सामग्री पर जाएँ

आपस्तम्बीय श्रौतप्रयोगः/अग्निहोत्रप्रयोगः

विकिस्रोतः तः

॥ अग्निहोत्र प्रयोगः ॥
अग्नेरुद्बोधनम् :-
अग्निहोत्रं व्याख्यास्यामः । अधिवृक्षसूर्ये आविस्सूर्ये वा1 । धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । सुगार्हपत्यो विदहन्नरातीरुषसश्श्रेयसीश्श्रेयसीर्दधत् । अग्ने सपत्नाꣳ अपबाधमानो रायस्पोषमिषमूर्जमस्मासु धेहि गार्हपत्यमभिमन्त्र्य । उद्बुद्ध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते सꣳसृजेथामयं च । अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विश्वेदेवा यजमानश्च सीदत गार्हपत्यमुद्बोधयति । ओं उद्धर इति यजमानः ।
प्रणयनम् :-
अध्वर्युः – वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दिव्यैर् ऋत्विग्भिरुद्धरामि गार्हपत्यादाहवनीयार्थं ज्वलन्तमग्निमुद्धरति ।
यजमानः- ओं भूर्भुवस्सुवरुध्रियमाण उद्धर पाप्मनो मा यदविद्वान् यच्च विद्वाᳪ、श्चकार । अह्ना यदेनः कृतमस्ति पापꣳ, सर्वस्मान्मोद्धृतो मुञ्च तस्मात् इति सायं । रात्र्या यदेनः कृतमस्ति पापम् इति प्रातः । उद्ध्रियमाणमनुमन्त्रयते । अध्वर्युः - तूष्णीं दक्षिणाग्निं प्रणीय । आहवनीयं प्रणयति । अग्निपतयेऽग्नये में विद्ध्यग्निपतयेऽग्नये मे मृड । अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयानन्तं काममहं जयानि प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ स्वाहा ॥ अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्त्सादयामि यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामि पुरस्तात्परिक्रम्योदङ्मुखः प्रत्यङ्मुखो वा सायमायतनेऽग्निं प्रतिष्ठापयति । प्राङ्मुखः प्रातः । इत्युद्धरणम् । ततस्सन्ध्योपासनम् । अस्तमिते नक्षत्रं दृष्ट्वा । प्रदोषान्तो होमकालः । सायं प्रदोषो नवनाडिकाः । उदयोत्तरं सङ्गवान्तः प्रातः 2 ।
सङ्कल्पः अग्नेस्समिन्धनम् :-
देशकालौ सङ्कीर्त्य श्री परमेश्वरप्रीत्यर्थं सायमग्निहोत्रं पयसा होष्यामीति सायं । प्रातरग्निहोत्रं
१. द्राविड प्रयोगे अत्रैव सङ्कल्पः । देशकालौ सङ्कीर्त्य श्री परमेश्वरप्रीत्यर्थं सायमग्निहोत्रं पयसा होष्यामीति सायं । प्रातरग्निहोत्रं पयसा होष्यामीति प्रातः ।
२. एषः आश्वलायनसूत्रोक्तः कालः । अस्मत्सूत्रे तु अम्नरस्तमिते (ईषदस्तमिते) होतव्यं । नक्षत्रं दृष्ट्वा प्रदोषे निशायां वा सायम् । उषसि उपोदयं समयाविषिते उदिते वा प्रातः । इति होमकालाः उक्ताः । उभयत्रापि सन्धौ होतव्यं । इत्यपि कालो दर्शितः ।
 
पयसा होष्यामीति प्रातः सङ्कल्प्य । विश्वदानीमा भरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम स्वयं यजमान इध्मानाहरति ।
अध्वर्युः - इध्मं त्रेधा कृत्वा व्याहृतीभिः गायत्रिया च प्रोक्ष्य । यदग्ने यानि कानि चा ते दारूणि दध्मसि । तदस्तु तुभ्यमिद्धृतं तज्जुषस्व यविष्ठ्य इति गार्हपत्ये इध्ममादधाति । यदत्युपजिह्विका यद्वम्रो अतिसर्पति । सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य इति दक्षिणाग्नौ । रात्रिꣳ रात्रिमप्रयावं भरन्तोऽश्वायेवतिष्ठते घासमस्मै । रायस्पोषेण समिषा मदन्तोऽग्ने मा ते प्रतिवेशा रिषाम आहवनीयेऽवशिष्टं वर्षिष्ठम् । तथाग्निराधेयो यथाहुतिर्न व्यवेयात् । नान्तराग्नी संचरति । कामं हुते संचार्यमित्येके । नित्यं गार्हपत्यं धारयति ।
अलङ्करणम् :-
परिसमूहनेनाग्नीनलङ्कुवन्ति । अग्ने गृहपते शुन्धस्व इति गार्हपत्यम् । अग्ने वह्ने शुन्धस्व इति दक्षिणाग्निम् । अग्ने सम्राट्छुन्धस्व इत्याहवनीयम् ।
दोहनम् :-
अध्वर्युः - उदगग्रैः प्रागग्रैश्च दर्भैरग्नीन्परिस्तृणाति । खादिरस्रुवो 1 वैकङ्कत्यग्निहोत्रहवणी बाहुमात्र्यरत्निमात्री वा । प्रसृताकृतिरार्यकृताग्निहोत्रस्थाली ऊर्ध्वकपाला अचक्रवर्ता भवति । परिस्तरणानन्तरं दोहनम । अस्तमिते दोग्धि । दक्षिणेन विहारमग्निहोत्री तिष्ठति । तां यजमानोऽनुमन्त्रयते । इडासि व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि । सुरोहिण्यहन्नावुभयोर्व्रतं चरिष्यामि । इड एहि मयि श्रयस्व । इर एह्यदित एहि गौरेहि श्रद्ध एहि सत्येन त्वाह्वयामि । अथ वेदिदेशमभिमृशति इयमसि तस्यास्तेऽग्निर्वत्सस्सा मे स्वर्गं च लोकममृतं च धुक्ष्व इति । पूषासि वत्समुपसृज्य । प्राचीमावृत्य दोग्धि । अग्निहोत्रस्थाल्या दोहनेन च दोग्धि ।
यजमानः – अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुप वस्सदेयम् उपसृष्टामनुमन्त्रयते । द्यौश्चेमं यज्ञं पृथिवी च सं दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु दुह्यमानामनुमन्त्रयते । उत्सं दुहन्ति कलशं चतुर्बिलमिडान्देवीम्मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु धाराघोषमनुमन्त्रयते ।
स्व आयतने पत्न्युपविशति । यजमानो अपरेणाहवनीयं दक्षिणातिक्रम्य । विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि मयि श्रद्धा इत्यप आचामति । विहाराद्बहिर्गत्वा शुद्ध्यर्थं द्विराचामेत् ।
१. पुनस्स्रुवविधानात् अन्य एव अग्निहोत्रार्थः स्रुवः ।
 

अध्वर्युः - सञ्चरत्यग्रेणाहवनीयम् । ऋतं त्वा सत्येन परिषिञ्चामि इति सायं परिषिञ्चति । सत्यं त्वर्तेन परिषिञ्चामि इति प्रातः । गार्हपत्यदक्षिणाग्न्याहवनीयानां परिषेचनम् । अग्निहोत्रहवण्यामप आनीय यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि इति गार्हपत्यात्प्रक्रम्य सन्ततामुदकधारां स्रावयत्या आहवनीयात् । मन्त्रारम्भे धारादियोगः । अपरेण गार्हपत्यं उपावहरणीयकूर्चे अग्निहोत्रहवणीं सादयित्वा।
हविस्संस्कारः :-
धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । भूतकृतस्स्थापोढं जन्यं भयमपोढास्सेना अभीत्वरीः गार्हपत्यादुदीचोऽङ्गारान्निरूह्य । व्यन्तान्गार्हपत्येन कृत्वा । सगराः स्थ अङ्गारानभिमन्त्र्य । अग्नय आदित्यं गृह्णाम्यह्ने रात्रिम् इति सायम् । आदित्यायाग्निं गृह्णामि रात्र्या अहः इति प्रातः । इडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपा विरूपास्तेषाꣳ सप्तानामिह रन्तिरस्तु रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय इति तेष्वग्निहोत्रमधिश्रयति ।
अदब्धेन त्वा चक्षुषावेक्षे तृणेन ज्वलतावेक्षते । दोहनसङ्क्षालनं स्रुव आनीय । हरस्ते मा वि नैषम् इति प्रतिषिञ्चति 1 । उद्भवस्थोदहं प्रजया प्र पशुभिर्भूयासꣳ हरस्ते मा विगादुद्यन्स्व र्गो लोकस्त्रिषु लोकेषु रोचय पुनरेवावेक्ष्य । अन्तरितꣳ रक्षोऽन्तरिता अरातयोऽपहता व्यृद्धिरपहतं पापं कर्मापहतं पापस्य पापकृतः पापं कर्म यो नः पापं कर्म चिकीर्षति प्रत्यगेनमृच्छ त्रिः पर्यग्नि कृत्वा । किञ्चित्कालं प्रतीक्ष्य ।
हविरुद्वासनम् :-
घर्मोऽसि रायस्पोषवनिरिहोर्जं दृꣳह इति वर्त्म कुर्वन्प्रागुद्वासयति उदक्प्रागुदग्वा । इह प्रजां पशून्दृꣳह इत्यग्निहोत्रस्थालीं त्रिर्भूमौ प्रतिष्ठाप्य । सुभूतकृतस्स्थ प्रत्यूढं जन्यं भयं प्रत्यूढास्सेना अभीत्वरीः इति गार्हपत्ये अङ्गारान्प्रत्यूह्य । देवस्य त्वा --- हस्ताभ्यामा ददे इति मन्त्रावृत्या स्रुक्स्रुवमादाय । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः गार्हपत्ये प्रतितप्य । अरिष्टो यजमानः पत्नी च युगपद्धस्तेन उभयं सम्मृश्य । हिरण्ययष्टिरस्यमृतपलाशास्स्रोतो यज्ञानाम् इत्यग्निहोत्रहवणीमभिमन्त्र्य । ओमुन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानम् इति सायमाह । ओमुन्नयामि इति प्रातः ।
यजमानः – हविर्देवानामसि मृत्योर्मेऽभयᳪँ、 स्वस्ति मेऽस्त्वभयम्मे अस्तु (इत्युपांशूक्त्वा) ओमुन्नय इत्युच्चैरनुजानाति । अपचारे यजमानस्य स्वयमात्मानमनुजानीयात् । उन्नीयमाने उभौ 'वाचं
१. अपां वा स्तोकेन प्रतिषिञ्चति (शुद्धोदकेनेत्यर्थः) ।
 
यच्छत आ होमादध्वर्युर्यजमानश्च । न च अभिमीलते तिष्ठति च यजमानः । उन्नीते उपविशति । चतुरुन्नयति । अग्नये च त्वा पृथिव्यै चोन्नयामि । वायवे च त्वान्तरिक्षाय चोन्नयामि । सूर्याय च त्वा दिवे चोन्नयामि । चन्द्रमसे च त्वा नक्षत्रेभ्यश्चोन्नयामि । अद्भ्यश्च त्वौषधीभ्यश्चोन्नयामि इति पञ्चावत्तिनः । सर्वत्र स्रुवं पूर्णमुन्नयति । पशून्मे यच्छ अपरेण गार्हपत्यं कूर्चे हविस्सादयति । गार्हपत्ये हस्तं प्रताप्य हविस्संमृशति । सजूर्देवैस्सायं यावभिस्सायं यावानो देवास्स्वस्ति सम्पारयन्तु पशुभिस्सम्पृचीय प्रजां दृꣳह इति सायम् । सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो देवास्स्वस्ति सम्पारयन्तु पशुभिस्सम्पृचीय प्रजां दृꣳह इति प्रातः । पुनः प्रतितप्य । दशहोत्रा चाभिमृशति । चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः । प्रादेशमात्रीं पालाशीं समिधमुपरि धारयन् गार्हपत्यस्य समयार्चिर्हरति । उर्वन्तरिक्षं वीहि हरति । समं प्राणैर्धारयमाणः गच्छन् दशहोतारं व्याचष्टे । चित्तिस्स्रुक् --- सामाध्वर्युः अत्र प्रतिवाक्ये प्राणभेदः । स्वाहाग्नये वैश्वानराय मध्यदेशे नियच्छति ।
यजमानः - अग्नये वैश्वानरायेदम् ।
अध्वर्युः - वाताय त्वा मुखसममुद्धृत्य ।
यजमानः – वातायेदम् ।
अध्वर्युः – पुनः प्राणैस्समं करोति । उपप्रेत संयतध्वं मान्तर्गात भागिनं भागधेयात्सप्तऋषीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्युप प्रत्नमुप 1 भूर्भुवस्सुवरायुर्मे यच्छ अपरेणाहवनीयमुपसादनीयकूर्चे सादयति ।
प्रधानहोमः :-
तत आहवनीये ज्वालाशान्तेषु2 शरोऽङ्गारेषु होमः । विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि इति होष्यन्नप उपस्पृशति । पालाशीं समिधमादधाति एषा ते अग्ने समित्तया वर्धस्व चाच प्यायस्व वर्धतां च ते यज्ञपतिरा च प्यायतां वर्धिषीमहि च वयमा च प्यासिषीमहि स्वाहा । अग्नय इदम् । स्रुचमुद्गृह्य, प्राण्य, अपान्य, निमील्य, अवेक्ष्य, अभिक्रम्य । आदीप्तायां द्व्यङ्गुले मूलात्समिधमभि जुहोति । ओं भूर्भुवस्सुवः अग्निर्ज्योतिर्ज्योतिरग्निस्स्वाहा इति सायमग्निहोत्रं जुहोति ।
यजमानः - अग्नये ज्योतिष इदम् ।
१. उप प्रतमुप इति पाठान्तरम् ।
२. ज्वालासु शान्तासु येषां ते ज्वालाशान्ताः इति बहुव्रीहि समासः । अङ्गाराणां विशेषणम् ।
 
अध्वर्युः - द्रवद्रव्यं स्रुङ्मुखेन पार्श्वेन कठिणं हविः । ओं भूर्भुवस्सुवः सूर्योज्योतिर्ज्योतिस्सूर्यस्स्वाहा इति प्रातः।
यजमानः - सूर्याय ज्योतिष इदम् ।
अध्वर्युः – हुत्वा महदभिवीक्षते 1। इषे त्वा स्रुङ्मुखादवाचीनं सायं लेपमवमार्ष्टि । ऊर्जे त्वा इत्यूर्ध्वं प्रातः । अवाचीनं न्युब्जहस्तेन, ऊर्ध्वमुत्तानेनेत्यर्थः । यदा पार्श्वेन होमः तदा पार्श्वं क्रिया । ओषधीभ्यस्त्वौषधीर्जिन्व बर्हिषि लेपं निमृज्य ।
यजमानः -ओषधीभ्य इदम् ।
अध्वर्युः – वर्चो मे यच्छ इति स्रुचं कूर्चे सादयित्वा । अग्ने गृहपते मा मा सन्ताप्सीरात्मन्नमृतमधिषि प्रजाज्योतिरदब्धेन त्वा चक्षुषा प्रतीक्षे गार्हपत्यं प्रतीक्षते । पुनस्स्रुचमादाय । ओं भूर्भुवस्सुवस्स्वाहा इत्युत्तरामाहुतिं पूर्वार्धे समिधि जुहोति । वर्षीयसीमुत्तरामाहुतिं हुत्वा भूयो भक्षायावशिनष्टि ।
यजमानः – प्रजापतय इदम् ।
अध्वर्युः – रुद्र मृडानार्भव 2 मृड धूर्त नमस्ते अस्तु पशुपते त्रायस्वैनम् इति त्रिः स्रुचा अग्निज्वालामुदञ्चं कम्पयति । रुद्रायेदम् । प्राचीनावीती इषे त्वा पूर्ववल्लेपमवमृज्य । स्वधा पितृभ्यः पितॄन्जिन्व इति दक्षिणेन वेदिं भूम्यां लेपं निमृज्य । पितृभ्य इदम् । यज्ञोपवीत्यप उपस्पृश्य । प्रजां मे यच्छ स्रुचं सादयित्वा । वृष्टिरसि वृश्च मे पाप्मानमृतात् सत्यमुपागाम् हुत्वाप उपस्पृश्य ।
अथापरयो: स्रुवेण होम: । अग्ने गृहपते परिषद्य जुषस्व स्वाहा इति द्वि: । अग्नये गृहपतये परिषद्यायेदम् । अग्नये गृहपतये रयिपतये पुष्टिपतये कामायान्नाद्याय स्वाहा इति द्वि: । अग्नये गृहपतये रयिपतये पुष्टिपतये कामायान्नाद्यायेदम् ।
अथ दक्षिणाग्नौ। अग्नेऽदाभ्य परिषद्य जुषस्व स्वाहा अग्नये अदाभ्याय परिषद्यायेदम्। अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे स्वाहा । अग्नये अन्नपतय इदम् । अग्नेऽदाभ्य परिषद्य जुषस्व स्वाहा इति द्वि: । अग्नये अदाभ्याय परिषद्यायेदम् ।
उपस्थानं, हविषः प्राशनं च :-
१. महदित्याकाशः । अथवा तदेव हुतं महत् भूयिष्ठं अभिवीक्षते इत्यर्थः ।
२. रुद्रमृडानाड्भव इति पाठान्तरम् ।
 

आहवनीये तूष्णीं समिधमाधाय वात्सप्रेणोपतिष्ठते दिवस्परीत्यनुवाकेन । भूर्भुवस्सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैस्सुवर्चा वर्चसा सुपोषः पोषैः इति वा । उपस्थाय अग्नेस्तृणान्यपचिनोति । अन्तर्वेदिस्थितायाः स्रुचः लेपमादाय विहाराद्बहिर्गत्वा अशब्दं कुर्वन् दन्तेनास्पृशन् पूषासि प्राश्य आचम्य । एवं पुनः पूषासि प्राश्य आचम्य, बर्हिषोपयम्य स्रुचा शेषं हस्तेऽवधाय उदङ्ङावृत्योत्सृप्य । गर्भेभ्यस्त्वा गर्भान्प्रीणीहि आग्नेयꣳ हविः प्रजननं मे अस्तु दशवीरꣳ सर्वगणᳪँ、 स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धेहि रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा प्राश्य । गर्भेभ्य इदम् । सौर्यꣳ हविः, सूर्यः प्रजां बहुलां मे करोतु इति प्रातर्मन्त्रं सन्नमति । द्विर्हस्तं निर्लिह्य । अद्भिर्हस्तं पूरयित्वा उच्छिष्टभाजो जिन्व इति पराचीं निनयति । उच्छिष्टभाग्भ्य इदम् ।
आचम्य, अग्रेणाहवनीयं दर्भैरग्निहोत्रहवणीं प्रक्षाल्य । अद्भिस्स्रुचं पूरयित्वा । सर्पेभ्यस्त्वा सर्पाञ्जिन्व इति प्रतिदिशं व्युत्सिच्य । सर्पेभ्य इदम् । सर्पान् पिपीलिका जिन्व । सर्पेभ्यः पिपीलिकाभ्य इदम् । सर्पेतरजनाञ्जिन्व । सर्पेतरजनेभ्य इदम् । सर्पदेवजनाञ्जिन्व । सर्पदेवजनेभ्य इदम् । इति तिस्रस्स्रुच उत्सिच्य । नात्र स्थान नियमः । चतुर्थीं पूरयित्वा । पृथिव्याममृतं जुहोमि स्वाहा अपरेणाहवनीयं अर्धं निनीय । पृथिव्या इदम् । शेषं पत्न्यञ्जलौ । गृहेभ्यस्त्वा गृहाञ्जिन्व । गृहेभ्य इदम् । यदि पत्नी नानुष्यात् रजस्वलादिना । देवानां पत्नीभ्योऽमृतं जुहोमि स्वाहा इति पत्न्यायतने निनयेत् । देवानां पत्नीभ्य इदम् । विप्रुषां शान्तिरसि इत्युन्नयनदेशे निनीय । विप्रुड्भ्य इदम् । आहवनीये स्रुचं प्रताप्य हस्तेन पिधाय । ऊष्मणा उद्वृत्य । सप्तऋषिभ्यस्त्वा सप्तऋषीञ्जिन्व तया उदगुद्दिशति । सप्तऋषिभ्य इदम् । दक्षिणा पर्यावर्तते । स्रुचमन्तर्वेदि निदधाति ।
दीदिहि दीदिदासि दीदाय इति प्रति मन्त्रेण गार्हपत्ये दक्षिणाग्नौ आहवनीये च एकैकां समिधमादधाति । अग्नय इदम् । प्रागादि परिस्तरणमुत्तरे विसृजेत् । अग्ने गृहपत इत्यादि परिसमूहनालङ्करणे । अन्तर्वेद्यपो निनीय अवभृथस्यैव रूपमकः । पुन: परिषेचनम् । सङ्कल्प्य । अग्निहोत्र साद्गुण्यार्थं अनाज्ञातादि मन्त्रजपं करिष्ये ।
अग्निहोत्रप्रायश्चित्तम् :-
अनाज्ञातं, पुरुष सम्मितो, यत्पाकत्रा, त्वन्नो अग्ने, स त्वन्नो अग्ने, त्वमग्ने अयासि, आभिर्गीर्भिरिदं विष्णुः । ओं भूर्भुवस्सुवः । श्री विष्णवे नमः । अक्षितमक्षित्यै जुहोमि स्वाहा अग्निहोत्रस्थालीप्रक्षालनोदकं अन्तर्वेदिनिनीय । अक्षित्या इदम् ।
 
यजमानकर्तृकाग्निहोत्रे,1 यजमानः अपरेणाहवनीयं दक्षिणातिक्रम्य । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् । अप्सु श्रद्धा इत्यपोऽश्नाति । विहाराद्बहिर्गत्वा द्विराचामेत् । अन्नादाः स्थान्नादो भूयासं यशः स्थ यशस्वी भूयासᳪँ、 श्रद्धाः स्थ श्रद्धिषीय प्रसृताङ्गुलिहस्तेन अन्तर्वेद्यपो निनीय । आपो ह श्लेष्म2 प्रथमꣳ सम्बभूव येन धृतो वरुणो येन मित्रः । येनेन्द्रं देवा अभ्यषिञ्चन्त राज्याय तेनाहं मामभिषिञ्चामि वर्चसे शिरस्यप आनयते । एष वै सायमग्निहोत्रस्यावभृथः । इतरकर्तृकाग्निहोत्रे3 एतावन्नभवति । अथ प्रदक्षिणम् । अग्ने नय सुपथा --- घृताची ।
नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये । नम आहवनीयाय महावेद्यै नमो नमः ॥ काण्डद्वयोपपाद्याय कर्मब्रह्मस्वरूपिणे । स्वर्गापवर्गदात्रे च यज्ञेशाय नमो नमः ॥ यज्ञेशाच्युत गोविन्द माधवानन्तकेशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु च । स्मरणादेव तद्विष्णोस्सम्पूर्णं स्यादिति श्रुतिः ।।
॥ श्री विष्णवे नमो विष्णवे नमो विष्णवे नमः ॥
वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धंतु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिस्सदा नः ॥
सकृत्ते अग्ने नमः । द्विस्ते नमः । त्रिस्ते नमः । चतुस्ते नमः । पञ्चकृत्वस्ते नमः । दशकृत्वस्ते नमः । शतकृत्वस्ते नमः । आसहस्रकृत्वस्ते नमः । अपरिमितकृत्वस्ते नमः । नमस्ते अस्तु मा मा हिꣳसीः ।।
अनृणा अस्मिन्ननृणाः परस्मिᳪँ、स्तृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः सर्वान्पथो अनृणा आ क्षीयेम ॥
अहं परस्तादहमवस्तादहं ज्योतिषा वि तमो ववार । यदन्तरिक्षं तदु मे पिताभूदहꣳ सूर्य उभयतो ददर्षाहं भूयासमुत्तमः समानानाम् ॥
॥ समाप्तोऽग्निहोत्रप्रयोगः ॥
 
१. यजमानकर्तृकाग्निहोत्रं नाम यजमानसन्निधौ अन्येन क्रियमाणमग्निहोत्रं, अथवा स्वयं यजमानेन क्रियमाणमग्निहोत्रम् ।
२.श्रेष्म इति पाठान्तरम् ।
३. यजमानप्रवासे अन्येन क्रियमाणमग्निहोत्रमित्यर्थः ।