आपस्तम्बीय श्रौतप्रयोगः/अन्वारम्भणीया

विकिस्रोतः तः


॥ अथान्वारम्भणीया ॥
सारस्वतहोमौ :-
अन्वारम्भणीयायाः कालः1 पौर्णमासी तत्पूर्वदिनं वा । प्रातरग्निहोत्रं हुत्वा । दर्शपूर्णमासावारप्स्ये । ताभ्यां यावज्जीवं पर्वणि यक्ष्ये इति सङ्कल्प्य । दर्शपूर्णमासावालभमानः सारस्वतौ होमौ होष्यामि । अस्मिन् होमेऽध्वर्युं त्वां वृणीमहे । आहवनीयं विहृत्य । जुह्वां सकृद्गृहीत्वा पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्त उत्तमे नाक इह मादयन्ताᳪ、 स्वाहा । पूर्णमासायेदम् । पुनस्सकृद्गृहीत्वा यत्ते देवा अदधुर्भागधेयममावास्ये संवसन्तो महित्वा । सा नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरᳪँ、 स्वाहा । अमावास्याया इदम् । अग्निं परित्यज्य ।
पुनः प्राणानायम्य दर्शपूर्णमासावारप्स्यमानः अन्वारम्भणीयया यक्ष्ये । विद्युदसि। अस्यामन्वारम्भणीयायामध्वर्युं त्वां वृणीमहे । एवं ब्रह्मादीन् । विहरणादि । इमामूर्जं पञ्चदशीं ये प्रविष्टाः । अन्वारम्भणीयꣳ हविः । पौर्णमासं तन्त्रम् । पञ्चदश सामिधेन्यः । एकत्रिंशत्कपालानि स्थाली स्फ्यश्च द्वन्द्वम् । प्रणीताप्रणयनमुत्पवनपात्रं इडापात्रेण सह । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । निर्वपणकाले देवस्य त्वा --- हस्ताभ्यामग्नाविष्णुभ्यां जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सरस्वत्यै जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सरस्वते जुष्टं निर्वपामि । देवस्य त्वा ---हस्ताभ्यामग्नये भगिने जुष्टं निर्वपामि । अग्नाविष्णू हव्यꣳ रक्षेथाꣳ सरस्वति हव्यꣳ रक्षस्व सरस्वन् हव्यꣳ रक्षस्वाग्ने भगिन् हव्यꣳ रक्षस्व । सशूकायामित्यादि । देवस्य त्वा --- हस्ताभ्यामग्नाविष्णुभ्यां वो जुष्टं प्रोक्षामि सरस्वत्यै वो जुष्टं प्रोक्षामि सरस्वते वो जुष्टं प्रोक्षाम्यग्नये भगिने वो जुष्टं प्रोक्षामि । उत्करे त्रिर्निनीय यथाभागं व्यावर्तध्वम् इदमग्नाविष्ण्वोस्सरस्वतोऽग्नेर्भगिनः पेषणार्थान् । इदꣳ सरस्वत्याः चर्वर्थान् । देवस्य त्वा - -- हस्ताभ्यामग्नाविष्णुभ्यां जुष्टमधिवपामि सरस्स्वते जुष्टमधिवपाम्यग्नये भगिने जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । मन्त्रेणाष्टौ कपालान्युपधाय तूष्णीं त्रीणि । ध्रुवोऽसीति स्थालीम् । ततो द्वितीयचतुर्थषष्ठाष्टमानामावृत्या द्वादशकपालानि सारस्वतः । ततो अष्टावग्नेर्भगिनः । पिष्टान्युत्पूय तण्डुलानुत्पुनाति । अप उत्पूय स्थाल्यामासिञ्चति । पिण्डं कृत्वा यथाभागं व्यावर्तध्वम् आग्नावैष्णवं विभज्य । यथाभागं व्यावर्तेथां इतरौ । इदꣳ सरस्वतः इदमग्नेर्भगिनः । प्रथममधिश्रित्य
१.आधानसिद्धाग्निना प्रक्रान्ताग्निहोत्रस्य या पौर्णमासी प्रथमं प्राप्ता सा दर्शपूर्णामासारम्भस्य कालः । तावारप्स्यमानः सारस्वतहोमपूर्वकं अन्वारम्भणीयेष्टिं कुर्यात् ।
 
तण्डुलानोप्य उत्तरावधिश्रयति । प्रथनादि पुरोडाशानामन्तरितं सर्वेषाम् । आग्नावैष्णवं तूष्णीमभिघार्य मन्त्रेणेतरेषाम् । सरस्वत्यै जुष्टमभिघारयामि । सरस्वते जुष्टमभिघारयामि । अग्नये भगिने जुष्टमभिघारयामि । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । प्रियेणेत्यासादनम् । प्रथमवर्जं यज्ञोऽसि इति त्रयाणाम् । अयं यज्ञो, ममाग्ने चतुर्होतेत्यासन्नाभिमर्शनम् । प्रचरणकाले उपांशुप्रचारः । अग्नाविष्णुभ्याम् (उपांशु) अनुब्रूहि (उच्चैः) । अग्नाविष्णू (उपांशु)यज (उच्चैः)। अग्नाविष्णुभ्यामिदम् । अग्नाविष्ण्वोरहं देवयज्यया वृत्रहा भूयासम् । सरस्वत्यै (उपांशु) अनुब्रूहि (उच्चैः)। सरस्स्वतीम् (उपांशु) यज (उच्चैः) । सरस्वत्या इदम् । सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् । सरस्वते (उपांशु) अनुब्रूहि (उच्चैः) । सरस्वन्तम् (उपांशु) यज (उच्चैः) । सरस्वत इदम् । सरस्वतोऽहं देवयज्ययान्नादो भूयासम् । अग्नये भगिने (उपांशु) अनुब्रूहि (उच्चैः) । अग्निं भगिनम् (उपांशु) यज (उच्चैः) । अग्नये भगिन इदम् । अग्नेर्भगिनोऽहं देवयज्ययान्नादो भूयासम् । न पार्वणहोमः । नारिष्ठान् हुत्वा । ततो स्रुवेण जुह्वां सकृत्सकद्गृहीत्वा चित्तं च स्वाहा । चित्तायेदम् । चित्तिश्च स्वाहा । चित्या इदम् । आकूतं च स्वाहा । आकूत्या इदम् । आकूतिश्च स्वाहा । आकूत्या इदम् । विज्ञातं च स्वाहा । विज्ञातायेदम् । विज्ञानं च स्वाहा । विज्ञानायेदम् । मनश्च स्वाहा । मनस इदम् । शक्वरीश्च स्वाहा । शक्वरीभ्य इदम् । दर्शश्च स्वाहा । दर्शायेदम् । पूर्णमासश्च स्वाहा । पूर्णमासायेदम् । बृहच्च स्वाहा । बृहत इदम् । रथन्तरं च स्वाहा । रथन्तरायेदम् । प्रजापतिर्जयानिन्द्राय वृष्णेः प्रायच्छदुग्रः पृतनाज्येषु तस्मै विशस्समनमन्त सर्वास्स उग्रस्स हि हव्यो बभूव स्वाहा । प्रजापतय इदम् । स्विष्टकृदादि । सारस्वताग्नेर्भगिनोः विरुज्य प्राशित्रम् । प्रथमवर्जं सर्वेषां चतुर्धाकरणम् । दक्षिणाकाले मिथुनौ गावौ दक्षिणा । ब्रह्मन् ब्रह्मासीत्यादि । सहस्रधारावुत्सावक्षीयमाणौ । तौ दध्रतुः पृथिवीमन्तरिक्षं दिवं च ताभ्यां मिथुनाभ्यां गोभ्यामतितराणि मत्युम् । दक्षिणत एत ब्राह्मणा इमौ मिथुनौ गावौ अहिंसन्तः यथाभागं प्रतिगृह्णीध्वं । रुद्राय गामिति प्रतिग्रहः । अग्नाविष्ण्वोरहमुज्जितिम् । सरस्वत्या अहमुज्जितिम् । सरस्वतोऽहमुज्जितिम् । अग्नेर्भगिनोऽहमुज्जितिम् । अन्यत् समानम् । यज्ञ शं च म वर्जम् । ब्राह्मणतर्पणान्तमिष्टिस्सन्तिष्ठते ।।
॥ इत्यन्वारम्भणीया ॥