह्य । न बहिः । मातरिश्वनो घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृꣳहस्व मा ह्वाः तेषु कुम्भीमधिश्रयति । भृगूणामङ्गिरसां तपसा तप्यस्व प्रदक्षिणमङ्गारैः पर्यूह्य । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् तस्यां प्रागग्रं शाखापवित्रमत्यादधाति । उदक्प्रातः । कुम्भीमन्वारभ्य वाचं यच्छति । पवित्रं वा धारयन्नास्ते । अदित्यै रास्नासि अभिधानीमादत्ते । तूष्णीं निदाने दोग्धा ।
यजमानः – त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहागहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवताम् आदीयमानामनुमन्त्रयते ।
अध्वर्युः - पूषाऽसि वत्समभिदधाति । उपसृष्टां में प्रब्रूता३त् अध्वर्युराह । उपसृजामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः वत्समुपसृजति । गां चोपसृष्टां विहारं चान्तरेण मा संचारिष्ट अध्वर्युराह । उपसीदामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् उपसीदति । उपविश्य दारुपात्रे दोग्धि।
यजमानः – अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् ॥ द्यौश्चेमं यज्ञं पृथिवी च सन्दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ उत्सं दुहन्ति कलशं चतुर्बिलमिडां
१. द्राविडप्रयोगे सर्वत्र यथादैवतमूहः क्रियते ।
 
देवीम्मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु उपसृष्टां दुह्यमानां धाराघोषं चानुमन्त्रयते । ।
अध्वर्युः :- दुग्ध्वा हरति तं पृच्छति कामधुक्षः प्र णो ब्रूहि महेन्द्राय हविरिन्द्रियम् । गंगां, यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वायुः इत्युक्त्वा । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा कुम्भ्यां तिरः पवित्रमासिञ्चति । हुतस्स्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् विप्रुषोऽनुमन्त्रयते ।
यजमानः :- अग्नये बृहते नाकायेदम् । द्यावापृथिवीभ्यामिदम् ।।
अध्वर्युः :- एवं द्वितीयां तृतीयां च दोहयति । पूषाऽसीत्यादि । यमुनाम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वव्यचाः इति द्वितीयाम् । सरस्वतीम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वकर्मा इति तृतीयाम् । तिम्रो दोहयित्वा । बहुदुग्धि महेन्द्राय देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् इति त्रिः । वाचं विसृज्य । अनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयित्वा । दोहनेऽप आनीय । सं पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातये कुम्भ्यां संक्षाळनमानीय अविष्यन्दयन् सुशृतं करोति । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् वर्त्म कुर्वन् प्रागुद्वासयत्युदक् प्रागुदग्वा । तेन शीतबुध्नमातनक्ति । सोमेन त्वाऽऽतनच्मि महेन्द्राय दधि दध्नातनक्ति । यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि अग्निहोत्रोच्छेषणमन्ववधाय । अयं पयस्सोमं कृत्वा स्वां योनिमपि गच्छतु । पर्णवल्कः पवित्रꣳ सौम्यस्सोमाद्धि निर्मितः पर्णवल्कं क्षिपति । आपो हविष्षु जागृत यथा देवेषु जाग्रथ । एवमस्मिन्, यज्ञे यजमानाय जागृत 1पिधानार्थपात्रेऽप आनीय । अदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरते तेनापिदधाति ।
यजमानः - अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारयमातिगुः अनुमन्त्रयते ।
अध्वर्युः – यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वान्तर्धाय पिधानेऽनुप्रविध्येत् । विष्णो हव्यꣳ रक्षस्व अनधो निदधाति । इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि प्रज्ञातं शाखापवित्रं निदधाति । तयैव शाखया दर्भैर्वा सायन्दोहवत्प्रातर्दोहाय वत्सानपाकरोति । षटकृत्वः वायवस्स्थोपायवस्स्थ । पुनस्तूष्णीं शाखापवित्रं निदधाति । नासोमयाजी सन्नयेत् सन्नयेद्वा । अत्र वा आग्नीध्रवरणम् ।
१. आपो हविष्षु जाग्रत यथा देवेषु जाग्रथ । एवमस्मिन्, यज्ञे यजमानाय जागृत इति अ. ह . पाठः ।
 
अग्नीनां परिस्तरणम् :
ततस्सम्प्रेष्यति । परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपाꣳ रस ओषधीनाꣳ सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिन् लोके परिस्तरणीमेतामेके समामनन्ति । सम्प्रैषपक्षे आग्नीध्रो परिस्तृणाति । उदगग्रैः प्रागग्रैश्च दर्भेरग्नीन् परिस्तृणाति । प्रत्यायतनं मन्त्रावृत्तिः।
यजमानः - उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि मह्यं गोपतये पशून् सायं परिस्तीर्यमाणेषु जपति । देवा देवेषु पराक्रमध्वम् । प्रथमा द्वितीयेषु । द्वितीयास्तृतीयेषु । त्रिरेकादशा इह मावत । इदꣳ शकेयं यदिदं करोमि । आत्मा करोत्वात्मने । इदं करिष्ये भेषजम् । इदं मे विश्वभेषजा । अश्विना प्रावतं युवम् । इति जपित्वा ग्राम्येभ्य उपवसत्यारण्यानश्नाति1 । न तस्य सायमश्नीयाद्येन प्रातर्यक्ष्यमाणः स्यात् । सद्यस्कालायामपि देवा देवेषु जपः नोभावग्नी । आहवनीयागारे गार्हपत्यागारे वा शेते ।
तन्त्रप्रक्रमः :-
अध्वर्युः- उदित आदित्ये पौर्णमास्यास्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः । चत्वार ऋत्विजः । पूर्ववदग्नीन् परिस्तृणाति यद्यपरिस्तीर्णा भवन्ति । कर्मणे वां देवेभ्यश्शकेयम् हस्ताववनिज्य । उलपराजीमादाय । यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यै स्तृणामि सन्तत्यै त्वा यज्ञस्य गार्हपत्यात्प्रक्रम्य सन्ततामुलपराजीं स्तृणात्याऽऽहवनीयात् । तूष्णीं दक्षिणामुत्तरां च । परिभोजिन्याः कांश्चिद्दर्भानादाय दक्षिणेनाहवनीयं ब्रह्मयजमानयोरासने प्रकल्पयति । पूर्वं ब्रह्मणः अपरं यजमानस्य । उत्तरेण गार्हपत्याहवनीयौ तच्छेषान्दर्भान्त्सन्स्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । दशापराणि दश पूर्वाणि । स्फ्यश्च कपालानि च, अग्निहोत्रहवणी च शूर्पं च, कृष्णाजिनं च शम्या च, उलूखलं च मुसलं च, दृषच्चोपला च इत्यपरतः । स्रुवं जुहूं, उपभृतं ध्रुवां, वेदं पात्रीं, आज्यस्थालीं प्राशित्रहरणं, इडापात्रं प्रणीताप्रणयनं इति पूर्वाणि । तान्युत्तरेणावशिष्टानि योक्त्रं मदन्तीं, मेक्षणं वेदाग्राणि, अन्वाहार्यस्थालीमुपवेषं, पिष्टलेपफलीकरणपात्रं आग्नीध्रपात्रं, यजमानपात्रं दर्भं च । प्रातर्दोहपात्राण्यासाद्य 3 । अत्र पूर्ववत् पवित्रे करोति यदि न सन्नयति । सन्नयतस्तु ते विभवतः ।
१. तिलमाषव्रीहियवाः प्रियंग्वणवोगोधूमाः इति ग्राम्याः । वेणुश्यामाकनीवारजर्तिलाश्च गवीधुका अरण्यजा मर्कटका । गार्मुतासप्तमाः कुलित्थसप्तमा वा इत्यारण्याः ।
२. खादिरस्सुवः, पर्णमयी जुहूः, आश्वथ्युपभृत्, वैकङ्कती ध्रुवा, एतेषां वा वृक्षाणामेकः स्रुचः कारयेत् । बाहुमात्र्योऽरत्निमात्यो वा अग्राग्राः त्वक्तोबिला हंसमुख्यः । स्फ्य शम्या प्राशित्रहरणमिति खादिराणि । वारणान्यहोमार्थानि भवन्ति।
३. तान्युत्तरेणावशिष्टानि अन्वाहार्यस्थालीं उपवेषममावास्यायां प्रातर्दोहपात्राणि, योक्त्रं मदन्तीं, मेक्षणं वेदाग्राणि, इध्मप्रव्रश्चनानि पिष्टलेपफलीकरणपात्रे च । इति अ. ह. पाठः ।
 
ब्रह्मवरणम् :-
अध्वर्युर्यजमानश्च ब्रह्माणं वृणीते । भूपते भुवनपते । महतो भूतस्य पते । ब्रह्माणं त्वा वृणीमहे इति ।
ब्रह्मा - अहं भूपतिरहं भुवनपतिः । अहं महतो भूतस्य पतिः । देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि । देव सवितरेतं त्वा वृणते । बृहस्पतिं दैव्यं ब्रह्माणम् । तदहं मनसे प्रब्रवीमि । मनो गायत्रियै । गायत्री त्रिष्टुभे । त्रिष्टुब्जगत्यै । जगत्यनुष्टुभे । अनुष्टुप् पङ्क्त्यै । पङ्क्तिः प्रजापतये । प्रजापतिर्विश्वेभ्यो देवेभ्यः । विश्वे देवा बृहस्पतये । बृहस्पतिर्ब्रह्मणे । ब्रह्म भूर्भुवस्सुवः । बृहस्पतिर्देवानां ब्रह्मा । अहं मनुष्याणाम् । बृहस्पते यज्ञं गोपाय । इत्युक्त्वा अपरेणाहवनीयं दक्षिणातिक्रामति । निरस्तः पराग्वसुस्सह पाप्मना ब्रह्म सदनात्तृणं निरस्य । अप उपस्पृश्य । इदमहमर्वाग्वसोस्सदने सीदामि प्रसूतो देवेन सवित्रा बृहस्पतेस्सदने सीदामि । तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याय तत्पृथिव्यै इत्युपविशति 1 । कर्मणि कर्मणि वाचं यच्छति ।
यजमानः – तूष्णीं निरसनोपवेशने करोति ।
प्रणीताप्रणयनम् :
अध्वर्युः – वानस्पत्योऽसि देवेभ्यश्शुन्धस्व प्रणीताप्रणयनं चमसमद्भिः प्रक्षालयति । अपरेण गार्हपत्यं पवित्रान्तर्हितं चमसं निधाय अनया पृथिव्यापो ग्रहीष्यामि पृथिवीं मनसा ध्यात्वा । को वो गृह्णाति स वो गृह्णातु कस्मै वो गृह्णामि तस्मै वो गृह्णामि पोषाय व: उपबिलं चमसमद्भिः पूरयित्वा । अनया पृथिव्यापो गृह्णामि2 पृथिवीं मनसा ध्यात्वा । पूर्ववदुत्पूयाभिमन्त्र्य । ब्रह्मन्नप: प्रणेष्यामि यजमान वाचं यच्छ ब्रह्माणमामन्त्रयते ।
ब्रह्मा - प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तऋषीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि इति जपित्वा । ओं३ प्रणय इत्युच्चैरनुजानाति प्रणीयमानासु वाचं यच्छतोऽध्वर्युर्यजमानश्च आ हविष्कृतः ।
अध्वर्युः - को वः प्रणयति स वः प्रणयत्वपो देवीः प्रणयानि यज्ञꣳ सꣳ सादयन्तु नः । इरं मदन्तीर्घृतपृष्ठा उदाकुस्सहस्रपोषं यजमाने न्यञ्चतीः । अनया पथिव्यापः प्रणयानि पृथिवीं मनसा ध्यात्वा समं प्राणैर्धारयमाण: स्फ्येनोपसङ्गृह्य अविषिंचन् हरति ।
१. प्राङ्मुख उपविश्य आहवनीयमभ्यावृत्यास्ते । इति अ. ह पाठः
२. अनयापः पृथिव्या ग्रहीष्यामि , अनयापः पृथिव्या गृह्णामि , अनयापः पृथिव्या प्रणयानि – इति द्राविडप्रयोगः ।
 
यजमानः - भूश्च कश्च वाक्चर्क्च गौश्च वट्च खं च धूᳪँ、श्च नूᳪँ、श्च पूᳪँ、श्चैकाक्षरा: पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्तानो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीब्रह्मपूताः स्थ । को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्यायै । याः पुरस्तात् प्रस्रवन्त्युपरिष्टात्सर्वतश्च याः । ताभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभे प्रणीता: प्रणीयमाना अनुमन्त्रयते ।
अध्वर्युः – को वो युनक्ति स वो युनक्तु उत्तरेण आहवनीयं असंस्पृष्टा दर्भेषु सादयति । नेङ्गयन्ति नेलयन्त्यासंस्थातोः । दभैरभिप्रच्छाद्य । पवित्रं स्फ्यमादाय । स्फ्यं यथास्थानं निधाय । सं विशन्तां देवीर्विशः पात्राणि देवयज्यायै सपवित्रेण पाणिना पात्राणि संमृश्य । असम्भवतां मन्त्रावृत्तिः
हविर्निर्वापः :-
वानस्पत्यासि दक्षाय त्वा अग्निहोत्रहवणीमादत्ते । वेषाय त्वा शूर्पम् । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः आहवनीये गार्हपत्ये वाप्रतितप्य । यजमान हविर्निर्वप्स्यामि इत्यामन्त्रयते ।
यजमानः - ओं निर्वप इत्यनुजानाति ।
अध्वर्युः – प्रवसति यजमाने अग्ने हविर्निर्वप्स्यामि । उर्वन्तरिक्षमन्विहि शकटायाभिप्रव्रजति । अपरेण गार्हपत्यमुपविश्य । यदि पात्र्या निर्वपेत्1 दक्षिणत: स्फ्यमुपधाय पात्रीमन्वारभ्य व्रीहिमतीं यवमतीं वा तस्यां सर्वान् शकटमन्त्रान् जपेत् । धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं धूर्वामस्त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतमम् । विष्णुस्त्वाक्रꣳस्त । अह्रुतमसि हविर्धानं दृꣳहस्व मा ह्वाः । मित्रस्य त्वा चक्षुषा प्रेक्षे मा भेर्मा संविक्था मा त्वा हिꣳसिषम् पुरोडाशीयान्प्रेक्षते । निरस्तꣳ रक्षो निरस्तोऽघशꣳसः यदन्यत्पुरोडाशीयेभ्यस्तन्निरस्य । अप उपस्पृश्य । ऊर्जाय वः पयो मयि धेहि अभिमन्त्र्य । चित्तिस्स्रुक्। चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः इति दशहोतारं व्याख्याय । शूर्पे पवित्रं निधाय तस्मिन्नग्निहोत्रहवण्या हवींषि निर्वपति । तया वा पवित्रवत्या । यच्छन्तां पञ्च मुष्टिं गृहीत्वा । स्रुचि मुष्टिमोप्य । देवस्य त्वा सवितुः -- -- हस्ताभ्यामग्नये जुष्टं निर्वपामि त्रिर्यजुषा तूष्णीं चतुर्थम् ।
१. अपरेण गार्हपत्यं प्रागीषमुदगीषं वा नद्धयुगं शकटमवस्थितं भवति । व्रीहिमद्यवमद्वा । धूरसीति दक्षिणां युगधुरमभिमृशत्युत्तरां वा । त्वं देवानामसि सस्नितममिति उत्तरामीषामालभ्य जपति । विष्णुस्त्वाकꣳस्तेति सव्ये चक्रे दक्षिणं पादमत्याधाय अह्रुतमसि हविर्धानमित्यारोहति । उरुवातायेति परीणाहमपच्छाद्य मित्रस्य त्वा चक्षुषा प्रेक्ष इति पुरोडाशीयान् प्रेक्षते ।
 
यजमानः – अग्निꣳ होतारमिह तꣳ हुवे देवान् यज्ञियानिह यान् हवामहे । आयन्तु देवास्सुमनस्यमाना वियन्तु देवा हविषो मे अस्य हविर्निरुप्यमाणमनुमन्त्रयते । अध्वर्युः - निरुप्तेष्वन्वोप्य । एवमुत्तरं यथादैवतम् । देवस्य त्वा सवितुः --- हस्ताभ्यामग्नीषोमाभ्यां जुष्टं निर्वपामि ।1 देवस्य त्वा सवितुः --- हस्ताभ्यामिन्द्राय वैमृधाय जुष्टं निर्वपामि इति पौर्णमास्याम् । __
दर्शे तु = देवस्य त्वा सवितुः --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा सवितुः --- हस्ताभ्यामिन्द्राग्निभ्यां जुष्टं निर्वपामि 2। निरुप्तेष्वन्वोप्य । इदं देवानाम् निरुप्तानभिमृशति । इदमु नस्सह अवशिष्टान् । स्फात्यै त्वा नारात्यै निरुप्तानेवाभिमन्त्र्य । इदमहं निर्वरुणस्य पाशात् उपनिष्क्रम्य । स्वरभिव्यख्यम् प्राङ्प्रेक्षते । सुवरभिविख्येषम् सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योति: आहवनीयम् । स्वाहा द्यावापृथिवीभ्याम् स्कन्नानभिमन्त्र्य । दृꣳहन्तां दुर्या द्यावापृथिव्योः प्रत्यवरोह्य । स्फ्यं यथास्थानं निधाय । उर्वन्तरिक्षमन्विहि हरति । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वाग्नीषोमौ हव्यꣳ रक्षेथामिन्द्र वैमृध हव्यꣳ रक्षस्व इति पौर्णमास्याम् । दर्शे तु = अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वेन्द्राग्नी हव्यꣳ रक्षेथाम् अपरेणाहवनीयं यथादैवतमुपसादयति । . यजमानः – कस्त्वा युनक्ति स त्वा युनक्तु सर्वं विहारमनु वीक्षते ।
हविः प्रोक्षणम् :-
अध्वर्युः - सशूकायामग्निहोत्रहवण्यामप आनीय पूर्ववदुत्पूयाभिमन्त्र्य । ब्रह्मन प्रोक्षिष्यामि इति ब्रह्माणमामन्त्रयते ।
ब्रह्मा - प्रोक्ष यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तऋषीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि इति जपित्वा । ओं प्रोक्ष इत्यनुजानाति ।
अध्वर्युः - देवस्य त्वा सवितुः --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्यां वो जुष्टं प्रोक्षामीन्द्राय वैमृधाय वो जुष्टं प्रोक्षामि इति पौर्णमास्याम् । दर्शे तु = देवस्य त्वा सवितुः --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि त्रिर्हविः प्रोक्षति, सकृन्मन्त्रेण द्विस्तूष्णीम् । नाग्निमभिप्रोक्षेत् । उत्तानानि पात्राणि पर्यावर्त्य । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै इति सपवित्रेण पाणिना त्रिः प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । प्रोक्षणीशेषमग्रेण गार्हपत्यं निधाय ।
१. नासोमयाजिनः अग्नीषोमीयो विद्यते ।
२. दर्शे असन्नयतः इन्द्राग्न्योः द्वितीयं हविर्भवति । सन्नयतस्तु केवलमग्निरेव भवति । एवं प्रोक्षणादिष्वपि ज्ञातव्यम्
 
हविरवहननम् :-
देवस्य त्वा सवितुः --- हस्ताभ्यामाददे कृष्णाजिनमादाय । अवधूतꣳ रक्षोऽवधूता अरातयः उत्करे त्रिरवधूनोति । ऊर्ध्वग्रीवं बहिष्टाद्विशसनम् । अदित्यास्त्वगसि प्रति त्वा पृथिवी वेत्तु उत्तरेण गार्हपत्यमुत्करदेशे वा कृष्णाजिनं प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति । पुरस्तात्प्रतीचीं भसदमुपसमस्यति । अनुत्सृजन्कृष्णाजिनम् । अधिषवणमसि वानस्पत्यं प्रति त्वादित्यास्त्वग्वेत्तु तस्मिन्नुलूखलमधिवर्तयति । अनुत्सृजन्नुलूखलम् । अग्नेस्तनूरसि वाचो विसर्जनं देववीतये त्वा गृह्णामि तस्मिन् हविरावपति । त्रिर्यजुषा तूष्णीं चतुर्थम् । अद्रिरसि वानस्पत्यस्स इदं देवेभ्यो हव्यꣳ सुशमि शमिष्व मुसलमादाय । हविष्कृदे३हि इति त्रिराह्वयति पत्नीम् ।
पत्नी – अव रक्षो दिवः सपत्नं वध्यासम् अवहन्ति ।
अध्वर्युः - उच्चैस्समाहन्तवै३ इति संप्रेष्यति ।
आग्नीध्रः – देवस्य त्वा सवितुः --- हस्ताभ्यामाददे शम्यामादाय । इषमा वदोर्जमा वद द्युमद्वदत वयꣳ सङ्घातं जेष्म दृषदुपले समाहन्ति । द्विर्दृषदि सकृदुपलायां त्रिस्सञ्चारयन् नवकृत्वस्सम्पादयति । यत्र समाप्तिस्तत्रोपक्रमः ।
अध्वर्युः - वर्षवृद्धमसि पुरस्ताच्छूर्पमुपोहति । वर्षवृद्धास्स्थ उलूखलगतं हविरभिमन्त्र्य । प्रति त्वा वर्षवृद्धं वेत्तु शूर्पे हविरुद्वपति । परापूतꣳ रक्षः परापूता अरातयः उत्करे परापुनाति । प्रविद्धꣳ रक्षः पराध्माता अमित्रा: तुषान् प्रस्कन्दतोऽनुमन्त्रयते । मध्यमे पुरोडाशकपाले तुषानोप्य । रक्षसां भागोऽसि अधस्तात्कृष्णाजिनस्योपवपति उत्तरमपरमवान्तरदेशम् ।
यजमान: – रक्षोभ्य इदम् । उभावप उपस्पृशतः ।
फलीकरणम् :
अध्वर्युः - अद्भिः कपालं संस्पृश्य । प्रज्ञातं निधाय । अप उपस्पृश्य । वायुर्वो विविनक्तु विविच्य । देवो वस्सविता हिरण्यपाणिः प्रतिगृह्णातु पात्र्यां तण्डलान्प्रस्कन्दयित्वा । अदब्धेन वश्चक्षुषाऽवपश्यामि रायस्पोषाय वर्चसे सुप्रजास्त्वाय चक्षुषो गोपीथायाशिषमाशासे अवेक्ष्य, आदाय । तूष्णीमुलूखले न्युप्य । त्रिष्फलीकर्तवै३ इति सम्प्रेष्यति ।
पत्नी - देवेभ्यश्शुन्धध्वम् । देवेभ्यश्शुन्ध्यध्वम् । देवेभ्यश्शुम्भध्वम् सुफलीकृतान्करोति तूष्णीं वा।
अध्वर्युः – फलीकरणान् फलीकरणपात्रे निधाय । त्रिः प्रक्ष्याल्य तण्डुलान् । त्रिफली क्रियमाणानां
 
यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत्प्रवहतादितः उत्करे त्रिर्निनयति । सकृन्मन्त्रेण द्विस्तूष्णीम्।
यजमानः – रक्षोभ्य इदम् । उभावप उपस्पृशतः ।
हविरधिवापः :
अध्वर्युः - कृष्णाजिनादानादि प्रागधिवर्तनात्कृत्वा । दिवस्स्कम्भनिरसि प्रति त्वादित्यास्त्वग्वेत्तु कृष्णाजिने उदीचीनकुम्बां शम्यां निधाय । धिषणासि पर्वत्या प्रति त्वा दिवस्स्कम्भनिर्वेत्तु तस्यां दृषदमत्यादधाति । धिषणासि पार्वतेयी प्रति त्वा पर्वतिर्वेत्तु दृषद्युपलामत्यादधाति । पूर्ववदनुत्सर्गः । अꣳशवस्स्थ मधुमन्तः तण्डुलानभिमन्त्र्य । देवस्य त्वा सवितुः --- हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नीषोमाभ्यां जुष्टमधिवपामीन्द्राय वैमृधाय जुष्टमधिवपामि धान्यमसि धिनुहि देवान् इति पौर्णमास्याम् । ____
दर्शे तु = देवस्य त्वा सवितुः --- हस्ताभ्यामग्नये जुष्टमधिवपामीन्द्राग्निभ्यां जुष्टमधिवपामि धान्यमसि धिनुहि देवान् दृषदि तण्डुलानधिवपति । त्रिर्यजुषा तूष्णीं चतुर्थम् । प्राणाय त्वा प्राचीमुपलां प्रोहति । अपानाय त्वा प्रतीचीम् । व्यानाय त्वा मध्यदेशे व्यवघारयति । प्राणाय त्वाऽपानाय त्वा व्यानाय त्वा सन्ततं पिनष्टि । दीर्घामनु प्रसितिमायुषे धां प्राचीमन्ततोऽनुप्रोह्य । देवो वस्सविता हिरण्यपाणिः प्रतिगृह्णातु कृष्णाजिने पिष्टानि प्रस्कन्दयित्वा । अदब्धेन वश्चक्षुषावेक्षे अवेक्ष्य, आदाय । तूष्णीं दृषदि न्युप्य । असंवपन्ती पिꣳषाणूनि कुरुता३त् इति संप्रेष्यति । पत्नी पिनष्टि अपि वा दासी1 । फलीकरणं पिष्टलेपं च गृहीत्वा । प्रज्ञातं निदधाति । आहवनीये गार्हपत्ये वा हवींषि श्रपयति ।
कपालोपधानं प्रातर्दोहश्च :-
धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । रक्षसः पाणिं दहाहिरसि बुध्नियः अभिमन्त्र्य । अपाग्नेऽग्निमामादं जहि तेन आहवनीयात्प्रत्यञ्चावङ्गारौ निर्वर्त्य । निष्क्रव्यादꣳ सेध तयोरन्यतरमुत्तरमपरमवान्तरदेशं निरस्य । अप उपस्पृश्य । आ देवयजं वह दक्षिणमवस्थाप्य । ध्रुवमसि पृथिवीं दृꣳहायुर्दृꣳह प्रजां दृꣳह सजातानस्मै यजमानाय पर्यूह तस्मिन्नगारे मध्यमं पुरोडाशकपालमुपदधाति । निर्दग्धꣳ रक्षो निर्दग्धा अरातयः कपालेऽङ्गारमत्याधाय । धर्त्रमस्यन्तरिक्षं दृꣳह प्राणं दृꣳहापानं दृꣳह सजातानस्मै यजमानाय पर्यूह मध्यमात्पुरतः द्वितीयं संस्पृष्टम् । धरुणमसि दिवं दृꣳह
१. छिन्ने पिष्टे तथा लूने सान्नाय्ये मार्तिके तथा । सिद्धे मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः ॥ ( लौगाक्षी)
 
चक्षुर्दृꣳह श्रोत्रं दृꣳह सजातानस्मै यजमानाय पर्यूह तस्मात्पुरतः तृतीयं संस्पृष्टम् । चिदसि विश्वासु दिक्षु सीद मध्यमाद्दक्षिणत: । परिचिदसि विश्वासु दिक्षु सीद मध्यमादुत्तरतः । मरुताꣳ शर्धोऽसि मध्यमात्पश्चात् । धर्मासि दिशो दृꣳह योनिं दृꣳह प्रजां दृꣳह सजातानस्मै यजमानाय पर्यूह दक्षिणात्पुरतः । चितस्स्थ प्रजामस्मै रयिमस्मै सजातानस्मै यजमानाय पर्यूह उत्तरात्पुरतः । इत्याग्नेयम् । एवमितरयोरष्टावुपधाय । चितस्स्थोर्ध्वचितः इति त्रीण्युपधाय कपालानि तूष्णीं वा, यथायोगमुपदधाति नैऋत्यादिकोणेषु प्रदक्षिणम् । अत्र सायंदोहवत्प्रातर्दोहं दोहयति । एता आचरन्तीत्यादि संक्षालननिनयनान्तम् । भृगूणामङ्गिरसां तपसा तप्यध्वम् वेदेन कपालेषु अङ्गारानध्यूह्य । प्रतिकपालयोगं मन्त्रावृत्तिः । मदन्तीरधिश्रयति । संवापः पुरोडाशकरणञ्च :-
प्रक्षालितायां पात्र्यां निष्टप्तोपपातायां1 पवित्रवत्यां कृष्णाजिनात् पिष्टानि संवपति । देवस्य त्वा सवितुः --- हस्ताभ्यामग्नये जुष्टꣳ संवपाम्यग्नीषोमाभ्यां जुष्टꣳ संवपामीन्द्राय वैमृधाय जुष्टꣳ संवपामि इति पौर्णमास्याम् ।
दर्श तु = देवस्य त्वा सवितुः --- हस्ताभ्यामग्नये जुष्टꣳ संवपामीन्द्राग्निभ्यां जुष्टꣳ संवपामि । त्रिर्यजुषा तूष्णीं चतुर्थम् । सर्वं संवपन्वाचं यच्छति तामभिवासयन् विसृजते । प्रोक्षणीवत्पिष्टान्युत्पूय । पवित्रं प्रज्ञातं निधाय । स्रुवेण प्रणीताभ्य अप आदाय वेदेनोपयम्य समापो अद्भिरग्मत समोषधयो रसेन सꣳ रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिस्सृज्यध्वम् पिष्टेष्वानयति । स्रुवेण मदन्तीजलमादाय अद्भ्यः परि प्रजातास्स्थ समद्भिः पृच्यध्वम् तप्ताभिरनुपरिप्लाव्य । जनयत्यै त्वा संयौमि मेक्षणेन संयुत्य । मखस्य शिरोऽसि पिण्डं कृत्वा । यथाभागं व्यावर्तध्वम् आग्नेयं विभज्य । यथाभागं व्यावर्तेथाम् इतरौ । समान्पिंडान्कृत्वा । इदमग्नीषोमयोः । इदमिन्द्रस्य वैमृधस्य इति पौर्णमास्याम् । यथाभागं व्यावर्तेथाम् विभज्य । इदमग्नेः । इदमिन्द्राग्न्यो: इत्यमावास्यायाम् । अन्त्ययोरेव निर्देशः । यथादैवतमभिमृशति । अतुङ्गमनपूपाकृतिं कूर्मस्येव प्रतिकृतिमश्वशफमात्रं पुरोडाशं करोति । यावन्तं वा मन्यन्ते ।
पुरोडाशाधिश्रयणं, पर्यग्निकरणं, अङ्गाराध्यूहनं च :
इदमहꣳ सेनाया अभीत्वर्यै मुखमपोहामि वेदेन कपालेभ्योऽङ्गारानपोह्य । प्रतिकपालयोगं मन्त्रावृत्तिः । घर्मोऽसि विश्वायुः आग्नेयं पुरोडाशं अष्टसु कपालेष्वधिश्रयति । प्रतिपुरोडाशं मन्त्रावृत्तिः । उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् प्रथयित्वा । त्वचं गृह्णीष्व अद्भिश्श्लक्ष्णीकरोति अनतिक्षारयन्
१. उपवातायाम् इति पाठान्तरम् ।
 

। प्रतिपुरोडाशं मन्त्रावृत्तिः । अन्तरितꣳ रक्षोऽन्तरिता अरातयः सर्वाणि हवींषि त्रिः पर्यग्निकृत्वा । देवस्त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके उल्मुकैः प्रतितपति । अग्निस्ते तनुवं माऽति धागग्ने हव्यꣳ रक्षस्व दर्भैरभिज्वलयति ज्वालैर्वा । अविदहन्तः श्रपयता३ इति सम्प्रेष्यति । आग्नीध्रो हवींषि सुशृतानि करोति । मन्त्रवत्सु वा कर्मसु, याथाकामी तूष्णीकेषु । यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं व्याहृतीश्च जपित्वा वाचं विसृजति । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे । भूर्भुवस्सुवः । अत्र वाचं विसृजते । सम्ब्रह्मणा पृच्यस्व वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति । प्रतिपुरोडाशं मन्त्रावृत्तिः । अङ्गुलिप्रक्षालनं पात्रीनिर्णेजनं च । उल्मुकेनाभितप्य स्फ्येनान्तर्वेदि तिम्रो लेखा लिखति प्राचीरुदीचीर्वा । तास्वसंस्यन्दयन् त्रिर्निनयति प्रत्यगपवर्गम् । एकताय स्वाहा । एकतायेदम् । द्विताय स्वाहा । द्वितायेदम् । त्रिताय स्वाहा । त्रितायेदम् । निनीयवाभितपेदभितपेत् ।
॥ इति प्रथमोऽध्यायः ॥