आपस्तम्बीय श्रौतप्रयोगः/आग्रयणेष्टिप्रयोगः

विकिस्रोतः तः

॥ आग्रयण प्रयोगः ॥
यजमानः – शरद्यमावास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुत्वा । दर्भेष्वासीनो दर्भान् धारयमाणः । पवित्रपाणिः पत्न्या सह प्राणानायम्य । श्यामाकाग्रयणं समानतन्त्रेण कुर्वन् व्रीह्याग्रयणेन यक्ष्ये1 इति । विद्युदसि । ऋत्विग्वरणम् । अद्य यज्ञाय । इमामूर्जम् । आग्रयणीयꣳ हविः । आमावास्यं तन्त्रम् । अन्वाधाय व्रतप्रवेशः । सप्तदश सामिधेन्यः । ततस्त्वां त्रयोविꣳशतिधा । वेदं कृत्वा वेदिः । यस्य कस्यचिद्यज्ञियकाष्ठस्योपवेषः । अलङ्कृत्य । परिस्तीर्य । देवा देवेषु । कर्मणे वामित्यादि । पात्रप्रयोगकाले एकविंशति कपालानि द्वे स्थाल्यौ स्फ्यश्च द्वन्द्वम् । शूर्पत्रयं अग्निहोत्रहवण्या सह द्वन्द्वमं । पात्री त्रयं वेदेन सह । आज्यस्थाल्या सह आशयपात्रम् । प्रणीताप्रणयनेन सह उत्पवन पात्रम् । आन्वाहार्यस्थाली वर्जमितराणि प्रकृतिवत् । वानस्पत्यासि दक्षाय त्वा अग्निहोत्रहवणीमादत्ते । वेषाय वः इति शूर्पत्रयम् । गृहत्रययुक्तायामेकस्यां पात्र्यामसंस्पृष्टानि बीजानि स्थापयित्वा धूरसीत्यादि । निरस्तमिति तन्त्रेण निरसनम् ।
निर्वपणकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि इति पुराणानां व्रीहीणाम् । पवित्रे प्रक्षाल्य । अन्यस्मिन् शूर्पे निधाय । देवस्य त्वा --- हस्ताभ्यामिन्द्राग्निभ्यां जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामि इति नवानां व्रीहीणाम् । पवित्रे प्रक्षाल्य । अन्यस्मिन् शूर्पे निधाय । देवस्य त्वा --- हस्ताभ्याꣳ सोमाय जुष्टं निर्वपामि इति नवानां श्यामाकानाम् । पवित्रे प्रक्षाल्य । ऐन्द्राग्नवैश्वेदेवनिरुप्तशूर्पे निधाय । देवस्य त्वा --- हस्ताभ्यां द्यावापृथिवीभ्यां जुष्टं निर्वपामि इति नवानां व्रीहीणां । इदं देवानामित्यादि । आसादनकाले अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वेन्द्राग्नी हव्यꣳ रक्षेथां विश्वेदेवा हव्यꣳ रक्षध्वं सोम हव्यꣳ रक्षस्व द्यावापृथिवी हव्यꣳ रक्षेथाम् । अथ लौकिकमाज्यं पञ्चगृहीतं गृहीत्वा पञ्च अज्यानीर्जुहोति ।
शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे । शतं यो नश्शरदो अजीतानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा । इन्द्रायेदम् ।
ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानिमजीतिमावहात्तस्मै नो देवाः परिदत्तेह सर्वे स्वाहा । देवेभ्य इदम् ।
१. व्रीहिश्यामाकाग्रयणाभ्यां यक्ष्ये इति अ.ह पाठः । नवैर्वीहिभिः आग्रयणेन यक्ष्ये इति द्रा. प्र ।
 
ग्रीष्मो हेमन्त उत नो वसन्तश्शरद्वर्षास्सुवितं नो अस्तु । तेषामृतूनाꣳ शतशारदानां निवात एषामभये स्याम स्वाहा । ऋतुभ्य इदम् ।
इदुवत्सराय परिवत्सराय संवत्सराय कृणुता बृहन्नमः । तेषां वयꣳ सुमतौ यज्ञियानां ज्योगजीता अहतास्स्याम स्वाहा । वत्सरेभ्य इदम् । भद्रान्नश्श्रेयस्समनैष्ट देवास्त्वया वसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व शं तोकाय तनुवे स्योनस्स्वाहा । देवेभ्य इदम् ।
 सशूकायामित्यादि । प्रोक्षणकाले देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि विश्वेभ्यो देवेभ्यो वो जुष्टं प्रोक्षामि सोमाय वो जुष्टं प्रोक्षामि द्यावापृथिवीभ्यां वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । देवस्य त्वा ---कृष्णाजिनादानादि । पुराणव्रीहीनोप्य । पात्र्यां तण्डुलप्रस्कन्दनान्तं कृत्वा । नवव्रीह्यवहननार्थमुलूखलं प्रक्षाल्य अग्नेस्तनूरसीत्यादि । प्रतिबीजं हविष्कृदेहीत्यावृत्तिः । आग्नीध्रप्रैषवर्जम् । पात्र्यां नवतण्डुलप्रस्कन्दनान्तं करोति । श्यामाकावहननार्थमुलूखलं प्रक्षाल्य । अग्नेस्तनूरसीत्यादि । आग्नीध्रप्रैषवर्जम् । समाहतान् सर्वान्तुषान् मध्यमपुरोडाशकपाले ओप्य रक्षसां भागोसि इति निरसनं कृत्वा । वायुर्वो विविनक्तु इति विविच्य । देवो वस्सविता इति पात्र्यां श्यामाकान्प्रस्कन्दयित्वा । अदब्धेन व इति मन्त्रेण पुराणनवतण्डुलान् श्यामाकांश्च तन्त्रेणावेक्ष्य निष्फलीकर्तवा इति पत्नी संप्रेष्यति । पत्नी - पुराणनवव्रीहीन् श्यामाकान् क्रमेण सुफलीकृतान् कुर्यात् । अध्वर्युः - फलीकरणं प्रज्ञातं निधाय । सर्वतण्डुलान् क्रमेण पार्थक्येण प्रक्षाल्य । प्रक्षालितमुदकमेकीकृत्य । त्रिष्फलीक्रियमाणानामिति निनयनमन्त्रेण उत्करे तन्त्रेण निनीय । यथाभागं व्यावर्तध्वं इति नवान् तण्डुलान् विभज्य । इदमिन्द्राग्न्योर्द्यावापृथिव्योः पेषणार्थान् । इदं विश्वेषां देवानाम् चर्वर्थानभिमृश्य । आग्नेयस्य कृष्णाजिनादानादि अणूनि कुरुतादित्यन्तं कृत्वा । पुनर्नवानां कृष्णाजिनादानादि कृत्वा । देवस्य त्वा --- हस्ताभ्यामिन्द्राग्निभ्यां जुष्टमधिवपामि द्यावापृथिवीभ्यां जुष्टमधिवपामि धान्यामसि धिनुहि देवान् इत्यादि अणूनि कुरुतादित्यन्तम् । पिष्टलेपं प्रज्ञातं निदधाति । आग्नेयस्य अष्टाकपालानि निधाय ऐन्द्राग्नस्य अष्टावुपधाय तूष्णीं चत्वारि । ध्रुवोऽसीति वैश्वदेवसौम्ययोः स्थालीमुपदधाति । द्यावापृथिव्यमेककपालमुपधाय । भृगूणामङ्गिरसां तपसा तप्यस्व इति वेदेन एककपाले अङ्गारानध्यूह्य । मदन्तीरधिश्रयति । ।
संवपनकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टꣳ संवपामि इति पुराणपिष्टं समोप्य । अन्यस्मिन् पात्रे देवस्य त्वा --- हस्ताभ्यामिन्द्राग्निभ्यां जुष्टꣳ संवपामि द्यावापृथिवीभ्यां जुष्ट00 संवपामि इति नवानि पिष्टानि समोप्य प्रोक्षणीवत्पिष्टानि क्रमेण उत्पूय श्यामाकतण्डुलांश्चोत्पूय
 
देवस्त्वा सविता पुनातु इति पय उत्पूय तूष्णीं वैश्वदेवस्थाल्यामासिच्य अपश्चोत्पूय सौम्यस्थाल्यामासिञ्चति । चरोर्न जनयत्यै त्वा । मखस्य शिरोऽसि इत्याग्नेयं पिण्डं कृत्वा । पुनः मखस्य शिरोऽसि इति नवानां पिण्डं कृत्वा । यथाभागं व्यावर्तेथां विभज्य । इदमिन्द्राग्न्योः इदं द्यावापृथिव्योः इति निर्दिश्य । घर्मोसि इत्याग्नेयमधिश्रित्य । तेनैव मन्त्रेणैन्द्राग्नमधिश्रित्य तेनैव मन्त्रेण वैश्वदेवस्थाल्यां तण्डुलानोप्य । तेनैव मन्त्रेण सौम्यस्थाल्यां श्यामाकतण्डुलानोप्य तेनैव मन्त्रेणैककपालमधिश्रयति । क्रमेण पुरोडाशानां प्रथनादि कृत्वा । चरोर्न प्रथनं, नापि श्लक्ष्णीकरणं, नोल्मुकैः प्रतितपनं, न दभैरभिज्वलनं, न साङ्गारभस्माध्यूहनमिति । सर्वाणि हवींषि त्रिः पर्यग्निकृत्वा । सं ब्रह्मणा पृच्यस्व इत्यादि । आप्यलेपं निनीय । तूष्णीं स्फ्यमादाय ब्रह्मन्नुत्तरं परिग्राहमित्यादि ।
आग्नेयं मन्त्रेणाभिघार्य तूष्णीमितराण्यभिघार्य आग्नेयमैन्द्राग्नं च पात्र्यां प्रतिष्ठाप्य । आर्द्रो भुवनस्य इति वैश्वदेवं चरुं सौम्यं चरुं च उद्वास्य । आशयपात्र उपस्तीर्य एककपालप्रतिष्ठापनान्तं करोति अलंकरणकाले आज्येनैककपालमभिपूरयत्याविःपृष्ठं वा कृत्वा । प्रियेण नाम्ना प्रियꣳ सद आसीद इति मन्त्रेण सर्वाणि हवींषि अपरेण स्रुच आसादयति । यजमानः – यज्ञोऽस्ययं यज्ञो यो नः कनीयो ममाग्ने पञ्चहोतेत्यासन्नाभिमर्शनं करोति । अध्वर्युः – प्रचरणकाले आग्नेयं ऐन्द्राग्नञ्च प्रकृतिवत्कृत्वा । विश्वेभ्यो देवेभ्योऽनु ब्रूहि । आश्राव्यप्रत्याश्राविते विश्वान् देवान् यज । वषट्कृते जुहोति । यजमानः - विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् । अध्वर्युः – सोमायानुब्रू३हि । आश्राव्यप्रत्याश्राविते सोमं यज । वषट्कृते जुहोति । यजमानः - सोमायेदम् । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । अध्वर्युः - एककपालप्रचरणकाले घृतादेककपालमुद्धृत्य बर्हिषि सन्नं कृत्वा जुह्वामुपस्तीर्य तत्र कृत्स्नं पुरोडाशमवदाय । आशयाज्यं पश्चादानीय सकृदभिघार्य । द्यावापृथिवीभ्यां [उपांशु] अनुब्रू३हि [उच्चैः] । आश्राव्य प्रत्याश्राविते द्यावापृथिवी [उपांश] यज [उच्चैः] । वषटकृते जुहोति । यजमानः – द्यावापृथिवीभ्यामिदम । द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर् ऋध्यासम् । अध्वर्युः - न पार्वण होमः । नारिष्ठान् हुत्वा । स्विष्टकृतमिष्ट्वा ।।
आग्नेयं पुरोडाशं विरुज्य । इतरद्धविरविरुज्य प्रत्येक प्राशित्रमवदाय ब्रह्मणे परिहरति । ब्रह्मा प्रकृतिवत् आग्नेयं प्राश्य आचम्य तथा ऐन्द्राग्नं प्राशित्रं भद्रान्नः श्रेयस्समनैष्ट देवास्त्वया वसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व शं तोकाय तनुवे स्योनः इति प्राश्य आचम्य । श्यामाकं गृहीत्वा अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः इति श्यामाकं प्राश्य आचम्य । या अप्स्वन्तर्देवता इत्यादि प्रकृतिवत् ।
 
अध्वर्युः - इडावदाने पुराण नूतन हविषः पृथक्पृथगिडामवद्यति । इडा भक्षण काले इडे भागमिति पुराणं प्राश्य ऐन्द्राग्नं वैश्वदेवं च भद्रान्नः श्रेय इति प्राश्य आचम्य, श्यामाकं अग्निः प्रथमः प्राश्नातु इति प्राश्नाति । एवं ब्रह्माग्नीध्रो यजमानश्च । यजमानः - दक्षिणाकाले वत्सं वासश्च अन्तर्वेदि संस्थापयति । ब्रह्मा – ब्रह्मणी ब्रह्मणी स्थो ब्रह्मणे वां मा मा हिꣳसिष्टमहुते मह्यꣳ शिवे भवतम् इत्यभिमृशति । यजमानः – ब्रध्न पिन्वस्वेत्यादि सहस्रधारे उत्से अक्षीयमाणे ते दध्रतुः पृथिवीमन्तरिक्षं दिवं च ताभ्यां वत्सवासोभ्यामतितराणि मृत्युम् । इत्यभिमृश्य इमे वो वत्सवाससी प्रतिगृह्णीध्वम् । ऋत्विजः - देवस्य त्वा --- रुद्राय गां । तेनामृतत्त्वं --- प्रतिगृह्णातु । देवस्य त्वा --- देवि दक्षिणे ग्नास्त्वा कृन्तन्नतपसस्स्त्वा तन्वत वरूत्रयस्त्वा वयन्त्सोमाय वासः । तेनामृतत्त्वं --- प्रतिगृह्णातु । इति प्रतिग्रहः । यजमानभागप्राशनकाले सं यज्ञपतिराशिषा इति पुराणभागं प्राश्य भद्रान्नः श्रेयः इति ऐन्द्राग्नं वैश्वदेवं च एकीकृत्य प्राश्य अग्निः प्रथमः इति श्यामाकं प्राश्नाति । एककपालोद्वासनकाले यद्घर्मे कपालमुपचिन्वन्ति वेधसः । पूष्णस्तदपिव्रत इन्द्रवायू विमुञ्चताम् । यजमानः – विष्णुक्रमादि । यज्ञ शं च म वर्जम् । ब्राह्मणतर्पणान्तं कुर्यात् । सिद्धमिष्टिः सन्तिष्ठते ॥
॥ इति आग्रयणप्रयोगः ॥