सामग्री पर जाएँ

आपस्तम्बीय श्रौतप्रयोगः/तृतीयसवनम्

विकिस्रोतः तः

॥ अथ तृतीयसवनम् ॥
आदित्यग्रहप्रचारः :-
आदित्यारम्भणं तृतीयसवनम् । हविर्धानस्योभे द्वारौ संवृत्यादित्यपात्रेण य आदित्यस्थाल्यां द्विदेवत्यग्रहसम्पातास्तेभ्यस्सोमं गृह्णाति । कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यते । उपयामगृहीतोऽस्यादित्येभ्यस्त्वा एकदेशं सोमं गृहीत्वा कदा चन प्रयुच्छस्युभे नि पासि जन्मनी । तुरीयादित्य सवनं त इन्द्रियमातस्थावमृतं दिवि । उपयामगृहीतोऽस्यादित्येभ्यस्त्वा तस्मिन् शृतातङ्क्यं दधि गृहीत्वा । यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः । आवोर्वाची सुमतिर्ववृत्यादꣳहोश्चिद्या वरिवोवित्तरासत् । उपयामगृहीतोऽस्यादित्येभ्यस्त्वा पुनस्सोमं गृहीत्वा । विवस्व आदित्यैष ते सोमपीथस्तेन मन्दस्व तेन तृप्य तृप्यास्म ते वयं तर्पयितारः तस्मिन् ग्रावाणमुपांशुसवनमवधाय । तेनैनं लोडयित्वा ग्रावाणं यथास्थानं निधाय । सूर्यो मा देवो देवेभ्यः पातु वायुरन्तरिक्षाद्यजमानोऽग्निर्मा पातु चक्षुषः । सक्ष शूष सवितर्विश्वचर्षण एतेभिस्सोम नामभिर्विधेम ते तेभिस्सोम नामभिर्विधेम ते दर्भैर्हस्तेनापिधायोत्तिष्ठति । अहं परस्तादहमवस्तादहं ज्योतिषा वितमो ववार । यदन्तरिक्षं तदु मे पिता भूदहꣳ सूर्यमुभयतो ददर्शाहं भूयासमुत्तमस्समानानां आदित्यं यजमानोऽन्वारभत आ होमात् । कविर्यज्ञस्य वि तनोति पन्थां नाकस्य पृष्ठे अधि रोचने दिवः । येन हव्यं वहसि यासि दूत इतः प्रचेता अमुतस्सनीयान् हरति । आ समुद्रादान्तरिक्षात् प्रजापतिरुदधिं च्यावयातीन्द्रः प्रस्नौतु मरुतो वर्षयन्तु दर्भेराच्यावयति । आदित्येभ्योऽनुब्रूहि प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्व सरस्वपतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः इति पुरोनुवाक्यां सम्प्रेष्यति । आश्राव्य प्रत्याश्राविते । आदित्येभ्यः प्रेष्य प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्व सरस्वपतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः इति सम्प्रैषौ । यास्ते विश्वास्समिधस्सन्त्यग्ने याः पृथिव्यां बर्हिषि सूर्ये याः । तास्ते गच्छन्त्वाहुतिं घृतस्य देवायते यजमानाय शर्म दर्भानाहवनीये प्रास्य अन्यत्रेक्षमाण आदित्यं तूष्णीं जुहोति । आदित्येभ्य इदम् । न हुत्वान्वीक्षेत । सूदवदादित्यपात्रमायतने सादयति । महाभिषवः :-
अथ महाभिषवः । होतृचमसे वसतीवरीरानीय निग्राभ्याः करोति । निग्राभ्यास्स्थ देवश्रुत इत्यादि । अस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथो अपीहि अदाभ्यांशुम् । यत्ते सोमादाभ्यम् इत्युपांशुपावनौ चापिसृज्य । यश्चोपांशुपात्रे अंशुस्तमृजीषे अपिसृज्य । प्रातस्सवनवन्महाभिषवः । पुरस्तादध्वर्युरित्यादि ऋजीषोपोहनान्ते । प्रतिप्रस्थातस्सवनीयान्निर्वप।
 
पयस्यावर्जं सवनीयाः । कर्मणे वामित्यादि । प्रातस्सवने एव उपहितेषु कपालेषु अङ्गाराध्यूहनादि इराभूतिरित्यन्तं प्रतिप्रस्थाता करोति ।
आशिरावनयनम् :-
आग्नीधे पत्नी आशिरं मथित्वा अपरया द्वारा हविर्धानं प्रपादयति । पूर्वया यजमानः प्रपद्यते । पूतभृतो बिले प्रतिहर्ता उदीचीनदशं पवित्रं वितत्य । तस्मिन् यजमानः पवित्रं त इत्यभिमन्त्र्य पुरस्तात् प्रत्यङ्तिष्ठन् मुख्यया सह पत्न्या आशिरमवनयति । अस्मे देवासो वपुषे चिकित्सत यमाशिरा दम्पती वाममश्नुतः । पुमान् पुत्रो जायते विन्दते वस्वथ विश्वे अरपा एधते गृहः ॥ आशीर्दाया दम्पती वाममश्नुतामरिष्टो रायस्सचताꣳ समोकसा । य आसिचत्सन्दुग्धं कुम्भ्या सहेष्टेन यामन्नमतिं जहातु सः ॥ सर्पिर्ग्रीवी पीवर्यस्य जाया पीवानः पुत्रा अकृशासो अस्य । सहजानिर्यस्सुमुखस्यमान इन्द्रायाशिरꣳ सह कुम्भ्यादात् ॥ आशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्रविणꣳ सवर्चसम् । सञ्जयन् क्षेत्राणि सहसाऽहमिन्द्र कृण्वानो अन्याꣳ अधरान् सपत्नान् ॥ ततो द्रोणकलशे तूष्णीं दशापवित्रं निधाय तस्मिन् होतृचमसेन धारां स्रावयति । अध्वर्युर्धाराग्रहणकाले आग्रयणमेव गृह्णाति चतसृभ्यो धाराभ्यः । आग्रयणादुत्सिच्य तां द्वितीयां धारां करोति । आदित्यस्थाल्या तृतीयाम् । आदित्यग्रहसंपाताच्चतुर्थीम् । ये देवा दिव्येकादश स्थ इत्यादिना गृहीत्वा त्रिर्हिंकृत्य सोमः पवत इत्यादि । विरमति धारा । एकधनानां किञ्चित् स्थापयित्वा आधवनीयेऽवनीय पूतभृतो बिल इत्यादि । पञ्चहोत्राभिमर्शनान्ते । द्वौ समुद्रौ । द्वे द्रधसी । परिभूरग्निम् । आत्मने मे । पुष्ट्यै मे । विष्णोर्जठरमसि । इन्दस्य जठरमसि । विश्वेषां देवानां जठरमसि । सोम त्वां वृणीमहे । शृतोऽस्यात्मानं मे । शृतास्स्थ पुष्टिं मे । प्रजपतेर्जठरमसि । इन्द्रस्य जठरमसि । विश्वेषां देवानां जठरमसि । शृतस्त्वं इत्यादि ।
आर्भवपवमानसर्पणम् :- वैप्रुषान् सप्तहोतारं च हुत्वा माध्यन्दिनवदार्भवपवमानं सर्पन्ति । वागग्रेगाः । जागतः पन्था आदित्या देवता वृकेणापरिपरेण पथा स्वस्त्यादित्यानशीय सर्पणे विकारः । वायुर्हिङ्कर्ता । ब्रह्मा - देव सवितः । सुदीतिरस्यादित्येभ्यस्त्वादित्यां जिन्व । ओᳪ、स्तुत। आयुषे हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्यै पुरस्तादार्भवपवमानाद्यजमानो जपति । पञ्च होतारं व्याचष्टे आयुर्वै हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्यै इति च । स्तूयमाने च पञ्चहोतारं जपति । पुरो३१जी३तीवो अन्धा३सा इति मध्यमायां च स्तोत्रियायां सघासि जगती छन्दा अनु त्वा रभे स्वस्ति मा सं पारय अन्वारोहं जपति । स्तुतस्य स्तुतमसि । स्तुतेऽध्वर्युः
 
सम्प्रेष्यति अग्नीदग्नीन् विहर बर्हिस्तृणीहि पुरोडाशाꣳ अलङ्कुरु प्रतिप्रस्थातः पशौ सं वदस्व । अत्र शलाकाभिर्ज्वलतो धिष्णियान् विहृतान्न व्याघारयेत् । उपरिष्टाद्व्याघारणम् । आग्नीध्रः – कर्मणे वामित्यादि । अलङ्करणान्ते विष्णो त्वं नो अन्तमः । प्रतिप्रस्थाता शृतꣳ हवी३श्शमितः इत्यादि हृदयाभिघारणान्तं कृत्वा2 । अध्वर्युः – यस्त आत्मेत्यादि । अग्नये छागस्य हविषोऽनुब्रू३हि । अग्नये छागस्य हविषः प्रेष्य । अग्नय इदम् । अग्नेरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानम् इति वा । पश्विडायां भूयस्येहीत्यादि सा मे सत्याशीराशीर्म ऊर्जमिति इति च भवति । मार्जनान्ते सोमः पवित्रꣳ स मा पुनातु । कलशो ह्वयताम् । सोमो ह्वयताम् । प्रतिप्रस्थाता सवनीयानासादयति । जुह्वामुपस्तीर्य । तृतीयस्य सवनस्येन्द्राय पुरोडाशानामनुब्रू३हि । तृतीयस्य सवनस्येन्द्राय पुरोडाशानां प्रेष्य इति सम्प्रेषौ ।
तृतीयसवनस्य होतृकाणां चमसप्रचारः :- होत्र इडां हृत्वा हविर्धानं गच्छन् सम्प्रेष्यति । उन्नीयमानेभ्योऽनुब्रू३हि । प्रचरणकाले होतृचमसमध्वर्युरादत्ते । तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतो वाजवतस्सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्रां आशीर्वत इन्द्राय सोमान् इत्यादि । श्येनाय पत्वने स्वाहा वषट्कृते जुहोति । वट्स्वयमभिगूर्ताय नमस्स्वाहा अनुवषट्कृते । इन्द्राय ऋभुमत इदम् । अग्नये स्विष्टकृत इदम् । प्रैतु होतुश्चमस इत्यादि । मैत्रावरुणचमसमादाय विष्टम्भाय धर्मणे स्वाहा । वट्स्वयमभिगूर्ताय नमस्स्वाहा इति सर्वत्रानुवषट्कृते । इन्द्रावरुणाभ्यामिदम् । अग्नये स्विष्टकृत इदम् इति सर्वत्रानुवट्कृते । परिधये जनप्रथनाय स्वाहा ब्राह्मणाच्छंसिचमसे । इन्द्राबृहस्पतिभ्यामिदम् । ऊर्जे होत्राणाꣳ स्वाहा पोतृचमसे । मरुद्भ्य इदम् । पयसे होत्राणाᳪ、 स्वाहा नेष्टृचमसे । त्वष्ट्र इदम् । प्रजापतये मनवे स्वाहा अच्छावाकचमसे । इन्द्राविष्णुभ्यामिदम् । ऋतमृतपास्सुवर्वाट्स्वाहा आग्नीध्रचमसे । अग्नये जातवेदस इदम् । तृम्पताꣳ होत्रा मधोर्घृतस्य सर्वान् हुत्वाध्वर्युर्जपति । आग्नीध्रचमसमादाय । सद एत्य अयाडग्नीदित्याचष्टे । पर्वाञ्जनादि पुरोडाशं विहाय हविश्शेषान् भक्षयन्ति । ततश्चमसानां भक्षणम् । होतृचमसमध्वर्युः प्रतिभक्षयति । होतृकाणां च तैस्तैस्सह । होतुः प्रथमं स्वचमसे द्विर्भक्षणम् । मध्यतःकारिणां च । होतृकाणां चमसेषु सकृत् । तेषां स्वस्वचमसे द्विर्भक्षणम् । ततस्समाख्या भक्षणम् । सर्वेषां चमसाप्यायने वसतीवरीस्समाप्तिः ।
पितृभ्यः पिण्डदानम् :-
१. स्तुतेध्वर्युः उत्तिष्ठन् सम्प्रेष्यति इति द्रा. प्र. ।
२. आसादनान्तं प्रतिप्रस्थाता इत्युपदेशः । एवमेव द्रा. प्र. ।
 
सन्नेषु नाराशंसेषु चमसिनः स्वं स्वं चमसमनून्यन्ते1 । प्राचीनावीतिनः एतत्ते ततासौ ये च त्वामनु इत्येतैः प्रतिमन्त्रं त्रींस्त्रीन् पुरोडाशशकलानुपवपन्ते । स्वेभ्यः पितृभ्यः एव । नमो वः पितरो रसाय नमो वः पितरश्शुष्माय नमो वः पितरो जीवाय नमो वः पितरस्स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वो य एतस्मिल्लोके स्थ युष्माᳪ、स्तेनु येऽस्मिल्लोके मां तेनु य एतस्मिल्लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मिल्लोकेऽहं तेषां वसिष्ठो भूयासम् इति नमस्कारान् जपन्ति । सूर्यं ते चक्षुः इति षड्ढोतारं यजमानो व्याचष्टे । उपवीतिनः प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयᳪँ、 स्याम पतयो रयीणाम् इति प्राजापत्ययर्चावतिष्ठन्ते ।
सावित्रग्रहग्रहणं, प्रचारश्च :-
वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यꣳ सावीः । वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजस्स्याम । उपयामगृहीतोऽसि देवाय त्वा सवित्रे अन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृहीत्वा न सादयति । पवित्रदशाभिः परिमृज्य तमादायाहवनीयं गत्वा । देवाय सवित्रेऽनुब्रू३हि । आश्राव्य प्रत्याश्राविते देवाय सवित्रे प्रेष्य । नानुवषट्कारो न भक्षयति । देवाय सवित्र इदम् ।
वैश्वदेवशस्त्रम् :-
एतेनैव सावशेषेण वैश्वदेवं पूतभृतो गृह्णाति उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षे नमः गृहीत्वा पवित्रदशाभिः परिमृज्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः सादयति । न स्तोत्रं भवति । इडा देवहूरित्यादि । वैश्वदेवं प्रतिगृणाति । प्र द्यावा यज्ञैः पृथिवी ऋतावृधेत्यभिज्ञाय उभयतो मोदं प्रतिगृणाति । मदा मोद इव इत्यर्धर्चे । मोदा मोद इव इत्यवसानेषु । आ व्याहावात् । नियुद्भिर्वायविहता विमुञ्चेत्यभिज्ञाय प्रतिप्रस्थाता द्विदेवत्यपात्राणि वायुर्वो विमुञ्चतु इति विमुच्याऽपरया द्वारा निर्हृत्य मार्जालीये प्रक्षाल्य पूर्वयातिहृत्य यथायतनं सादयति । शस्त्रस्य शस्त्रमसि । अग्नये पथिकृत इत्यादि शस्त्रप्रायश्चित्तं हुत्वा । उक्थशा यज सोमस्य वषट्कृतानुवषट्कृते जुहोति । अनुप्रकम्पयन्ति नाराशंसान् । विश्वेभ्यो देवेभ्य इदम् । काव्येभ्यः पितृभ्य इदम् । अग्नये स्विष्टकृत इदम् । ग्रहमध्वर्युः प्रतिभक्षयति । सर्वभक्षाश्चमसा भवन्ति ।।
सौम्यचरोः करणं, प्रचारश्च :-
सौम्यस्य चरोस्तन्त्रं प्रक्रमयति । उत्तरेण गार्हपत्याहवनीयौ दर्भान् संस्तीर्य स्थालीम् शूर्पं च कृष्णाजिनं च दर्भं च उलूखलं च मुसलं च । पुरतः पात्रीं मेक्षणं उत्पवनार्थपात्रं दर्भं च । पवित्रे
१. न्यन्ते समीपे भूमौ इति भाष्यम् ।
 
कृत्वा यजमान वाचं यच्छ । सं विशन्ताम् इत्यादि । सोमाय जुष्टं निर्वपामि । सोम हव्यꣳ रक्षस्व । सोमाय वो जुष्टं प्रोक्षामि । शुन्धध्वम् इति सर्वाभिरद्भिस्त्रिः प्रोक्षति । कृष्णाजिनादानादि । हस्तेन तुषोपवापः । धृष्टिरसि । ध्रुवोऽसि इति स्थालीमुपदधाति । तण्डुलानुत्पूय देवो व इत्यप उत्पूय स्थाल्यामासिञ्चति । घर्मोऽसि इति स्थाल्यां तण्डुलान् क्षिपति । अन्तरितꣳ रक्षः । अविदहन्तश्श्रपयत । अयं प्राणश्च इति प्रस्तरे पवित्रे अपिसृज्य । तूष्णीमभिघार्योद्वास्य । देवस्त्वा सविता मध्वानक्तु । प्रियेणेत्यासादनम् । अयं यज्ञो, ममाग्ने, चतुर्होता इत्यासन्नाभिमर्शनम् । अध्वर्युः - अन्तरा यूपमाहवनीयं च स्रुचौ हृत्वा दक्षिणत उपविश्य । प्राचीनावीती यजमानः पञ्चहोतारं वदेत् । अध्वर्युः प्राचीनावीती जुह्वामुपस्तीर्य हस्तेन प्रथममवदानमवद्यति । मेक्षणेनोत्तरम् । अभिघार्य न हविः प्रत्यभिघारयति । उदङ्ङतिक्रम्य दक्षिणामुखस्तिष्ठन्नाश्राव्य प्रत्याश्राविते सौम्यस्य यज । वषट्कृते दक्षिणार्धे जुहोति । सोमायेदम् । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । यज्ञोपवीत्यप उपस्पृश्य । यथेतं गत्वा जुह्वां चतुर्गृहीतं गृहीत्वा दक्षिणातिक्रम्याश्राव्य प्रत्याश्रविते घृतस्य [उपांशूक्त्वा] यज [उच्चैः] । वषट्कृते जुहोति । अग्नाविष्णुभ्यामिदम् । दब्धिरसि1 । प्रत्याक्रम्य आज्येन चरुमभिपूर्य उद्गातृभ्यो हरन्ति । उद्गातारोऽवेक्षन्ते । अत्र पुनः शलाकाभिर्ज्वलतो धिष्णियान् विहृतानाज्येनैव प्रचरण्यामष्टगृहीतेन व्याघार्य धारयति धिष्णियानाज्यशेषं च । आहवनीयं न व्याघारयति ।
पात्नीवतग्रहप्रचारः :-
उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इन्दो इन्द्रियावतः पत्नीवन्तं ग्रहं गृह्णामि उपांशुपात्रेण पात्नीवतमाग्रयणाद्गृहीत्वा पवित्रदशाभिः परिमृज्य न सादयति । व्याघारणशेषेण श्रीत्वाश्राव्य प्रत्याश्रविते संप्रेष्यति । अग्नीत् [उच्चैः] पात्नीवतस्य [उपांशु] यज [उच्चैः] । वषट्कृते जुहोति । अग्ना३इ पत्नीवा३स्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा । अग्नये पात्नीवते त्वष्ट्र इदम् । ततः संप्रेष्यति । अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोन्नेतर्होतुश्चमसमनून्नय होतृचमसे ध्रुवायावकाशं कुरूद्गात्रा पत्नीꣳ सङ्ख्यापयाप उप प्रवर्तय । अन्तरा नेष्टारं धिष्णियं चाग्नीध्रो व्यवसृप्य भक्षयति । तमध्वर्युः प्रतिभक्षयति । पूतभृतो बिल इत्यादि । होतृचमसे ध्रुवायावकाशं कुर्वन् होतृचमसमुख्यान् चमसानुन्नयन् दशाभिः कलशौ मृष्ट्वा न्युब्जति ।।
यज्ञायज्ञियस्तोत्रोपाकरणं, आग्निमारुतशस्त्रं च :-
असर्ज्य॑सर्जि इति यज्ञायज्ञियस्य स्तोत्रमुपाकरोति । ब्रह्मा – देव सवितः । ओजोऽसि
१. आज्येन उपांशूभयतः यागपक्षे प्रथमं ध्रौवाज्यं चतुर्गृहीतं गृहीत्वा दक्षिणातिक्रम्य घृतस्य यज इति संप्रेष्यति । वषट्कृते जुहोति । यजमानः - अग्नय इदम् । दब्धिरसि । प्रत्याक्रम्य सौम्यमिष्ट्वा पुनश्चतुर्गृहीतं गृहीत्वा पुनः घृतस्य यज इति संप्रेष्यति । वषट्कृते जुहोति । यजमानः - विष्णव इदम् । दब्धिरसि ।
 
पितृभ्यस्त्वा पितॄन् जिन्व । ओᳪ、 स्तुत । ज्वलयन्ति धिष्णियान् । प्रावृतशिरस्काः यज्ञायज्ञियेन स्तुवते । ये प्रसृप्तास्स्युस्ते सर्वेऽग्निष्टोममुप गायेयुः । सप्तहोतारं यजमानो व्याचष्टे । विश्वस्य ते विश्वावतो वृष्णियावतस्तवाग्ने वामीरनु सन्दृशि विश्वा रेताꣳषि धिषीय नेष्टा हिङ्कारमनूद्गात्रा पत्नीं सङ्ख्यापयत्या तिसृभ्यस्स्तोत्रीयाभ्यः । अगन् देवान् यज्ञो नि देवीर्देवेभ्यो यज्ञमशिषन्नस्मिन् सुन्वति यजमान आशिषस्स्वाहाकृतास्समुद्रेष्ठा गन्धर्वमा तिष्ठतानु । वातस्य पत्मन्निड ईडिताः पत्न्यप उपप्रवर्तयति । दक्षिणेनोरुणा नग्नेन प्राचीमुदीचीर्वा
आभिमुख्यमूर्वोरुपप्रवर्तयेदित्येके । आ तिसृभ्यस्स्तोत्रीयाभ्यस्त्रिस्सङ्ख्यापनं प्रवर्तनं निनयनमित्येके । स्तुतस्य स्तुतमसि । इडा देवहूः । अभ्यग्रमाग्निमारुतं1 प्रतिगृणाति । आपो हि ष्ठा मयोभुव इत्यभिज्ञाय अपो विषिञ्चन् प्रतिगृणाति । स्वादुष्किलायं मधुमान् उतायुमिति होतुरभिज्ञाय उभयतो मोदं प्रतिगृणाति । मदामोदैव मोदामोदैव इत्या व्याहावात् । परिधानीयायां द्विः शस्तायाम् । भूतमसि भूते मा धा मुखमसि मुखं भूयासम् प्रतिप्रस्थाता ध्रुवमवेक्ष्य । द्यावापृथिवीभ्यां त्वा परिगृह्णामि अञ्जलिना परिगृह्य । विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्तु दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्यां पार्थिवान् हृत्वा । ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नस्सर्वमिज्जगदयक्ष्मꣳ सुमना असत् । यथा न इन्द्र इद्दिशः केवलीस्सर्वास्समनसः करत् । यथा नस्सर्वा इद्दिशोऽस्माकं केवलीरसन्न् पुरस्तात् प्रत्यङ्ङासीनो होतृचमसे ध्रुवमवनयति । यजमानः – शस्त्रस्य शस्त्रमसि । अध्वर्युः - उक्थं वाचीन्द्राय इत्याह तृतीयसवनं प्रतिगीर्य । शस्त्रं शस्त्रं वा । शस्त्रप्रायश्चित्तं हुत्वा प्रचरणकाले होतृचमसमध्वर्युरादत्ते । चमसान्श्चमसाध्वर्यवः आश्राव्य प्रत्याश्राविते संप्रेष्यति उक्थशा यज सोमानाम् । वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् । अग्नये वैश्वानराय मरुद्भ्य इदम् । अग्नये स्विष्टकृत इदम् । होतृचमसमध्वर्युः प्रति भक्षयति । भक्षेहीत्यादि । होतरुपह्वयस्व । सुभूरसि श्रेष्ठो रश्मीनां प्रियो देवानाꣳ सꣳसदनीयः । तं त्वा सुभव देवा अभि संविशन्तु । इषोऽसि त्वेषोऽसि नृम्णोऽसि यह्वोऽसि व्रतोऽसि स्वोऽसि चारणोऽसि तस्य त इषस्य त्वेषस्य नृम्णस्य यह्वस्य व्रतस्य स्वस्य चारणस्य शूद्रस्य चार्यस्य च भुक्षिषीय भक्षयति । हिन्व मे । सर्वभक्षाश्चमसा भवन्ति । प्रक्षालितेषु चमसेषु । यथा त्वꣳ सूर्यासि विश्वदर्शत एवमहं विश्वदर्शतो भूयासम् आदित्यं यजमान उपतिष्ठते । आयुर्म इन्द्रियं धेह्यदो म आगच्छतु आहवनीयम् । यत्कामयते तस्य नाम गृह्णाति ।
अनूयाज उपयड्ढोमादि पाशुकं कर्म :-
१. अभ्यग्रं - त्वरितम् ।
 
अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते । अनूयाजान्ते जुह्वां स्वरुमवधाय द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहा । स्वरव इदम् । सूक्तवाके अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । वनस्पतय इदम् । वनस्पतेरहमुज्जितिम् । इन्द्राय वसुमत इदम् । इन्द्राय रुद्रवत इदम् । इन्द्रायादित्यवत ऋभुमते विभुमते प्रभुमते वाजवते 1 बृहस्पतिवते विश्वदेव्यावत इदम् 2। देवेभ्य आज्यपेभ्य इत्यादि । एमा अग्मन्नित्यादि विद्यते ।
वाजिनहोमः :-
परिधीन् प्रहृत्य संस्रावान्तं कृत्वा वाजिनपात्र उपस्तीर्य अन्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गह्णाति । नाभिघारयति । वाजिभ्योऽनुब्रू३हि । वाजिनो यज । वषट्कृते जुहोत्यनुवषट्कृते च । वाजिभ्य इदम् । वाजिनामहं देवयज्ययेन्द्रियावी । जेमानम् इति वा । अग्नये स्विष्टकृत इदम् । पशुबन्धवद्दिशः प्रतीज्या । अन्तर्वेदि शेषं सर्वे समुपहूय भक्षयन्ति । वाजिनां भक्षो अवतु वाजो अस्मान् रेतस्सिक्तममृतं बलाय । स न इन्द्रियं द्रविणम् दधातु मा रिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामि भक्षयित्वा आचम्य ।
हारियोजनहोमः :-
अथोन्नेता हारियोजनं गृह्णाति । उपयामगृहीतोऽसि हरिरसि हारियोजनो हर्यो स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुषस्स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामि द्रोणकलशेन सर्वमाग्रयणं गृहीत्वा न सादयति । पवित्रदशाभिः परिमृज्य बह्वीभिर्धानाभिः श्रीत्वा शीर्षन्नधिनिधायोपनिष्क्रम्य । इन्द्राय हरिवतेऽनुब्रू३हि । इन्द्राय हरिवते प्रेष्य। हरीस्थ हर्योर्धानास्सहसोमा इन्द्राय स्वाहा विक्रम्य वषट्कृतानुवषट्कृते जुहोति । इन्द्राय हरिवत इदम् । अग्नये स्विष्टकृत इदम् । हरति भक्षम् । होतुर्भक्षणानन्तरमपरेणोत्तरवेदिं द्रोणकलशं प्रतिष्ठाप्य उन्नेतर्युपहवमिष्ट्वा सर्वे हारियोजनं भक्षयन्ति । उन्नेता मुख्यादीन् सर्वानुपहूय भक्षयति । उन्नेतरुपह्वयस्वेति सर्वे उन्नेतारमुपहूय भक्षयन्ति । भक्षेहीत्यादि सर्वेषां समानम्3 । उन्नेता भक्षेहीत्यादि । 4होतरुपह्वयस्व । अध्वर्यवुपह्वयस्व ।
१. वाजवते अनन्तरं सवितृवते इति पदं क्षेपणीयम् इति भाति । होत्रा तथा उच्यमानत्वात् ।
२. सवनीयदेवतानां उज्जिति मन्त्रपाठो यद्यपि प्रयोगे नास्ति तथापि यथालिङ्गं सूक्तवाकदेवताः इति सूत्रकारेण उक्तत्वात् तेषामपि मन्त्रपाठो ऊहनीयः इति अनुमीयते । रुद्रदत्तेनापि दर्शपूर्णमासयोरेतत् सूत्रस्य व्याख्याने एष पक्षः दर्शितः।
३. अध्वर्युब्रह्मयजमानसदस्यप्रतिप्रस्थातॄणाम्।
४. सर्वर्त्विज उपह्वयध्वं इति इदानीं अनुष्ठानं वर्तते ।
 

ब्रह्मन्नुपह्वयस्व । उद्गातरुपह्वयस्व । प्रशास्तरुपह्वयस्व । प्रतिप्रस्थातरुपह्वयस्व । ब्रह्मन्नुपह्वयस्व । प्रस्तोतरुपह्वयस्व । अच्छावाकोपह्वयस्व । नेष्टरुपह्वयस्व । अग्नीदुपह्वयस्व । प्रतिहर्तरुपह्वयस्व । ग्रावस्तुदुपह्वयस्व । पोतरुपह्वयस्व । सुब्रह्मण्योपह्वयस्व । यजमानोपह्वयस्व इति सर्वेषाम् । इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि भक्षयित्वा आचम्य । पात्रान्तरेणोद्धृत्य बहिर्वेदि असंभिन्दन्तो धानानि निम्नानि कुर्वन्तः चिश्चिषाकारं भक्षयन्ति । कृष्यै क्षेमाय रय्यै पोषाय भक्षयित्वा जपन्ति । आपूर्या स्थामा पूरयत प्रजया च धनेन च उत्तरवेद्यां शेषान् न्युप्य । यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः मिन्दयाहवनीयमुपतिष्ठन्ते । देवकृतस्यैनसोऽवयजनमसि । मनुष्य कृतस्यैनसोऽवयजनमसि । पितृकृतस्यैनसोऽवयजनमसि । आत्मकृतस्यैनसोऽवयजनमसि । अन्यकृतस्यैनसोऽवयजनमसि । एनस एनसोऽवयजनमसि आहवनीये षट्शकलानभ्याधायैकधनपरिशेषेषु हरिणीदूर्वाः प्रास्य संप्लोम्नाय तीव्रीकृत्य यथाचमसं व्यानीयापरेण चात्वालमास्तावे वा प्रत्यञ्चश्चमसिनः स्वं स्वं चमसमवघ्रेण भक्षयन्ति । ब्रह्मयजमानसदस्याः अप्सु धौतस्य सोम देव ते नृभिस्सुतस्येष्टयजुषस्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर्यो गोसनिस्तस्य ते पितृभिर्भक्षङ्कृतस्योपहूतस्योपहूतो भक्षयामि भक्षयित्वा । समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अरिष्टा अस्माकं वीरास्सन्तु मा परासेचि नस्त्वम् । अच्छायं वो मरुत श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । उत प्रजायै गृणते वयोधुर्यूयं पात स्वस्तिभिस्सदा नः अन्तर्वेदि शेषं निनीय ।
ऋत्विग्भिः सख्यविसर्जनम् :-
दधि क्राव्ण्णो अकार्षं --- तारिषत् आग्नीध्रे दधिद्रप्सान् भक्षयन्ति । उभा कवी युवाना सत्या ता धर्मणस्पती । सत्यस्य धर्मणस्पते वि सख्यानि सृजामहे तानूनप्त्रिणो सख्यानि विसृजन्ते । आज्यलेपान् प्रक्षाल्येत्यादि । पशुबन्धवत् पत्नीसंयाजाः । वेदोऽसीति वेदाभिमर्शनान्ते पिष्टलेपफलीकरणहोमः । यथेतमाहवनीयं गत्वेत्यादि ऐष्टिकप्रायश्चित्तानि हुत्वा । आप्यायतामिति सकृध्रुवामाप्याय्य ।
समिष्टयजुषः होमः :-
ध्रौवमाज्यं जुह्वां नवगृहीतं गृह्णाति । आप्यायतामिति पञ्चकृत्व आप्याय्य शेषमनाप्याय्य ध्रौवसमाप्तिः । धाता रातिरित्यन्तर्वेद्यूर्ध्वस्तिष्ठन् सन्ततं समशो नव समिष्टयजूंषि जुहोति । धाता रातिस्सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः । त्वष्टा विष्णुः प्रजया सꣳरराणो यजमानाय द्रविणं दधातु स्वाहा ॥ धातृसवितृप्रजापत्यग्नित्वष्टृविष्णुभ्य इदम् । समिन्द्र णो मनसा नेषि गोभिस्सꣳ
 
सूरिभिर्मघवन्त्सᳪँ、 स्वस्त्या । सं ब्रह्मणा देवकृतं यदस्ति सं देवानाꣳ सुमत्या यज्ञियानाᳪ、 स्वाहा । इन्द्रायेदम् । सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सꣳ शिवेन । त्वष्टा नो अत्र वरिवः कृणोत्वनुमार्ष्टु तनुवो यद्विलिष्टᳪँ、 स्वाहा ॥ त्वष्ट्र इदम् । यदद्य त्वा प्रयति यज्ञे अस्मिन्नग्ने होतारमवृणीमहीह । ऋधगयाडृधगुताशमिष्ठाः प्रजानन् यज्ञमुपयाहि विद्वान्त्स्वाहा ॥ अग्नय इदम् । स्वगा वो देवास्सदनमकर्म य आ जग्म सवनेदं जुषाणाः । जक्षिवाꣳसः पपिवाꣳसश्च विश्वेस्मे धत्त वसवो वसूनि स्वाहा ॥ विश्वेभ्यो देवेभ्य इदम् । यानावह उशतो देव देवान् तान् प्रेरय स्वे अग्ने सधस्थे । वहमाना भरमाणा हवीꣳषि वसुं घर्मं दिवमातिष्ठतानु स्वाहा ॥ अग्नय इदम् । यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा ॥ यज्ञायेदम् । एष ते यज्ञो यज्ञपते सह सूक्तवाकस्सुवीरस्स्वाहा ॥ यज्ञपतय इदम् । देवा गातुविदो गातुं वित्वा गातुमित मनसस्पत इमं नो देव देवेषु यज्ञᳪँ、 स्वाहा वाचि स्वाहा वाते धास्स्वाहा । देवेभ्यो गातुविद्भ्यो यज्ञाय परमात्मन इदम् । नात्र बर्हिः प्रह्रियते । प्रतिपत्त्यन्तरविधानात् । नाभिस्तृणीहि । यौ देवा मनुष्येषूपवेषावधारयन् । ये अस्मदपचेतसस्तानस्मभ्यमिहा कुरुतम् । उपवेषावुपविष्टं नः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो ध्रुवाननपगां कुरुतम् इत्यूहेनोपवेषद्वयस्योद्वासनम् । यद्घर्मे कपालमुपचिन्वन्ति वेधसः । पूष्णस्तदपि व्रत इन्द्रवायू विमुञ्चतां इति द्विः भर्जनकपालयोर्विमोकः । पशुवत् हृदयशूलोद्वासनम् । शुगसीत्यादि अपो अन्वचारिषमित्यन्तम् ।
[तद्यथा = अनुपस्पृशन् हृदयशूलमुदङ्परेत्यासञ्चरे पशूनामप उपनिनीय । शुष्कार्द्रयोस्सन्धावुद्वासयति । शुगसि तं पाप्मानमभि शोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः तस्मिन् सह पत्नीका मार्जयित्वा । धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्च । उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमᳪँ、 श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम द्वाभ्यामादित्यमुपस्थाय । एधोऽस्येधिषीमहि । समिदसि । तेजोसि तेजो मयि धेहि आहवनीये तिस्रस्समिध आधाय । अपो अन्वचारिषꣳ रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमं तं मा सꣳसृज वर्चसा आहवनीयमुपतिष्ठन्ते । ब्रह्मा अयाडग्निरित्यादि ।
यजमानः - अग्निना देवेनेत्यादि गोमज्जपान्ते 1 नमः स्वरुभ्यः इति यूपोपस्थानं कृत्वा ।
[ तद्यथा = नमस्स्वरुभ्यस्सन्नान्मावगातात्पश्चाद्दघ्वान्नं भूयासम् । शृङ्गाणी वेच्छृङ्गिणाꣳ सन्ददृश्रिरे । चषालवन्तस्स्वरवः पृथिव्याम् । ते देवासस्स्वरवस्तस्थिवाꣳसो
१. अत्र अग्ने व्रतपते व्रतमचारिषं इत्यादि व्रतविसर्गोऽपि कार्यः ।
 
नमस्सखिभ्यस्सन्नान्मावगात । आशासानस्सुवीर्यꣳ रायस्पोषᳪँ、 स्वश्वियम् । बृहस्पतिना राया स्वगाकृतो मह्यं यजमानाय तिष्ठ यूपं यजमान उपतिष्ठते । वायवेष ते वायो इति च । ] न यज्ञ शं च मे । न वृष्टिरसि । ब्राह्मणाᳪ、स्तर्पयितवै 1 इति संप्रेष्यति ।
सवनाहुतिः :-
ततः अग्निं नर इत्यादि सवनप्रायश्चित्तं कृत्वा । इदं तृतीयꣳ सवनङ्कवीनामृतेन ये चमसमैरयन्त । ते सौधन्वनास्सुवरानशानास्स्विष्टिं नो अभि वसीयो नयन्तु स्वाहा ॥ सौधन्वनेभ्य ऋभुभ्य इदम् । प्रशास्तः प्रसुव इति संप्रेष्यति । ब्रह्मा तूष्णीं यथेतं प्रतिनिष्क्रामति । यजमानः - अग्निना देवेनेत्यादि जागतान् विष्णुक्रमान् क्रामति । सर्वेभिर्देवेभिः पृतनाजयाम्यानुष्टुभेन छन्दसैकविꣳशेन स्तोमेन वैराजेन साम्ना वषट्कारेण वज्रेण सर्वजान् भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन् भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान् क्रामामि । इति चतुर्थं । इन्द्रेण सयुजो वयꣳ सासह्याम पृतस्यतः । घ्नन्तो वृत्राण्यप्रति ॥ यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहꣳ हरस्वी भूयासम् आहवनीयं यजमान उपतिष्ठते । सन्तिष्ठते तृतीयसवनं तृतीयसवनम् ॥
॥ अथ अवभृथेष्टिः ॥
अवभृथतन्त्रप्रारम्भः :-
अथ अवभृथस्य तन्त्रं प्रक्रमयति । या जाता ओषधय इत्यादि । तूष्णीं परिभोजिनीमुलपराजीं च । नेध्माहरणम् । वेदं कृत्वोपवेषः । अलङ्कृत्य परिस्तीर्य कर्मणे वामित्यादि । पात्रप्रयोगकाले एककपालं स्फ्यश्च द्वन्द्वम् । अग्निहोत्रहवण्यादि पुरतः प्राशित्रेडाप्रणीतायोक्त्रान्वाहार्यस्थालीपिष्टलेपवर्जम् । पवित्रकरणादि । वरुणाय जुष्टं निर्वपामि । वरुण हव्यꣳ रक्षस्व । वरुणाय वो जुष्टं प्रोक्षामि । वरुणाय जुष्टमधिवपामि । प्रथमेन कपालमन्त्रेणैककपालमुपधाय । भृगूणामङ्गिरसां तपसा तप्यस्व कपालेऽङ्गारानध्यूह्य । वरुणाय जुष्टꣳ संवपामि । आप्यलेपं निनीयेत्यन्तं कृत्वा । सदोहविर्धानयोर्मध्ये स्फ्यं तिर्यञ्च स्तब्ध्वा सम्प्रेष्यति प्रोक्षणीरासादय स्रुवं च स्रुचश्च सम्मृड्ढ्याज्येनोदे३हि 2। न प्रोक्षणीनामभिपूरणम् । उदञ्चं स्फ्यमपोह्य दक्षिणेन स्फ्यं असंस्पृष्टास्सर्वा

१. सहस्रं ब्राह्मणाᳪ、स्तर्पइतवै इति अ. ह. पाठः ।
१. तूष्णीं स्फ्यमादाय प्रोक्षणीशेषं सदोहविर्धानयोर्मध्ये निधाय स्फ्यं तिर्यंचं स्तब्ध्वा संप्रेष्यति स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदे३हि । इति पाठांतरम्।
 
न्निनीय । शतभृष्टिरसि । स्रुक्संमार्जनम् । दिवः शिल्पम् । अग्ने गृहपते । पूषा ते बिलम् । न प्रोक्षण्युत्पवनम् । न चाद्भिराज्यमाज्येन । चतुर्ग्रहीतान्याज्यानि पञ्चावत्तिनामपि । अननूयाजपक्षे आद्यैः चतुर्भिरुपभृति । यदनूयाजौ पञ्चानां त्वा दिशां, पञ्चानां त्वा पञ्चजनानां, चरोस्त्वा पञ्चबिलस्य, ब्रह्मणस्त्वा तेजसे इत्येतैश्चतुर्भिर्गृह्णाति । सुप्रजास्त्वायेति चतुर्ध्रुवायाम् । अयं प्राणश्च । इदमहꣳ सेनाया इत्यादि । वरुणाय जुष्टमभिघारयामि । स्योनं ते । देवस्त्वा इति वारुणमलङ्कृत्योत्तरवेद्यंसे तूष्णीमासादयति । न च आसन्नाभिमर्शनम् ।
औदुम्बर्याः उद्धरणं, अवभृथ संभाराणां संभरणं च :-
अत्र यजमानः औदुम्बरीमुत्खिदति उपसृजन् धरुणं मात्रे मातरा धरुणोधयन्न् । इह पुष्टिं पुष्टिपतिर्नियच्छतु रायस्पोषमिषमूर्जमस्मासु दीधरत् तामधिषवणचर्मफलके सर्वाणि च सोमलिप्तानि अन्तरा चात्वालोत्करावुत्तरे वेद्यंसे औदुम्बर्यामासन्द्यां सादयति । अन्यत्र चतसृभ्यः सोमस्थालीभ्यः।
कृष्णाजिनस्य उत्सर्जनं, अवभृथयजुषां होमश्च :-
अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः । क्षयन्नस्मभ्यमसुरप्रचेतो राजन्नेनाꣳसि शिश्रथः कृतानि इति यजमानश्चात्वाले कृष्णाजिनं प्रास्यति । पुनर्वैनेन दीक्षेत वसीत वैनद्भ्रस्तां वैनत्स्रुचामवधानार्थां कारयेद्धविरवहननार्थं वा स्यात् । अवभृथादुदेत्य पुत्राय ब्रह्मचारिणे वा दद्यादित्येके । आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमᳪँ、 स्वाहा ॥ आयुर्देऽग्नय इदम् । अवभृथ निचङ्कुण नि चेरुरसि निचङ्कुणावदेवैर्देवकृतमेनोऽयाडव मर्त्यैर्मर्त्यकृतमुरोरानो देव रिषस्पाहि स्वाहा ॥ अवभृथायेदम् । नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे । उद्याने यत्परायणे । आवर्तने विवर्तने । यो गोपायति तꣳ हुवे स्वाहा ॥ रुद्राय वास्तोष्पतय इदम् । अवभृथमवैष्यन् जुहुयात् । स्रुवेण होमः । यस्मिन्नग्नौ हविश्श्रपणं तस्मिन्नेव होमः ।
अवभृथार्थं गमनम् :-
उरुꣳ हि राजा वरुणश्चकार सूर्याय पन्थामन्वेत वा उ। अपदे पादा प्रति धातवेकरुतापवक्ता हृदयाविधश्चित् सर्वे सहपत्नीकाः हविराज्यानि ऋजीषं दध्यौदुम्बरशाखां च गृहीत्वा वेद्या अभिप्रयान्तो वदन्ति । ततः संप्रेष्यति प्रस्तोतः साम गाय । ब्रह्मा अवभृथार्थं गच्छतां दक्षिणतो गच्छति । सर्वे सहपत्नीकास्त्रिस्साम्नो निधनमुपयन्ति । अर्धाद्वे द्वितीयम् । अवभृथदेशं प्राप्य तृतीयम् । शतं ते राजन् भिषजस्सहस्रमुर्वी गम्भीरा सुमतिष्टे अस्तु । बाधस्व द्वेषो निर्ऋतिं पराचैः कृतं चिदेनः प्रमुमुग्ध्यस्मत् अपो दृष्ट्वा यजमानो जपति । अध्वर्युः - सूर्यो वः पुरस्तात्त्पातु कस्याश्चिदभिशस्त्याः
 
अपोऽभिमन्त्रयते । यजमानः - युनज्मि वो ब्रह्मणा दैव्येन हव्यायास्मै वोढव आपः । इन्धाना वस्सुप्रजसस्सुवीरा ज्योग्जीवेम बलिहृतो वयं वः । यन्म आपो अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णवः ॥ तेन हन्मि सपत्नं दुर्मरायुमैनं दधामि निर्ऋत्या उपस्थे । तेजिष्ठा वस्तपना या च रोचना प्रत्योषन्तीस्तनुवो या व आपः । ताभिर्वर्माण्यभितो व्ययध्वं मा वो दभन्, यज्ञहनः पिशाचाः अभिमन्त्रयते । अभिष्ठितो वरुणस्य पाशः उदकान्तमभितिष्ठन्ते । अपः प्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति । तृणं प्रहृत्य स्रौवमाघारयति । यदि वा पुरा तृणं स्यात्तस्मिन् जुहुयात् । आ प्यायताम् । अग्नीदपस्त्रिस्संमृड्ढि इति संप्रेष्यति । आग्नीध्रः - आपो वाजजितो वाजं वस्सरिष्यन्तीर्वाजं जेष्यन्तीर्वाजिनीर्वाजजितो वाजजित्यायै संमार्ज्म्यपो अन्नादा अन्नाद्याय अपः प्राञ्चं त्रिस्संमार्ष्टि । भुवनमसि विप्रथस्वापो यष्ट्र्य इदं नमः । जुह्वेहीत्यादि । नाग्नाविष्णू । अग्नेरनीकमप आविवेश । अपान्नपात् प्रतिरक्षन्नसुर्यं दमेदमे समिधं यक्ष्यग्ने । प्रति ते जिह्वामुच्चरण्येत् स्वाहा स्रुच्यमाघारयति । वागस्याग्नेयी सपत्नक्षयणी इत्यनुमन्त्रयते । अग्नय इदम् । लुप्यते प्रवरः । घृतवति शब्द इत्यादि । त्रीन् प्रयाजानिष्टा औपभृतं सर्वमानयति । अनूयाजपक्षे अर्धमानयति । पञ्चममेव इष्ट्वा 1 शेषेण ध्रुवामभिघार्य वारुणमभिघारयति । नोपभृतं अननूयाजपक्षे । अनूयाजपक्षे उपभृतमन्ततः । आज्यभागाविष्ट्वा । वरुणायानुब्रू३हि । वरुणं यज । वरुणायेदम् । वरुणस्याहं देवयज्ययान्नादो भूयासम् । नारिष्ठान् हुत्वा । जुह्वामुपस्तीर्य कृत्स्नं पुरोडाशमवदाय द्विरभिघार्य स्विष्टकृतौ ध्रौव समाप्तिः अग्नीवरुणाभ्यामनुब्रू३हि । अग्नीवरुणौ यज । अग्नीवरुणाभ्यामिदम् । अग्नीवरुणयोरहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । अग्नीवरुणौ स्विष्टकृदर्थे यजति । अननूयाजपक्षे नोत्तरं क्रियते । अत्रैवेष्टिसमाप्तिः । अनूयाजपक्षे अग्नीदपस्सकृत् सम्मृड्ढीति सम्प्रेष्यति । आग्नीध्रः आपो वाजजितो वाजं वस्सस्रुषीर्वाजं जिग्युषीर्वाजिनीर्वाजजितो वाजजित्यायै सं मार्ज्म्यपो अन्नादा अन्नाद्याय सकृदपस्स्फ्ये नैव सम्मार्ष्टि । औपभृतं जुह्वामानीय । अपबर्हिषावनूयाजौ यजति । देवौ यजेति प्रथमं संप्रेष्यति । यजेत्युत्तरम् । अत्र इष्टिस्समाप्यते ।
द्रप्सवतीभिः ऋजीषप्रोक्षणम् :-
यत्ते ग्राव्ण्णा चिच्छिदुस्सोम राजन् । प्रियाण्यङ्गानि स्वधिता परूꣳषि । तत्सन्धत्स्वाज्येनोत वर्धयस्व । अनागसो अधमित्सं क्षयेम । यत्ते ग्रावा बाहुच्युतो अचुच्यवुः । नरो यत्ते दुदुहुर्दक्षिणेन । तत्त आप्यायतां तत्ते । निष्ट्यायतां देव सोम । यत्ते त्वचं बिभिदुर्यच्च योनिम्
१. अपबर्हिषः प्रयाजान् यजतीति वचनात् ।
 
। यदास्थानात्प्रच्युतो वेनसि त्मना । त्वया तत्सोम गुप्तमस्तु नः । सा नस्सन्धासत्परमे व्योमन् । अहाच्छरीरं पयसा समेत्य । अन्योन्यो भवति वर्णो अस्य । तस्मिन् वयमुपहूतास्तव स्मः । आ नो भज सदसि विश्वरूपे । नृचक्षास्सोम उत शुश्रुगस्तु । मा नो वि हासीद्गिर आवृणानः । अनागास्तनुवो वावृधानः । आ नो रूपं वहतु जायमानः । उप क्षरन्ति जुह्वो घृतेन । प्रियाण्यङ्गानि तव वर्धयन्तीः । तस्मै ते सोम नम इद्वषट्च । उप मा राजन्त्सुकृते ह्वयस्व । सं प्राणापानाभ्याꣳ समु चक्षुषा त्वम् । सᳪँ、 श्रोत्रेण गच्छस्व सोमराजन् । यत्त आस्थितꣳ शमु तत्ते अस्तु । जानीतान्नस्सङ्गमने पथीनाम् । एतं जानीतात्परमे व्योमन्न् । वृकास्सधस्था विदरूपमस्य । यदागच्छात्पथिभिर्देवयानैः । इष्टापूर्ते कृणुतादाविरस्मै । अरिष्टो राजन्नगदः परेहि । नमस्ते अस्तु चक्षसे रघूयते । नाकमारोह सह यजमानेन । सूर्यं गच्छतात्परमे व्योमन्न् । अभूद्देवस्सविता वन्द्योऽनु नः । इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः । श्रेष्ठं नो अत्र द्रविणं यथा दधत् । उप नो मित्रावरुणाविहावतम् । अन्वादीध्याथामिह नस्सखाया । आदित्यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठाघविषा परिणो वृणक्तु । आ प्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् । भवा वाजस्य सङ्गथे । सं ते पयाꣳसि समु यन्तु वाजास्सं वृष्णियान्यभिमातिषाहः । आ प्यायमानो अमृताय सोम दिविश्रवाᳪ、स्युत्तमानि धिष्व सौमीभिर्द्रप्सवतीभिः पञ्चभिस्सप्तभिस्त्रयोदशभिर्वा दध्नौदुम्बरशाखया ऋजीषं प्रोक्षति । प्रहृत्य वाभिजुहुयात् । ऋजीषस्य सोमलिप्तपात्राणां च अप्सु क्षेपणम् :-
ऋजीषस्य स्रुचं पूरयित्वा अप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तस्सं त्वा विशन्त्वोषधीरुतापो यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम । ततो यो भिन्दुरुत्प्लवते तमुपस्पृशेत् भक्षयेद्वा अप्सु धौतस्य सोम देव ते नृभिस्सुतस्येष्टयजुषस्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर्यो गोसनिस्तस्य ते पितृभिर्भक्षङ्कृतस्योपहूतस्योपहूतो भक्षयामि इति । समुद्रं वः प्रहिणोमि स्वां योनिमपि गच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पयः सर्वाणि च सोमलिप्तान्यवभृथे प्रविध्यति ।
योक्त्रमेखालयोः विसर्जनं, स्नानं च :-
विवृत्तो वरुणस्य पाशः यजमानो मेखलां वि सृजते । इमं विष्यामि वरुणस्य पाशं

 
यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोमि पत्नी योक्त्रं वि सृजते । अत्र योक्त्रमेखले वाससी जालं कृष्णाजिनं चावभृथे प्रविध्य । देवीराप एष वो गर्भस्तं वः सुप्रीतꣳ सुभृतमकर्म देवेषु नः सुकृतो ब्रूतात् अवभृथं यजमानोऽभिमन्त्र्य । सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः अपः प्रगाह्य सशिरस्कावनुपमक्षन्तौ स्नातः पत्नी यजमानश्च । अन्योन्यस्य पृष्ठे प्रधावतः । उभावाचम्य यद्दिदीक्षे मनसा यच्च वाचा यद्वा प्राणैश्चक्षुषा यच्च श्रोत्रेण । यद्रेतसा मिथुनेनाप्यात्मनाद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो विमोक्त्रीर्मयि तेज इन्द्रियम् ॥ यदृचा साम्ना यजुषा पशूनां चर्मन् हविषा दिदीक्षे । यच्छन्दोभिरोषधीभिर्वनस्पतावद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो विमोक्त्रीर्मयि तेज इन्द्रियम् ॥ येन ब्रह्म येन क्षत्रं येनेन्द्राग्नी प्रजापतिस्सोमो वरुणो येन राजा । विश्वे देवा ऋषयो येन प्राणा अद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीरापो विमोक्त्रीर्मयि तेज इन्द्रियम् ॥ त्रिरञ्जलिना विषिच्य । सर्वमन्त्रान्तेऽभिषेकं कुरुतः पत्नीयजमानश्च, द्विस्तूष्णीम् । उपदेशस्तु प्रतिमन्त्रम् । उन्नेतर्वसीयो न उन्नयाभ्युदित्ते वसुवित्तमा गिरस्स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव । कण्वा इव भृगवस्सूर्या इव विश्वमिद्धीतमानशुः ऐकश्रुत्या यजमानः संप्रेष्यति । उदेत प्रजामायुर्वर्चो दधाना अधस्स्यामसुरभयो गृहेषु । गायत्री छन्दाᳪ、स्यनु सꣳरभन्तामस्मान्राय उत यज्ञास्सचन्ताꣳ सुप्रीतस्सुवरप आविवेश यजमानं पुरस्कृत्य उन्नेता तीरे सर्वानानयति । अहते वसानौ तीरमागच्छतः । सोमोष्णीषं द्विगुणं यजमानः परिधत्ते । सोमोपनहनं पत्नी । सोमपरिश्रियणं वा । ते उदवसानीयायामध्वर्यवे दत्तः । उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तमम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् इत्यादित्यमुपस्थाय । प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः उदकान्तं प्रत्यसित्वा । पुनरप्सु प्रविश्य । समित्पाणयः उन्नेतारं पुरस्कृत्य अप्रतीक्षमायन्ति । अपाम सोमममृता अभूमादर्श्म ज्योतिरविदाम देवान् । किमस्मान् कृणवदरातिः किमु धूर्तिरमृतमर्त्यस्य महीयां वदन्तः । यान्यपामित्यान्यप्रतीत्तान्यस्मि यमस्य बलिना चरामि । इहैव सन्तः प्रति तद्यातयामो जीवा जीवेभ्यो निहराम एनत् ॥ अनृणा अस्मिन्ननृणाः परस्मिᳪँ、स्तृतीये लोके अनृणास्स्याम । ये देवयाना उत पितृयाणास्सर्वान्पथो अनृणा आ क्षीयेम इत्यन्तम् । सर्वे देवयजनं प्राप्य पादौ प्रक्षाल्य आचम्य । एधोऽस्येधिषीमहि । समिदसि । तेजोऽसि तेजो मयि धेहि आहवनीये तिस्रस्समिध आधाय । अपो अन्वचारिषꣳ रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमं तं मा सꣳसृज वर्चसा इत्युपतिष्ठन्ते ।
 

॥ उदयनीयेष्टिः ॥
उदयनीयायास्तन्त्रं प्रक्रमयति । प्रायणीयावदुदयनीया । तस्यामेव स्थाल्यामनिष्कसितायां श्रपयति । तद्बर्हिस्तन्मेक्षणम् । शालामुखीये प्रचरन्ति । उत्तरेण गार्हपत्यमित्यादि । प्रस्तरमेवाहरेत् । अलुभिता योनिः इति पूर्वस्मिन् बर्हिषि निदधाति । इन्द्राण्यै सन्नहनम् इत्यादि बर्हिरसि देवङ्गमम् इत्यन्तम् । अत्र व्रतप्रवेशः । या जाता इत्यादि । पात्रप्रयोगकाले प्रायणीयास्थाली स्फ्यश्च द्वन्द्वम् । अग्निहोत्रहवण्यादि । शम्यादृषदुपलप्रणीतान्वाहार्यस्थालीमदन्तीपिष्टलेपवर्जम् । इडापात्रमुत्पवनपात्रं च द्वन्द्वम् । अत्र योक्त्रं प्रयुनक्ति । पवित्रे कृत्वा यजमान वाचं यच्छ । सं विशन्तामित्यादि । अदित्यै जुष्टं निर्वपामि । सर्वं प्रायणीयावत् । प्रोक्षणीरासदयेत्यादि । पत्नीꣳ सन्नह्याज्येनोदे३हि । बर्हिरासाद्य स्रुक्संमार्जनम् । षड्ढोत्रा हविरासादनम् । प्रयाजानिष्ट्वा न स्रुचोस्सादनम् । नाज्यभागौ । यजमानः पञ्चहोतारं वदेत् । अग्निमाज्यानां प्रथमं यजति । पथ्यां स्वस्तिमुत्तमाम् । सर्वमुपांशु प्रचरति । आज्यं गृहीत्वा अग्नये अनुब्रू३हि । अग्निं यज दक्षिणत होमः । एवं सोमं पश्चात् । सवितारमुत्तरतः । पथ्यां स्वस्तिं पुरस्तात् । चतुर्णां दब्धिरसीत्यनुमन्त्रणम् । मध्येऽदितिमिष्ट्वा मारुतीमृचमन्वाह । अदित्या अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीय। नारिष्ठान् हुत्वा । स्विष्टकृति ध्रौवसमाप्तिः । सा मे सत्याशीराशीर्म ऊर्जमिति विद्यते । एमा अग्मन्निति विद्यते । संस्रावहोमान्ता उदयनीया सन्तिष्ठते ।
॥ मैत्रावरुणी आमिक्षा ॥
मैत्रावरुणीमामिक्षामनूबन्ध्यास्थाने बह्वृचास्समामनन्ति । इषे त्वेति शाखामाहृत्य । व्रतप्रवेशनम् । असिदादानादि । प्रस्तरमेव आहरेत् । परिस्तरणादि । नेध्मम् । वेदं कृत्वा । अन्तर्वेदि शाखाया इत्यादि । न तृतीयस्यै । एकस्याः कुम्भ्याः आलेपनम् । इमौ पर्णं च । वायवस्स्थ । परिस्तृणीत । देवा देवेषु । कर्मणे वां इत्यादि । पात्रप्रयोगकाले स्फ्यमग्निहोत्रहवणीमपरतः । स्रुवं जूहूं उपभृतं ध्रुवां वेदमाज्यस्थालीं वेदाग्रमिडापात्रं योक्त्रं प्रातर्दोहपात्राणि वाजिनपात्रं च । पवित्रे कृत्वा । न ब्रह्मवरणम् । यजमान वाचं यच्छ । सं विशन्तामित्यादि । यजमानः – अग्निꣳ होतारम् । कस्त्वा युनक्ति स त्वा युनक्तु । प्रोक्षणीस्संस्कृत्य ब्रह्माणमामन्त्र्य । पात्राणि त्रिः प्रोक्ष्य । प्रोक्षणीशेषं सदसः पुरस्तान्निधाय । एता आचरन्तीत्यादि । मित्रावरुणाभ्यां हविरिन्द्रियम् । बहुदुग्धि मित्रावरुणाभ्यां देवेभ्यो हव्यम् इति विशेषः । सङ्क्षालननिनयनान्तम् । तप्ते प्रातर्दोहे लौकिकं दध्यानयति । अन्तरितꣳ रक्षः । अविदहन्त । तूष्णीं स्फ्यमादाय । सदसः पुरस्तात् स्फ्यं तिर्यञ्चं स्तब्ध्वा संप्रेष्यति । प्रोक्षणीरासादय बर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि पत्नीꣳ संनह्याज्येनोदे३हि । प्रोक्षण्यादि अद्भिराज्यमित्यन्तं

 
कृत्वा आज्यग्रहणकाले ध्रुवायामेव गृह्णाति । सुप्रजास्त्वायेत्यादि । प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य । इध्मवर्जम् । वेदिरसीत्यादि । प्रोक्षणीशेषं निनीय । अयं प्राणश्च । प्राणापानाभ्यां त्वा सतनुं करोमि इति प्रदाय प्रतिगृह्य । सूर्यस्त्वा पुरस्तात् पातु । युनज्मि त्वा । विशो यन्त्र स्थ इत्यादि । तूष्णीं जुहूपभृतावासाद्य ध्रुवासीति ध्रुवां, ऋषभोऽसीति स्रुवं च सादयित्वा । तूष्णीमाज्यस्थालीम् । एतावसदताꣳ सुकृतस्य लोके तौ विष्णौ पाहि --- यज्ञनियम् । विष्ण्वसि वैष्णवं धामासि प्राजापत्यम् । यस्त आत्मा इत्यामिक्षामभिघार्य दृꣳह इत्युद्वास्य संहत्य द्वयोः पात्रयोरुद्धृत्य वाजिनैकदेशेनोपसिञ्चति । प्रियेणेत्यासादनम् । यजमानः - इदमिन्द्रियं, अयं यज्ञः, ममाग्ने पञ्चहोता । पुनः पञ्चहोता । जुह्वामुपस्तीर्य । मा भेर्मा सं विक्था इति द्विः । अमिक्षाद्वयं स्रुवेण द्विर्द्विरवदाय । अभिघार्य हविः द्विः प्रत्यभिघार्य । मित्रावरुणाभ्यामनुब्रू३हि । मित्रावरुणौ यज। मित्रावरुणाभ्यामिदम् । मित्रावरुणयोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानम् इति वा । ततो दक्षिणवेद्यन्ते यजमानः केशश्मश्रु वापयते । स्नानं कृत्वा धात्रादीनामाज्येन यागः । धातानुमती राका सिनीवाली कुहूः उपांशुयाजवत् प्रचरति । सर्वेषां दब्धिरसीत्यनुमन्त्रणम् । न पार्वण होमः । नारिष्ठस्विष्टकृति ध्रौवसमाप्तिः । न प्राशित्रम् । इडामार्जनान्ता सन्तिष्ठते 1 । ब्रह्मा अयाडग्निरित्यादि आहवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति । समाप्ता मैत्रावरुणेष्टिः ।
अध्वर्युः - सदो हविर्धानस्य हविर्धानयोरिति प्रथमग्रथितान् ग्रन्थीन् विसृस्य उदीची हविर्धाने बहिर्वेदि निवर्तयति । आहवनीयादुल्मुकमादाय यजमानो वेदिमुपोषति यत्कुसीदमप्रतीत्तं मयि येन यमस्य बलिना चरमि । इहैव सन्निरवदये तदेतत्तदग्ने अनृणो भवामि यदि मिश्रमिव चरेत् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात् । लौकिकान् सक्तून् अञ्जलिना गृहीत्वा विश्वलोप विश्व दावस्य त्वा ऽऽसञ्जुहोम्यग्धादेको हुतादेकस्समसनादेकः । ते नः कृण्वन्तु भेषजꣳ सदस्सहो वरेण्यᳪँ、 स्वाहा । अग्धादिभ्योऽग्निभ्य इदम् । यदाकूतात्समसुस्रोद्धृदो वा मनसो वा संभृतं चक्षुषो वा । तमनु प्रेहि सुकृतस्य लोकं यत्र ऋषयः प्रथमजा ये पुराणाः ॥ एतꣳ सधस्थ परि ते दधामि यमावहाच्छेवधिं जातवेदाः । अन्वागन्ता यज्ञपतिर्वो अत्र तᳪँ、 स्म जानीत परमे व्योमन्न् । जानीतादेनं परमे व्योमन् देवास्सधस्था विदरूपमस्य ॥ यदागच्छात्पथिभिर्देवयानैरिष्टापूर्ते कृणुतादाविरस्मै तिसृभिर्धूममनुमन्त्रयते । अयं नो नभसा पुरस्सᳪँ、स्फानो अभिरक्षतु । गृहाणामसमर्त्यै बहवो नो गृहा असन्न् आहवनीयमुपतिष्ठते । स त्वं नो नभसस्पत ऊर्जं नो धेहि भद्रया । पुनर्नो नष्टमा कृधि पुनर्नो रयिमा कृधि वायुम् । देव सᳪँ、स्फान सहस्रपोषस्येशिषे
१. यदाज्यभागप्रभृति तदा वाजिनान्ता आश्वलायनवचनात् ।
 
स नो रास्वाज्यानिꣳ रायस्पोषꣳ सुवीर्यꣳ संवत्सरीणाᳪ、 स्वस्तिम् आदित्यमुपतिष्ठते । आमिक्षा वेदमुपस्थ आधाय अन्तर्वेद्यासीनोऽतिमोक्षान् जपति । ये देवा यज़हन इत्यादि । ततो यज्ञ शं च म इति जपित्वा । वृष्टिरसीत्यप उपस्पृश्य । ब्राह्मणाᳪ、स्तर्पयितवै इति सम्प्रेष्यति ।
॥ उदवसानीया इष्टिः ॥
प्राजहितं समारोप्य यज्ञपात्रैः सह प्रागुदग्वा उदवसाय इदमूनु श्रेयो वसानमागन्म शिवे नो द्यावापृथिवी उभे इमे । गोमद्धनवदश्ववदूर्जस्वत्सुवीरा वीरैरनु सञ्चरेम यजमानो देवयजनमध्यवसाय उदवसानीयायास्तन्त्रं प्रक्रमयति । उदवसानीयया यक्ष्ये । विद्युदसि। अग्न्यन्वाधानादि । इमामूर्जमिति यथातिथि निर्देशः । उदवसानीयꣳ हविः । पौर्णमासं तन्त्रम् । पञ्चदश सामिधेन्यः । अलङ्कृत्य, परिस्तीर्य, देवा देवेषु कर्मणे वामित्यादि । पात्रप्रयोगकाले अष्टाकपालानि स्फ्यश्च द्वन्द्वम् । अन्वाहार्यस्थाली वर्जमितराणि प्रकृतिवत् । निर्वपणकाले अग्नये जुष्टं निर्वपामि । अग्ने हव्यꣳ रक्षस्व । अग्नये वो जुष्टं प्रोक्षामि । एवमधिवापस्संवापश्च । मन्त्रेणाभिघारणम् । प्रियेणेत्यासादनम् । यज्ञोऽस्ययं यज्ञो ममाग्ने चतुर्होतेत्यासन्नाभिमर्शनम् । यदि रात्रिमतीत्य चरेत् सर्वप्रायश्चित्तं कृत्वा प्रधानयागः । अग्नयेऽनुब्रू३हि । अग्निं यज । अग्नय इदम् । अग्नेरहं देवयज्ययान्नादो भूयासम् । दक्षिणाकाले अनड्वान् दक्षिणा । तत्प्रतिनिधि हिरण्यं वा । ब्रह्मन् ब्रह्मासीत्यादि । रुद्राय गामिति प्रतिग्रहः । ब्राह्मणतर्पणान्तं इष्टिस्सन्तिष्ठते ।।
अपि वा विहारं कल्पयित्वा मथित्वा वोपावरोह्य । वैष्णवीं पूर्णाहुतिं उदवसानीययास्स्थाने होष्यामि इति सङ्कल्प्य । विहृत्य पूर्णाहुतिं जुहोति । द्वादशगृहीतेन स्रुचं पूरयित्वा अन्तर्वेद्यूर्ध्वस्तिष्ठन् इदं विष्णुर्वि चक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे स्वाहा । विष्णव इदम् । सा यावद्रात्रेष्टिस्सन्तिष्ठतेऽथ सायमग्निहोत्रं जुहोति । काले प्रातर्होमम् । सन्तिष्ठतेऽग्निष्टोमोऽग्निष्टोमः ॥
॥ समाप्तः अग्निष्टोमप्रयोगः ॥