आपस्तम्बीय श्रौतप्रयोगः/आश्वलायनमधुपर्कः

विकिस्रोतः तः

॥ अथ आश्वलायनमधुपर्कः ॥
यजमानः – विष्टरो विष्टरो विष्टरः इत्युक्ते । अहं वर्ष्म सजातानां विद्युतामिव सूर्यः । इदं तमधितिष्ठामि यो मा कश्चाभिदासति उदगग्रे विष्टर उपविशेत् । पाद्यं पाद्यं पाद्यं इत्युक्ते पाद्येन पादौ प्रक्षालयीत । दक्षिणमग्रे अर्घ्यमर्घ्यमर्घ्यं इत्युक्ते अर्घ्यमञ्जलिना प्रतिगृह्य शिरसि प्रोक्षेत् । आचमनीयमाचमनीयमाचमनीयं इत्युक्ते गृहीत्वा निधाय । मधुपर्को मधुपर्को मधुपर्कः इत्युक्ते मित्रस्य त्वा चक्षुषा प्रतीक्षे मधुपर्कमाह्रियमाणमीक्षते । देवस्य त्वा --- हस्ताभ्यां प्रतिगृह्णामि तदञ्जलिना प्रतिगृह्य सव्ये पाणौ कृत्वा । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः । मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमान् अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । अङ्गुष्ठानामिकाभ्यां प्रदक्षिणमालोड्य । वसवस्त्वा गायत्रेण छन्दसा भक्षयन्तु पुरस्तान्निमार्ष्टि । रुद्रास्त्वा त्रैष्टुभेन छन्दसा भक्षयन्तु दक्षिणतः । आदित्यास्त्वा जागतेन छन्दसा भक्षयन्तु पश्चात् । विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्तु उत्तरतः । भूतेभ्यस्त्वा मध्यात्त्रिरुद्गृह्य निमार्ष्टि । अथ आचमनीयेनाचामति अमृतोपस्तरणमसि । विराजो दोहोऽसि प्रथमं प्राश्नीयात् । विराजो दोहमशीय द्वितीयम् । मयिदोहः पद्यायै विराजः तृतीयम् । न सर्वं न तृप्तिं गच्छेत् । ब्राह्मणायोदगुच्छिष्टं प्रयच्छेत् । अलाभे अप्सु वा सर्वम् । अथ आचमनीयेनान्वाचामति । अमृतापिधानमसि । सत्यं यशश्श्रीर्मयि श्रीश्श्रयतां इति निश्शेषं द्वितीयमाचमनम् । गौः गौः गौः इत्युक्ते माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्रणु वोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ट इति जपित्वा । ओमुत्सृजत उत्सृजति ।
॥ इति आश्वलायनमधुपर्कः ॥