आपस्तम्बीय श्रौतप्रयोगः/त्रिपशुप्रयोगः

विकिस्रोतः तः

॥ अथ त्रिपशुप्रयोगः ॥
पशुशाखाहरणे एकैव शाखा मन्त्रेण । एकामेव प्लक्षशाखां तूष्णीं । त्रिवृत्पलाशे दर्भः --- पशून् हव्यं करोतु मे । प्रतिपशु स्वरुः 1 । दिवस्सूनवस्स्थ तन्त्रेण स्वरूनादाय । अन्तरिक्षस्य वो सानाववगूहामि । इषे त्वेत्यादि । अग्नीषोमाभ्यां त्वा जुष्टमुपाकरोमि । प्रज्ञाते बर्हिषी निधाय । अन्ये बर्हिषी आदाय । तयैव प्लक्षशाखया इन्द्राग्निभ्यां त्वा जुष्टमुपाकरोमि । तेऽपि बर्हिषी प्रज्ञाते निधाय । पुनरन्ये बर्हिषी आदाय । तयैव प्लक्षशाखया अश्विभ्यां त्वा जुष्टमुपाकरोमि । तेऽपि बर्हिषी प्रज्ञाते निधाय । उपाकृत्य पञ्च जुहोति । प्रजानन्तः --- सुवर्गं यात पथिभिः ---प्रतितिष्ठत शरीरैस्स्वाहा । पशुभ्य इदम् । येषामीशे --- निष्क्रीता इमे यज्ञियं भागं यन्तु रायस्पोषा - -- सन्तु स्वाहा ॥ ये बध्यमानाननुबध्यमाना अभ्यैक्षन्त --- संविदानस्स्वाहा ॥ य आरण्याः --- स्वाहा ॥ प्रमुञ्चमाना --- देवाः । उपाकृताञ्च्छशमानान् यदस्थाज्जीवं देवानामपि यन्तु पाथस्स्वाहा ॥ देवस्य त्वेत्यादि । अग्नीषोमाभ्यां त्वा जुष्टं नियुनज्मि । पुनर्देवस्य त्वेत्यादि । इन्द्राग्निभ्यां त्वा जुष्टं नियुनज्मि । पुनर्देवस्य त्वेत्यादि । अश्विभ्यां त्वा जुष्टं नियुनज्मि । उत्तरतो यूपस्य नियुनक्ति । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि । इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि । अश्विभ्यां त्वा जुष्टं प्रोक्षामि । अपां पेरुरसीत्यादि 2 सर्वतश्च प्रोक्ष्येत्यन्तं एकस्य कृत्वा पुनरन्यस्य करोति । स्रुच्यमाघार्य प्रत्याक्रम्य । जुह्वा पशून् समनक्ति । सं ते प्राणो वायुना इत्यादि । श्रोण्यां, इत्यन्तं एकस्य कृत्वा इतरस्य करोति । ध्रुवा समञ्जनादि कर्म प्रतिपद्यते । दश प्रयाजानिष्ट्वा प्रत्याक्रम्य जुह्वा स्वरुत्रयं स्वधितिं च अनक्ति । स्वर्वञ्जनं तन्त्रेण करोति । सकृत् स्वधितेरन्यतरां धाराम् । स्वरुमन्तर्धाय स्वधितिना एकं पशुं समनक्ति । पुनः स्वधित्यञ्जनम् । अन्यमन्यं स्वरुमन्तर्धाय स्वधितिना एवमितरौ समनक्ति । पर्यग्निकरणं तन्त्रेण । पर्यग्नये क्रियमाणायानुब्रूहि इत्यनूहेन सम्प्रेष्यति । प्रजानन्तः --- सुवर्गं यात पथिभिः --- प्रतितिष्ठत शरीरैस्स्वाहा । पशुपतेः पशवो --- तेषां यान् वव्रिरे देवास्ता77 स्वराडनुमन्यता77 स्वाहा ॥ त्रयाणां तन्त्रेण प्रमोकः । ये बध्यमानाननुबध्यमाना अभ्यैक्षन्त संविदानस्स्वाहा ॥ प्रमुच्यमाने । प्रमुञ्चमाना --- देवाः । उपाकृताञ्च्छशमानान् यदस्थाज्जीवं देवानामपि यन्तु पाथस्स्वाहा ।। प्रणीयमाने । वपाश्रपणीभ्यां मुख्यं पशुमन्वारभेते अध्वर्युर्यजमानश्च । एक एव अध्रिगुसम्प्रैषः । तन्त्रेण अग्नेर्हरणम् । नाना प्राणो यजमानस्य पशुभिर्यज्ञो देवेभिस्सह देवयानः । जीवं देवानामपि यन्तु
१. एक एव स्वरुरिति द्रा प्र।
२. अत्र काण्डानुसमयः उक्तः । अपां पेरुरसीत्यादौ पदार्थानुसमयेनापि अनुष्ठातुं शक्यते ।
 
पाथस्सत्यास्सन्तु यजमानस्य कामाः ॥ अध्वर्युर्जपति । पृथिव्यास्सम्पृचः पाहि इत्यावर्तते । अमायुं कृण्वन्तः संज्ञपयत इति सम्प्रैषः । स्वर्विदस्स्थ स्वर्वित्वा स्वरित स्वर्मह्य88 स्वः पशुभ्यो लोकविदस्स्थ लोकं वित्वा लोकमित लोकं मह्यं लोकं पशुभ्यो गातुविदस्स्थ गातुं वित्वा गातुमित गातुं मह्यं गातुं पशुभ्यो नाथविदस्स्थ नाथं वित्वा नाथमित नाथं मह्यं नाथं पशुभ्यः ॥ न वा उवे तन्म्रियध्वे न रिष्यथ देवा99 इदिथ पथिभिस्सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र वो देवस्सविता दधातु ॥ आशानां व आशापालेभ्यः --- वयम् ॥ नाना प्राणो यजमानस्य पशुभिर्यज्ञो देवेभिस्सह देवयानः । जीवं देवानामपि यन्तु पाथस्सत्यास्सन्तु यजमानस्य कामाः ॥ इन्द्रस्य भागः सुविते --- यो नो द्वेष्ट्यनुत99 रवध्वं --- वीराः । यदस्य पारे रजसः --- स्वाहा । यस्माद्भीषा वाशिढ्वं ततो नो अभयं कृत 1। प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- स्वाहा ॥ यस्माद्भीषा न्यषदत ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- स्वाहा ॥ यस्माद्भीषा वेपिढ्वं ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- स्वाहा ॥ यस्माद्भीषा पलायिढ्वं ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- स्वाहा ॥ यस्माद्भीषा समज्ञाध्वं ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः --- स्वाहा ॥ यस्माद्भीषा निमेहथ ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ यस्माद्भीषा शकृत्कुरुथ ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ यत्पशवो मायुमकृषतोरो वा पद्भिराघ्नते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्व99हसस्स्वाहा ॥
वपाश्रपण्योः तन्त्रेण प्रतितपनम् । शमितार उपेतन --- पाशेभ्यः पशून् प्रमुञ्चत --- परि ।। अदितिः पाशं प्रमुमोक्त्वेतन्नमः --- करोमि इति क्रमेण पाशान् प्रमुच्य अरातीयन्तमिति तन्त्रेण व्युदसनम् । वाक्त आप्यायतां इति क्रमेण आप्यायनम् । शमोषधीभ्य इति सर्वेषामन्ते निनीय । ओषधे त्रायस्व इत्यादि क्रमेण । रक्षसां भागास्स्थ इति निरसनम् । अग्नीषोमाभ्यां त्वा जुष्टामुत्कृन्तामि । इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामि । अश्विभ्यां त्वा जुष्टामुत्कृन्तामि । शमिता तु वपोद्धरणापिधानं मुख्यस्यैव करोति । प्रत्युष्टमिति शामित्रे प्रतितपनं तन्त्रेण । मुख्यस्य वपाश्रपण्योः अन्वारम्भः । निर्दग्धमिति आहवनीयस्यान्तमे अङ्गारे वपानिकूडनं तन्त्रेण । वायो वीहि स्तोकानां
१. अभयं कुरुत इति द्रा. प्र. ।
 
इति भेदेन । त्वामु ते दधिरे इत्यभिहोमस्तन्त्रेण। यस्त आत्मा इति प्रत्येकमनूहेन अभिघारणम् । केचिदूहमिच्छन्ति 1 । दृ99हत गा दृ99हत गोपतिं मा वो यज्ञपती रिषत् इति तन्त्रेणोद्वास्य । सुपिप्पला ओषधी कृत इति दक्षिणस्यां वेदिश्रोण्यां बर्हिषि प्लक्षशाखायां तन्त्रेणासादनम् 2। प्रयुता द्वेषा99सि इत्यावृत्तिः । इदमिन्द्रियं इति पृथक्पृथगभिमर्शनम् । उत्तमप्रयाजादि । पूर्वं परिवप्यं हुत्वा क्रमेण वपा प्रचारः । अग्नीषोमाभ्यां छागस्य वपाया मेदसोऽनुब्रू३हि, अग्नीषोमाभ्यां छागस्य वपाया मेदसः प्रेष्य । इन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रू३हि । इन्द्राग्निभ्यां छागस्य वपाया मेदसः प्रेष्य । अश्विभ्यां छागस्य वपाया मेदसोऽनुब्रू३हि, अश्विभ्यां छागस्य वपाया मेदसः प्रेष्य । सर्वेषां इन्द्रियावी भूयासम् । जेमानं महिमानमिति वा । उत्तरं परिवप्यं हुत्वा । पृथग्वपोद्धरणाभिघारणं वपाश्रपणी प्रहरणं च । सकृदेव संस्रावेणाभिजुहोति ।
अग्नीषोमीयादीनां पशुपुरोडाशानां पात्रसंसादनादि कर्म प्रतिपद्यते । त्रयस्त्रिंशत् कपालानि स्फ्यश्च द्वन्द्वम् । निर्वपणकाले अग्नीषोमाभ्यां त्वा जुष्टं निर्वपामि । इन्द्राग्निभ्यां त्वा जुष्टं निर्वपामि । अश्विभ्यां त्वा जुष्टं निर्वपामि । अग्नीषोमौ हव्य99 रक्षेथामिन्द्राग्नी हव्य99 रक्षेथामश्विनौ हव्य99 रक्षेथाम् । एवमेव प्रोक्षणमधिवापस्संवापश्च । हविष्कृता वाचं विसृज्य पशुं विशास्ति । गुदानि मा निर्व्लेषीर्वनिष्ठून मा निर्व्लेषीः इति सम्प्रेष्यति । सर्वेषां तूष्णीमभिघारणम । प्रियेणेत्यासादनम् । अयं यज्ञो, यो नः कनीयो --- अपतमिन्द्राग्नी भुवनान्नुदेता --- विदेय ऐन्द्राग्नम् । यो नः कनीयो --- अपतमश्विनौ भुवनान्नुदेता --- विदेय आश्विनम् । ममाग्ने, पञ्चहोतेत्यासन्नाभिमर्शनम् । प्रचरणकाले अग्नीषोमाभ्यां पुरोडाशस्यानुब्रू३हि । अग्नीषोमाभ्यां पुरोडाशस्य प्रेष्य । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् । इन्द्राग्निभ्यां पुरोडाशस्यानुब्रू३हि । इन्द्राग्निभ्यां पुरोडाशस्य प्रेष्य । इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । अश्विभ्यां पुरोडाशस्यानुब्रू३हि । अश्विभ्यां पुरोडाशस्य प्रेष्य । अश्विभ्यामिदम् । अश्विनोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । शृत99 घाहवीः इत्याद्यनूहः । सं ते मनसा --- अग्नीषोमाभ्यां त्वा जुष्टमभिरयामि । अन्यः पृषदाज्यमानयति । अध्वर्युः पुनः सं ते मनसा --- इन्द्राग्निभ्यां त्वा जुष्टमभिघारयामि । पुनः सं ते मनसा --- अश्विभ्यां त्वा जुष्टमभिघारयामि । यस्त आत्मा इति क्रमेण आज्येन पशुमभिघारयति । स्वाहोष्मण
 
१. ये व आत्मानो पशुषु प्रविष्टा देवानां विष्ठामनुये वितस्थिरे । आत्मन्वन्तस्सोम घृतवन्त हि भूत्वा देवान्गच्छत सुवर्विन्दत यजमानाय मह्यम् ॥ इत्यूहित्वा अभिघारणं ।
२. दृ99हेति आवृत्या उद्वासनम्, सुपिप्पला इत्यासादनं भेदेन इति पक्षान्तरम् ।
 
इत्यूष्माभिमन्त्रणं तन्त्रेण । उद्वासनं क्रमेण स्वेन स्वेन हृदयशूलेन सह । पञ्चहोत्रासादनं क्रमेण । इदमिन्द्रियमिति क्रमेण । अभ्यावर्तते मनोता । चतसृषूपस्तृणीतेत्यादि । जुह्वां दैवतान्यवदाय उपभृति स्विष्टकृदर्थं त्र्यङ्गान्यवदाय नाभिघारयति । अथ हविषा प्रचरति । अग्नीषोमाभ्यां छागस्य हविषोऽनुब्रू३हि, अग्नीषोमाभ्यां छागस्य हविषः प्रेष्य । अर्धर्चे वसाहोमं कृत्वा न दिग्यागः । वसाहोमशेषमन्यत्र निधाय । पुनः जुहूं वसाहोमहवनीं चोपस्तीर्य दैवतान्यवदाय, उपभृति हविष्येव त्र्यङ्गान्यवदाय नाभिघारयति । अथ ऐन्द्राग्नयागः इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रू३हि । इन्द्राग्निभ्यां छागस्य हविषः प्रेष्य। पूर्ववत् वसाहोमः, शेषनिधानं च । पुनः जुहूं वसाहोमहवनीं चोपस्तीर्य दैवतान्यवदाय, उपभृति हविष्येव त्र्यङ्गान्यवदाय द्विरभिघारयति आश्विनयागः अश्विभ्यां छागस्य हविषोऽनुब्रू३हि, अश्विभ्यां छागस्य हविषः प्रेष्य । पूर्ववत् वसाहोमं कृत्वा सर्वेषां वसाहोमशेषमेकीकृत्य दिग्यागः । सर्वेषां हविषां इन्द्रियावी भूयासं, जेमानं महिमानं इति वा अनुमन्त्रणम् । वनस्पतियागादि । गुदहोमे सर्वेषां गुदकाण्डैरुपयज उपयजति समुद्रं गच्छत स्वाहान्तरिक्षं गच्छत स्वाहा इत्यादि सर्वत्र ऊहः । न स्वरुहोमः । न हृदयशूलोद्वासनम् । अननूबन्ध्यापक्षे सवनीयेन सह स्वरुहोमः शूलोद्वासनं च । सर्वेषां जाघनीभिः तन्त्रेण पत्नीस्संयाजयन्ति । सन्तिष्ठते त्रिपशुप्रयोगः ॥
॥ इति त्रिपशुप्रयोगः ॥