आपस्तम्बीय श्रौतप्रयोगः/अग्निचयने प्रथमोध्यायः (प्रथमा चितिः)

विकिस्रोतः तः
अग्निचयनम्

सोमयागे प्रथमाचितिचयनम्

[१]अथ प्रथमा चितिः ॥
अग्निचयनप्रयोगे प्रथमोध्यायः
अध्वर्युः - प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद उत्तरवेदिमभिमृश्य । मयि गृह्णाम्यग्रे अग्निᳪं、 रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजां मयि वर्चो दधाम्यरिष्टास्स्याम तनुवा सुवीराः ॥ यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्याᳪं、 आविवेश । तमात्मन् परिगृह्णीमहे वयं मा सो अस्माᳪं、 अवहाय परागात् द्वाभ्यामात्मन्यग्निं गृहीत्वा [२] । यास्ते अग्ने समिधो यानि धाम या जिह्वा जातवेदो यो अर्चिः । ये ते अग्ने मेडयो य इन्दवस्तेभिरात्मानं चिनुहि प्रजानन् अध्वर्युः स्वयञ्चित्याभिमृशति।[३]८५
इष्टकाभिरग्निं चिनोति अध्वर्युर्यजमानो वा । स्वयं चिन्वन्नात्मन्नग्निं[४]८६ गृह्णीते न स्वयञ्चित्याभिमृशति । प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः । प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः । खण्डकृष्णादीष्टकादोषनिर्हरणार्थं यजुर्भेषप्रायश्चित्तं करिष्ये । दक्षिणाग्नौ भुवस्स्वाहा । वायव इदम् । आहवनीये सर्वप्रायश्चित्तं हुत्वा । प्रतिचित्ययं विधिः[५]८७ । दक्षिणतश्श्वेतोऽश्वस्तिष्ठति तमालभ्य ।
अथोपधानम् इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमᳪं、 रथीनां वाजानाᳪं、 सत्पतिं पतिं तया देवतयाङ्गिरस्वद्ध्रुवा सीद उत्तरेण पुच्छाप्ययं अन्तर्विध आक्रमणं प्रतीष्टकामुपदध्यात् । ब्रह्मा दक्षिणत आस्ते । उत्तरतः पश्चाद्वोपचारोऽग्निः । तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशᳪं、स मा न आयुः प्रमोषीस्स्वाहा । वरुणायेदम् । शालामुखीये हुत्वा । वाङ्म आसन्नसोः प्राणोऽक्ष्योश्चक्षुः कर्णयोश्श्रोत्रं बाहुवोर्बलमूरुवोरोजोऽरिष्टा विश्वान्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिᳪं、सीः सर्वत्र आरोहन् प्रत्यवरोहंश्च जपति । सकृद्वान्ततः । अश्वेन सह आक्रमण्यारोहणम् । प्राञ्चमश्वम् अभ्यस्थाद्विश्वाः पृतना अरातीस्तदग्निराह तदु सोम आह । बृहस्पतिस्सविता तन्म आह पूषा माऽधात्सुकृतस्य लोके अश्वस्य दक्षिणेन पदा दर्भस्तम्बमाक्रमय्य । प्रदक्षिणमावर्तयित्वा । यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुतं जनिम तत्ते अर्वन् पुनरेवाक्रमयति । अपां पृष्ठमसि योनिरग्नेस्समुद्रमभितः पिन्वमानम् । वर्धमानं मह आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व तया देवतया अन्तरिक्षरूपमिति ध्यात्वा । अश्वस्य पदे पुष्करपर्णमुत्तानमुपधाय । अपां निधिं गाय इति सम्प्रेष्यति । सत्यसाम गाय इति वा । ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः । स बुध्निया उप मा अस्य विष्ठास्सतश्च योनिमसतश्च विवस्तया आदित्यमण्डलमिति ध्यात्वा पुष्करपर्णे उपरिष्टान्निर्बाधं रुक्ममुदक्च्छिद्रमुपधाय । हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम तया तस्मिन् हिरण्मयं पुरुषं प्राचीनमुत्तानं दक्षिणेनातृण्णं प्राङ्मुख उपधाय । आदित्यमण्डलस्थः पुरुष इति ध्यात्वा[६]८८ । पुरुषसाम गाय इति सम्प्रेष्यति । द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु सञ्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः पुरुषमभिमृश्य । नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यस्सर्पेभ्यो नमः ॥ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषामप्सु सदः कृतं तेभ्यस्सर्पेभ्यो नमः ॥ या इषवो यातुधानानां ये वा वनस्पतीᳪं、रनु । ये वाऽवटेषु शेरते तेभ्यस्सर्पेभ्यो नमः तिसृभिरभिमन्त्र्य ।
जुह्वां पञ्चगृहीतं गृहीत्वा कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाᳪं、 इभेन । तृष्वीमनु प्रसितिं दूणानोस्तासि विध्य रक्षसस्तपिष्ठैस्स्वाहा दक्षिणमंसम् । अग्नये रक्षोघ्न इदम् । तव भ्रमास आशुया पतन्त्यनुस्पृश धृषता शोशुचानः । तपू9ष्यग्ने जुह्वा पतङ्गानसन्दितो वि सृज विश्वगुल्कास्स्वाहा उत्तरां श्रोणिम् । अग्नये रक्षोघ्न इदम् । प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः । यो नो दूरे अघशᳪं、सो यो अन्त्यग्ने माकिष्टे व्यथिरादधर्षीत्स्वाहा दक्षिणां श्रोणिम् । अग्नये रक्षोघ्न इदम् । उदग्ने तिष्ठ प्रत्याऽऽतनुष्व न्यमित्राᳪं、 ओषतात्तिग्महेते । यो नो अरातिᳪं、 समिधान चक्रे नीचा तं धक्ष्यतसन्न शुष्कᳪं、 स्वाहा उत्तरमंसम् । अग्नये रक्षोघ्न इदम् । ऊर्ध्वो भव प्रतिविध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने । अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्रमृणीहि शत्रून्त्स्वाहा मध्यम् । अग्नये रक्षोघ्न इदम् । पञ्चभिः उत्तरवेदिवत् पुरुषं व्याघारयति हिरण्यनिधानमकुर्वन् । भूतेभ्यस्त्वा स्रुचमुद्गृह्य[७]८९ । अग्नेस्त्वा तेजसा सादयामि तया आज्यस्य पूर्णां कार्ष्मर्यमयीं स्रुचं दक्षिणेन हिरण्मयं पुरुषमुपदधाति । इन्द्रस्य त्वौजसा सादयामि तया दध्नः पूर्णामौदुम्बरीं स्रुचमुत्तरेण पुरुषम् । अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाᳪं、 रेताᳪं、सि जिन्वति कार्ष्मर्यमयीमुपतिष्ठते । भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिस्सचसे शिवाभिः । दिवि मूर्धानं दधिषे सुवर्षां जिह्वामग्ने चकृषे हव्यवाहम् औदुम्बरीमुपतिष्ठते । अत्र कृणुष्व पाज इति पञ्चभिः पुरुषवद्रुक्मं व्याघार्य ।
प्रथमस्वयमातॄण्णाया उपधानम् --
ध्रुवाऽसि धरुणास्तृता विश्वकर्मणा सुकृता । मा त्वा समुद्र उद्वधीन्मा सुपर्णोऽव्यथमाना पृथिवीं दृᳪं、ह स्वयमातृण्णामभिमृश्य । अश्वेनावघ्राप्य[८]९० प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठे व्यचस्वतीं प्रथस्वतीं प्रथोऽसि पृथिव्यसि भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवस्य धर्त्री पृथिवीं यच्छ पृथिवीं दृᳪं、ह पृथिवीं मा हिᳪं、सीर्विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्रायाग्निस्त्वाभि पातु मह्या स्वस्त्या छर्दिषा शन्तमेन तया देवतयाङ्गिरस्वद्ध्रुवा सीद । भूः आसीनो मध्येऽग्नेरुपदधात्यविदुषा ब्राह्मणेन सह । अविद्वांसमध्यापयेदन्यः । चित्तिं जुहोमि मनसा घृतेन यथा देवा इहागमन्वीतिहोत्रा ऋतावृधस्समुद्रस्य वयुनस्य पत्मञ्जुहोमि विश्वकर्मणे विश्वाहाऽमर्त्यᳪं、 हविस्स्वाहा । विश्वकर्मण इदम् । स्वयमातृण्णायां हुत्वाभिप्राणिति[९]९१। यजमानद्रव्याद्गृहीत्वा अविद्वान्ब्राह्मणो वरं ददात्यध्वर्यवे एकं द्वौ त्रीन् वा । रुद्राय गामिति प्रतिग्रहः तूष्णीं वा[१०]९२। आसीनः प्रथमां स्वयमातृण्णामुपदधाति । ऊर्ध्वज्ञुर्द्वितीयां तिष्ठंस्तृतीयाम् । स्वयमातृण्णायां साम गाय इति सम्प्रेष्यति । एवं द्वितीयां तृतीयां चोपधाय सम्प्रेष्यति । तेजोऽसि तेजो मे यच्छ पृथिवीं यच्छ पृथिव्यै मा पाहि तया हिरण्येष्टकाम् । पृथिव्युदपुरमन्नेन विष्टा मनुष्यास्ते गोप्तारोऽग्निर्वियत्तोऽस्यां तामहं प्रपद्ये सा मे शर्म च वर्म चास्तु तया मण्डलेष्टकाम् । भूरसि भुवनस्य रेत इष्टकास्स्वर्गो लोको वाचा त्वान्वारोहाम्यग्निर्ज्योतिर्ज्योतिरग्निस्तया । सूरसि सुवनस्य रेत इष्टकास्स्वर्गो लोको मनसा त्वान्वारोहामि सूर्यो ज्योतिर्ज्योतिस्सूर्यस्तया अन्वारोहे द्वे ।
काण्डात्काण्डात्प्ररोहन्ती परुषः परुषः परि । एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥ या शतेन प्रतनोषि सहस्रेण वि रोहसि । तस्यास्ते देवीष्टके विधेम हविषा वयं तया द्वाभ्यां दूर्वेष्टकां सलोष्टं हरितं दूर्वास्तम्बमप्रच्छिन्नाग्रं यथास्योपहितस्य स्वयमातृण्णामग्रं प्राप्नुयात्[११]९३ । प्रबाहुगिष्टकायां हिरण्यशकलावध्यूह्य ।
यास्ते अग्ने सूर्ये रुच उद्यतो दिवमातन्वन्ति रश्मिभिः । ताभिस्सर्वाभी रुचे जनाय नस्कृधि ॥ या वो देवास्सूर्ये रुचो गोष्वश्वेषु या रुचः । इन्द्राग्नी ताभिस्सर्वाभी रुचं नो धत्त बृहस्पते तया द्वाभ्यां वामभृतम् ।
विराड्ज्योतिरधारयत्तया । सम्राड्ज्योतिरधारयत्तया । स्वराड्ज्योतिरधारयत्तया तिसृभिः तिस्रो रेतस्सिचः । तासां द्वे प्रथमायां चित्यां यून उपदध्यात् । सर्वा मध्यमायां विवयसः । एकां प्रथमायां एकामुत्तमायां स्थविरस्य । अन्यतरामुपदध्याद्द्द्वेष्यस्य । यजुषेमां चामूंचोपदधाति मनसा मध्यमाम् ।
बृहस्पतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर्यच्छाग्निस्तेऽधिपतिस्तया विश्वज्योतिषम्[१२]९३(अ) । अग्नेर्यान्यसि तया । देवानामग्ने यान्यसि तया द्वे संयान्यौ ।
मधुश्च माधवश्च वासन्तिकावृतू अग्नेरन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रता येऽग्नयस्समनसोऽन्तरा द्यावापृथिवी वासन्तिकावृतू अभिकल्पमाना इन्द्रमिव देवा अभि सँव्विशन्तु तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम् द्वे ऋतव्ये समानतयादेवते । हस्तद्वयेन युगपदुपदधाति । सर्वास्वृतव्यासु अवकामनूपदधाति ।
अषाढासि सहमाना सहस्वारातीस्सहस्वारातीयतः, सहस्व पृतनास्सहस्व पृतन्यतः । सहस्रवीर्यासि सा मा जिन्व तया द्वाभ्यामषाढामुपरिष्टाल्लक्ष्माणम् ।
उदस्य शुष्माद्भानुर्नार्त बिभर्ति । भारं पृथिवी न भूम । प्र शुक्रैतु देवी मनीषा । अस्मत्सुतष्टो रथो न वाजी । अर्चन्त एके महि साममन्वत । तेन सूर्यमधारयन् । तेन सूर्यमरोचयन् । घर्मश्शिरस्तदयमग्निः । पुरीषमसि सम्प्रियं प्रजया पशुभिर्भुवत् । प्रजापतिस्त्वा सादयतु तया घर्मेष्टकामुपधाय । यास्ते अग्न आर्द्रा योनयो याः कुलायिनीः । ये ते अग्न इन्दवो या उ नाभयः । यास्ते अग्ने तनुव ऊर्जो नाम । ताभिस्त्वमुभयीभिस्सँव्विदानः । प्रजाभिरग्ने द्रविणेह सीद । प्रजापतिस्त्वा सादयतु तया कुलायिनीम् ।
कूर्मोपधानम् :-
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः ॥ मधु नक्तमुतोषसि मधुमत्पार्थिव‍ᳪं、 रजः । मधु द्यौरस्तु नः पिता ॥ मधुमान्नो वनस्पतिर्मधुमाᳪं、 अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः तिसृभिः दध्ना मधुमिश्रेण कूर्ममभ्यज्य । मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतान्नो भरीमभिस्तया पुरस्तात्स्वयमातृण्णायाः प्रत्यञ्चं जीवन्तं कूर्मं प्राङ्मुख उपदधाति । अवकाभिः परीतंस्य जालेन प्रच्छाद्य । शङ्कुभिः परिणिहत्य । अपां गम्भीरं गच्छ मा त्वा सूर्यः परीताप्सीन्मो[१३]९४ ऽग्निं वैश्वानरो[१४]९५ ऽघोरः प्रजा अभि विपश्यानु त्वा दिव्या वृष्टिस्सचताᳪं、 सᳪं、 सर्प त्रीन्त्समुद्रान् स्वर्गाँल्लोकानपां पतिर्वृषभ[१५]९६ इष्टकानां तत्र गच्छ यत्र पूर्वे परेताः पुरीषं वसानस्स्वाँय्योनिं यथायथम्[१६]९७ उपहितमभिमन्त्रयते ।
उलूखलादीनामुपधानम् :-
यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे । इह द्युमत्तमं वद जयतामिव दुन्दुभिः प्रादेशमात्रं चतुस्स्रक्त्यौदुम्बरमुलूखलमुत्तरेंऽसे प्रयुनक्ति । अपरिमितं मुसलम् । उत स्म ते[१७]९८ वनस्पते वातो विवात्यग्रमित् [१८]९९। अथो इन्द्राय पातवे सुनु सोममुलूखल उलूखलं तूष्णीं सर्वौषधस्य पूरयित्वावहत्य परापूय । इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाᳪं、सुरे तया तण्डुलपूर्णमुलूखलं मध्येऽग्नेरुपदधाति । तद्विष्णोः परमं पदᳪं、 सदा पश्यन्ति सूरयः । दिवीव चक्षुराततं तया मुसलम् । दिवो वा विष्णवुत वा पृथिव्या महो वा विष्णवुत वान्तरिक्षाद्धस्तौ पृणस्व बहुभिर्वसव्यैरा प्र यच्छ दक्षिणादोत सव्यात्तया शूर्पम् ।
वायव्यपशुशिरस उपधानम् :-
अथोखायां पय आनयति । ध्रुवासि पृथिवि सहस्व पृतन्यतः । स्यूता देवेभिरमृतेनागास्तया[१९]१०० अवटे मध्येऽग्नेरुपदधाति । अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्याशवस्स्वाहा । अग्नय इदम् । युक्ष्वा हि देवहूतमाᳪं、 अश्वाᳪं、 अग्ने रथीरिव । नि होता पूर्व्यस्सदस्स्वाहा । अग्नय इदम् । द्वाभ्यामुखायां हुत्वा पुरुषशिरसि हिरण्यशल्कान्[२०]१०१ प्रत्यस्यति । यदि वायव्यस्य पशोस्स्यात् मुख्यस्य स्थाने तस्मिन् हिरण्यशल्कान् प्रत्यस्यति[२१]१०२। द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु सञ्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः आस्ये हिरण्यशल्कं प्रत्यस्यति । ऋचे त्वा दक्षिणेऽक्षिकटे । रुचे त्वा सव्ये । द्युते त्वा दक्षिणे कर्णे । द्युते त्वा सव्ये । भासे त्वा दक्षिणस्यां नासिकायाम् । ज्योतिषे त्वा उत्तरस्याम् । समित्स्रवन्ति सरितो न धेनाः । अन्तर्हृदा मनसा पूयमानाः । घृतस्य धारा अभि चाकशीमि । हिरण्ययो वेतसो मध्य आसाम् शृतातङ्क्येन दध्ना मधुमिश्रेण पशुशिरः पूरयति । तस्मिन्त्सुपर्णो मधुकृत्कुलायी भजन्नास्ते मधु देवताभ्यः । तस्यासते हरयस्सप्त तीरे स्वधां दुहाना अमृतस्य धारां पशुशिर आदाय ।
आदित्यं गर्भं पयसा समञ्जन्त्सहस्रस्य प्रतिमां विश्वरूपम् । परि वृङ्धि हरसा माऽभिमृक्षश्शतायुषं कृणुहि चीयमानः ॥ वातस्य ध्राजिं वरुणस्य नाभिमश्वं जज्ञान‍ᳪं、 सरिरस्य मध्ये । शिशुं नदीनाᳪं、 हरिमद्रिबुद्ध(ध्न)मग्ने मा हिᳪं、सीः परमे व्योमन् ॥ अजस्रमिन्दुमरुषं भुरण्युमग्निमीडे पूर्वचित्तौ नमोभिः । सपर्वभिर्ऋतुशः कल्पमानो गां मा हिᳪं、सीरदितिं विराजम् ॥ वरूत्रिं त्वष्टुर्वरुणस्य नाभिमविं जज्ञानाᳪं、 रजसः परस्मात् । महीᳪं、 साहस्रीमसुरस्य मायामग्ने मा हिᳪं、सीः परमे व्योमन्न् ॥ यो अग्निरग्नेस्तपसोऽधि जातश्शोचात्पृथिव्या उत वा दिवस्परि । येन प्रजा विश्वकर्मा व्यानट् तमग्ने हेड: परि ते वृणक्तु तया सर्वेषामुपधानैः पशुशिर उखायां पुरस्ताच्चुबुकं प्राचीनमुत्तानं प्राङ्मुख उपधाय । चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेस्स्वाहा दक्षिणेऽक्षिकटे जुहोति । सूर्यायेदम् । आऽप्रा द्यावापृथिवी अन्तरिक्ष‍ᳪं、 सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा सव्ये । सूर्यायेदम् । इत्यर्धर्चाभ्यामक्षिकटयोर्हुत्वा ।
इमं मा हिसीर्द्विपादं पशूनाᳪं、 सहस्राक्ष मेध आ चीयमानः । मयुमारण्यमनु ते दिशामि तेन चिन्वानस्तनुवो नि षीद ॥ इमं मा हिᳪं、सीरेकशफं पशूनां कनिक्रदं वाजिनं वाजिनेषु । गौरमारण्यमनु ते दिशामि तेन चिन्वानस्तनुवो नि षीद ॥ इमᳪं、 समुद्रᳪं、 शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिᳪं、सीः परमे व्योमन् । गवयमारण्यमनु ते दिशामि तेन चिन्वानस्तनुवो नि षीद ॥ इमामूर्णायुं वरुणस्य मायां त्वचं पशूनां द्विपदां चतुष्पदाम् । त्वष्टुः प्रजानां प्रथमं जनित्रमग्ने मा हिᳪं、सीः परमे व्योमन् । उष्ट्रमारण्यमनु ते दिशामि तेन चिन्वानस्तनुवो नि षीद ॥ अजा ह्यग्नेरजनिष्ट गर्भात्सा वा अपश्यज्जनितारमग्रे । तया रोहमायन्नुप मेध्यासस्तया देवा देवतामग्र आयन् । शरभमारण्यमनु ते दिशामि तेन चिन्वानस्तनुवो नि षीद सर्वेषामुत्सर्गेरुपतिष्ठते ।
नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यस्सर्पेभ्यो नमस्तया दक्षिणेंऽसे सर्पशिर उपदध्यात् । विषूचीनं पशुशीर्षैः, अपि वा यजुरेव वदेत् नोपदध्यात्[२२]१०३।
पुरुषाकृतिचयनं यजमानोपस्थानं च :-
मा छन्दस्तत् पृथिव्यग्निर्देवता तेनर्षिणा तेन ब्रह्मणा तया ॥ प्रमा छन्दस्तदन्तरिक्षं वातो देवता तेनर्षिणा तेन ब्रह्मणा तया ॥ प्रतिमा छन्दस्तद्द्यौ: सूर्यो देवता तेनर्षिणा तेन ब्रह्मणा तया ॥ अस्रीविश्छन्दस्तद्दिशः सोमो देवता तेनर्षिणा तेन ब्रह्मणा तया ॥ विराट्छन्दस्तद्वाग्वरुणो देवता तेनर्षिणा तेन ब्रह्मणा तया ॥ गायत्री छन्दस्तदजा बृहस्पतिर्देवता तेनर्षिणा तेन ब्रह्मणा तया ॥ त्रिष्टुप् छन्दस्तद्धिरण्यमिन्द्रो देवता तेनर्षिणा तेन ब्रह्मणा तया ॥ जगती छन्दस्तद्गौः प्रजापतिर्देवता तेनर्षिणा तेन ब्रह्मणा तया || अनुष्टुप् छन्दस्तदायुर्मित्रो देवता तेनर्षिणा तेन ब्रह्मणा तया । उष्णिहा छन्दस्तच्चक्षुः पूषा देवता तेनर्षिणा तेन ब्रह्मणा तया ॥ पङ्क्तिश्छन्दस्तत्कृषिः पर्जन्यो देवता तेनर्षिणा तेन ब्रह्मणा तया ॥ बृहती छन्दस्तदश्वः परमेष्ठी देवता तेनर्षिणा तेन ब्रह्मणा तया एताभिर्द्वादशभिस्त्रिरभ्यासं पुरस्तात्प्रतीचीं पुरुषाकृतिं चिनोति पुरुषस्य शिरोऽस्याः शिरो भवति ॥
यजमानः- सहस्रशीर्षा पुरुषः । सहस्राक्षस्सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् ॥ पुरुष एवेद‍ᳪं、 सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति ॥ एतावानस्य महिमा । अतो ज्यायाᳪं、श्च पूरुषः । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतन्दिवि ॥ त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाभवत्पुनः । ततो विष्वङ्व्यक्रामत् । साशनानशने अभि ॥ तस्माद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः ॥ यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः ॥ सप्तास्यासन्परिधयः । त्रिस्सप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन् पुरुषं पशुम् ॥ तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः । तेन देवा अयजन्त । साध्या ऋषयश्च ये ॥ तस्माद्यज्ञात्सर्वहुतः । सम्भृतं पृषदाज्यम् । पशू9स्ता9श्चक्रे वायव्यान् । आरण्यान्ग्राम्याश्च ये ॥ तस्माद्यज्ञात्सर्वहुतः । ऋचस्सामानि जज्ञिरे । छन्दाᳪं、सि जज्ञिरे तस्मात् । यजुस्तस्मादजायत । तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः ॥ यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते ॥ ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्याᳪं、 शूद्रो अजायत ॥ चन्द्रमा मनसो जात: । चक्षोस्सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ॥ नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत । पद्भ्यां भूमिर्दिशश्श्रोत्रात् । तथा लोकाᳪं、 अकल्पयन् ॥ वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाभिवदन् यदास्ते ॥ धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवँव्विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥ यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानस्सचन्ते । यत्र पूर्वे साध्यास्सन्ति देवाः उपहितां पुरुषेण नारायणेन यजमानः पुरस्तात् प्रत्यङ् तिष्ठन्नुपतिष्ठते ।
अथापस्याः :-
अपस्या उपदधाति । अपां त्वेमन्त्सादयामि तया ॥ अपां त्वोद्मन्त्सादयामि तया ॥ अपां त्वा भस्मन्त्सादयामि तया ॥ अपां त्वा ज्योतिषि सादयामि तया ॥ अपां त्वायने सादयामि तया पञ्च पुरस्तात्प्रतीचीरपस्या उपदधाति । अर्णवे सदने सीद तया ॥ समुद्रे सदने सीद तया ॥ सलिले सदने सीद तया ॥ अपां क्षये सीद तया ॥ अपाᳪं、 सधिषि सीद तया पञ्च दक्षिणत उदीचीः ॥ अपां त्वा सदने सादयामि तया ॥ अपां त्वा सधस्थे सादयामि तया ॥ अपां त्वा पुरीषे सादयामि तया ॥ अपां त्वा योनौ सादयामि तया ॥ अपां त्वा पाथसि सादयामि तया पञ्च पश्चात् प्राचीः ॥ गायत्री छन्दस्तया ॥ त्रिष्टुप् छन्दस्तया ॥ जगती छन्दस्तया । अनुष्टुप् छन्दस्तया ॥ पङ्क्तिश्छन्दस्तया पञ्चोत्तरतो दक्षिणाः ॥
ये यज्ञᳪं、 समगृभ्णन्देवा देवेभ्यस्परि । तान् गायत्री नयतु प्रजानतीस्स्वर्गे लोके अमृतं दुहाना तया[२३]१०४ पुरस्ताद्धिरण्येष्टकामुपदधाति ॥ ये ज्योतीᳪं、षि सन्दधति स्वरारोहन्तो अमृतस्य लोकम् । ते यन्तु प्रजानन्तो यज्ञं[२४]१०५ विदानास्सुकृतस्य लोके तया दक्षिणतः । ये पशवो मेध्यासो यज्ञस्य योनिमभि सम्बभूवुः । तां ददन्ते[२५]१०६ कवयो विपश्चितो यज्ञं विदानास्सुकृतस्य लोके तया पश्चात् ॥ यः पन्था विततो देवयानश्छन्दोभिर्विगृहीत एति । तेनातिष्ठद्दिवमन्तरिक्षं यज्ञं गृहीत्वा सुकृतस्य लोकं तया[२६]१०७ उत्तरतः ॥ यो यज्ञः सहस्रधारो द्यावापृथिव्योरधिनिर्मितः । तेनैतु यजमानस्स्वस्त्या दिवोऽधि पृष्ठमस्थात्तया । मध्ये । पञ्च हिरण्येष्टकाः प्रतिदिशमेकां मध्ये ।
अथ ऋषीष्टकाः :-
आयवे स्वाहा तया ॥ आयोष्कृते स्वाहा तया ॥ आयोष्पत्वने स्वाहा तया ॥ विष्णवे स्वाहा तया ॥ बृहस्पतये स्वाहा तया पञ्चोपधाय ॥
अद्भ्यस्सम्भूतः पृथिव्यै रसाच्च । विश्वकर्मणस्समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे तया एतामुपधाय ।।
ऋतसदसि तया ॥ सत्यसदसि तया ॥ तेजस्सदसि तया ॥ वर्चस्सदसि तया ॥ यशस्सदसि तया ॥ गृणानासि तया ॥ धामासि धाम्यै त्वा धामभ्यस्त्वा धामसु सीद
तया ॥ सप्त[२७] ।१०८
सनिरसि सन्यै त्वा सनेयं तया ॥ वित्तिरसि वित्त्यै त्वा विदेयं तया ॥ शक्तिरसि शक्त्यै त्वा शकेयं तया ॥ भूतिरसि भूत्यै त्वा भूयासं तया ॥ कर्मासि कर्मणे त्वा क्रियासं तया ॥ गूर्दोऽसि गूर्दाय त्वा गूर्देभ्यस्त्वा गूर्दे सीद तया ॥ षट् [२८]१०९।।
क्षत्रं पाहि तया ॥ क्षत्रं पिन्व तया ॥ क्षत्रं जिन्व तया ॥ क्षत्रं यच्छ तया ॥ क्षत्रं दृᳪं、ह तया ॥ क्षत्रमसि क्षत्राय त्वा क्षत्रेभ्यस्त्वा क्षत्रे सीद तया ॥ षट् ।
विश्वेषु त्वा पार्थिवेषु सादयामि तया ॥ विश्वेषु त्वान्तरिक्षेषु सादयामि तया ॥ विश्वेषु त्वा दिव्येषु सादयामि तया ॥ विश्वेषु त्वा देवेषु सादयामि तया ॥ विश्वासु त्वाप्सु सादयामि तया ॥ विश्वासु त्वौषधीषु सादयामि तया ॥ विश्वेषु त्वा वनस्पतिषु सादयामि तया ॥ विश्वासु त्वा दिक्षु सादयामि तया ॥ विश्वासु त्वा प्रदिक्षु सादयामि तया ॥ नव । दिवि सीद तया ॥ दश ॥
स्वर्जिदसि तया ॥ पृतनाजिदसि तया ॥ भूरिजिदसि तया ॥ अभिजिदसि तया ॥ विश्वजिदसि तया ॥ सर्वजिदसि तया ॥ सत्राजिदसि तया ॥ धनजिदसि तया ॥ भ्राडसि तया ॥ विभ्राडसि तया ॥ प्रभ्राडसि तया ॥ एकादश । सनिरसीत्यारभ्य दक्षिणपक्षे त्रयस्त्रिंशत् ।[२९] ११०
अथोत्तरपक्षे११० । सपत्नहनं त्वा वज्रᳪं、 सादयामि तया ॥ अभिमातिहनं त्वा वज्रंᳪं、 सादयामि तया ॥ अरातिहनं त्वा वज्रंᳪं、 सादयामि तया ॥ यातुहनं त्वा वज्रᳪं、 सादयामि तया ॥ पिशाचहनं त्वा वज्रंᳪं、 सादयामि तया ॥ रक्षोहणं त्वा वज्रंᳪं、 सादयामि तया । शत्रुहणममित्रहणं भ्रातृव्यहणमसुरहणं त्वेन्द्रं वज्रᳪं、 सादयामि
तया ॥ सप्त ॥
उद्वदसि तया ॥ उदितिरसि तया । उद्यत्यसि तया ॥ आक्रममाणासि तया । आक्रामन्त्यसि तया ॥ आक्रान्तिरसि तया ॥ सङ्क्रममाणासि तया ॥ सङ्क्रामन्त्यसि
तया ॥ सङ्क्रान्तिरसि तया ॥ स्वर्ग्यासि तया ॥ स्वरसि तया ॥ एकादश ।
१११[३०]इषिसीद तया ॥ ऊर्जिसीद[३१]११२ तया ॥ भगे सीद तया ॥ द्रविणे सीद तया ॥ सुभूते सीद तया ॥ पृथिव्या यज्ञिये सीद तया ॥ विष्णोः पृष्ठे सीद तया ॥ इडायाः पदे सीद तया ॥ घृतवति सीद तया ॥ पिन्वमाने सीद तया ॥ दश ॥
संवत्सरे सीद तया ॥ परिवत्सरे सीद तया ॥ इदावत्सरे सीद तया ॥ इदुवत्सरे सीद तया ॥ इद्वत्सरे सीद तया ॥ वत्सरे सीद तया ॥ षट् ॥
अथ पुच्छे विंशतिः[३२]११३ । एकस्याᳪं、 सीद तया ॥ दशसु सीद तया ॥ शते सीद तया ॥ सहस्रे सीद तया ॥ अयुते सीद तया ॥ नियुते सीद तया ॥ प्रयुते सीद
तया ॥ अर्बुदे सीद तया ॥ न्यर्बुदे सीद तया ॥ समुद्रे सीद तया ॥ मध्ये सीद तया ॥ पद्मे सीद तया ॥ अन्ते सीद तया ॥ परार्थे सीद तया ॥ चतुर्दश ॥
पिन्वमानासि पिन्वमानाय त्वा पिन्वमानेभ्यस्त्वा पिन्वमाने सीद तया ॥ ऋतमस्यृताय त्वर्तेभ्यस्त्वर्ते सीद तया ॥ सत्यमसि सत्याय त्वा सत्येभ्यस्त्वा सत्ये सीद तया ॥ सन्धिरसि सन्धये त्वा सन्धिभ्यस्त्वा सन्धिषु सीद तया ॥ स‍ᳪं、श्लिडसि सᳪं、श्लिषे त्वा सᳪं、श्लिड्भ्यस्त्वा सᳪं、श्लिक्षु[३३]११४ सीद तया ॥ सम्पदसि सम्पदे त्वा सम्पद्भ्यस्त्वा सम्पत्सु सीद तया ॥ षट् । एताभ्यामनुवाकाभ्यां प्रतिमन्त्रमृषीष्टकाः सादनप्रवादैश्च पर्यायैः । केचिदृषीष्टका अपोह्य प्राणभृतां उपधानं कुर्वन्ति । तन्न । अक्ष्णया विरोधात् । केचित्तासां द्विषाहस्रादौ प्रयोग इति वदन्ति ।
एवमृषीष्टका उपधाय । आयुषः प्राण‍ᳪं、 सन्तनु तया ॥ प्राणादपान‍ᳪं、 सन्तनु तया ॥ अपानाद्व्यानᳪं、 सन्तनु तया ॥ व्यानाच्चक्षुस्सन्तनु तया ॥ चक्षुषश्श्रोत्रᳪं、 सन्तनु तया ॥ श्रोत्रान्मनस्सन्तनु तया ॥ मनसो वाचᳪं、 सन्तनु तया ॥ वाच आत्मान‍ᳪं、 सन्तनु तया ॥ आत्मनः पृथिवीᳪं、‍ सन्तनु तया ॥ पृथिव्या अन्तरिक्ष‍ᳪं、 सन्तनु तया ॥ अन्तरिक्षाद्दिव‍ᳪं、 सन्तनु तया ॥ दिवस्सुवस्सन्तनु तया द्वादश सन्ततीर्दक्षिणे ॥
पृथिवी वशामावास्या गर्भो वनस्पतयो जराय्वग्निर्वत्सोऽग्निहोत्रं पीयूषस्तया ॥ अन्तरिक्षं वशा धाता गर्भो रुद्रो जरायु वायुर्वत्सो घर्मः पीयूषस्तया ॥ द्यौर्वशा स्तनयित्नुर्गर्भो नक्षत्राणि जरायु सूर्यो वत्सो वृष्टिः पीयूषस्तया ॥ ऋग्वशा बृहद्रथन्तरे गर्भः प्रैषनिविदो जरायु यज्ञो वत्सो दक्षिणा: पीयूषस्तया ॥ विड्वशा राजन्यो गर्भः पशवो जरायु[३४]११५ राजा वत्सो बलिः पीयूषस्तया पञ्चवशा उपदधाति ॥

अथ कुम्भेष्टकाः :-
अधस्तात्त्रिवृतां स्थाने कुम्भोपहितिरिष्यते ।
स्थूलः कुम्भश्च विज्ञेयः क्षुद्रा कुम्भी तयोरपः ॥
अर्थेत स्थेति मन्त्रेण क्रमाद्गृह्णाति वै पृथक् ।
शर्म च स्थेति युगपत् ध्रुवे सीदतमिष्यते ॥
पुरस्तादनुसीतं स्यादुपधानं द्वयोरपि ।
ज्योतिषे वामिति सकृद्धेमशल्कौ विनिक्षिपेत् ॥
अर्थेत स्थाध्वगतोऽग्नेर्वस्तेजिष्ठेन तेजसा देवताभिर्गृह्णामि कुम्भं कुम्भीं चाद्भिः पूरयित्वा ॥ शर्म च स्थ वर्म च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि तया देवतयाङ्गिरस्वद्ध्रुवास्सीदत । धुवे सीदतं इति वा । युगपत्पुरस्तादनुसीतमुपधाय । कुम्भी पूर्वा तु कुम्भतः । ज्योतिषे वां युगपत् हिरण्यशल्कौ[३५]११६ प्रत्यस्यति । एवमुत्तरा उत्तरैर्मन्त्रैः प्रतिदिशमनुसीतम् । चतस्रो मध्ये ।
शुक्रास्थ वीर्यावतीरिन्द्रस्य व इन्द्रियावतो देवताभिर्गृह्णामि कुम्भं कुम्भीं चाद्भिः पूरयित्वा[३६] ११७ ऋतं च स्थ सत्यं च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि तया--- ध्रुवास्सीदत । ध्रुवे सीदतं इति वा । युगपद्दक्षिणतोऽनुसीतमुपधाय । कुम्भादुत्तरतः
कुम्भी । चक्षुषे वां युगपत् हिरण्यशल्कौ प्रत्यस्यति ।
मन्द्रास्थाभिभुवो विश्वेषां वो देवानां देवताभिर्गृह्णामि कुम्भं कुम्भीं चाद्भिः पूरयित्वा । सपत्नघ्नीश्च स्थाभिमातिघ्नीश्च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि तया--- ध्रुवास्सीदत । ध्रुवे सीदतं इति वा । युगपत्पश्चादनुसीतमुपधाय । कुम्भी पूर्वा तु
कुम्भतः । रेतसे वां युगपत् हिरण्यशल्कौ प्रत्यस्यति ।
अधिपतयस्थौजस्वानादित्यानां वो देवानां देवताभिर्गृह्णामि कुम्भं कुम्भीं चाद्भिः पूरयित्वा । रक्षोघ्नीश्च स्थारातिघ्नीश्च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि तया --- ध्रुवास्सीदत । ध्रुवे सीदतं इति वा । युगपदुत्तरतोऽनुसीतमुपधाय । कुम्भादुत्तरः कुम्भी । प्रजाभ्यो वां युगपत् हिरण्यशल्कौ प्रत्यस्यति ।
क्षत्रभृदस्थौजस्विनीर्मित्रावरुणयोर्वो ब्रह्मणा देवताभिर्गृह्णामि कुम्भं कुम्भीं चाद्भिः पूरयित्वा । वसु च स्थ वामं च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि तया--- ध्रुवास्सीदत । ध्रुवे सीदतं इति वा । युगपन्मध्येऽनुसीतमुपधाय । कुम्भादीशानदिश्यत्र मध्यतः कुम्भिका मता । तेजसे वां युगपत् हिरण्यशल्कौ प्रत्यस्यति ॥
--
व्रजक्षितस्थोर्ध्वश्रितो बृहस्पतेर्वो ब्रह्मणा देवताभिर्गृह्णामि कुम्भं कुम्भीं चाद्भिः पूरयित्वा ॥ भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि तया --- ध्रुवास्सीदत । ध्रुवे सीदतं इति वा । पुनर्मध्येऽनुसीतमुपधाय ॥ कुम्भात् पूर्वा तु कुम्भिका । वर्चसे वां युगपत् हिरण्यशल्कौ प्रत्यस्यति[३७]११८ ॥
हिरण्यवर्णाश्शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः । अग्निँय्या गर्भं दधिरे विरूपास्ता न आपश्श‍ᳪं、 स्योना भवन्तु ॥ यासाᳪं、 राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् । मधुश्चुतश्शुचयो याः पावकास्ता न आपश्श‍ᳪं、 स्योना भवन्तु ॥ यासां देवा दिवि कृण्वन्ति भक्षँय्या अन्तरिक्षे बहुधा भवन्ति । याः पृथिवीं
पयसोन्दन्ति शुक्रास्ता न आपश्शᳪं、 स्योना भवन्तु ॥ शिवेन मा चक्षुषा पश्यतापश्शिवया तनुवोपस्पृशत त्वचं मे । सर्वाᳪं、 अग्नीᳪं、 रफ्सुषदो हुवे वो मयि वर्चो बलमोजो नि धत्त ॥ यददस्सम्प्रयतीरहावनदता हते । तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥ यत्प्रेषिता वरुणेन ताश्शीभ‍ᳪं、 समवल्गत । तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु स्थन ॥ अपकामᳪं、 स्यन्दमाना अवीवरत वो हि कम् । इन्द्रो वश्शक्तिभिर्देवी- स्तस्माद्वार्णाम वो हितम् ॥ एको देवो अप्यतिष्ठत्स्यन्दमाना यथावशम् । उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥ आपो भद्रा घृतमिदाप आसुरग्नीषोमौ बिभ्रत्याप इत्ताः । तीव्रो रसो मधुपृचामरङ्गम आ मा प्राणेन सह वर्चसा गन् । आदित्पश्याम्युत वा शृणोम्यामा घोषो गच्छति वाङ्न आसाम् । मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपँय्यदा वः ॥ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वश्शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः इत्युपहिताः कुम्भेष्टका युगपदभिमन्त्रयते ॥ दिवि श्रयस्वान्तरिक्षे यतस्व पृथिव्या सम्भव ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वा बार्हस्पत्यं नैवारं पयसि चरुं मध्ये कुम्भेष्टकानामुपदधाति[३८]११९।।
समन्या यन्त्युपयन्त्यन्त्याः समानमूर्वं नद्यः पृणन्ति । तमू शुचिᳪं、‍ शुचयो दीदिवाᳪं、समपां नपातं परितस्थुरापः ॥ हिरण्यवर्णस्सहिरण्यसन्दृगपां पतिः सेदु हिरण्यवर्णः । हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्वन्नमस्मै[३९] १२०
एताभ्यां च नैवारम् चरुमभिमन्त्रयते[४०] १२१।
अथ त्रिवृतः :-
त्रिवृत्ते अग्ने शिरस्तन्मे अग्ने शिरस्तया शिरस्युपदधाति । त्रिवृत्ते अग्ने शिरस्तेन माभि पाहि[४१]१२२ इति सन्नमयन्नुपहितां तां तामुपतिष्ठते यजमानः ।
अध्वर्युः - पञ्चदशौ ते अग्ने बाहू तौ मे अग्ने बाहू तया दक्षिणे पक्षे ।
यजमानः - पञ्चदशौ ते अग्ने बाहू ताभ्यां माभि पाहि ।
अध्वर्युः - सप्तदशस्ते अग्न आत्मा स मे अग्न आत्मा तया मध्ये ।
यजमानः सप्तदशस्ते अग्न आत्मा तेन माभि पाहि ।
अध्वर्युः – एकविᳪं、शौ ते अग्न ऊरू तौ मे अग्न ऊरू तया उत्तरे पक्षे ।
यजमानः – एकविᳪं、शौ ते अग्न ऊरू ताभ्यां माभि पाहि ।
अध्वर्युः - त्रिणवौ ते अग्ने अष्ठीवन्तौ[४२] १२३ तौ मे अग्ने अष्ठीवन्तौ तया मध्ये ।
यजमानः - त्रिणवौ ते अग्ने अष्ठीवन्तौ ताभ्यां माभि पाहि ।
अध्वर्युः – त्रयस्त्रिᳪं、शं ते अग्ने प्रतिष्ठानं तन्मे अग्ने प्रतिष्ठानं तया पुच्छे । इत्येताः शिरसि पक्षयोः मध्ये पुच्छे चोपदधाति[४३] १२४
यजमानः – त्रयस्त्रिᳪं、शं ते अग्ने प्रतिष्ठानं तेन माभि पाहि ।
त्वामग्ने वृषभं चेकितानं पुनर्युवानं जनयन्नुपागाम् । अस्थूरिणो गार्हपत्यानि सन्तु तिग्मेन नो ब्रह्मणा सᳪं、शिशाधि तया ऋषभेष्टकामुपधाय । लोकं पृण छिद्रं पृणाथो सीद शिवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिरस्मिन् योनावसीषदन् । ता अस्य सूददोहसस्सोमᳪं、 श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिवस्तया द्वाभ्यां द्वाभ्यां मन्त्राभ्यामेकैकाम् । अवशिष्टा पञ्च लोकंपृणाभिः प्रच्छादयति [४४]१२५
सर्वान् वर्णानिष्टकानां कुर्यादिति लेखाधिकारो भवतीति विज्ञायते या दक्षिणावृतस्ता दक्षिणत उपदध्यात् । सव्यावृत उत्तरतः । ऋजुलेखा पश्चात् पुरस्ताच्च । त्र्यालिखिता मध्ये । ततश्चितौ हिरण्यं निधाय । चित्तिमचित्तिं चिनवद्वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान्राये च नस्स्वपत्याय देव दितिं च रास्वादितिमुरुष्य चितिक्लृप्त्याभिमृशति ।
अथ चितेरभिमर्शनादि :-
यत्ते चितं यदु चितं ते अग्ने यदूनं यद्वात्रातिरिक्तम् । विश्वे देवा अङ्गिरसश्चिनवन्ना[४५]१२६दित्यास्ते चितिमा पूरयन्तु । यास्ते अग्ने समिधो यानि धाम या जिह्वा जातवेदो यो अर्चिः । ये ते अग्ने मेडयो य इन्दवस्तेभिरात्मानं चिनुहि प्रजानन्न् ॥ चित्तिमचित्तिं चिनवद्वि--- दितिं च रास्वादितिमुरुष्य ॥ वयमग्ने धनवन्तस्स्यामालं यज्ञायोत दक्षिणायै । ग्रावा वदेदभि सोमस्याᳪं、शुनेन्द्रᳪं、 शिक्षेमेन्दुना सुतेन ॥ रायस्पोषं नो धेहि जातवेद ऊर्जो भागं मधुमत्सूनृतावत् । दधाम यज्ञंᳪं、 सुनवाम सोमं यज्ञेन त्वामुप शिक्षेम शक्र ।। ईशानं त्वा शुश्रुमो वयं धनानां धनपते गोमदग्ने । अश्वावद्भूरि पुष्टᳪं、 हिरण्यवदन्नमध्येहि[४६]१२७ मह्यम् ॥ दुहान्ते द्यौः बृहती[४७]१२८ पयोऽजगरस्त्वा सोदको विसर्पतु प्रजापतिनात्मानमाप्रीणेऽरिक्तो[४८]१२९ म आत्मा ।। यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अस्तु देवाः एताभिः स्वयञ्चित्याभिमृशति ।
उत्तरतः कृष्णोऽश्वस्तिष्ठति । श्यावो वा । तमालभ्य चात्वालात् पुरीषमाहृत्य । पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश । वैश्वानरस्सहसा पृष्टो अग्निस्स नो दिवा स रिषः पातु नक्तम् वैश्वानर्यर्चा चितावनुव्यूहति । सा चितिर्भवति । वाङ्म आसन्नसोः प्राणोऽक्ष्योश्चक्षुः कर्णयोः श्रोत्रं बाहुवोर्बलमूरुवोरोजोऽरिष्टा विश्वान्यङ्गानि तनूस्तनुवा मे सह समस्ते अस्तु मा मा हिᳪं、सीः प्रत्यवरोहञ्जपति ।
जुह्वां सकृत् सकृत् गृहीत्वा[४९]१३० यो अप्स्वन्तरग्निर्यो वृत्रे यः पुरुषे यो अश्मनि । य आविवेश भुवनानि विश्वा तेभ्योऽग्निभ्यो हुतमस्त्वेतत्स्वाहा । अग्निभ्य इदम् । यस्सोमे[५०]१३१ अन्तर्यो गोष्वन्तर्वयाᳪं、सि य आविवेश यो मृगेषु । य आविवेश द्विपदो यश्चतुष्पदस्तेभ्योऽग्निभ्यो हुतमस्त्वेतत्स्वाहा । अग्निभ्य इदम् । पृष्टो दिवि पृष्टो रिषः पातु नक्तᳪं、 स्वाहा । अग्नये वैश्वानरायेदम् । येनेन्द्रस्य रथᳪं、[५१]१३२ सं बभूवुर्यो वैश्वानर उत वैश्वदेव्यः । धीरो[५२]१३३ यश्शक्रः परिभूरदाभ्यस्तेभ्योऽग्निभ्यो हुतमस्त्वेतत्स्वाहा । अग्निभ्य इदम् । यᳪं、 हुतादमग्निं यमु काममाहुर्यं दातारं प्रतिग्रहीतारमाहुः । यो देवानां देवतमस्तपोजास्तेभ्योऽग्निभ्यो हुतमस्त्वेतत्स्वाहा । अग्निभ्य इदम् । उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोमैर्विधेमाग्नये स्वाहा । अग्नय इदम् । एताभिः षड्भिश्चितिं चितिमुपधायाभिजुहोति । अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य धाम । याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीस्सन्दधुः पृष्टबन्धो स्वाहा । अग्नये धामच्छद इदम् । आग्नेय्या धामच्छदा चितिं चितिमुपधायाभिजुहोति । उपतिष्ठत इत्येके । अग्ने देवाᳪं、 इहावह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः आग्नेय्या गायत्र्या प्रथमां चितिमभिमृशेत् ।
ततः आपराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति । या ते अग्नेऽयाशया इत्युपसदाहुतिः । षडुपसदः । द्व्यहं द्व्यहमेकैकेनोपसन्मन्त्रेण जुहोति । अनूपसदमग्निं चिनोति द्व्यहमुत्तमा चितिः । त्रीणि चतुस्तनानि व्रतानि । त्रीणि त्रिस्तनानि । त्रीणि द्विस्तनानि । एकमेकस्तनम् । आपराह्णिकीभ्यां प्रचर्य सुब्रह्मण्यान्ते श्वेतमश्वं परिणीय[५३]१३४ वसन्ति वसन्ति । अधिवृक्षसूर्ये अग्नीन् ज्योतिष्मतः कुरुतेत्यादि । रात्रौ चतुस्स्तनं व्रतं ददाति । यजमानो व्रतं प्रतिगृह्य[५४]१३५ या ते अग्ने रुद्रिया तनूः इति व्रतयति । शिवाः पीता भवथ । रात्रौ जागरणम् ।
॥ इति प्रथमा चितिः ॥


  1. प्रथमचित्याः लोम्नासह तादात्म्यम्
  2. ८४. आत्मस्थाग्नेरनपक्रमणाय धारणमतिसन्धायेत्यर्थः इति M.M पाठः । अत्र कपर्दिभाष्यम् – द्वाभ्यामात्मनि यो अग्निः संगृह्यते मा सो अस्माथ् अवहाय परागात् इति । चेष्यमाणमग्निमात्मनि गृह्णातीत्यर्थः । शातपथब्राह्मणे समानप्रकरणे आत्मन्नग्निं गृह्णीते चेष्यन् इति श्रूयते । अस्य सायणभाष्यम् - चेष्यन् चयनं करिष्यन् अध्वर्युः आत्मन् आत्मनि अग्निं गृह्णीते मन्त्रेण धारयन् इति । अनेन अग्निधारणं नाम मन्त्रोच्चारणमेव नान्यत् किञ्चन इति गम्यते । तस्मात् मन्त्रार्थानुसन्धानपूर्वकं विराट्पुरुषं चीयमानमग्निं हृदये भावयेत् इत्यर्थः ।

  3. ८५. स्वयंचितिरिति यास्ते अग्ने इत्यस्य मन्त्रस्य नाम ।
  4. ८६. आत्मन्यग्निं इति पाठा० ।
  5. ८७. आन्ध्रद्राविडप्रयोगग्रन्थेषु एतत् प्रायश्चित्तं नोपलभ्यते । अत्र कपर्दिभाष्यम्-खण्डादयः प्रतिनिधित्वेनापि न क्रियन्ते प्रतिषेधात् त्वरमाणोऽपि । उपदेशस्तु खण्डाः प्रतिनिधित्वेन कार्याः । भुव इति प्रायश्चित्तं कृत्वा । इष्टकात्वसामान्यात् इति ॥
  6. ८८. सर्वत्र ध्यात्वा उपदधातीत्यर्थः ।
  7. ८९. प्रयोगग्रन्थेषु व्याघारणाङ्गत्वेन भूतेभ्यस्त्वा इति स्रुच उद्ग्रहणमुक्तमस्ति । भाष्येषु वृत्तिषु च अस्य उल्लेख नास्ति ।
  8. ९०. अश्वेनोपघ्राप्य इति पाठा० A.V पाठश्च ।
  9. ९१. तस्या उपरि निश्वसितीत्यर्थः । अनुप्राणिति इति पाठान्तरम्, तस्याप्येष एव अर्थः ।
  10. ९२ इदं केवलं M.M पाठे वर्तते ।
  11. ९३. स्वयमातृण्णायामग्रं इति पाठा० ।
  12. ९३(अ). अत्र चित्यग्निप्रणयनेन प्रणीतानां तिसृणां पादेष्टकानां प्रथमामुपदधाति ।
  13. ९४. परिताप्सीत् इत्येकः पाठः, परीताप्सित् इत्यपरः पाठः ।
  14. ९५. अग्निर्वैश्वानरः इति पाठान्तरम् ।
  15. ९६. ऋषभ इष्टकानां इति पाठान्तरम् ।
  16. ९७. अपां गम्भीरं गच्छ मा त्वा सूर्यः परीताप्सीन्मोऽग्निं वैश्वानरः । अघोरः प्रजा अभि विपश्यानु त्वा दिव्या वृष्टिस्सचताम् । सधैं सर्प त्रीन्थ्समुद्रान् स्वर्गाल्लोकानपां पतिः । वृषभ इष्टकानां तत्र गच्छ यत्र पूर्वे परेताः पुरीषं वसानस्स्वाँय्योनिं यथायथम् इति वाक्यशः पाठान्तरम् । अस्य मन्त्रस्य बहवो पाठभेदाः मातृकासूपलभ्यन्ते । अत्र दत्तः अस्मद्गुरूणां पाठः ।
  17. ९८. उदस्य ते इति पाठा० ।
  18. ९९. विवात्यग्रमीत् इति पाठान्तरम् ।
  19. १००. अत्र ‘न तयेति केचित् । इष्टकास्वपरिगणनात्' इति क्वचिन्मातृकाग्रन्थेषूपलभ्यते ।
  20. १०१. हिरण्यशकलान् इति पाठा० ।
  21. १०२.क्वचिन्मातृकाग्रन्थेषु पुरुषशिरः पक्षः नोक्तः । " द्वाभ्यामुखायां हुत्वा वायव्यपशुशिरसि हिरण्यशल्कान् प्रत्यस्यति” इत्येवोपलभ्यते ।
  22. १०३. “अथो खलूपधेयमेव इति पुनर्वचनात् प्राकृतेऽग्नौ नित्यम्” इति कपर्दिभाष्यम् ॥
  23. १०४. प्रजानती स्वर्गे लोके अमृतं दुहानास्तया, प्रजानतिः सुवर्गे इति च पाठा० ।
  24. १०५. यज्ञं दुहानाः इति पाठा० ।
  25. १०६. तां ददते इति पाठा० ।
  26. १०७. लोके तया इति पाठा० ।
  27. १०८. आयवे स्वाहा इत्यारभ्यैतत्पर्यन्तं क्रमः विशिष्टस्थानं च प्राचीनकारिकातोऽवगन्तव्ये ।
  28. १०९. वासुदेवदीक्षितकारिकारीत्या ऋषीष्टकासु आयवे स्वाहा इत्यारभ्य एतावत्पर्यन्तं नवदशेष्टकाः पुच्छे उपधेयाः । क्षत्रं पाहीत्यारभ्य स्वरसीत्यन्तं पञ्चचत्वारिंशदिष्टकाः दक्षिणे पक्षे उपधेयाः । इषि सीदेत्यारभ्य सम्पदसीत्यन्तं षट्त्रिंशदिष्टकाः सव्ये पक्षे उपधेयाः ।
  29. ११०. इदं प्राचीनकारिकानुसृतं वाक्यम् ॥
  30. १११. अथ दक्षिणे पक्षे इति उज्वलकारिकानुसृतप्रयोगवाक्यमत्र विद्यते ।
  31. ११२. ऊर्जिषीद इति पाठा० ।
  32. ११३. इदं प्राचीनकारिकानुसृतं वाक्यम् । अथ उत्तरे पक्षे इति उज्वलकारिकानुसृतप्रयोगवाक्यमत्र विद्यते ।
  33. ११४. सश्लिषु सीद, सश्लिट्सु सीद इत्यादि पाठा० ।
  34. ११५. पञ्चस्वपि मन्त्रेषु जरायुशब्दस्य जरायुः इति पाठा० ॥
  35. ११६. हिरण्यशकलौ इति सर्वत्र पाठा० ।
  36. ११७. क्रमेण पूरणे मन्त्रस्यावृत्तिः, युगपत्पूरणे सकृदेव मन्त्रः ।
  37. ११८. अर्थे शर्म ज्योतिः, शुक्रा ऋतं चक्षुः, मन्द्राः सपत्नघ्नी रेतः, अधिपती रक्षोघ्नीः प्रजाः, क्षत्रभृद्वसु तेजः, व्रजक्षितो भूतं वर्चः षट् इति क्वचित् प्रयोगेषु कुम्भेष्टकानां मन्त्रादयः सङ्ग्रहीताः । ध्रुवे सीदतमिति कुम्भेष्टकानां सादनं वाजसनेयिनः समामनन्ति इति क्वचित् मातृकासूपलभ्यते ।
  38. ११९. क्वचिन्मातृकाग्रन्थेषु चरोरुपधानेऽपि तयादेवतं कृतम् ।
  39. १२०. ददत्यन्नमस्मै इति पाठा० ।
  40. १२१. चरुमुपतिष्ठते इति पाठा० ।
  41. १२२. तेन मा पाहि इति सर्वत्र पाठा० ।
  42. १२३. अग्नेऽष्ठीवन्तौ इति पाठा० ।
  43. १२४. प्राचीनकारिकारीत्या एवमुपधानम् । वासुदेवकारिकारीत्या शिरसि, दक्षिणे पक्षे, उत्तरे पक्षे, द्वयम्, पुच्छे अन्तिमा इति क्रमः ।
  44. १२५. ऋषीष्टकान्ते ऋषभः इति पक्षे अष्टाविंशत्या लोकम्पृणाभिः प्रच्छादयति ।
  45. १२६. चिन्वन् इति पाठा० ।
  46. १२७. हिरण्यवदन्नमद्धेहि इति पाठा० ।
  47. १२८. दुहान्ते द्यौः पृथिवी इति पाठा० ।
  48. १२९. आप्रेणेऽरिक्त इति पाठा० ।
  49. १३०. जुह्वां षड्गृहीतं गृहीत्वा पाठा० ।
  50. १३१. यस्समो इति पाठा० ।
  51. १३२. येनेन्द्रस्य रस इति पाठा० ।
  52. १३३. वीरो यश्शक्रः इति पाठा० ।
  53. १३४. अग्नेः प्रागुदगारभ्य प्राग्वा आरभ्य प्रादक्षिण्येन सर्वतो नयन्ति ।
  54. १३५. क्वचिन्मातृकासु अन्नपते, देवस्य त्वा इति द्वाभ्यां समिदाधानं उपसद्व्रतेष्वपि उक्तं इति पाठा० ।