आपस्तम्बीय श्रौतप्रयोगः/आपस्तम्बीयमधुपर्कः
॥ अथ आपस्तम्बीयमधुपर्कप्रयोगः ॥
यजमानः पत्न्या सह प्राणानायम्य आगतान् ऋत्विजः मधुपर्केण अर्हयिष्ये इति सङ्कल्प्य । मधुपर्कप्रदः कूर्चः कूर्चं ददाति । अध्वर्युः – राष्ट्रभृदस्याचार्यासन्दी मात्वद्योषं इति यजुषा तस्मिन्कूर्चे प्राङ्मुख उपविशेत् । आपः पाद्याः पाद्यमुदकं प्रयच्छति । आपः पादावनेजनीर्द्विशन्तं नाशयन्तु मे । अस्मिन्कुले ब्रह्मवर्चस्यसानि इत्यपोऽभिमन्त्र्य । प्रथमं प्रक्षालयित्रे ब्राह्मणाय दक्षिणं पादं प्रयच्छेत् । यजमानः दक्षिणं पादं सव्यं च ताभिरद्भिः प्रक्षालयेत् । अध्वर्युः - प्रक्षालयितारमुपस्पृश्य उत्तरेण यजुषा आत्मानं प्रत्यभिमृशेत् । मयि महो मयि यशो मयीन्द्रियं वीर्यम् । अप उपस्पृशेत् । पुष्पगन्धादियुक्तं अर्घ्यं मृन्मये निधाय कूर्चाभ्यां परिगृह्य अर्हणीया आप इति प्रयच्छति । अध्वर्युः - आ मागन् यशसा वर्चसा स99सृज पयसा तेजसा च । तं मा प्रियं प्रजानां कुर्वदिपतिं पशूनां अपोऽभिमन्त्र्य । अञ्जलावेकदेशे आनीयमाने उत्तरं यजुर्जपेत् विराजो दोहोऽसि विराजो दोहमशीय मम पद्याय विराज इति । शेषं पुरस्तान्निनीयमान उत्तरयानुमन्त्रयते समुद्रं वः प्रहिणोमि स्वां योनिमपि गच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पयः इति । अस्मिन्काले यजमानः ऋत्विग्भ्यो वस्त्राङ्गुलीयकादि अलङ्करणानि दद्यात् । अत्र द्वितीयं ब्रह्मसूत्रं केचित् प्रयच्छन्ति । दधिमध्विति संसृज्य । कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्य मधुपर्क इति प्राह । अध्वर्युः – त्रय्यै विद्यायै यशोऽसि यशसो यशोऽसि ब्रह्मणो दीप्तिरसि । तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनां । आ मागन् यशसा वर्चसा स99सृज पयसा तेजसा च । तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनां इति द्वाभ्यामभिमन्त्र्य । आचम्य । अमृतोपस्तरणमसि अपोशनं कृत्वा । यन्मधुनो मधव्यं परममन्नाद्यं वीर्यम् । तेनाहं मधुनो मधव्येण परमेणान्नाद्येन वीर्येण परमोऽन्नादो मधव्योऽसानि इति मधुपर्कं त्रिः प्राश्य सकृन्मन्त्रेण द्विस्तूष्णीम् । अमृतापिधानमसि अपोशनं कुर्यात् । आचम्य । शेषं शिष्यादिभ्यः प्रयच्छेत् । न ब्रह्मचारिणे । यजमानः गौः इत्युक्ते । अध्वर्युः – यज्ञो वर्धतां यज्ञस्य वृद्धिमनु वर्धापचितिरस्यपचितिं मा कुर्वपचितोऽहं मनुष्येषु भूयासम् । गौर्धेनुभव्या माता रुद्राणां दुहिता वसूना77 स्वसादित्यानाममृतस्य नाभिः । प्रणु वोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु इत्युपांशूक्त्वा
ओं उत्सृजत इत्युच्चैः प्रब्रूयात् । अन्नं प्रोक्तमुपांशूत्तरैरभिमन्त्र्य कल्पयतेत्युच्चैः । यजमानः सिद्धमन्नं भूतं । अध्वर्युः - भूतं, सुभूतं, सा विराट् तन्माक्षायि तस्य तेऽशीय तन्म ऊर्जं धाः इति उपांश्वभिमन्त्र्य ओं कल्पयत इत्युच्चैरनुजानीयात् । ततो भोजनं पूज्यस्य ।
॥ इति आपस्तम्बीय मधुपर्कः ॥