आपस्तम्बीय श्रौतप्रयोगः/चातुर्मास्यानामनुष्ठानविधयः

विकिस्रोतः तः


॥ चातुर्मास्यानामनुष्ठानविधयः ॥
पर्वभिश्चातुर्मास्येषु मासान् सञ्चष्टे । वैश्वानरपार्जन्य पञ्चहोता च नाभ्यावर्तेत एकोपक्रमत्वात् । यथान्वारम्भणीया यथान्वारम्भणीया । चातुर्मास्यैरिष्ट्वा सोमेन पशुना वा यजते । फाल्गुन्या उद्दृष्टे सोमाय दीक्षते । उद्दृष्टः शुक्लपक्षः । तं ततो नानीजानमपरा फाल्गुनी पर्यवेयात् 1 ।
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।
क्लृप्तानां पशुसोमानां निष्कृत्यर्थमसम्भवे ॥ इति मनुः ।।
इति वै खलु उत्सृज्यमानस्य । अथ पुनरालभमानस्य फाल्गुन्यां चतुर्दश्यां शुनासीरीयेणेष्ट्वा पञ्चदश्यां वैश्वदेवेन यजते । ऋतुयाजी वा अन्यश्चातुर्मास्ययाज्यन्यः । यो वसन्तोऽभूत्प्रावृडभूच्छरदभूदिति यजेत स ऋतुयाजी । अथ यश्चतुर्षु चतुर्षु मासेषु स चातुर्मास्ययाजी । वसन्ते वैश्वदेवेन यजते, प्रावृषि वरुणप्रघासैः, शरदि साकमेधैरिति विज्ञायते । ऋतुयाजिपक्षे वसन्तादिषु कस्मिंश्चित् पर्वणि वैश्वदेवेन यजेत । एवं वरुणप्रघासैस्साकमेधैश्च ।
समाप्य सोमेन यजेत अशक्तौ पशुना । चातुर्मास्यानि वा पुनश्चातुर्मास्यानि वा पुनः ॥ इति आश्वलायनः ॥
चातुर्मास्यानामन्ते सोमान्तानि स्युरिति बौधायनः । पश्वन्तानीति शालीकिः ॥ सवनेष्ट्या वा यजेतेति औपमन्यवः ।।
अथाप्युदाहरन्ति । द्वादशाहेऽपि चातुर्मास्यैर्यजेत । वैश्वदेवेनेष्ट्वा चतुर्थ्यां वरुणप्रघासैः, अष्टम्यां नवम्यां च साकमेधैः, द्वादश्यां शुनासीरीयपरुषा यजेतेति विज्ञायते । संवत्सरप्रतिमा वै द्वादश रात्रयः इति ॥
अथ भरद्वाजः = चातुर्मास्यैः पञ्चदशाहानि यक्ष्यमाणः प्रतिपदि वैश्वानरपार्जन्यौ द्वितीये वैश्वदेवं, तृतीये चतुर्थे पञ्चमे चोपरम्य षष्ठे वरुणप्रघासाः, सप्तमेऽष्टमे नवमे चोपरम्य दशमे एकादशे च साकमेधाः, द्वादशे त्रयोदशे चोपरम्य चतुर्दशे शुनासीरीयं पञ्चदशे पशुः ॥
पारिशेषसूत्रे भारद्वाजः = उदगयन आपूर्यमाणपक्षे समस्तानि तेषां यथादेशं निवर्तनं अन्ते वपनम् ।
द्वादशाहानि यक्ष्यमाणः प्रतिपदि वैश्वानरपार्जन्यौ, द्वितीये वैश्वदेवं, तृतीये चतुर्थे चोपरम्य पञ्चमे
१. सोमेन पशुना वा अनिष्टवन्तं नातिक्रामेदित्यर्थः ।
 
वरुणप्रघासाः, षष्ठे सप्तमे चोपरम्याष्टमे नवमे च साकमेधाः, दशमे एकादशे चोपरम्य द्वादशे शुनासीरीयं, त्रयोदशे पशुरिति । संवत्सरप्रतिमा वै द्वादश रात्रयः । संवत्सरमेव यजत इति विज्ञायते ।।
अथ सत्याषाढः = नैनमनीजानं सोमेन फाल्गुनी प्राप्नुयात् सोमाभावे पशुना पश्वभावे पुनः प्रयोगश्चातुर्मास्यानाम् ॥
अथ कात्यायनश्रौतसूत्रे पद्धतिव्याख्याने अन्ते कठानां पञ्चाहिकानि पठ्यन्ते । तत्र फाल्गुन शुक्लैकादश्यां वैश्वदेवं पर्व, तस्मिन्नेवाहनि वरुणप्रघासार्थं उद्धृत्य करम्भपात्रकरणादि उत्तरवेदिछादनान्तं द्वादश्यां वरुणप्रघासाः, त्रयोदश्यां अनीकवत्यादि गृहमेधीयान्तं, चतुर्दश्यां दर्विहोमादि साकमेधसमाप्तिः । पौर्णमास्यां शुनासीरीयमिति । कठानां च प्रतिपद आरभ्य क्रियन्त इति पठ्यते ।।
॥ इति चातुर्मास्यप्रयोगः ॥