आपस्तम्बीय श्रौतप्रयोगः/अग्निष्टोमप्रयोगे पञ्चमोऽध्यायः माध्यन्दिनसवनम्
॥ अथ पञ्चमोऽध्यायः ॥
॥ माध्यन्दिनसवनम् ॥
माध्यन्दिनसवनस्याभिषवः :-
अभिषवादि माध्यन्दिनं सवनं तायते । तस्य प्रातस्सवनेन कल्पो व्याख्यातः । द्विदेवत्यर्तुग्रहा दर्विहोमाश्च न विद्यन्ते । तूष्णीं राजानमुपावहृत्य होतृचमसं वसतीवरीभिरभिपूर्य निग्राभ्यास्थ इति क्षिप्यमाणासु यजमानं वाचयित्वा । विस्रस्य राजानं ग्रावस्तुते सोमोष्णीषं प्रयच्छति । प्रत्यादत्ते चाभिषुतेषु ग्रावसु सोमोष्णीषं यजमानः परिधत्त इति वचनात् । असंप्रेषितो ग्रावस्तोत्रीया अन्वाह । तथैव महाभिषवः । वशी त्वं देवसोम त्रैष्टुभेन छन्दसेन्द्रस्य प्रियं पाथो अपीहि अदाभ्यांशुम् । यत्ते सोमादाभ्यम् इत्युपांशुपावनौ चापिसृज्य । पुरस्तादध्वर्युरित्यादि । उपरे राजानं न्युप्य होतृचमसेंऽशूनवधाय । प्रागपाक्--- । श्वात्रास्थ--- । अवीवृधं वः---। इहा इह इति संराधयन्तश्चाभिषुण्वन्ति । आ मास्कन् द्रप्सश्चस्कन्देत्यादि प्रातस्सवनवत् । उत्तमस्याभिषवस्य मध्यमे पर्याये बृहद्बृहत् इत्यभिषवः । उत्तमेऽभिषवेऽभिषुते राजन्यसंभृते । देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्रमचुच्यतुः परमस्याः परावतः । आस्मात्सधस्थात् । ओरोरन्तरिक्षात् । आसु भूतमसुषवुः । ब्रह्मवर्चसं म आसुषवुः । समरे रक्षाᳪ、स्यवधिषुः । अपहतं ब्रह्मज्यस्य इति प्रतिप्रस्थाता ग्राव्ण्णोऽनुमोदते । अध्वर्युः - पशुपुरोडाशेन सह प्रतिप्रस्थातस्सवनीयान्निर्वप इति संप्रेष्यति । प्रतिप्रस्थाता पशुपुरोडाशेन सह 1 पयस्यावर्जं प्रातस्सवनवत् सवनीयान्निर्वपति । अङ्गाराध्यूहनप्रभृति 2 अभिघारणान्तं करोति । हविष्कृता वाचं विसृज्य पशुं विशास्ति । गुदं मा निर्व्लेषीः इत्यादि हृदयं शामित्रे श्रपयतीत्यन्तं कृत्वा । अव रक्षो दिव इत्यादि । पशुपुरोडाशस्य एकादश कपालान्युपधाय, प्रातस्सवने एव उपहितेषु कपालेषु अङ्गाराध्यूहनादि इराभूतिरित्यन्तं प्रतिप्रस्थाता करोति ।
धारास्रावणं, ग्रहाणां ग्रहणम् :-
संभृत्य राजानमित्यादि प्रातस्सवनवदाधारायाः कृतेऽध्वर्युर्गृह्णाति शुक्रामन्थिनौ । अयं वेनश्चोदयत् इति शुक्रं गृहीत्वा हिरण्येन श्रीत्वा । एष ते योनिर्वीरतां पाहि सादयति । तं प्रत्नथा इति मन्थिनं गृहीत्वा । मनो नयेषु इति सक्तुभिश्श्रीत्वा एष ते योनिः प्रजाः पाहि सादयति । ये देवा दिवि
१. पशुपुरोडाशं निरुप्य सवनीयान्निर्वपतीत्यर्थः ।
२. प्रातस्सवने उपहितानि कपालानि तथैव अनुद्वासितानि तिष्ठन्ति । तेष्वेव कपालेषु अङ्गाराध्यूहनादि कर्म करोतीत्यर्थः । तृतीयसवनेऽपि एवमेव कर्मक्रमः । तृतीयसवनान्ते कपालानि उद्वासितानि भवन्ति ।
इति तिसृभ्यो धाराभ्य आग्रयणं गृह्णाति । य आग्रयणस्थाल्यां सोमस्तमन्यस्मिन्पात्र आनीय तां द्वितीयां धारां करोति । उदचनात्तृतीयाम् । हिं हिं हिं सोमः पवत इत्यादि । एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः सादयति । उक्थ्यं गृह्णाति उपयामगृहीतोसीन्द्राय त्वा बृहद्वते --- विष्णवे त्वा गृहीत्वा पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वोक्थायुवे सादयति । उक्थ्यं गृहीत्वा मरुत्वतीयौ । मरुत्वन्तमिति स्वेनर्तुपात्रेणाध्वर्युः पूर्वं मरुत्वतीयं गृह्णाति । मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यꣳ शासमिन्द्रम् । विश्वासाहमवसे नूतनायोग्रꣳ सहोदामिह तꣳ हुवेम । उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वते गृहीत्वा पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वा मरुत्वते सादयति । इन्द्र मरुत्व इति स्वेनर्तुपात्रेण प्रतिप्रस्थतोत्तरेणोत्तरम् । इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबस्सुतस्य । तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयस्सुयज्ञाः । उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वते गृहीत्वा पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वा मरुत्वते सादयति । अत्र धारा विरमति । प्रपीड्य पवित्रं निदधाति । एकधनानां यथार्थमित्यादि । एकस्य चमसगणस्याधवनीयेऽवशिनष्टि । न मैत्रावरुणचमसीयाः । ग्रहाणामुपस्थानम् :-
पञ्चहोत्रा यजमानस्सर्वान् ग्रहान् गृहीतानेवाभिमृशतीत्यन्तं कृत्वा । ग्रहावकाशैश्शृतङ्कारैश्चोपतिष्ठते । द्वौ समुद्रौ पूतभृदाधवनीयौ । द्वे द्रधसी द्रोणकलशम् । परिभूरग्निम् सर्वं राजानम् । चक्षुर्भ्यां मे वर्चोदौ वर्चसे पवेथाम् शुक्रामन्थिनौ । आत्मने मे आग्रयणम् । अङ्गेभ्यो मे उक्थ्यम् । पुष्ट्यै मे सर्वान् ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे पवेथाम् ऋतुपात्रे । विष्णोर्जठरमसि द्रोणकलशम् । इन्द्रस्य जठरमसि आधवनीयं । विश्वेषां देवानां जठरमसि पूतभृतं ।सोम त्वां वृणीमहे सर्वं राजानम् । शृतौ स्थश्चक्षुषी मे शुक्रामन्थिनौ । शृतोऽस्यात्मानं मे आग्रयणम् । शृतोऽस्यङ्गानि मे उक्थ्यम् । शृतास्स्थ पुष्टिं मे श्रीणीत सर्वान् ग्रहान् । प्रजापतेर्जठरमसि द्रोणकलशम् । इन्द्रस्य जठरमसि आधवनीयं । विश्वेषां देवानां जठरमसि पूतभृतं । शृतस्त्वꣳ शृतोहं --- दुरोवृधि सर्वं राजानम् । द्रप्सश्चस्कन्देत्यादि वैप्रुषान् सप्तहोतारं च हुत्वा ।
माध्यन्दिनपवमानार्थं सर्पणम् :-
अध्वर्युं प्रस्तोतान्वारभत इत्यादि । वागग्रेगा अग्र एतु । त्रैष्टुभः पन्था रुद्रा देवता वृकेणा परिपरेण पथा स्वस्ति रुद्रानशीय अध्वर्योस्सर्पणे विकारः । उत्तरेण हविर्धानं गत्वा दक्षिणेन मार्जालीयं परीत्य पूर्वया द्वारा सदः प्रविश्य अग्रेण होतारं अध्वर्युर्यजमानश्चावतिष्ठेते दक्षिणेनोत्तरेण वा प्रशास्तुर्धिष्णियं परीत्य उद्गातारो माध्यन्दिनेन पवमानेन स्तुवते । वायुर्हिङ्कर्ता इति प्रस्तोत्रे बर्हिर्मुष्टिं
प्रयच्छति । ब्रह्मन् स्तोष्याम इत्युक्ते ब्रह्मा देवसवितरित्यनुद्रत्य । विष्टम्भोऽसि वृष्ट्यै त्वा वृष्टिं जिन्व । ओᳪ、 स्तुत । यजमानः - ज्योतिषे हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुध्यै पुरस्तान्माध्यन्दिनात् पवमानाद्यजमानो जपति । चतुर्होतारं व्याचष्टे । ज्योक्त्यै हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुध्यै इति च । स्तूयमाने च चतुर्होतारं जपति । उत्सोदेवो हिरण्ययोमिति मध्यमायां च स्तोत्रीयायां सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति मा सम्पारय अन्वारोहं जपति । स्तुतस्य स्तुतमसि स्तोत्रमनुमन्त्रयते । स्तुतेऽध्वर्युस्सम्प्रेष्यति अग्नीदग्नीन् विहर बर्हिस्तृणीहि पुरोडाशानलङ्कुरु प्रतिप्रस्थातर्दधिघर्मेणानूदे3हि । विहरणव्याघारणपरिप्लवभक्षणबर्हिस्तरणालङ्करणानि प्रातस्सवनवत् । धिष्णियान् व्याघारयति तैरेव मन्त्रैस्तूष्णीं वा । परिप्लवभक्षणान्ते आग्नीध्रः - कर्मणे वामित्यादि पुरोडाशानलङ्करोति । यजमानः - विष्णो त्वन्नो अन्तमः इति सर्वं राजानमुपतिष्ठते । एतयैवाध्वर्युः पात्राणि संमृशति । सोमः पवित्रꣳ स मा पुनातु । कलशो ह्वयताम् । सोमो ह्वयताम् ।
दधिघर्मप्रचारः :-
आग्नीध्रे प्रतिप्रस्थाता दधिघर्मं गृह्णाति । औदुम्बर्यां स्रुच्युपस्तीर्य यावती द्यावापृथिवी महित्वा यावच्च सप्त सिन्धवो वितस्थुः । तावन्तमिन्द्र ते ग्रहꣳ सहोर्जा गृह्णाम्यस्तृतम् दधि गृहीत्वाभिघार्य । वाक्च त्वा मनश्च श्रीणीताम् । प्राणश्च त्वापानश्च श्रीणीताम् । चक्षुश्च त्वा श्रोत्रं च श्रीणीताम् । दक्षश्च त्वा बलं च श्रीणीताम् । ओजश्च त्वा सहश्च श्रीणीताम् । आयुश्च त्वा जरा च श्रीणीताम् । आत्मा च त्वा तनूश्च श्रीणीताम् । शृतोऽसि शृतङ्कृतः । शृताय त्वा शृतेभ्यस्त्वा इत्याग्नीध्रीयेऽधिश्रित्याह होतर्वदस्व यत्ते वाद्यम् । यदास्य विजानाति यदि श्रातो जुहोतन यद्यश्रातो ममत्तनेति एतस्मिन्काले श्रातꣳ हविः इति प्रत्युक्त्वा तमादायाहवनीयं गत्वा प्रतिप्रस्थाता 1 आश्राव्य प्रत्याश्राविते संप्रेष्यति दधि घर्मस्य यज । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमस्तपोजास्तस्मा इन्द्राय सुतमाजुहोमि स्वाहा वषट्कृते जुहोति । इन्द्रायेदम् । स्वाहा वडिन्द्राय अनुवषट्कृते हुत्वा हरति भक्षम् । अग्नये स्विष्टकृत इदम् । तं भक्षयन्ति ये प्रवर्ग्यम् । नात्रोपहवो न च प्राणभक्षः । भूर्भुवस्सुवः । मयि त्यदिन्द्रियं महत् । मयि दक्षो मयि क्रतुः । मयि धायि सुवीर्यम् । त्रिषुग्घर्मो विभातु मे । आकूत्या मनसा सह । विराजा ज्योतिषा सह । यज्ञेन पयसा सह । ब्रह्मणा तेजसा सह । क्षत्रेण यशसा सह । सत्येन तपसा सह । तस्य दोहमशीमहि । तस्य सुम्नमशीमहि । तस्य
१. एतद्भाष्यकारस्य मतम् । अध्वर्युः कर्तेत्युपदेशः । एवमेव अ. ह. पाठः ।
भक्षमशीमहि । तस्य त इन्द्रेण पीतस्य मधुमतः । उपहूतस्योपहूतो भक्षयामि भक्षयित्वा । मित्रो जनान्, यातयति प्रजानन् मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवद्विधेम ॥ प्र स मित्र मर्तो अस्तु प्रयस्वान्, यस्त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनमꣳहो अश्नोत्यन्तितो न दूरात् नाभिदेशमभिमृशति ।
पशुपुरोडाशसवनीयपुरोडाशानां प्रचारः :-
अत्र प्रतिप्रस्थाता सवनीयानासादयतीत्यादि । अध्वर्युः – पशुपुरोडाशेन प्रचर्य । माध्यन्दिनस्य सवनस्येन्द्राय पुरोडाशानामनुब्रू३हि । माध्यन्दिनस्य सवनस्येन्द्राय पुरोडाशानां प्रेष्य इति सम्प्रेष्यति
शुक्रामन्थिप्रचारः :-
होत्रे इडां हृत्वा हविर्धानं गच्छन् संप्रेष्यति उन्नीयमानेभ्योऽनुब्रूहि । उन्नेता होतृचमसमुख्यान् दश चमसानुन्नयति । ततश्शुक्रामन्थिभ्यां प्रचरत इत्यादि । माध्यन्दिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुत इत्यादि । पुरस्तादाग्नीध्रचमसादच्छावाकचमसेन चरन्ति । सद एत्य पर्वाञ्जनादि । मार्जनान्ते लाजानां त्रेधाकरणम् । हविश्शेषभक्षणं चमसभक्षणं च ।
दक्षिणादानम् :-
सन्नेषु नाराशंसेषु दक्षिणा ददाति । दक्षिणेन वेदिमवस्थितासु दक्षिणासु प्रचरण्यां त्रिर्गृहीतं गृहीत्वा उत्तरेण हविर्धानं गत्वा उत्तरेणाग्नीध्रीयं धिष्णियं परीत्य पूर्वया द्वारा प्राग्वंशं प्रविश्य समपिव्रतान् ह्वयध्वम् इति सम्प्रेष्यति । स्रुग्दण्डोपनियमनान्तं कृत्वा । हिरण्यं प्रबध्य घृतेऽवधायान्वारब्धे यजमाने उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यᳪँ、 स्वाहा । चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा इति द्वाभ्यां गार्हपत्ये सावशेषं जुहोति । सूर्यायेदम् । दिवं गच्छ सुवः पत हिरण्यं हुत्वोद्गृह्णाति । उभयं धारयमाणः रूपेण वो रूपमभ्यैमि वयसा वयः दक्षिणा अभ्यैति । तुथो वो विश्ववेदा विभजतु वर्षिष्ठे अधि नाके यजमानः तां चतुर्धा कृष्णाजिनेन व्युत्रास्य । चतुर्थमध्वर्युभ्यो विभजति । यावदध्वर्यवे ददाति तस्यार्धं प्रतिप्रस्थात्रे तृतीयं नेष्ट्रे चतुर्थमुन्नेत्रे । एतेनैवेतरेषां दानमुक्तम्
दक्षिणानां चतुर्भागं पञ्चविंशतिधा कृतम् ।
दद्यान्महर्त्विगादीनां अर्कर्तुयुगपादकैः ।
पञ्चविंशतिधा कृत्वा वर्गीयां दक्षिणां क्रमात् ।
दद्यात् द्वादश षट् चापि चतस्रस्तिस्र एव च ॥
अग्नीद्धिरण्यं पूर्णपात्रमुपबर्हणं सार्वसूत्रं ते ददामि ॥ होतर्वाचं ते ददामि । तां ते दक्षिणानां
स्वेनांशेन निष्क्रीणामि ॥ ब्रह्मन् मनस्ते ते ददामि । तत्ते दक्षिणानां स्वेनांशेन निष्क्रीणामि ॥ अध्वर्यो प्राणं ते ददामि । तं ते दक्षिणानां स्वेनांशेन निष्क्रीणामि ॥ उद्गातश्चक्षुस्ते ददामि । तत्ते दक्षिणानां स्वेनांशेन निष्क्रीणामि ॥ होत्रकाश्श्रोत्रं वो ददामि । तद्वो दक्षिणानां स्वेन स्वेनांशेन निष्क्रीणामि ॥ प्रतिप्रस्थातः प्राणं ते ददामि । तं ते दक्षिणानां स्वेनांशेन निष्क्रीणामि ॥ प्रस्तोतश्चक्षुस्ते ददामि । तत्ते दक्षिणानां स्वेनांशेन निष्क्रीणामि ॥ ग्रावस्तुद्वाचं ते ददामि । तां ते दक्षिणानां स्वेनांशेन निष्क्रीणामि ॥ उन्नेतः प्राणं ते ददामि । तं ते दक्षिणानां स्वेनांशेन निष्क्रीणामि ।। सुब्रह्मण्य चक्षुस्ते ददामि । तत्ते दक्षिणानां स्वेनांशेन निष्क्रीणामि ॥ प्रतिहर्तश्चक्षुस्ते ददामि । तत्ते दक्षिणानां स्वेनांशेन निष्क्रीणामि ॥ चमसाध्वर्यवोऽङ्गानि वो ददामि । तानि वो वासोभिर्निष्क्रीणामि ॥ प्रसर्पका लोमानि वो ददामि । तानि वो यथाशक्तिदानेन निष्क्रीणामि ॥ सदस्य पक्षे - सदस्य आत्मानं ते ददामि । तं ते गवा निष्क्रीणामि ॥ अध्वर्युः - एतत्ते अग्ने राध ऐति सोमच्युतं तन्मित्रस्य पथा नयर्तस्य पथा प्रेत चन्द्रदक्षिणा यज्ञस्य पथा सुविता नयन्तीः हिरण्यपाणिरग्रेण गार्हपत्यं जघनेन सदो दक्षिणा नयन्त्यन्तराग्नीध्रं च सदश्च ता उदीचीस्तीर्थेनोत्सृजति । तथैव समन्वारब्धेष्वसमन्वारब्धेषु वा । अग्ने नय सुपथा --- विधेम स्वाहा प्रचरणीशेषमाग्नीध्रीये जुहोति । अग्नय इदम् । ब्राह्मणमद्यराध्यासमृषिमार्षेयं पितृमन्तं पैतृमत्यꣳ सुधातुदक्षिणम् आत्रेयाय हिरण्यं ददाति । तदभावे य आर्षेयस्संहितस्तस्मै दद्यात् । अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारमाविशतानवहायास्मान् देवयानेन पथेत सुकृतां लोके सीदत तन्नस्सᳪँ、स्कृतम् नीतां दक्षिणां यजमानोऽनुमन्त्र्य । सद एत्य वि सुवः पश्य व्यन्तरिक्षं यतस्व सदस्यैः सदोऽनुवीक्ष्य । ऋत्विग्भ्यो नमस्करोति । दक्षिणां प्रतिग्रहीष्यन्नित्यादि । रुद्राय गाम् इति प्रतिग्रहः । आग्नीध्रः अग्नये हिरण्यम् इति च । नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति । हरिणस्य रघुष्यतोऽधिशीर्षाणि भेषजम् 1 । सुक्षेत्रियं विषाणया विषूचीनमनीनशत् । अनु त्वा हरिणो मृगः पद्भिश्चतुर्भिरक्रमीत् 2। विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितं हृदि मनो यदस्य गुल्फितम् एताभ्याम् ।।
वैश्वकर्मणहोमः :-
अध्वर्युः – यज्ञपतिमृषय एनसाऽऽहुः । प्रजा निर्भक्ता अनु तप्यमाना मधव्यौ स्तोकावप तौ रराध । सं नस्ताभ्याꣳ सृजतु विश्वकर्मा स्वाहा ॥ विश्वकर्मण इदम् । घोरा ऋषयो नमो अस्त्वेभ्यः । चक्षुष एषां मनसश्च सन्धौ बृहस्पतये महिष द्युमन्नमः । नमो विश्वकर्मणे स उ
१. हरिण्यस्य रघुष्यतोऽधिशीर्षणि भेषजम् । इति पाठान्तरम् ।
२. पड्भिश्चतुर्भिरक्रमीत् । इति पाठान्तरम् ।
पात्वस्मान्त्स्वाहा ॥ विश्वकर्मण इदम् । अनन्यान्त्सोमपान् मन्यमानः । प्राणस्य विद्वान्त्समरे न धीर एनश्चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन् प्रमुञ्चा स्वस्तये स्वाहा ॥ विश्वकर्मण इदम् । ये भक्षयन्तो न वसून्यानृहुः । यानग्नयोऽन्वतप्यन्त धिष्णिया इयं तेषामवया दुरिष्ट्यै स्विष्टिं नस्तां कृणोतु विश्वकर्मा स्वाहा ॥ विश्वकर्मण इदम् । नमः पितृभ्यो अभि ये नो अख्यन्, यज्ञकृतो यज्ञकामास्सुदेवा अकामा वो दक्षिणां न नीनिम मा नस्तस्मादेनसः पापयिष्ट स्वाहा ॥ पितृभ्य इदम् । अप उपस्पृश्य । आग्नीध्रीये पञ्च वैश्वकर्मणानि हुत्वा मरुत्वतीयाभ्यां प्रचरतः ।।
मरुत्वतीयग्रहप्रचारः, शस्त्रं च :-
स्वं स्वं ग्रहमादाय इन्द्राय मरुत्वतेऽनुब्रू३हि । इन्द्राय मरुत्वते प्रेष्य इति संप्रेषौ । वषट्कारानुवषट्कारौ दक्षिणतस्स्थित्वा जुहुतः । इन्द्राय मरुत्वत इदम् । अग्नये स्विष्टकृत इदम् । द्विदेवत्यवत्संपातौ व्यवनीय । अभक्षितेन पात्रेण अध्वर्युस्तृतीयं मरुत्वतीयं गृह्णाति । मरुत्वाꣳ इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय । आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वꣳ राजासि प्रदिवस्सुतानाम् । उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वते गृहीत्वा पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वा मरुत्वते सादयति । प्रतिप्रस्थाता हरति भक्षम् । उभावध्वर्यू प्रतिभक्षयतः । एतत्पात्रमादायाध्वर्युस्सदोबिले प्राङ्मुख उपविश्य इडा देवहूरित्यादि शस्त्रं प्रतिगीर्य शस्त्रप्रायश्चित्तं हुत्वा । उक्थशा यज सोमस्य। वषट्कृतानुवषट्कृते जुहोति । अनुप्रकम्पयन्ति नाराशंसान् । इन्द्राय मरुत्वत इदम् । ऊर्वेभ्यः पितृभ्य इदम् । अग्नये स्विष्टकृत इदम् । ग्रहमध्वर्युः प्रतिभक्षयति । पूर्ववन्नाराशंसानां भक्षणाप्यायनसादनानि।
माहेन्द्रग्रहग्रहणं स्तोत्रशस्त्रे च :-
माहेन्द्रं शुक्रपात्रेण गृह्णाति महाꣳ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर्वत्सस्य वावृधे । उपयामगृहीतोऽसि महेन्द्राय त्वा गृहीत्वा पवित्रदशाभिः परिमृज्य । एष ते योनिर्महेन्द्राय त्वा सादयति । असर्ज्य॑सर्जि इति माहेन्द्रस्य स्तोत्रमुपाकरोति 1। ब्रह्मा देव सवितरित्यादि । प्रवास्यह्ने त्वाहर्जिन्व । ओᳪ、 स्तुत । यजमानः – स्तुतस्य स्तुतमसि । स्तुते वैश्वदेववत् शस्त्रप्रतिगरो ग्रहनाराशंसाश्च । उक्थशा यज सोमस्य । महेन्द्रायेदम् । ऊर्वेभ्यः पितृभ्य इदम् । अतिग्राह्यहोमः :-
माहेन्द्रं त्वतिग्राह्या अनुहूयन्ते । सहैवाध्वर्युणा आग्नेयं प्रतिप्रस्थातादत्ते । ऐन्द्रं नेष्टा । सौर्यमुन्नेता । अग्ने तेजस्विन् तेजस्वी त्वं देवेषु भूयास्तेजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु
१. क्व तृतीयसवनीया इति माहेन्द्रस्य स्तोत्र इति ब्रूयात् । इति बौधायनमतात् अत्र तृतीयसवनीयान् निर्वपति ।
दीक्षायै च त्वा तपसश्च तेजसे जुहोमि स्वाहा । अग्नय इदम् । प्रतिप्रस्थाता जुहोति । अतिग्राह्ये हुते तेजोविदसि तेजो मा मा हासीन्माहं तेजो हासिषं मा मां तेजो हासीत् अनुमन्त्रयते । इन्द्रौजस्विन्नोजस्वी त्वं देवेषु भूया ओजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु ब्रह्मणश्च त्वा क्षत्रस्य चौजसे जुहोमि स्वाहा । इन्द्रायेदम् । ऐन्द्रं नेष्टा हुत्वा । ओजोविदस्योजो मा मा हासीन्माहमोजो हासिषं मा मामोजो हासीत् अनुमन्त्रयते । सूर्य भ्राजस्विन् भ्राजस्वी त्वं देवेषु भूया भ्राजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु वायोश्च त्वापां च भ्राजसे जुहोमि स्वाहा । सूर्यायेदम् । सौर्यमुन्नेता हुत्वा । सुवर्विदसि सुवर्मा मा हासीन्माहꣳ सुवर्हासिषं मा माꣳ सुवर्हासीत् अनुमन्त्रयते । अध्वर्युः - अनुवषट्कृते जुहोति । अग्नये स्विष्टकृत इदम् । ग्रहमध्वर्युः प्रतिभक्षयति । सर्वभक्षाश्चमसा भवन्ति । प्रतिप्रस्थात्रादयः सदसि प्रत्यङ्मुखा भक्षयन्ति । भक्षेहीत्यादि । नेष्टरुपह्वयस्व उन्नेतरुपह्वयस्व । मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु प्रतिप्रस्थाता भक्षयति । हिन्व मे । भक्षेहीत्यादि । प्रतिप्रस्थातरुपह्वयस्व उन्नेतरुपह्वयस्व । मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु नेष्टा भक्षयति । हिन्व मे । भक्षेहीत्यादि । प्रतिप्रस्थातरुपह्वयस्व नेष्टरुपह्वयस्व । मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु उन्नेता भक्षयति । हिन्व मे ।
उक्थ्यपर्यायाः :-
प्रक्षालितेषु चमसेषु प्रातस्सवनवदुक्थ्यपर्यायाः । उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि देवेभ्यो देवायुवमुक्थेभ्य उक्थायुवम् इत्यादि सर्वत्र ग्रहणासादनौ । ब्रह्मन् स्तोष्याम इत्युक्ते ब्रह्मा देवसवितरित्यनुद्रुत्य अनुवासि रात्रियै त्वा रात्रिं जिन्व प्रथमोक्थ्ये । उशिगसि वसुभ्यस्त्वा वसून् जिन्व इति द्वितीये । प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्रान् जिन्व इति तृतीये । उक्थशा यज सोमानाम् इति सर्वत्र । देवेभ्यस्त्वा इति मुख्ये संपातावनयनं च । न प्रतिप्रस्थातोर्ध्वपात्रस्य भक्षयति । अच्छावाकशस्त्रं प्रतिगीर्य उक्थं वाचि इत्याह माध्यन्दिनं सवनं प्रतिगीर्य शस्त्रं शस्त्रं वा । प्रक्षालितेषु चमसेषु प्रातस्सवनवदग्निं नरो दीधितिभिरित्यादि प्रायश्चित्तं कृत्वा । विश्वे देवा मरुत इन्द्रो अस्मानस्मिन् द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानाꣳ सुमतौ स्याम स्वाहा । विश्वेभ्यो देवेभ्यो मरुद्भ्य इन्द्रायेदम् । संस्थिते सवनाहुतिं जुहोति । प्रशास्तः प्रसुव इति सम्प्रेष्यति । ब्रह्मा यथेतं प्रतिनिष्क्रामति । सन्तिष्ठते माध्यन्दिनं सवनम् ।
॥ इति माध्यन्दिनं सवनम् ॥