आपस्तम्बीय श्रौतप्रयोगः/अग्निचयने प्रथमोध्यायः(चयनस्य पूर्वाङ्गानि)

विकिस्रोतः तः

॥ अग्निचयनप्रयोगः ॥
अथ चयनस्य पूर्वाङ्गानि
अग्निचयनस्य कालविधिः सङ्कल्पश्च :-
अग्निं चेष्यमाणोऽमावास्यायां पौर्णमास्यामेकाष्टकायां वोखां सम्भरति । त्र्यहादिदीक्षापक्षे उखासम्भरणप्रभृत्यामिक्षापर्यन्तानि कर्माणि, वसन्ते[१]१ यथा सम्भविष्यन्ति तथोपक्रमः कार्यः। एकाष्टकायां चेदुखासम्भरणं तदा तस्यामुखासम्भरणं कृत्वा पश्विष्ट्यादि सर्वं वसन्ते कार्यम् । चतुरो मासो दीक्षित इत्यस्मिन्पक्षे एकाष्टकायां न लभ्यते । मासादि पक्षेषूखासम्भरणप्रभृति सर्वं वसन्ते कार्यं पशुश्च यथा भवति । एवं स्मृत्वा आरम्भः कार्यः ॥
अथाग्निप्रयोग उच्यते । वसन्ते पर्वणोरेकाष्टकायां वा प्रातरग्निहोत्रं हुत्वा दर्भेष्वासीनो दर्भान् धारयमाणः पत्न्या सह प्राणानायम्य सङ्कल्पं करोति । श्री परमेश्वरप्रीत्यर्थं ज्योतिषा त्रिकद्रुकेणाग्निष्टोमेन साग्निचित्येन रथन्तरसाम्ना द्वादशशतदक्षिणेन यक्ष्ये, तेन परमेश्वरं प्रीणयानि । अप्तोर्यामश्चेत् - सोमेन यक्ष्ये अप्तोर्यामेणातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन साग्निचित्येन सहस्रदक्षिणेन तेन परमेश्वरं प्रीणयानि[२]२' इति विशेषः । सहस्रदक्षिणापक्षे सङ्कल्प्य त्रैधातवीया[३]३ ।
[अग्निं चेष्यमाणो वसन्ते पौर्णमास्याममावस्यां वा प्रातरग्निहोत्रं हुत्वा संकल्पं करोति ।
आगूश्चैत्र्याममायां चेत् साग्निचित्यक्रतोर्भवेत् ।
आमिक्षान्तानि शुक्ले स्युः पर्वतुल्यो हि स स्मृतः ॥
सक्षेदान्त उखा घर्मसम्भृतिर्वायवे पशुः ।
पौर्णमास्यां तु सुत्ये स्यात् षष्ठ्यामागूः क्रतोर्भवेत् ॥
दीक्षोपसत्त्रिषट् चैव सुत्यैका दशसङ्ख्यकम् ।
सोमेन यक्ष्ये ज्योतिष्टोमेनातिरात्रेण साग्निचित्येन रथन्तरसाम्ना द्वादशशतदक्षिणेन तेन परमेश्वरं प्रीणयानि । विद्युदसि । सोमप्रवाकवरणादि सक्षेदान्ते । इति आन्ध्रप्रयोगपाठः । ]
उपक्रमः :-
तां समाप्य विद्युत् । ततः सोमप्रवाकवरणम् । मधुपर्कादिभिरभ्यर्च्य सोमप्रवाक सोमं म इत्यादि ऋत्विग्वरणम् । कच्चिन्नाहीनः इति पृष्टे नाहीनस्त्रिकद्रुको ज्योतिरग्निष्टोमः । शेषं प्रकृतिवत् । अप्तोर्यामपक्षे -नाहीनस्सर्वपृष्ठसर्वस्तोमोऽप्तोर्यामस्सोमः । कच्चित्कल्याण्यो दक्षिणा इति पृष्टे सन्ति कल्याण्यो दक्षिणास्सुरूपा बहुमूल्यास्सहस्रं गावः । सक्षेदान्तं कृत्वा । अग्निं विहृत्य जुह्वां चतुर्गृहीतं गृहीत्वा बृहस्पतिपुरोहिता देवा देवानां देवा देवाः प्रथमजा देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशास्त्रिस्त्रयस्त्रिᳪं、शा[४]४ अनु व आरभ इदᳪं、 शकेयं यदिदं करोमि ते मावत ते माजिन्वतास्मिन् ब्रह्मन्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याᳪ、 स्वाहा आहवनीये जुहोति । देवेभ्य इदम् । तूष्णीं जुहूं स्रुवं च सम्मृज्य । सावित्रहोम: :-
जुह्वामष्टगृहीतं चतुर्गृहीतं वा गृहीत्वा[५]५ युञ्जानः प्रथमं मनस्तत्वाय सविता धियः । अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥ युक्त्वाय मनसा देवान्त्सुवर्यतो धिया दिवम् । बृहज्ज्योतिः करिष्यतस्सविता प्रसुवाति तान् ॥ युक्तेन मनसा वयं देवस्य सवितुस्सवे । सुवर्गेयाय शक्त्यै ॥ युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥ युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोका यन्ति पथ्येव सूराः । शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमर्चतः । यः पार्थिवानि विममे स एतशो रजाᳪं、सि देवस्सविता महित्वना ॥ देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः । केतपूः केतं नः
पुनातु वाचस्पतिर्वाचमद्य स्वदाति नः ॥ इमं नो देवसवितर्यज्ञं प्रसुव देवायुवᳪं、 सखिविद‍ᳪं、 सत्राजितं धनजित‍ᳪं、 सुवर्जितᳪ、 स्वाहा यजुरष्टमाभिः ऋग्भिरेकामाहुतिं जुहोत्यन्तर्वेद्यूर्ध्वस्तिष्ठन् । सवित्र इदम् । अपरं चतुर्गृहीतं गृहीत्वा । ऋचास्तोम‍ᳪं、 समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तनि स्वाहा । बृहत इदम् [६]६ । एतदादि विपाजसेत्यन्तमग्निधारणम् ।
अभ्र्यादानम् :-
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण छन्दसाददेऽङ्गिरस्वदभ्रिरसि नारिरसि पृथिव्यास्सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभर त्रैष्टुभेन त्वा छन्दसाददेऽङ्गिरस्वद्बभ्रिरसि नारिरसि त्वया वयᳪं、 सधस्थ आग्नि‍ᳪं、 शकेम खनितुं पुरीष्यं जागतेन त्वा छन्दसाददेऽङ्गिरस्वद्धस्त आधाय सविता बिभ्रदभ्रिᳪं、‍ हिरण्ययीम् । तया ज्योतिरजस्रमिदग्निं खात्वी न आ भरानुष्टुभेन त्वा छन्दसाददेऽङ्गिरस्वत् चतुर्भिरभ्रिमादत्ते वैणवीं कल्माषीं सुषिरामसुषिरां वोभयतःक्ष्णूमन्यतरतःक्ष्णूं वा प्रादेशमात्रीमरत्निमात्रीं व्यायाममात्रीमपरिमितां वा खादिरीं पालाशीमौदुम्बरीमर्कमयीं कार्श्मर्यमयीं वैकङ्कतीं शमीमयीं वा यो वा यज्ञियो वृक्षः फलग्रहिः ।

उखार्थं मृदाहरणाय गमनम् :-
इमामगृभ्णन्रशनामृतस्य पूर्व आयुषि विदथेषु कव्या । तया देवास्सुतमा बभूवुर्ऋतस्य सामन्त्सरमारपन्ती अश्वाभिधानीं रशनामादाय । प्रतूर्तं वाजिन्नाद्रव वरिष्ठामनु संवतम् । दिवि ते जन्म परममन्तरिक्षे नाभिः पृथिव्यामधि योनिः अश्वमभिदधाति । तूष्णीं गर्दभरशनामादाय । युञ्जाथाᳪं、 रासभं युवमस्मिन् यामे वृषण्वसू । अग्निं भरन्तमस्मयुम् गर्दभमभिदधाति । स्नानेन शुद्धिः गर्दभस्य । योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये ॥ प्रतूर्वन्नेह्यवक्रामन्नशस्ती रुद्रस्य गाणपत्यान्मयोभूरेहि । उर्वन्तरिक्षमन्विहि स्वस्तिगव्यूतिरभयानि कृण्वन् । पूष्णा सयुजा सह । पृथिव्यास्सधस्थादग्निं पुरीष्यमङ्गिरस्वदच्छेहि कृष्णाजिनं पुष्करपर्णं कमण्डलुं मौञ्जीं रज्जुं स्रुवं जुहूं आज्यं हिरण्यं चादाय तिसृभिरश्वप्रथमा अध्वर्युब्रह्मयजमाना[७]७ अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तस्स्युः । अग्निं पुरीष्यमङ्गिरस्वदच्छेहि गच्छन्नध्वर्युर्जपति । अग्निं पुरीष्यमङ्गिरस्वदच्छेमः पाप्मानम् येन द्वेष्येण सङ्गच्छते तमभिमन्त्रयते । अपश्यन्निर्दिशति । अग्निं पुरीष्यमङ्गिरस्वद्भरिष्यामः वल्मीकवपां या सूर्यस्योदेतोस्तां तूष्णीमुद्धत्य अप उपस्पृश्य मन्त्रेणोपतिष्ठते[८]८ ।

मृत्खनस्य अश्वेनाक्रमणम् :-
अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततान वल्मीकवपायाः प्रक्रामति । आगत्य वाज्यध्वनस्सर्वा मृधो विधूनुते । अग्नि‍ᳪं、 सधस्थे महति चक्षुषा नि चिकीषते ॥ आक्रम्य वाजिन्पृथिवीमग्निमिच्छ रुचा त्वम् । भूम्या वृत्वाय नो ब्रूहि यतः खनाम तं वयं द्वाभ्यां मृत्खनं अश्वस्य दक्षिणपूर्वेण पदेनाक्रमय्य । द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मान्तरिक्ष‍ᳪं、 समुद्रस्ते योनिः । विख्याय चक्षुषा त्वमभितिष्ठ पृतन्यतः अश्वस्य पृष्ठं संमार्ष्टि[९]९ । अभितिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि सञ्जयन्नभिष्ठितोऽसि पाप्मानम्[१०]१० यं द्वेष्टि तमधस्पदमश्वस्य मनसा ध्यायति । उत्क्राम महते सौभगायास्मादास्थानाद्द्रविणोदा वाजिन् । वयᳪ、 स्याम सुमतौ पृथिव्या अग्निं खनिष्यन्त उपस्थे अस्याः ॥ उदक्रमीद् द्रविणोदा वाज्यर्वाकस्स लोकᳪं、 सुकृतं पृथिव्याः । ततः खनेम सुप्रतीकमग्नि‍ᳪं、 सुवो रुहाणा अधि नाक उत्तमे द्वाभ्यां मृत्खनादुदञ्चमश्वमुत्क्रमय्य । अपो देवीरूपसृज मधुमतीरयक्ष्माय प्रजाभ्यः । तासाᳪ、 स्थानादुज्जिहतामोषधयः सुपिप्पलाः अश्वस्य पदेऽप उपसृज्य ।

मनस्वतीहोमः :-
पदे हिरण्यं निधाय जुह्वां चतुर्गृहीतं गृहीत्वा[११]११ । जिघर्म्यग्निं मनसा घृतेन प्रतिक्ष्यन्तं भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्न‍ᳪं、 रभसं विदानम् ॥ आ त्वा
जिघर्मि वचसा घृतेनारक्षसा मनसा तज्जुषस्व । मर्यश्रीः स्पृहयद्वर्णो अग्निर्नाभिमृशे तनुवा जर्हृषाणस्स्वाहा । अग्नय इदम् । मनस्वतीभ्यामेकामाहुतिं हिरण्ये हुत्वा । अपादाय हिरण्यम् ।
परिलेखनम् :-
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥ परि त्वाग्ने पुरं वयं विप्रᳪं、 सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारं भङ्गुरावतः ॥ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वन्नृणान्नृपते जायसे शुचिः तिसृभिरभ्रिया मृत्खनं प्रत्यृचं परिलिखति बाह्यां बाह्यां वर्षीयसीम् । अप उपस्पृश्य।
मृदां सम्भरणम् :-
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पृथिव्यास्सधस्थेऽग्निं पुरीष्यमङ्गिरस्वत्खनामि ॥ ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमजस्रेण भानुना दीद्यानम् । शिवं प्रजाभ्योऽहिᳪं、सन्तं पृथिव्यास्सधस्थेऽग्निं पुरीष्यमङ्गिरस्वत्खनामि द्वाभ्यां खति । अप उपस्पृश्य । अपां पृष्ठमसि सप्रथा उर्वग्निं भरिष्यदपरावपिष्ठम् । वर्धमानं मह आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व पुष्करपर्णमाहृत्य । अपां पृष्ठमसि सप्रथा उर्वग्निं भरिष्यदपरावपिष्ठम् । वर्धमानं मह आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व एतयैव विवेष्ट्य । शर्म च स्थो वर्म च स्थो अच्छिद्रे बहुले उभे । व्यचस्वती संवसाथां भर्तमग्निं पुरीष्यम् ॥ संवसाथाᳪं、 सुवर्विदा समीची उरसा त्मना । अग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमित् द्वाभ्यामुत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति । उपरिष्टात्पुष्करपर्णमुत्तानम् ।
पुरीष्योऽसि विश्वभराः । अथर्वा त्वा प्रथमो निरमन्थदग्ने मृत्खनमभिमन्त्र्य । तूष्णीं मृदमादाय । पुरीष्योऽसि विश्वभराः । अथर्वा त्वा प्रथमो निरमन्थदग्ने ॥ त्वामग्ने[१२] पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥ तमु त्वा दध्यङ् ऋषिः पुत्र ईधे अथर्वणः । वृत्रहणं पुरन्दरम् ॥ तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।
धनञ्जय ᳪं、 रणेरणे कृष्णाजिने पुष्करपर्णे च सम्भरति चतसृभिस्तिसृभिर्वा गायत्रीभिर्ब्राह्मणस्य१२। यं कामयेत वसीयान् स्यादित्युभयीभिस्तस्य सम्भरेत् । अष्टाभिस्सम्भरति[१३]१३ । जनिष्वा हि जेन्यो अग्रे अह्ना ᳪं、 हितो हितेष्वरुषो वनेषु । दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयान् सम्भृतां मृदमभिमृश्य । अन्यया मृदा मृत्खनं संलोभ्य[१४]१४ सं ते वायुर्मातरिष्वा दधातूत्तानायै हृदयं यद्विलिष्टम् । देवानां यश्चरति प्राणथेन तस्मै च देवि वडस्तु तुभ्यम[१५]१५ मृत्खनेऽप आनीय[१६]१६ समुद्यम्य कृष्णाजिनस्यान्तान् । सुजातो ज्योतिषा सह शर्म वरूथमासदस्सुवः । वासो अग्ने विश्वरूपं ᳪं、 संव्ययस्व विभावसो क्षौमेण मौञ्जेनार्कमयेण वा दाम्नोपनह्यति ।
सम्भृतमृदो हरणम् :-
तूष्णीं मृदमादाय । उदु तिष्ठ स्वध्वरावा नो देव्या कृपा । दृशे च भासा बृहता सुशुक्वनिराग्ने याहि सुशस्तिभिः ॥ ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे सावित्रीभ्यामुत्तिष्ठति । स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु । चित्रश्शिशुः परितमा ᳪ、स्यक्तः प्रमातृभ्यो अधि कनिक्रदद्गाः हरति गर्दभसमीपम् । स्थिरो भव वीड्वङ्ग आशुर्भव वाज्यर्वन् । पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहनः गर्दभस्य पृष्ठ आदधाति । शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः । मा द्यावापृथिवी अभिशूशुचो मान्तरिक्षं मा वनस्पतीन् आहितमभिमन्त्रयते । प्रैतु वाजी कनिक्रदन्नानदद्रासभः पत्वा । भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा ॥ रासभो वां कनिक्रदत्सुयुक्तो वृषणा रथे । स वामग्निं पुरीष्यमाशुर्दूतो वहादितः ॥ वृषाग्निं वृषणं भरन्नपां गर्भ‍ ᳪं、 समुद्रियम् । अग्न आ याहि वीतय ऋत ᳪं、 सत्यम् अध्वर्युब्रह्मयजमानाः तिसृभिरत्वरमाणा अश्वप्रथमाः प्रत्यायन्ति । अग्निं पुरीष्यमङ्गिरस्वद्भरामः पाप्मानम् येन द्वेष्येण सङ्गच्छते तमभिमन्त्रयतेऽपश्यन्निर्दिशति । उत्तरेण विहारं परिश्रिते । ओषधयः प्रतिगृह्णीताग्निमेत‍ ᳪं、 शिवमायन्तमभ्यत्र युष्मान् । व्यस्यन् विश्वा अमतीररातीर्निषीदन्नो अप दुर्मति‍ ᳪं、 हनत् ॥ ओषधयः प्रतिमोदध्वमेनं पुष्पावतीस्सुपिप्पलाः । अयं वो गर्भ ऋत्वियः प्रत्न ᳪं、 सधस्थमासदत् द्वाभ्यामोषधीषु पुष्पवतीषु फलवतीषु उपावहरति बद्धामेव मृदम् । आहवनीयाग्निं परित्यज्य[१७]१७

उखार्थं मृदः कल्पनम् :-
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । सुशर्मणो बृहतश्शर्मणि स्यामग्नेरह ᳪं、 सुहवस्य प्रणीतौ दामबन्धं विस्रस्य । आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वश्शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः तिसृभिरप उपसृज्य । मित्रस्स ᳪं、सृज्य पृथिवीं भूमिं च ज्योतिषा सह । सुजातं जातवेदसमग्निं वैश्वानरं विभुम् ॥ अयक्ष्माय त्वा स ᳪं、 सृजामि प्रजाभ्यः । विश्वे त्वा देवा वैश्वानरास्स ᳪं、सृजन्त्वानुष्टुभेन छन्दसाङ्गिरस्वत् द्वाभ्यां संसर्जनीयैः संसृजत्यर्मकपालैः पिष्टैर्वेण्वङ्गारैर्व्रीहितुषैः पलाशकषायेण शर्कराभिः पिष्टाभिः कृष्णाजिनलोमभिरजलोमभिरिति । यच्चान्यद्दृढार्थमुपार्धं मन्यते ।
उखाकरणम् :-
अथ यजमानः । रुद्राः सम्भृत्य पृथिवीं बृहज्ज्योतिः समीधिरे । तेषां भानुरजस्र इच्छुक्रो देवेषु रोचते मृदं संक्षिप्य । स ᳪं、सृष्टां वसुभीरुद्रैर्धीरैः कर्मण्यां मृदम् । हस्ताभ्यां महीं कृत्वा सिनीवाली करोतु ताम् ॥ सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यमदितेमह ओखां दधातु हस्तयोः ॥ उखां करोतु शक्त्या बाहुभ्यामदितिर्धिया । माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ आ तिसृभिः कर्त्रे अध्वर्यवे प्रयच्छति । बहुभार्यश्चेन्महिष्यै । मखस्य शिरोऽसि पिण्डं कृत्वा । यज्ञस्य पदे स्थः कृष्णाजिनं पुष्करपर्णं च युगपदभिमृशति । मृदि वाङ्गुष्ठाभ्यां निगृह्णाति । वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसाङ्गिरस्वत् पृथिव्यसि ध्रुवासि धारया मयि प्रजा ᳪं、 रायस्पोषं गौपत्य‍ ᳪं、 सुवीर्य ᳪं、 सजातान् यजमानाय । रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वदन्तरिक्षमसि ध्रुवासि धारया मयि प्रजा ᳪं、 रायस्पोषं गौपत्य ᳪं、सुवीर्य‍ ᳪं、 सजातान् यजमानाय । आदित्यास्त्वा कृण्वन्तु जागतेन छन्दसाङ्गिरस्वत् द्यौरसि ध्रुवासि धारया मयि प्रजा ᳪं、 रायस्पोषं गौपत्य ᳪं、सुवीर्य ᳪं、 सजातान् यजमानाय । विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिरस्वद्दिशोऽसि ध्रुवासि धारया मयि प्रजा ᳪं、 रायस्पोषं गौपत्य ᳪं、 सुवीर्य‍ ᳪं、 सजातान् यजमानाय । चतुर्भिर्महिष्युखां करोति बहुभार्यस्य । अध्वर्युरेकभार्यस्य । क्रियमाणमेतैरेव मन्त्रैर्यजमानोऽनुमन्त्रयते । त्र्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा । चतुरश्रां परिमण्डलां वा । प्रादेशमात्रीमूर्ध्वप्रमाणेन, अरत्निमात्रीं तिर्यक्प्रमाणेन, व्यायाममात्रीं समन्तपरिमाणेन । अपरिमितां वा । कुर्वंश्चतस्रोऽश्रीः प्रतिदिशमुन्नयति, अष्टाश्रिं वा । नवाश्रिमभिचरतः कुर्यात् । द्व्यङ्गुले बिलादधस्तात्[१८]* । अदित्यै रास्नासि उपबिलं रास्नां करोति । अश्रीणां रास्नायाश्च सन्धौ द्वौ चतुरः षडष्टौ वा स्तनान् करोति । अदितिस्ते बिलं गृह्णातु पाङ्क्तेन छन्दसाङ्गिरस्वत् बिलं कृत्वा । कृत्वाय सा महीमुखां मृन्मयीं योनिमग्नये । तां पुत्रेभ्यः सं प्रायच्छददितिः श्रपयानिति उत्तरतस्सिकतासु प्रतिष्ठाप्य । मित्रैतां त उखां परिददाम्यभित्या एषा मा भेदि मित्राय रक्षणार्थं परिददाति । य उखां करोति सोऽषाढां एतस्या एव मृदस्तूष्णीं चतुरश्रां त्र्यालिखितामिष्टकां करोति[१९]१८ । श्येनादौ तदनुगुणाम् ।
उखाया धूपनम् :-
गार्हपत्यादग्निमाहृत्य अश्वशकृत्प्रदीप्य । वसवस्त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्वत्, रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत्, आदित्यास्त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वत्, विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन छन्दसाङ्गिरस्वत्, इन्द्रस्त्वा धूपयत्वङ्गिरस्वत्, विष्णुस्त्वा धूपयत्वङ्गिरस्वत्, वरुणस्त्वा धूपयत्वङ्गिरस्वत् सप्तभिरश्वशकेनोखां धूपयति । अग्निं परित्यज्य ।
लोहितपचनीयैरुखायाः पचनम् :-
अदितिस्त्वा देवी विश्वदेव्यावती पृथिव्यास्सधस्थे ऽङ्गिरस्वत्खनत्ववट अग्रेण गार्हपत्यमवटं खात्वा । (अप उपस्पृश्य) लोहितपचनीयै[२०]१९ स्सम्भारैरवस्तीर्य । देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्यास्सधस्थेऽङ्गिरस्वद्दधतूखे तस्मिन्नुखामवदधाति । तूष्णीमषाढामन्ववधाय । लोहितपचनीयैस्सम्भारैः प्रच्छाद्य गार्हपत्यादग्निमाहृत्य । धिषणास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्यास्सधस्थे ऽङ्गिरस्वदभीन्धतामुखे, ग्नास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्यास्सधस्थे ऽङ्गिरस्वछ्रपयन्तूखे, वरूत्रयस्त्वा देवीर्विश्वदेव्यावतीः पृथिव्यास्सधस्थेऽङ्गिरस्वत्पचन्तूखे, जनयस्त्वा देवीर्विश्वदेव्यावतीः पृथिव्यास्सध स्थेऽङ्गिरस्वत्पचन्तूखे चतुर्भिरुखायामग्निमभ्यादधाति । मित्रैतामुखां पचैषा मा भेदि। एतां ते परिददाम्यभित्यै ॥ अभीमां महिना दिवं मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम् ॥ मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । द्युम्नं चित्रश्रवस्तमम् पच्यमानां तिसृभिर्मैत्रीभिरुपचरति ।
उखाया उद्वासनम् :-
धृष्टिमादाय भस्मापोह्य । पक्वाम् देवस्त्वा सवितोद्वपतु सुपाणिस्स्वङ्गुरिः । सुबाहुरुत शक्त्या उद्वास्य । अपद्यमाना पृथिव्याशा दिश आ पृण । उत्तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् उत्तरतस्सिकतासु प्रतिष्ठाप्य । मित्रैतां त उखां परिददाम्यभित्या एषा मा भेदि मित्राय परिददाति । तूष्णीमषाढामुद्वास्य । पाकाग्नेस्त्यागः ।
अजाक्षीरेणोखाया आच्छृन्दनम् :-
वसवस्त्वाऽऽच्छृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वत्, रुद्रास्त्वाऽऽच्छृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत्, आदित्यास्त्वाऽऽच्छृन्दन्तु जागतेन छन्दसाङ्गिरस्वत्, विश्वे त्वा देवा वैश्वानरा आ च्छृन्दन्त्वानुष्टुभेन छन्दसाङ्गिरस्वत् चतुर्भिरजाक्षीरेण उखामाच्छृणत्ति ।
तूष्णीमषाढाम् । ब्रह्मा उखाकर्मसु क्रियमाणेषु दक्षिणत आस्ते[२१]२० ॥ प्रवर्ग्यसम्भरणेन सह घर्मेष्टकाकुलायिनीसम्भरणं च ।
॥ अथ वायव्यपशुः ॥
अग्निभ्यः कामाय पशूनालभते मुष्करान् । प्राजापत्यमजं तूपरमुपाकृत्याश्वर्षभवृष्णिबस्तान् । अपि वा सर्वेषामेतेषां स्थाने वायवे नियुत्वते श्वेतमजं तूपरमालभते । वायव्यपशुपक्षमाश्रित्य प्रयोगः । अमावास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुत्वा । प्राणानायम्य, अग्निं चेष्यमाणो वायव्येन नैयुत्वतेन पशुना यक्ष्ये । समारोप्य मथित्वोपावरोह्यायतने निधाय । न विद्युत् । अग्निं प्रणीय षड्ढोत्रादि निरूढपशुवत् । एक एव यूपः । पाशुबन्धकी वेदिः । समानविधानत्वात् । पूर्ववत्सामिधेन्यः[२२]२१। वायवे नियुत्वते त्वा जुष्टमुपाकरोमि । वायवे नियुत्वते त्वा जुष्टं नियुनज्मि । वायवे नियुत्वते त्वा जुष्टं प्रोक्षामि । स्रुच्याघारे विशेषः । विष्णोस्थानमसीत इन्द्रो अकृणोद्वीर्याणि अवतिष्ठते । हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम स्वाहा स्रुच्यमाघारयति । वागसि प्राजापत्या सपत्नक्षयणी वाचा मेन्द्रियेणाविश । प्रजापतय इदम् । हिं बृहद्भाः इत्यादि निरूढपशुवत् । वायवे नियुत्वते छागस्य वपाया मेदसोऽनुब्रूहि ॥ वायवे नियुत्वते छागस्य वपाया मेदसः प्रेष्य ॥ वायवे नियुत्वत इदम् । वायोर्नियुत्वतोऽहं देवयज्ययेन्द्रियावी भूयासम् ॥ जेमानं इति वा । अत्र पशुबन्धवद्दक्षिणा[२३]२२ । बहिस्तन्त्रवर्तित्वात् । वपामार्जनान्तं कृत्वा प्राजापत्यं द्वादशकपालं पशुपुरोडाशं निर्वपति । अपि वा वैश्वानरं द्वादशकपालं पशुपुरोडाशं निर्वपति । यः कश्चनाग्नौ पशुरालम्भ्यते वैश्वानर एवास्य द्वादशकपालः पशुपुरोडाशो भवतीत्येके । अस्मिन्पक्षे अग्नीषोमीयसवनीययोरपि स एव । कपालोपधानकाले युग्मानामावृत्तिः । प्रचरणकाले उपांशुप्रचारः । प्रजापतये, पुरोडाशस्यानुब्रूहि । प्रजापतये, पुरोडाशस्य प्रेष्य। प्रजापतय इदम् । प्रजापतेरहं ---अन्नादो भूयासम् । ऐन्द्रः प्राण इत्यन्तं कृत्वा पशोः शिरश्छित्वा मृदा प्रलिप्य निदधाति । शेषं पशुवत् । यज्ञ शं च म, वृष्टिवर्जम् । ब्राह्मणतर्पणान्तम् । तेनेष्ट्वा, संवत्सरं न मांसमश्नीयात् न स्त्रियमुपेयान्नोपरि शयीत । अपि वा मांसमश्नीयात् उपरि शयीत स्त्रियं त्वेव नोपेयादिति वाजसनेयकम् । पश्वन्ते घर्मसम्भृतिः । प्रवर्ग्यसम्भरणमनस्तमिते । इतरथा पर्वान्तरे । प्रवर्ग्यं सम्भरिष्यन्नित्यादि अथैनां कृष्णाजिने उपनह्यासजतीत्यन्तम् । प्रवर्ग्यसम्भरणेन सह घर्मेष्टका कुलायिनीसम्भरणं च ।
कर्मोपक्रमो दीक्षणीया च :-
तिस्रो दीक्षा पक्षे षष्ठ्यामारम्भः । तत्पूर्वपर्वणि संकल्प्य उखासंभरणं पशुश्च । अन्येषु कल्पेषु मासादिषु च वसन्ते पर्वणि सुत्या यथा भवति तदनुसारेण दीक्षारम्भः । तस्मिन् दिने प्रातरग्निहोत्रं हुत्वा, नान्दीश्राद्धम् । तत आज्यं पशव इत्यादि । गृहे एव दीक्षणीया । अग्निं प्रणीय सम्भारयजूंषि । सोमपरिवेषणम् । अग्निं परित्यज्य । पुनः प्रणीय सप्तहोता[२४]२३ । तं परित्यज्य क्रत्वर्थमग्निं प्रणीय स्वे दक्ष इत्यादि । ततो त्रिहविषं दीक्षणीयां निर्वपति । देवा गातुविद इत्यादि । पात्रप्रयोगकाले - त्रयोविंशतिकपालानि स्थाली स्फ्यश्च द्वन्द्वम् । इतराणि प्रकृतिवत् । निर्वपणकाले - अग्नये वैश्वानराय जुष्टं निर्वपामि ॥ अग्नाविष्णुभ्यां जुष्टं निर्वपामि ॥ अदित्यै जुष्टं निर्वपामि ॥ इदं देवानामित्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने वैश्वानर हव्य‍ ᳪं、 रक्षस्वाग्नाविष्णू हव्य‍ ᳪं、 रक्षेथामदिते हव्य‍ ᳪं、 रक्षस्व । निर्वापवत्प्रोक्षणम् । कृष्णाजिनादानादि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वं इदमग्नेर्वैश्वानरस्याग्नाविष्ण्वोः पुरोडाशार्थान् । इदमदित्याः चर्वर्थान् । अग्नये वैश्वानराय जुष्टमधिवपाम्यग्नाविष्णुभ्यां जुष्टमधिवपामि धान्यमसि धिनुहि देवान् इत्यादि । एवं संवापः । कपालोपधानकाले वैश्वानरस्य द्वादशकपालमुपदधाति । युग्मानामावृत्तिः । आग्नावैष्णवमेकादशकपालमुपदधाति । अष्टावुपधाय तूष्णीं त्रीणि । ध्रुवोऽसि इति स्थाल्यासादनम् । पिष्टान्युत्पूय तण्डुलानुत्पुनाति । देवस्त्वा इति घृतमुत्पूय तूष्णीं स्थाल्यामासिञ्चति । मखस्य शिरोऽसि इति पिण्डं कृत्वा । यथाभागं व्यावर्तेथां इति विभज्य । इदमग्नेर्वैश्वानरस्य, इदमग्नाविष्ण्वोः । पुरोडाशावधिश्रित्य घर्मोऽसि इति तण्डुलानावपति । प्रथनादि पुरोडाशयोः अन्तरितं सर्वेषाम् । आप्यायतां --- अग्नये वैश्वानराय जुष्टमभिघारयामि । तूष्णीमाग्नावैष्णवम् । आप्यायतां --- अदित्यै जुष्टमभिघारयामि । प्रियेणेत्यासादनम् । यज्ञोऽसि इति वैश्वानरादित्योः । अयं यज्ञो, ममाग्ने चतुर्होता । आज्यभागाभ्यां प्रचर्य । उपांशु प्रधानयागः ।
अग्नये वैश्वानराय, अनुब्रूहि ॥ अग्निं वैश्वानरं यज । अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानरस्याहं देवयज्ययान्नादो भूयासम् ॥ अग्नाविष्णुभ्याम्, अनुब्रूहि || अवद्यमाने साम । अग्नाविष्णू, यज । अग्नाविष्णुभ्यामिदम् । अग्नाविष्ण्वोरहं देवयज्यया वृत्रहा भूयासम् । अदित्यै, अनुब्रूहि ॥ अदितिम्, यज । अदित्या इदम् । अदित्या अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीय । नारिष्ठान् हुत्वा स्विष्टकृदादि । आग्नावैष्णवमविरुज्य इतरयोर्विरुज्य प्राशित्रम् । चतुर्धाकरणकाले वैश्वानरादित्योः त्रेधाकरणम् । पुरस्ताद्देवपत्नीभ्यः सम्पत्नीयं जुहोति । पत्नीसंयाजान्ता दीक्षणीया सन्तिष्ठते ।
दीक्षाहुतयः :-
ततः प्राचीनवंशं करोति[२५]२४ । उत्तरेण बहिः प्राग्वंशमित्यादि यत्प्राग्दीक्षाहुतिभ्यस्तत्कृत्वा । आकूत्यै प्रयुजेऽग्नये स्वाहा इत्यादि पञ्च आध्वरिकीः आपो देवीः इत्यन्तं पूर्ववत् कृत्वा आकूतिमग्निमिति षडाग्निकीः जुह्वैव ध्रुवात आप्याय्याप्याय्य जुहुयात् । आकूतिमग्निं प्रयुज‍ ᳪ、 स्वाहा ॥ अग्नय इदम् । मनो मेधामग्निं प्रयुज‍ ᳪ、 स्वाहा ॥ अग्नय इदम् । चित्तं विज्ञातमग्निं प्रयुज‍ ᳪ、 स्वाहा ॥ अग्नय इदम् । वाचो विधृतिमग्निं प्रयुज ᳪ、 स्वाहा ॥ अग्नय इदम् । प्रजापतये मनवे स्वाहा । प्रजापतय इदम् । अग्नये वैश्वानराय स्वाहा । अग्नये वैश्वानरायेदम् । षडाग्निकीर्दीक्षाहुतीर्हुत्वा । अष्टकृत्व आप्याय्य चतुरनाप्याय्य तूष्णीं ध्रौवं समापयन् द्वादशगृहीतेन स्रुचं पूरयित्वा विश्वे देवस्य नेतुर्मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा ॥ वातं प्राणं इति यजमानः । कालात्मने सवित्र इदम् ।
उखाया आहवनीये प्रवृञ्जनम् :-
अन्तर्वेदि कृष्णाजिनमित्यादि सम्भारयजूंषि चैनमध्वर्युर्वाचयतीत्यन्तं कृत्वा । शणकुलायेन मुञ्जकुलायेन
वोखां प्रच्छाद्य । मा सु भित्था मा सु रिषो दृ ᳪं、हस्व वीडयस्व सु । अम्ब धृष्णु वीरयस्वाग्निश्चेदं करिष्यथः ॥ दृ ᳪं、हस्व देवि पृथिवि स्वस्तय आसुरी माया स्वधया कृतासि । जुष्टं देवानामिदमस्तु हव्यमरिष्टा त्वमुदिहि यज्ञे अस्मिन् द्वाभ्यामाहवनीये प्रवृणक्ति[२६]२५ । मित्रैतामुखां तपैषा मा भेदि । एतां ते परिददाम्यभित्यै प्रदक्षिणमङ्गारैः परीन्धे । द्रवन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस्पुत्रो अद्भुतः तस्यां क्रुमुकमुल्लिखितं[२७]२६ घृतेनाक्त्वावदधाति । मुञ्जांश्च ।
उख्याग्नौ समिदाधानमुपस्थानं च :-
जाते उख्ये आहवनीयमनुगमयति । परस्या अधि सँव्वतोऽवरा ᳪं、 अभ्यातर । यत्राहमस्मि ता ᳪं、 अव वैकङ्कतीं समिधमुख्ये आदधाति । अग्नय इदम् । परमस्याः परावतो रोहिदश्व इहागहि । पुरीष्यः पुरुप्रियोऽग्ने त्वं तरामृधः शमीमयीम् । अग्नय इदम् । सीद त्वं मातुरस्या उपस्थे विश्वान्यग्ने वयुनानि विद्वान् । मैनामर्चिषा मा तपसाभिशूशुचोऽन्तरस्या ᳪं、 शुक्रज्योतिर्विभाहि ॥ अन्तरग्ने रुचा त्वमुखायै सदने स्वे । तस्यास्त्व ᳪं、 हरसा तपन् जातवेदश्शिवो भव ॥ शिवो भूत्वा मह्यमग्नेऽथो सीद शिवस्त्वम् । शिवाः कृत्वा दिशः सर्वा स्वाँय्योनिमिहासदः तिसृभिर्जातमुख्यमुपतिष्ठते ।
इध्माधानम् :-
यदग्ने यानि कानि चा ते दारूणि दध्मसि । तदस्तु तुभ्यमिद्घृ(धृ?)तं तज्जुषस्व यविष्ठ्य ॥ यदत्युपजिह्विका यद्वम्रो अतिसर्पति । सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य ॥ रात्रि ᳪं、 रात्रिमप्रयावं भरन्तोऽश्वायेव तिष्ठते घासमस्मै । रायस्पोषेण समिषामदन्तोऽग्ने मा ते प्रतिवेशा रिषाम ॥ नाभा पृथिव्यास्समिधानमग्नि‍ ᳪं、 रायस्पोषाय बृहते हवामहे । इरम्मदं बृहदुक्थं यजत्रं जेतारमग्निं पृतनासु सासहिम् ॥ यास्सेना अभीत्वरीराव्याधिनीरुगणा उत । ये स्तेना ये च तस्करास्ता ᳪ、स्ते अग्नेऽपिदधाम्यास्ये पञ्चभिरौदुम्बरमपरशुवृक्णमुख्ये इध्ममभ्यादधाति । द ᳪ、ष्ट्राभ्यां मलिम्लूञ्जम्भ्यैस्तस्करा ᳪं、 उत । हनूभ्या ᳪ、स्तेनान्भगवस्ता ᳪ、स्त्वं खाद सुखादितान् आश्वत्थीं समिधमादधाति । ये जनेषु मलिम्लवस्स्तेनासस्तस्करा वने । ये कक्षेष्वघायवस्ता ᳪ、स्ते दधामि जम्भयोः वैकङ्कतीम् । यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्यो अस्मान् दिप्साच्च सर्वं तं मस्मसा कुरु शमीमयीम्[२८]२७ । तस्मादग्निचितः पापं न कीर्तयेत् । नो अग्निं बिभ्रतो नो अग्निविदः । स ᳪं、शितं मे ब्रह्म स ᳪं、शितं वीर्यं बलम् । स ᳪं、शितं क्षत्रं जिष्णु यस्याहमस्मि पुरोहितः ॥ उदेषां बाहू अतिरमुद्वर्च उदू बलम् । क्षिणोमि ब्रह्मणा मित्रानुन्नयामि स्वा ᳪं、 अहम् उत्तमे यजमानं वाचयन् तूष्णीमौदुम्बर्यौ समिधावादधाति । मातेव पुत्रं पृथिवी पुरीष्यमग्नि ᳪ、 स्वे योनौ भरिष्यत्युखा । तां विश्वैर्देवैर् ऋतुभिस्संविदानः प्रजापतिर्विश्वकर्मा युनक्तु मौञ्जे शिक्ये षडुद्यामे द्वादशोद्यामे वोखामवदधाति ।
शिक्यपाशस्य प्रतिमोचनम् :-
एकविंशतिनिर्बाधो रुक्मः सूत्रोतो भवति । यजमानः - दृशानो रुक्म उर्व्या व्यद्यौद्दुर्मर्शमायुः श्रिये रुचानः । अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौरजनयत्सुरेताः तमासीनो यजमानोऽन्तर्निर्बाधं प्रतिमुच्य बहिर्निर्बाधान्कुरुते । विश्वा रूपाणि प्रतिमुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे । वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो विराजति शिक्यपाशं ग्रीवायां प्रतिमुञ्चते । नक्तोषासा समनसा विरूपे धापयेते शिशुमेक ᳪं、 समीची । द्यावा क्षामा रुक्मो अन्तर्विभाति देवा अग्निं धारयन् द्रविणोदाः कृष्णाजिनमुत्तरं, स्कन्धयोर्निदधाति[२९]२८। सुपर्णोऽसि गरुत्मान्त्रिवृत्ते शिरो गायत्रं चक्षुस्स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दा ᳪ、स्यङ्गानि धिष्णियाः शफा यजू ᳪं、षि नाम उख्यमवेक्ष्य । तूष्णीमादाय । सुपर्णोऽसि गरुत्मान् दिवं गच्छ सुवः पत आदायोत्थायोपरि नाभेर्धारयमाणः ।
विष्णुक्रमणम् :-
विष्णोः क्रमोऽस्यभिमातिहा गायत्रं छन्द आरोह पृथिवीमनु वि क्रमस्व निर्भक्तः स यं द्विष्मः ॥ विष्णोः क्रमोऽस्यभिशस्तिहा त्रैष्टुभं छन्द आरोहान्तरिक्षमनु वि क्रमस्व निर्भक्तः स यं द्विष्मः ॥ विष्णोः क्रमोऽस्यरातीयतो हन्ता जागतं छन्द आरोह दिवमनु वि क्रमस्व निर्भक्तः स यं द्विष्मः ॥ विष्णोः क्रमोऽसि शत्रूयतो हन्तानुष्टुभं छन्द आरोह दिशोऽनु वि क्रमस्व निर्भक्तः स यं द्विष्मः चतुरो विष्णुक्रमान् प्राचः क्रामति[३०]* । ब्रह्मा दक्षिणत एति ।

प्रदक्षिणकरणम् :-
अक्रन्ददग्निस्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधस्समञ्जन् । सद्यो जज्ञानो वि हीमिद्धो अख्यादा रोदसी भानुना भात्यन्तः एतामनूच्य । अग्नेऽभ्यावर्तिन्नभि न आवर्तस्वायुषा वर्चसा सन्या मेधया प्रजया धनेन ॥ अग्ने अङ्गिरः शतं ते संत्वावृतः सहस्रं त उपावृतः । तासां पोषस्य पोषेण पुनर्नो नष्टमाकृधि पुनर्नो रयिमाकृधि ॥ पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः ॥ सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस्परि चतसृभिः प्रदक्षिणावर्तते ।
उख्याग्नेरासन्द्यामासादनं समिन्धनं च :-

रुक्मकृष्णाजिने तूष्णीमुन्मुच्य । उदुत्तमं वरुणपाशमस्मदवाधमं वि मध्यम ᳪ、 श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम शिक्यपाशमुन्मुच्य । तूष्णीं समीपमासन्दीमाहृत्य । आ त्वाऽहार्षमन्तरभूद्ध्रुवस्तिष्ठाविचाचलिः । विशस्त्वा सर्वा वाञ्छन्त्वस्मिन् राष्ट्रमधिश्रय ॥ अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जग्मिवान् तमसो ज्योतिषागात् । अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः द्वाभ्यामुपतिष्ठते[३१]२९। औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या प्रादेशमात्रपादा मौञ्जविवाना फलकास्तीर्णा वा मृदा प्रदिग्धा । तामाहवनीयायतने निधाय । सीद त्वं मातुरस्या उपस्थे विश्वान्यग्ने वयुनानि विद्वान् । मैनामर्चिषा मा तपसाभि शूशुचोऽन्तरस्या ᳪं、‍ शुक्रज्योतिर्विभाहि ॥ अन्तरग्ने रुचा त्वमुखायै सदने स्वे । तस्यास्त्व ᳪं、 हरसा तपन् जातवेदश्शिवो भव ॥ शिवो भूत्वा मह्यमग्नेऽथो सीद शिवस्त्वम् । शिवाः कृत्वा दिशः सर्वास्स्वां योनिमिहासदः ॥ ह ᳪं、सश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् तस्यां चतसृभिः उख्यमासादयति । शर्करायां वा तिसृभिरासाद्य हंसवत्योपतिष्ठत इत्येके । येन देवा ज्योतिषोर्ध्वा उदायन्, येनादित्या वसवो येन रुद्राः । येनाङ्गिरसो महिमानमानशुस्तेनैतु यजमानः स्वस्ति प्रादेशमात्रैः काष्ठैः उख्यमुपसमिन्धे । नित्यो ज्वलति ।
मुष्टीकरणं व्रतग्रहणं च :-
यजमान उपसमिध्य मुष्टीकरणप्रभृति[३२]३० कर्म प्रतिपद्यते । स्वाहा यज्ञं मनसेत्यादि एष्ट्री स्थेत्यन्तं कृत्वा । अध्वर्युः - गार्हपत्ये दीक्षितस्य व्रतमित्यादि । व्रतकाले यजमानो व्रतं प्रतिगृह्य निधाय । अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे औदुम्बरीं समिधं व्रतेऽक्त्वाभ्यादधाति । अग्नयेऽन्नपतय इदम् । देवस्य त्वा --- हस्ताभ्यां गायत्रेण छन्दसा रात्रिमिष्टकामुपदधे तया देवतयाङ्गिरस्वद्ध्रुवा सीद सायमौदुम्बरीं समिधमादधाति । अग्नय इदम् । नास्याञ्जनम् । दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहस ᳪं、 सुपारा नो असद्वशे हस्ताववनिज्य । ये देवा मनोजाता मनोयुजस्सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा दक्षिणेनाहवनीयं परिश्रिते व्रतयति । नैनमदीक्षिता व्रतयन्तं पश्यन्ति । आचम्य आत्मन इदम् । शिवाः पीता भवथ यूयमापोऽस्माकं योनावुदरे सुशेवाः । इरावतीरनमीवा अनागसश्शिवा नो भवथ जीवसे व्रतयित्वा नाभिदेशमभिमृशति । अपश्च पीत्वा जपति । तूष्णीं पत्नी स्व आयतने व्रतयति । ततः पूषा सन्या इति सनीहारप्रस्थापनान्तम् । जागर्त्येतां रात्रिम् ।
अर्धरात्रे व्रते प्रत्ते सनीहारविधौ कृते ।
प्रथमो दीक्षादिवसः समाप्यत इति स्थितिः ॥
उपोदये अग्नीन् ज्योतिष्मतः कुरुत । उदित आदित्ये याः पशूनां वाचं विसृज्य । सोमपरिवेषणम् ।

वात्सप्रेणोपस्थानम् ः-
दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः । तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः ॥ विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतं पुरुत्रा । विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आ जगन्थ ॥ समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् । तृतीये त्वा रजसि तस्थिवा ᳪं、समृतस्य योनौ महिषा अहिन्वन् ॥ अक्रन्ददग्निस्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥ उशिक्पावको अरतिस्सुमेधा मर्तेष्वग्निरमृतो नि धायि । इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षत् ॥ विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः । वीडुं चिदद्रिमभिनत्परायञ्जनायदग्निमयजन्त पञ्च ॥ श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः । वसोस्सूनुस्सहसो अप्सु राजा वि भात्यग्र उषसामिधानः ॥ यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने । प्र तं नय प्रतरां वस्यो अच्छाभि द्युम्नं देवभक्तं यविष्ठ ॥ आ तं भज सौश्रवसेष्वग्न उक्थउक्थ आ भज शस्यमाने । प्रियस्सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥ त्वामग्ने यजमाना अनु द्यून् विश्वा वसूनि दधिरे वार्याणि । त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुषिजो वि वव्रुः ॥ दृशानो रुक्म उर्व्या व्यद्यौद्दुर्मर्शमायुः श्रिये रुचानः । अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौरजनयत्सुरेताः इत्यनुवाकेन वात्सप्रेणोपतिष्ठते[३३]३१।
उपसमिन्धनं व्रतग्रहणं च :-
येन देवा ज्योतिषोर्ध्वा उदायन्, येनादित्या वसवो येन रुद्राः । येनाङ्गिरसो महिमानमानशुस्तेनैतु यजमानः स्वस्ति उपसमिध्य । मध्यन्दिने गार्हपत्ये दीक्षितस्य व्रतमित्यादि । व्रतं प्रतिगृह्य अन्नपतेऽन्नस्य नो ---
द्विपदे चतुष्पदे औदुम्बरीं समिधं व्रतेऽक्त्वाभ्यादधाति ।
अग्नयेऽन्नपतय इदम् । देवस्य त्वा --- हस्ताभ्यां त्रैष्टुभेन छन्दसाहरिष्टकामुपदधे तया देवतयाङ्गिरस्वद्ध्रुवा सीद प्रातस्समिधमादधाति । नास्याञ्जनम् । अग्नय इदम् । ततः दैवीं धियमित्यादि नाभ्यभिमर्शनान्तं पूर्ववत् । अधिवृक्षसूर्ये अग्नीन् ज्योतिष्मतः कुरुत इत्यादि । नक्षत्रं दृष्ट्वा । याः पशूनां इति जपित्वा । व्रतं कृणुत इति वाचं विसृजते । मध्यरात्रे गार्हपत्ये दीक्षितस्येत्यादि व्रतं प्रतिगृह्य । अन्नपतेऽन्नस्य, देवस्य त्वा --- हस्ताभ्यां गायत्रेण छन्दसा रात्रिमिष्टकामुपदधे तया । दैवीं धियं, ये देवाः, शिवाः पीता भवथ, अग्ने त्व ᳪं、 सुजागृहि स्वप्स्यन्नुख्यमभिमन्त्रयते ।
उपोदये त्वमग्ने व्रतपा असि । विश्वे देवाः । पुनर्मनः । अग्नीन् ज्योतिष्मत इत्यादि व्रतं कृणुतेत्यन्तम् । सोमपरिवेषणम् । दृशानो रुक्म इत्यादि । विष्णोः क्रमोऽसि इत्यादि सादनान्तम् । येन देवा इत्युख्यमुपसमिन्धे[३४]३२ ।
प्रयाणं देवयजनगमनं च :-
तिस्रो दीक्षा पक्षे अस्मिन्नहनि प्रयाणम् । इतरथा पूर्वेद्युः विष्णुक्रमान् क्रामत्युत्तरेद्युरुपतिष्ठते । एवं सदा आ क्रयात् । यदहः सोमं क्रीणीयात् तदहरुभयं समस्येत् । प्र च क्रामेदुप च तिष्ठेत । यदहः प्रयायात् उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमस्सुप्रतीको विभावसुः उख्यमुद्यम्य[३५]३३ । सीद त्वं मातुरस्या --- ऋतं बृहत् चतसृभिः द्वीषे शकटे
प्रउग उख्यमासादयति । तिसृभिरासाद्य हंसवत्योपतिष्ठत इत्येके । समोप्येतरावग्नी अन्वारोप्य । यजमानः पत्न्या सह शकटमारुह्य प्रेदग्ने ज्योतिष्मान् याहि शिवेभिरर्चिभिस्त्वम् । बृहद्भिर्भानुभिर्भासन्मा हि ᳪं、सीस्तनुवा प्रजाः इति प्रयाति । अक्रन्ददग्निः --- भात्यन्तः अक्षशब्दमनुमन्त्रयते । प्राचीनवंशं करोतीत्येतदादि द्वारकरणान्तम् । यागोपकरणैः सह देवयजनं प्राप्य । पादौ प्रक्षाल्य आचम्य एदमगन्म --- मदेम देवयजनमध्यवस्यति । आहवनीयसमीपे आसन्द्यां सशिक्यमुख्यं प्रतिष्ठाप्य, उद्धत्यावोक्ष्यायतनानि कल्पयित्वा गार्हपत्यदक्षिणाग्नी स्वस्वायतने प्रतिष्ठाप्य । समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन्, हव्या जुहोतन
घृतानुषिक्तामौदुम्बरीमवसिते समिधमादधाति । येन देवा ज्योतिषोर्ध्वा --- यजमानः स्वस्ति उख्यमुपसमिन्धे । अग्नय इदम् । इन्धनव्रतनाध्यवसानसन्निपाते घृतानुषिक्तां पूर्वामादधाति ।
अप्सु भस्मप्रवेशनम् :-
मध्यन्दिने व्रतम् । पूर्ववत्समिदाधानम् । अधिवृक्षसूर्ये अग्नीन् ज्योतिष्मतः कुरुतेत्यादि । यद्युखां भस्माभिनिषीदेदुख्यमादाय उदकान्तं गत्वा । अध्वर्युः – इम ᳪं、 सुयोनि ᳪं、 सुवृत ᳪं、 हिरण्मय ᳪं、 सहस्रभृष्टिं महिषावरोह । उत्सं जुषस्व मधुमन्तमूर्वॆ समुद्रिय ᳪं、 सदनमाविशस्व । इम ᳪ、 स्तनं मधुमन्तं धयापां प्रप्यातमग्ने सरिरस्य मध्ये । उत्सं जुषस्व मधुमन्तमूर्वॆ समुद्रिय ᳪं、 सदनमाविशस्व एताभ्यामुखाया अग्निमुद्धृत्य, अनिरुहञ्छिक्यादुखाम् । आपो देवीः प्रतिगृह्णीत भस्मैतत्स्योने कृणुध्व‍ ᳪं、 सुरभावु लोके । तस्मै नमन्तां जनयः सुपत्नीर्मातेव पुत्रं बिभृता स्वेनम् ॥ अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे । गर्भे सं जायसे पुनः ॥ गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि तिसृभिरप्सु भस्म प्रवेशयति । भस्मनोऽपादाय प्रपीड्य[३६]३४ । प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने । स ᳪं、 सृज्य मातृभिस्त्वं ज्योतिष्मान् पुनरासदः ॥ पुनरासद्य सदनमपश्च पृथिवीमग्ने । शेषे मातुर्यथोपस्थेऽन्तरस्या ᳪं、 शिवतमः द्वाभ्यामुखायां भस्मनः एकदेशं अग्निं च प्रत्यवधाय । पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः ॥ सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस्परि द्वाभ्यां पुनरुदैति । येन देवा --- यजमानस्स्वस्ति यजमान उपसमिन्धे । नित्यो ज्वलति ।
बोधवतीभ्यामुपस्थानम्
अध्वर्युः - पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तनुवो वर्धयस्व सत्यास्सन्तु यजमानस्य कामाः पुनरुख्यमुपसमिन्धे । बोधा नो अस्य वचसो यविष्ठ म ᳪं、हिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तनुवं वन्दे अग्ने ॥ स बोधि सूरिर्मघवा वसुदावा वसुपतिः । युयोध्यस्मद्वेषा ᳪं、सि बोधवतीभ्यामुपतिष्ठते । यद्युखामित्याद्येतदन्तमधिकभस्मविषयम् । नित्यमप्सु भस्मप्रवेशनं दीक्षितस्य कृतास्विष्टकासु । अकृतासु संसर्गीयार्थं भवति । पुरीषे पशुकामः कुर्वीताप्सु यायावरः प्रवपेत् ।
इष्टकाकरणम् :-
दीक्षितस्येष्टकाः करोति मासप्रभृतिषु दीक्षाकल्पेषु पुरस्तात्, अदीक्षितस्येतरेषूपरिष्टात् प्राजापत्यात् पशोः[३७]३५। मृन्मयीरिष्टकाः करोति । पादमात्र्योऽरत्निमात्र्य उर्वस्थिमात्र्योऽणूकमात्र्य ऋजुरेखा दक्षिणावृतः सव्यावृतस्त्र्यालिखिताश्च । निर्मन्थ्येन लोहिनीः पचन्ति । अभिन्ना भवन्ति । खण्डां कृष्णां लक्ष्मणां च नोपदध्यात् । पुष्करपर्णं, रुक्मो, हिरण्मयः पुरुषः, स्रुचौ, सप्त स्वयमातृण्णाः, शर्करा, हिरण्येष्टकाः, पञ्च घृतेष्टका, दूर्वास्तम्बः, कूर्मः, उलूखलं, मुसलं, शूर्पमश्मानः, पशुशिरांसि, सर्पशिरश्चामृन्मयीरिष्टकाः । जानुदघ्नं साहस्रं चिन्वीत प्रथमं चिन्वानः । नाभिदघ्नं द्विषाहस्रं द्वितीयम् । आस्यदघ्नं त्रिषाहस्रं तृतीयमुत्तरमुत्तरं ज्यायांसम् । महान्तं बृहन्तमपरिमितं स्वर्गकामश्चिन्वीतेति वाजसनेयकम् । कल्पोक्तप्रकारान् इष्टकादिसम्भारान् सम्पाद्य ।
गार्हपत्यचितेरायतनसंस्कारः :-
अपवृत्ते दीक्षापरिमाणे उपोदये वाग्यमनादि । उदित आदित्ये वाग्विसर्गः । दृशानो रुक्म इत्यादि । विष्णुक्रमादि सादनान्तम् । येन देवा --- स्वस्ति उपसमिध्य । ततः वात्सप्रेणोपस्थानम्[३८]३६ । येन देवा --- स्वस्ति उपसमिध्य । ततः सोमपरिवेषणम्[३९]३७ । अपेत वीत वि च सर्पतातो येऽत्रस्थ पुराणा ये च नूतनाः । अदादिदं यमोऽवसानं पृथिव्या अक्रन्निमं पितरो लोकमस्मै इति गार्हपत्यचितेरायतनं व्यायाममात्रं चतरस्रं परिमण्डलं वोद्धत्य अप उपस्पृश्य । हरिण्या पलाशशाखया शमीशाखया वा सम्मृज्य प्राचीमुदीचीं वा शाखामुदसित्वा, अप उपस्पृश्य
शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः इत्यद्भिरवोक्ष्य अग्नेर्भस्मास्यग्नेः पुरीषमसि सिकता निवपति । संज्ञानमसि कामधरणं मयि ते कामधरणं भूयात् ऊषान् । तान्निवपन् यददश्चन्द्रमसि कृष्णं तदिहास्तु इति मनसा ध्यायति । सं या वः प्रियास्तनुवः सं प्रिया हृदयानि वः । आत्मा वो अस्तु सं प्रियस्सं प्रियास्तनुवो मम ऊषान् सिकताश्च संसृज्य । चितस्स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देवतयाङ्गिरस्वद्ध्रुवा स्सीदत एकविंशत्या शर्कराभिर्गार्हपत्यचितेरायतनं परिश्रयति । तिस्रस्तिस्रः संहिताः । तासामन्तरालं चतुस्तिलोनं पञ्चपञ्चाशदङ्गुलम् । सप्तकृत्वो मन्त्रावृत्तिः । व्रजं कृणुध्व ᳪं、 स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि । पुरः कृणुध्वमायसीरधृष्वा मा वः सुस्रोच्चमसो दृ ᳪं、हता तं[४०]३८ उपहिताः शर्करा अभिमन्त्र्य ।
गार्हपत्यप्रथमचितेरिष्टकोपधानं :-
प्रागायामाः प्रथमे प्रस्तारे । उदगायामा द्वितीये । एवं व्यत्यासेन । प्रथमे उदगपवर्गास्तिस्रो रीतयः । द्वितीये प्रस्तारे प्रागपवर्गास्तिस्रः । एकस्यां रीत्यां सप्तसप्तेष्टकाः । प्रथमे प्रस्तारे दक्षिणत आरभ्येष्टका गणनम् । द्वितीयस्यां रीत्यां द्वितीयामारभ्य अय ᳪं、 सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः । सहस्रियं वाजमत्यन्न सप्ति ᳪं、 स सवान्त्सन्त्स्तूयसे जातवेदस्तया देवतयाङ्गिरस्वद्ध्रुवा सीद मध्यरीतौ द्वितीया इष्टका । अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवा ᳪं、 ऊचिषे धिष्णिया ये । याः परस्ताद्रोचने सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपस्तया तस्या उत्तरा । अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्सु वा यजत्र । येनान्तरिक्षमुर्वाततन्थ त्वेषस्स भानुरर्णवो नृचक्षास्तया तस्या उत्तरा । पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । जुषन्ता ᳪं、 हव्यमाहुतमनमीवा इषो महीस्तया तस्या उत्तरा । चतस्रो मध्ये प्राचीरिष्टका गार्हपत्यचितावुपदधाति । इडामग्ने पुरुद ᳪं、स ᳪं、 सनिं गोश्शश्वत्तम ᳪं、 हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे तया तृतीयस्यां चतुर्थीम् । अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथा नो वर्धया रयिं तया तस्यामेव पञ्चमीम् । द्वे पुरस्तात्समीची तिरश्ची वा । एवं
पश्चात् । चिदसि तया[४१]३९ प्रथमायां चतुर्थीं । परिचिदसि तया३९ तस्यामेव पञ्चमीम् । द्वाभ्यां द्वाभ्यां मन्त्राभ्यां एकैकां लोकम्पृणामुपदधाति । दक्षिणत आरभ्योदगपवर्गाः पश्चादारभ्य प्रागपवर्गा वा सर्वत्र लोकम्पृणोपधानम् । लोकम्पृण च्छिद्रम्पृणाथो सीद शिवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिरस्मिन्, योनावसीषदन् ॥ ता अस्य सूददोहसः सोम ᳪ、 श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस्त्रिष्वा रोचने दिवस्तया सर्वास्विष्टकासु तयादेवतमन्ततोपदधाति । त्रयोदशभिर्लोकम्पृणाभिः प्रच्छादयति । चात्वालस्थानात् पुरीषमाहृत्य पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश । वैश्वानरः सहसा पृष्टो अग्निस्स नो दिवा स रिषः पातु नक्तं वैश्वानर्यर्चा चितावनुव्यूहति । सा चितिर्भवति ।
द्वितीयचितिप्रभृति पञ्चमचितिपर्यन्तम् :-
अपरस्मिन् प्रस्तारे अय ᳪं、 सो अग्निरित्यादि द्वितीयास्यां रीत्यां द्वितीयाद्याश्चतस्रः । अय‍ ᳪं、 सो अग्निः मध्यरीत्यां द्वितीया । अग्ने दिवो तस्याः पूर्वा । अग्ने यत्ते दिवि तस्याः पूर्वा । पुरीष्यासो अग्नयः तस्याः पूर्वा ।
इडामग्नेऽयं ते योनिरिति उत्तरेंऽसे द्वे[४२]४० । अपि वा तासां पुरतो द्वे । चिदसीति प्रथमायामाद्येष्टका । परिचिदसीति तस्यामेव द्वितीया । अपि वा चिदसीति द्वितीयाद्या इष्टका । परिचिदसीति तस्या उत्तरा[४३]४१ । ततो लोकम्पृणाः पृष्टो दिवीति । एवं व्यत्यासेन पञ्च चयनानि करोति । पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः । त्रिचितीकं चिन्वीत द्वितीयं चिन्वानः । एकचितीकं चिन्वीत तृतीयं चिन्वानः । एकचितीकानेवात ऊर्ध्वं चिन्वीत । अजीजन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवस्समीचीः पुमा ᳪं、सं जातमभिस ᳪं、रभन्ताम् कराभ्यां गार्हपत्यचितिमभिमृश्य ।
उख्याग्नेर्निवपनम् :-
समित ᳪं、 सङ्कल्पेथा ᳪं、 सम्प्रियौ रोचिष्णू सुमनस्यमानौ । इषमूर्जमभि सँव्वसानौ- सँव्वां मना ᳪं、सि सँव्व्रता समु चित्तान्याकरम् ॥ अग्ने पुरीष्याधिपा भवा त्वं नः । इषमूर्जं यजमानाय धेहि ॥ पुरीष्यस्त्वमग्ने रयिमान् पुष्टिमा ᳪं、‍ असि । शिवाः कृत्वा दिशस्सर्वास्स्वाँय्योनिमिहासदः ॥ भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञ ᳪं、 हि ᳪं、सिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः तस्यां चतसृभिरुख्यं सन्निवपति । विज्ञायते च, वि वा एतौ द्विषाते यश्चोखायां यश्च चीयते । ब्रह्म यजुः । यत्सन्युप्य विहरति ब्रह्मणैवैनं संशास्ति इति ।
साक ᳪं、 हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि । विद्वा ᳪं、 अस्य व्रता ध्रुवा
वया ᳪं、 इवानु रोहते[४४]४२ सन्युप्तावभिमन्त्रयते[४५]४३ चित्युखाग्नी[४६]४४ स्यूता देवेभिरमृतेनागाः । उखा ᳪ、 स्वसारमधि वेदिमस्थात् । सत्यं पूर्वैर् ऋषिभिश्चाकुपानोऽग्निः प्रविद्वानिह तत्करोतु घृतेनोखां पूरयति दध्ना मधुना सिकताभिर्वा सर्वैर्वा संसृज्य न रिक्तामवेक्षेत[४७]४५।
शिक्यादुखाया निरूहणम् :-
मातेव पुत्रं पृथिवी पुरीष्यमग्नि ᳪ、 स्वे योनावभारुखा । तां विश्वैर्देवैर् ऋतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चतु शिख्यादुखां निरूह्य । यदस्य पारे रजसश्शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषोऽग्ने वैश्वानर स्वाहा वैश्वानर्या शिक्यमादत्ते । नैर्ऋतीरिष्टकाः कृष्णास्तिस्रस्तुषपक्वास्ताः शिक्यं रुक्मसूत्रमासन्दीं चादाय दक्षिणमपरमवान्तरदेशं गत्वा । ब्रह्मा दक्षिणत एति । नमस्सु ते निर्ऋते विश्वरूपेऽयस्मयँव्विचृता बन्धमेतम् । यमेन त्वं यम्या सँव्विदानोत्तमं नाकमधि रोहयेमं स्वकृत इरिणे प्रदरे वा शिक्यं निधाय[४८]४६ ।
नैर्ऋतीष्टकोपधानम्
तस्येष्टकाभिः पाशमभ्युपदधाति । यस्यास्ते अस्याः क्रूर आसञ्जुहोम्येषां बन्धानामवसर्जनाय । भूमिरिति त्वा जना विदुर्निर्ऋतिरिति त्वाऽहं परि वेद विश्वतः ॥ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यां तस्करस्यान्वेषि । अन्यमस्मदिच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यमस्तु ॥ देवीमहं निर्ऋतिँव्वन्दमानः पितेव पुत्रं दसये वचोभिः । विश्वस्य या जायमानस्य वेद शिरश्शिरः प्रति सूरी विचष्टे एताभिस्तिसृभिः पराचीरसंस्पृष्टा दक्षिणापवर्गम् । न तयादेवतं करोति । यत्ते देवी निर्ऋतिरा बबन्ध दामग्रीवास्वविचर्त्यम् । इदं ते तद्विष्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः शिक्यजालेनैनाः प्रच्छाद्य । रुक्मसूत्रमासन्दीं च परस्तान्निदधाति[४९]४७
अपास्मादेतु निर्ऋतिर्नेहास्या अपि किं चन । अगोतां नाष्ट्रां पाप्मान ᳪं、 सर्वं तदपहन्महे ॥ अपास्म नैर्ऋतान्पाशान्मृत्यूनेकशतं च ये । अपास्य ये सिनाः पाशा[५०]४८ मृत्यूनेकशत ᳪं、 सुवे[५१]४९ ॥ ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तान्, यज्ञस्य मायया सर्वानवयजामहे[५२]५० ॥ देवीमहं निर्ऋतिं बाधमानः पितेव पुत्रं दसये वचोभिः । विश्वस्य या जायमानस्य शिरो देवी: प्रति सूरी वि चष्टे[५३]५१ एताभिश्चतसृभिः उपहिता अभिमन्त्र्य ।
यदस्य पारे रजसः शुक्रं ज्योतिरजायत । तन्नः पर्षदतिद्विषोऽग्ने वैश्वानर स्वाहा वैश्वानर्या परिषिच्य । भूत्यै नमः इत्युपस्थायाप्रतीक्षमायन्ति । शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शँय्योरभि स्रवन्तु नः अद्भिर्मार्जयन्तेऽध्वर्युब्रह्मयजमानाः । ऊर्जं बिभ्रद्वसुमनाः सुमेधा गृहानैमि मनसा मोदमानस्सुवर्चाः । अघोरेण चक्षुषाह ᳪं、 शिवेन गृहाणां पश्यन्वय उत्तराणि[५४]५२ ॥ गृहाणामायुः प्रवयन्तिरामो गृहा अस्माकं प्रतिरन्त्वायुः । गृहानह ᳪं、 सुमनसः प्रपद्येऽवीरघ्नो वीरवतस्सुवीरान्[५५]५३ अध्वर्युः गृहानभ्येति । तूष्णीमितरौ । निवेशनस्सङ्गमनो वसूनां विश्वा रूपाऽभिचष्टे शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनां आहवनीयं गार्हपत्यं वा उपतिष्ठन्ते ।
प्रायणीयेष्टिः, वेदिमानञ्च :-
अहं त्वदस्मि इत्यादि । प्रायणीयया प्रचर्य उदयनीयार्थं निदधातीत्यन्तं कृत्वा वेदिं मिमीते । इह द्विपदप्रक्रमेण त्रिपदप्रक्रमेण वा ज्योतिष्टोमवत् न पदमानम् । यद्येकादशयूपाः तथापि प्रक्रमेण मानम् । न रथाक्षमात्रेण[५६]५४।

॥ वेदिमानकारिकाः ॥
१, मीयते साग्निकी वेदिः प्रक्रमैर्द्विपदैरिह ।
अर्काङ्गुलप्रमाणेन पदमेकविधे स्मृतम् ॥
२, त्रीण्यङ्गकैक - भू-चन्द्र-दृक्-चन्द्र-द्वय- वह्निषु ।
भू- द्व्यैक - द्वितयैकेषु द्व्यैक- द्व्यैकैक-भूमिषु ॥
३, आदिमेन सहैवात्र स्युर्द्वाविंशतिशङ्कवः ।
षट्त्रिंशिका मानरज्जुः तस्यां द्व्यष्टसु लक्षणम् ॥
४, विमाने पाशयोर्मध्ये प्रक्रमा द्वादश स्मृताः ।
श्रोणी पञ्चदशस्वाद्ये सदोऽनन्तरषष्ठयोः ॥
५, दशस्वष्टसु तत्कोणाः क्रमात्स्युर्दक्षिणोत्तरे ।
तृतीये च चतुर्थे च धिष्ण्याः कार्या अरत्नितः ॥
६, अष्टादशाङ्गुलैस्तेषां शिष्ट्वा सञ्चरमेव च ।
षष्ठे त्वाग्नीध्रमेव स्याद्रुद्रसप्तदशस्वपि ॥
७, अष्टमे च द्वादशसु स्यातां आग्नीध्रलीयकौ ।
नवमे तु हविर्धानं सार्धारत्निचतुष्टये ॥
८, दशमे प्राग्वदाग्नीध्रमुत्करोऽथ त्रयोदशे ।
मनुषु स्याद्विपर्यस्य प्राग्वद्धानं चतुर्दशे ॥
९, षोडशे वह्निपुच्छं स्याच्छङ्कुस्तद्दक्षपार्श्वतः ।
उत्तरेऽपि च शङ्कुस्स्यात्पुरुषमात्रे भवेत्तथा ॥
१०, शुल्बान्तरेणाग्निमानं षोडशे विंशताविह ।
षोडशस्वर्धहीनेषु शामित्रस्स्यादुदक्स्थले ॥
११, अन्तिमे द्वादशस्वंसौ चात्वालोऽसादुदक्क्रमे ।
सर्वत्र शम्या चात्वाल इति बौधायनोऽब्रवीत् ॥
१२, दक्षिणे तु हविर्धाने पश्चात् सार्धक्रमद्वये[५७]५५ ।
पादोनद्वितयं पार्श्वेऽरत्नौ तूपरवाः स्मृताः[५८]५६ ॥
१३, अर्धप्रादेशतस्तेषां भ्रमणं कोणशङ्कुषु[५९]५७ ।
अग्रेणोपरवांस्त्यक्त्वा पादोनप्रक्रमत्रयम् ॥
१४, शम्यामात्रा चतुस्रक्तिः खरः शिष्टस्तु सञ्चरः ।
औदुम्बरी सदोमध्ये पृष्ठ्याया दक्षिणतः क्रमे ॥
१५, इत्यरत्निप्रमाणेन साग्निकी वेदिरीरिता ।
कपर्दिभाष्यमालोक्य कारिका रचिता इमाः ॥
प्रायणीयान्ते तु वेदिः स्यात् विमिमेत्वादिका मता ।
शिखण्डान्ता न यूपः स्यात् यत्प्राग्वित्तायनीत्यतः ॥
प्राग्वंशस्य मध्यमाल्लालाटिकादित्यादि चतुश्शिखण्डेत्येतदन्तं करोति । वेदिमाने ब्रह्मा दक्षिणत आस्ते ।
ततः प्रायणीयाया ध्रौवादित्येतदादि कर्म प्रतिपद्यते । तृतीयं पत्न्यै प्रयच्छति तत्सा गृहेषु निदधातीत्यन्तम् । अध्वर्युः - अत्र आदित्योपस्थानं सूर्यस्य चक्षुः --- विपश्चिता । राज्ञो निवपनादि कर्म प्रतिपद्यते । उत्तरवेदिदेशे उपरवदेशे वा लोहितमित्यादि । सोमविक्रयिणे राजानं प्रदाय पणते इत्यन्तम् । सोम विक्रयिन् क्रय्यस्ते सोमा इत्यादि प्रकृतिवत्क्रयकल्पः । द्वादशशतदक्षिणापक्षे दशभिः क्रयः । सहस्रदक्षिणापक्षे त्रिंशता क्रयः । अध्वर्युः सोमं ते क्रीणामि --- अभिमातिषाहं इति जपित्वा । गवा ते क्रीणानि । एषा इति सोमक्रयिणीं निर्दिश्य । तस्या आत्मा --- बन्धुः इति जपति । भूयो वा अतः । षड्विंशत्या गोभिस्ते क्रीणानि । भूयो वा अतः | शुक्रं ते शुक्रेण --- गोः । हिरण्येन ते क्रीणानि । भूयो वा अतः । तपसस्तनूरसि । छागया ते क्रीणानि[६०]५८ । भूयो वा अतः । वाससा ते क्रीणानि । न भूयः[६१]५९ अस्मे चन्द्राणि इत्यादि समानम् । आतिथ्यया प्रचर्याग्निं मिमीते । आतिथ्यायां समाप्तायां मार्जनान्तेऽग्निमानम्[६२]६० । ब्रह्माग्नौ मीयमाने दक्षिणत आस्ते ।
 [ एकविधाग्नेः पुरुषप्रमाणम् - ४३ अङ्गलाः २८ तिलाः । एकविधाग्नेः प्रक्रमप्रमाणम् १० अङ्गुलाः ३२.५ तिलाः । द्विविधाग्नेः पु. प्र. - ६१ अं ३३ ति । द्विविधाग्नेः प्रक्र. प्र.- १५ अं १६ ति । त्रिविधाग्नेः पु. प्र. - ७५ अं ३१ ति । त्रिविधाग्नेः प्रक्र. प्र.- १८ अं ३३ ति । सार्धसप्तविधाग्नेः पु. प्र. - १२०
अं । सार्धसप्तविधाग्नेः प्र. प्र. - ३० अं । सार्धाष्टविधाग्नेः पु. प्र. - १२७ अं २५ ति । सार्धाष्टविधाग्नेः प्र प्र - ३१ अं ३२ ति । सार्धनवविधाग्नेः पु. प्र.- १३५ अं २ ति । सार्धनवविधाग्नेः प्र. प्र.- ३३ अं २६ ति ।]
॥ पक्षिविहरणकारिकाः ॥
१, शिरोऽग्रयूपयोर्मध्ये द्वादशाङ्गुलमीरितम्[६३]६१ ।
शङ्कुः शिरोग्रे तत्पश्चात् प्रक्रमे प्रक्रमे दश ॥
२, तत्पश्चात् त्रिषु पुच्छाग्रं प्रक्रमैरेव मीयते ।
शिर आरभ्य पुच्छान्तं शङ्कवो द्वादश स्मृताः ॥
३, पञ्चविंशकसूत्रे तु चिह्नं द्वादशसु स्मृतम् ।
पञ्चकं पाशयोर्मध्ये पुच्छाद्यैरेव मीयते[६४]६२ ॥
४, आद्ये चतुर्षु पुच्छाग्रमेकस्मिन् पूर्वकेऽप्ययः ।
पक्षतिस्त्रिषु तुर्ये स्यात् तत्र पक्षाङ्गुलीयकौ ।
५, सहपादेषु दशसु सपादैकादशस्वपि ।
एवमेवोत्तरत्रापि तथैव विमितिर्भवेत् ।
६, पञ्चमादि चतुर्ष्वेवं द्वौ द्वौ पक्षाङ्गुलीयकौ ।
सहपादेषु दशसु सपादैकादशस्वपि ।
७, पक्षतिश्चाष्टमे व्यत्यस्यैकस्मिन् दशमेऽप्ययः ।
एकादशेप्येवमेव दक्षिणोत्तरयोः क्रमे ॥
८, एकादशे च मूर्ध्नांऽसौ पक्षयोर्नमनं स्फुटम् ।
द्वादशे च शिरोऽग्रीये सूत्रमायम्य शङ्कुषु ।
९, प्रदक्षिणक्रमेणैव स्पन्द्या स्याच्छिरसोऽवधि ।
शिरोऽग्रचतुरस्रयोरग्नीशानदलांस्त्यजेत्[६५]६३ ॥
१०, पक्षाग्रयोः प्रक्रमेण चतुरस्राणि कारयेत् ।
व्यवलिख्याक्ष्णया तानि अग्नीशानदलांस्त्यजेत् ॥
दर्भस्तम्बे आहुतयः :-
समूलं हरितं दर्भस्तम्बमाहृत्य मध्येऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा दर्भस्तम्बे पञ्चाहुतीर्जुहोति सजूरब्दोऽयावभिर्घृतेन स्वाहा । अब्दायेदम् । सजूरुषा अरुणीभिर्घृतेन स्वाहा । उषस इदम् । सजूस्सूर्य एतशेन घृतेन स्वाहा । सूर्यायेदम् । सजोषावश्विना दᳪं、सोभिर्घृतेन स्वाहा । अश्विभ्यामिदम् । सजूरग्निर्वैश्वानर इडाभिर्घृतेन स्वाहा । अग्नये वैश्वानरायेदम् ।
अग्निमानम् :-
यावान् यजमान ऊर्ध्वबाहुः, तावता वेणुनाग्निं विमिमीते[६६]६४ । सपादान् त्रीन्प्राचः पुच्छप्रभृति । दक्षपक्षाग्रादारभ्य अर्धादिकपञ्चपुरुषानष्टमांशं चोदङ्नीत्वा[६७]६५। एकविधः प्रथमोऽग्निः द्विविधो द्वितीयः । त्रिविधस्तृतीयः । त एवमेवोद्यन्त्यैकशतविधात् । तदु ह वै सप्तविधमेव चिन्वीत सप्तविधो वाव प्राकृतोऽग्निः । तत ऊर्ध्वमेकोत्तरानिति वाजसनेयकम् ।
अग्निक्षेत्राक्रमणम् :-
स्योना पृथिवी भवानृक्षरा निवेशनी । यच्छा नश्शर्म सप्रथाः ॥ बडित्था पर्वतानां
खिद्रं बिभर्षि पृथिवि । प्र या भूमि प्रवत्वति मह्ना जिनोषि महिनि एताभ्यां विमितमग्निमाक्रमन्ते अध्वर्युब्रह्मयजमानाः । सं वरत्रा दधातन निराहावान् कृणोतन । सिञ्चामहा अवटमुद्रिणं वयं विश्वाहादस्तमक्षितं इति सम्प्रेष्यति ।
लाङ्गलोच्छ्रयणम् :-
निष्कृताहावमवटᳪं、 सुवरत्रᳪं、 सुषेचनम् । उद्रिणᳪं、 सिञ्चे अक्षितं अवटादुदकमाहावेषूत्सिञ्चति । प्रत्याहावं मन्त्रावृत्तिः । तेषु बलीवर्दान् पाययन्ति । उद्योजनमन्तर्याममीषां खगल्यं शफम् अष्ट्रां तालं प्रतीनाहमुभे मण्डुक्यौ युजौ इति युगलाङ्गलं सम्प्रसारयति । सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक् । धीरा देवेषु सुम्नया ॥ युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्या पक्वमायत् द्वाभ्यां सीरं युनक्ति । षड्गवं द्वादशगवं चतुर्विंशतिगवं वा । उष्टारयोः पिल्वयोरथो आबन्धनीययोः । सर्वेषां विद्म वो नाम वाहाः कीलालपेशसे[६८]६६ युक्तानभिमन्त्र्य । उदस्थात् गोजिद्धनजिदश्वजिद्धिरण्यजित्सूनृतया परीवृतः । एकचक्रेण सविता रथेनोर्जो भागं पृथिवी मेत्वा पृणन्[६९]६७ लाङ्गलमुच्छ्रयति ।
ब्रह्मवर्महोम: :-
जुह्वां सकृत्सकृद्गृहीत्वा ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवस्स्वाहा । ब्रह्मण इदम् । अनाप्ता यापः[७०]६८ प्रथमा यस्यां कर्माणि कृण्वते । वीरान्नो अत्र मादभᳪ、स्तद्व एतत्पुरोदधे स्वाहा । अद्भ्य इदम् । पर्यूषु प्रधन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तरध्या ऋणयान ईयसे[७१]६९ स्वाहा । सोमायेदम् । सहस्रधारेव ते समस्वरं दिवो नाके मधुजिह्वामसश्चतः[७२]७० । अस्यस्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्तु सेतवस्स्वाहा[७३]७१ । सोमायेदम् । शालामुखीये ब्रह्मवर्माणि जुहोति । विमितस्याग्नेराक्रमणम् :-
मलिम्लुचो नामासि त्रयोदशो मास इन्द्रस्य वर्मासीन्द्रस्य शर्मासीन्द्रस्य वरूथमसि तं त्वा प्रपद्ये । गायत्रीं लोमभिः प्रविशामि त्रिष्टुभं त्वचा प्रविशामि जगतीं माᳪं、सेन प्रविशामि अनुष्टुभमस्थना[७४]७२ प्रविशामि पङ्क्तिं मज्जा प्रविशाम्यैन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सूराः । तन्नस्त्रायतां तन्नो विश्वतो महदायुष्मन्तो जरामुपगच्छेम देवाः विमितमग्निमाक्रमन्ते ।
लाङ्गलकर्षणम् :- ( कर्षणक्रमपट: ५४ पृष्ठे दर्शितः)
पुच्छदेशमध्वर्युः बलीवर्दा कीनाशाः । लाङ्गलं पवीरवᳪं、 सुशेव‍ᳪं、 सुमतित्सरु । उदित्कृषति गामविं प्रफर्व्यं च पीवरीम् । प्रस्थावद्रथवाहनम् ॥ शुनं नः फाला वि तुदन्तु भूमिᳪं、‍ शुनं कीनाशा अभियन्तु वाहान् । शुनं पर्जन्यो मधुना पयोभिश्शुनासीरा शुनमस्मासु धत्तम् द्वाभ्यां कृषति । ब्रह्मा कृष्यमाण ओप्यमाने दक्षिणत आस्ते । कीनाशा बलिवर्दानजन्ति । पुच्छाच्छिरोधि कृषति । कामं कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाग्नये पूष्ण ओषधीभ्यः प्रजाभ्यः उत्क्षिप्य लाङ्गलं प्रदक्षिणमावर्तयन् जपति । पञ्चाद्गत्वा पश्चाद्गत्वा कृष्टां सीतामुत्तरेण लाङ्गलं पवीरवं --- अस्मासु धत्तम् इति पुनर्द्वाभ्यां कृषति । उत्क्षिप्य लाङ्गलं पुनश्च प्रदक्षिणमावर्तयन् कामं कामदुघे --- प्रजाभ्यः इति जपति । पुनः पञ्चाद्गत्वा कृष्टां द्वितीयां सीतामुत्तरेण लागलं पवीरवं --- अस्मासु धत्तम् इति पुनर्द्वाभ्यां कृषति । न कामम् ।
द्वादश सीतानां करणम् :-
तिस्रस्तिस्रस्सीताः संहिताः उत्तरोत्तरतः कृषति । मध्येऽसम्भिन्ना भवन्ति । दक्षिणात्पक्षादुत्तम् [७५]७३। उत्तरस्माद्दक्षिणम् । पक्षयोः कर्षणे प्रत्यागमनेऽपि च कर्षणम्। दक्षिणायै श्रोणेरुत्तरमंसम् । उत्तरायै श्रोणेः दक्षिणमंसम्[७६]७४ । एतद्वा विपरीतम् । विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम सुवरगन्म दक्षिणेंऽस उत्तरे[७७] वा बलीवर्दान् विमुच्य । तानुदीचः प्राचो वा उत्सृज्य अध्वर्यवे ददाति । अध्वर्यो बलीवर्दांस्ते ददामि । तानध्वर्युः सप्तदशकृत्वः अपान्य व्यावृत्य रुद्राय गामिति प्रतिगृह्णाति । तूष्णीं वा ।
ओषधिवपनम् :-
(ग्राम्याणामारण्यानां च )
पञ्चदशोदपात्रान्निनयति । द्वादश कृष्टे त्रीनकृष्टे । एकैकं पात्रं द्वादशस्वपि सीतासु निनयत्येवमकृष्टेऽपि त्रीन् । या जाता ओषधयः इति चतुर्दशभिः ओषधीर्वपति । अनुसीतमित्युक्तम् । तिलमाषव्रीहियवाः प्रियंग्वणवो गोधूमा इति ग्राम्याः । वेणुश्यामाकनीवारा जर्तिलाश्च गवीधुका आरण्यजा मर्कटका[७८]७६ विज्ञेया । गार्मुतसप्तमाः कुलित्थसप्तमा वा इत्यारण्याः । सप्त ग्राम्याः कृष्टे सप्तारण्या अकृष्टे ।
या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । मन्दामि बभ्रूणामह‍ᳪं、 शतं धामानि सप्त च द्वादशसु सीतासु तिलान् वपति । एवमितरान् । शतं वो अम्ब धामानि सहस्रमुत वो रुहः । अथा शतकृत्वो यूयमिमं मे अगदं कृत माषान् । पुष्पावतीः प्रसूवतीः फलिनीरफला उत । अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः व्रीहीन् । ओषधीरिति मातरस्तद्वो देवीरुपब्रुवे । रपाᳪं、सि विघ्नतीरितरपश्चातयमानाः यवान् । अश्वत्थे वो निषदनं पर्णे वो वसतिः कृता । गोभाज इत्किलासथ यत्सनवथ पूरुषम् प्रियङ्गून् । यदहं वाजयन्निमा ओषधीर्हस्त आ दधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा अणून् । यदोषधयः सङ्गच्छन्ते राजानस्समिताविव । विप्रस्स उच्यते भिषग्रक्षोहामीवचातनः गोधूमान् । एते ग्राम्याः ॥
अथारण्याः । निष्कृतिर्नाम वो माताथा यूय‍ᳪ、 स्थ सङ्कृतीः । सराः पतत्रीणीस्स्थन यदामयति निष्कृत वेणून् । अन्या वो अन्यामवत्वन्यान्यस्या उपावत । तास्सर्वा ओषधयः सँव्विदाना इदं मे प्रावता वचः श्यामाकान् । उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते । धनᳪं、 सनिष्यन्तीनामात्मानं तव पूरुष नीवारान् । अति विश्वाः परिष्ठास्स्तेन इव व्रजमक्रमुः । ओषधयः प्राचुच्यवुर्यत्किं च तनुवाᳪं、 रपः जर्तिलान् । यास्त आतस्थुरात्मानं या आविविशुः परुःपरुः । तास्ते यक्ष्मं वि बाधन्तामुग्रो मध्यमशीरिव गवीधुकान् । साकं यक्ष्म प्रवत श्येनेन किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया मर्कटकान् । अश्वावती‍ᳪं、 सोमवतीमूर्जयन्तीमुदोजसम् । आ वित्सि सर्वा ओषधीरस्मा अरिष्टतातये गार्मुतान् । सप्तारण्या अकृष्टे । यामोषधीनां नाधिगच्छेत् तस्यास्स्थाने यवान् मधुमिश्रान् वा वपेत् । उप्ता मेऽसि इति वा मनसा ध्यायेत् ।
ओषधीनां प्रोक्षणम् :-
अधिगतायां यः प्रथमः इध्म आगच्छेत्तस्मिन्नेनामुपसन्नह्येत्[७९]७७ । ये वनस्पतीनां फलग्रहयस्तानिध्म उपसन्नह्य प्रोक्षेत्[८०]७८ । मा नो हिᳪं、सीत् जनिता यः पृथिव्या इति चतसृभिः दिग्भ्यो लोष्टान् समस्यति ये अन्तर्विधाद्बहिर्विधं आपन्ना भवन्ति[८१]७९ । यं द्विष्याद्यत्र स स्यात्तस्यै दिशो जघन्यं लोष्टमाहरेत् । इषमूर्जमहमित आदद इति । मा नो हिᳪं、सीज्जनिता यः पृथिव्या यो वा दिव‍ᳪं、 सत्यधर्मा जजान । यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम पश्चाद्भूतानां समासः । अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह । वपां ते अग्निरिषितोऽवसर्पतु उदग्भूतानां समासः । अग्ने यत्ते शुक्रं यच्चन्द्रं यत्पूतं यद्यज्ञियम् । तद्देवेभ्यो भरामसि प्राग्भूतानां समासः । इषमूर्जमहमित आदद ऋतस्य धाम्नो अमृतस्य योनेः । आ नो गोषु विशत्वौषधीषु जहामि सेदिमनिराममीवाम् दक्षिणभूतानां समासः । यदि दक्षिणतो द्वेष्यः तदैवं क्रमः । यस्यां दिशि द्वेष्यः तस्यां दिशि भूतस्य लोष्टस्यान्ते समाप्तिः । घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्धिः । ऊर्जस्वती पयसा पिन्वमानास्मान् सीते पयसाभ्याववृत्स्व सकृन्मन्त्रमुक्त्वा सीतान्तरालान्यभिमृशति । उत्तरवेदिं वा ।
उत्तरवेद्यां सिकतानां निवपनम् :-
अथोत्तरवेदिमुपवपति यावानग्निः वित्तायनी मेऽसि इत्यादि । पक्षशिरःपुच्छानामपि परिलेखनम् । तूष्णीं चात्वालं परिलिख्य । देवस्य त्वेति अभ्र्यादानादि भूतेभ्यस्त्वा इत्युद्ग्रहणान्तं कृत्वा । अग्ने तव श्रवो वयो महि भ्राजन्त्यर्चयो विभावसो । बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥ इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिᳪं、 रयिम् ॥ ऊर्जो नपाज्जातवेदस्सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । त्वे इषस्सन्दधुर्भूरिरेतसश्चित्रोतयो वामजाताः ॥ पावकवर्चाश्शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना । पुत्रः पितरा विचरन्नुपावस्युभे पुणक्षि रोदसी ॥ ऋतावानं महिषं विश्वचर्षणिमग्निᳪं、 सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्ण‍ᳪं、 सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥ निष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तᳪं、 राधसे महे । रातिं भृगूणामुशिजं कविक्रतुं पृणक्षि सानसि‍ᳪं、 रयिम् षड्भिः सिकता न्युप्य । चितस्स्थ परिचित ऊर्ध्वचितश्श्रयध्वं तया देवतयाङ्गिरस्वद्ध्रुवास्सीदत अपरिमिताभिः शर्कराभिराहवनीयचितेरायतनं परिश्रयति यथा गार्हपत्यस्य । आ प्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् । भवा वाजस्य सङ्गथे सिकता व्यूहति ।
ततो व्रतप्रदानम् । यदि पूर्वं व्रतकालो नाधिगच्छेत् । गार्हपत्ये दीक्षितस्येत्यादि । नात्र समिद्द्वयम् । ये देवा मनोजाताः । नाभ्यभिमर्शनान्तं कृत्वा । आतिथ्याया ध्रौवादित्येतदादि कर्म प्रतिपद्यते । अग्ने व्रतपत इति यजमानोऽवान्तरदीक्षामुपैति । प्रवर्ग्येण प्रचरिष्यन्त इत्यादि सुब्रह्मण्यान्तम् । एतावान् विशेषः । प्रथमौपसत्के इध्मे दशभिरिध्मदारुभिः सह फलग्रहीन् वनस्पतीन् बध्वा निदधाति । ओषधिवपनसमये अनधिगताः पश्चादधिगता ओषधीश्चोपसन्नह्येत८० । आहितासु सामिधेनीसमित्सु तूष्णीमेवाधानम्[८२]८१ । पौर्वाह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति । या ते अग्नेऽयाशया तनूः इत्युपसदाहुतिः ।
सुब्रह्मण्यान्ते अग्रेण प्राग्वंशं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि प्रथमस्याश्चितेरिष्टकाः संसादयति[८३]८२ । अपि वा तिस्रः स्वयमातृण्णाः तिस्रश्च विश्वज्योतिषः । तासां प्रथम द्वितीयतृतीयचिह्नानि कृत्वा ताः दर्भग्रुमुष्टिनाज्येन [८४]८३ व्यवोक्ष्य समुद्यम्य चित्यग्निभ्यः प्रणीयमानेभ्यो ऽनुब्रूहि इति सम्प्रेष्यति । यजमानः – पश्चात्पदमात्रेऽवस्थायाभिहिङ्कृत्य । हिं भूर्भुवस्स्वरो३म् पुरीष्यासो अग्नयः प्रावणेभिस्सजोषसः । जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महो३म् त्रिरुपांशु सप्रणवाम् । अपि वा सुमन्द्रम् । व्रजत्सु अनुव्रजेत् । तिष्ठत्सु विसृष्टवाक् प्रणयत इति ब्रूयात् । अध्वर्यवादयः इष्टका आदाय प्रथमायां त्रिरनूक्तायां हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति । श्वेतमश्वं[८५]* पुरस्तान्नयन्ति । तमनुकृष्णम् । चित्यग्नीनां प्रणीयमानानां ब्रह्मा दक्षिणत एति ।
॥ इति चयनस्य पूर्वाङ्गानि ॥





























  1. १. पर्वण्युखासम्भरणपक्षे ।
  2. २. सोमेन यक्ष्ये अतिरात्रसर्वपृष्ठाप्तोर्यामेन साग्निचित्येन सर्वस्तोमेन सहस्रदक्षिणेन तेन परमेश्वरं प्रीणयानि इति पाठान्तरम् । सोमेन यक्ष्ये ज्योतिष्टोमेनातिरात्रेण साग्निचित्येन रथन्तरसाम्ना द्वादशशतदक्षिणेन तेन परमेश्वरं प्रीणयानि इति ज्योतिरतिरात्रेऽपि क्वचित् चयनं विहितम् ।
  3. ३. त्रैधातवीयेष्टिप्रयोगार्थं ११९ पृष्ठं पश्यन्तु । 'त्रिकद्रुकेण उक्थ्येन यक्ष्यमाणश्चेत् सहस्रदक्षिणा नियता बृहत्पृष्ठश्च कर्तव्यः । श्यैते हि सहस्रमनूद्यते सहस्रेणैव शिक्षतीति । नह्यसन्नर्थो अनूद्यते । सन्नेव उच्यते इति कपर्दिभाष्यम् । सहस्रदक्षिणे सोमे विद्युत्त्रैधातवीयका । ततस्सोमप्रवाकस्य वरणादि च सौमिकम् - इत्यपि प्रयोगक्रमः विद्यते ॥
  4. ४. त्रिस्त्रयस्त्रिᳪं、शाः इति पाठान्तरे वाक्यावसानम् ।
  5. ५. सूत्रकारेण अष्टगृहीतमेव उक्तम् । चतुर्गृहीतेन जुहोतीति तैत्तिरीये विहितत्वात्, चतुर्गृहीतेन वा इति कपर्दिभाष्ये च उक्तत्वात् ।
  6. ६. अग्नय इदमिति पाठान्तरम् ।
  7. ७. अश्वः प्रथमः तदनु गर्दभः तदनु अध्वर्यवादयः इत्यर्थः ।
  8. ८. या सूर्यस्योदेतोस्तां वल्मीकवपां तूष्णीमुद्धृत्याप उपस्पृश्य अग्निं पुरीष्यं --- वल्मीकवपामुपतिष्ठते इति पाठान्तरम् ।
  9. ९. सम्मार्ष्टि सर्वतः स्पृशति ।
  10. १०. अभितिष्ठितोऽसि पाप्मानम् इति पाठान्तरम् ।
  11. ११. सकृद्गृहीतं गृहीत्वा इति पाठान्तरम् ।
  12. १२. त्वामग्ने --- वाघतः ॥ तमु त्वा --- पुरन्दरम् ॥ तमु त्वा —रणेरणे ॥ इति तिसृभिः सम्भरणपक्षे ।
  13. १३. पुरीष्योऽसि --- अग्ने ॥ त्वामग्ने --- वाघतः ॥ तमु त्वा --- पुरन्दरम् ॥ तमु त्वा --- रणेरणे॥ सीद होतः --- वयोधाः ॥ नि होता --- अग्निः ॥ स ᳪं、 सीदस्व --- दर्शतम् ॥ जनिष्वा हि --- यजीयान्॥ इत्यष्टाभिः सम्भरणपक्षे ।
  14. १४. संलोभनमिति, यथाऽवटमिति न ज्ञायते तथा मृदन्तरेणाभिपूरणम् ।
  15. १५. वडस्तु तुभ्यम् इति नित्येऽग्नौ । वषडस्तु तुभ्यं इति काम्येऽग्नौ ।
  16. १६. उखार्थे मृत्खनप्रदेशे भूमावपोऽवनयेत् ।
  17. १७. आच्छृन्दनान्तमाहवनीयस्य धारणमित्युपदेशः इति TG. M पाठः ।
  18. * अश्रीः कुर्यादित्यर्थः ।
  19. १८. चतरश्रेऽग्नौ अषाढा चतुरश्रा भवति । अन्यासु चितिषु तत्तदनुगुणाकारा भवति । त्र्यालिखिता तु सर्वत्र भवेदेव ।
  20. १९. गोशकृदिक्षुपर्णाद्यैः इत्यर्थः ।
  21. २०. एतदनन्तरं एकाष्टकायां चेदुखासम्भरणं तदा एतदन्तं कृत्वाग्निविहरणम् । पर्वणि चेदेतदन्तं कृत्वा प्रवर्ग्यं सम्भृत्य पशुः इत्येवं वाक्यद्वयं क्वचिन्मातृकाग्रन्थेषु उक्तमस्ति । एवं रीत्या कथमनुष्ठानमिति न ज्ञायते ।
  22. २१. अयं प्रयोगः आश्वलायनहौत्रपक्षे । आपस्तम्बहौत्रपक्षे तु एकविंशतिश्चतुर्विंशतिर्वा सामिधेन्यो भवन्ति । एकविंशतिसामिधेनीपक्षे ततस्त्वा ᳪं、 सप्तवि ᳪं、शतिधेत्यूहः । चतुर्विंशतिसामिधेनीपक्षे ततस्त्वां त्रि ᳪं、शद्धेत्यूहः ।
  23. २२. वासुदेवीयकारिकासु इयं विहिता । प्राचीनकारिकासु दक्षिणादानं निषिद्धम् ।
  24. २३. कूश्माण्डहोमपक्षे तं परित्यज्य पुनः प्रणीय जुहोति ।
  25. २४ नास्तीदं प्रयोगग्रन्थेषु, अपेक्षितं तु । अग्निचयने गृहे एव दीक्षा नियता । प्रयाणस्य नित्यविधानात् । उत्तरेण प्राग्वंशं परिश्रिते ... आ वो देवास ईमहे इति पूर्वया द्वारा प्राग्वंशं प्रविश्य... इत्यादिसूत्रैः प्राग्वंशकरणं दीक्षाङ्गत्वेन अवश्यं भवेत् । यत्प्राग्दीक्षाहुतिभ्यः (८.१३) इति सूत्रव्याख्यानावसरे भाष्यकारेण कपर्दिना प्राग्वंशकरणं च वपनं च इति वदता अत्र प्राग्वंशकरणं विहितमिति ज्ञायते । सत्याषाढसूत्रव्याख्यात्रा गोपीनाथेन " उत्तरेण प्राग्वशं परिश्रिते यजमानः केशश्मश्रु वापयते ( सत्या. श्रौ.सू ७.१ ) इति सूत्रव्याख्यानावसरे गृहे दीक्षापक्षेऽपि प्राग्वंश आवश्यकः । उत्तरेण प्राग्वंशमिति वचनात्तं प्राग्वंशं प्रपाद्येति वक्ष्यमाणसूत्राच्च । प्रायणीयाद्यर्थं प्राग्वंशो भिन्न एव । ' इति स्पष्टं दीक्षायामपि प्राग्वंशकरणमुक्तम् ।
  26. २५. उखामाहवनीये अधिश्रयति इत्यर्थः । नित्यचितौ एवं प्रयोगः । प्रउगादि काम्यचितौ तु आहवनीयमेवोखायामवदधाति । क्षिपेदाहवनीयाग्निं काम्यं श्येनादिमाचरन् इति प्राचीनकारिका ।
  27. २६. क्रुमुकः काष्ठशकलम् । धनुरादिनिर्लेखनप्रभवः शकलो वा ।
  28. २७. प्रयोगग्रन्थेषु समिदाधानस्य उद्देशत्यागो नोक्तः । विवक्षितं चेदग्नय इदं इति सर्वत्र ब्रूयात् ।
  29. २८. स्कन्धयोः स्थितं कृष्णाजिनं यथा रुक्ममाच्छादयति तथा ।
  30. *. बौधायनेन (बौ.श्रौ.सू. १० - १६) दर्शपूर्णमासवदेव चयन प्रकरणेऽपि विष्णुक्रमणविधानात् अत्रापि दर्शपूर्णमासवदेव विष्णुक्रमणम् ।
  31. २९. ‘आ त्वाहार्षं --- अधिश्रय आहृत्योपतिष्ठते । अग्रे बृहन्नुषसां - - - सद्मान्यप्राः इति च' इति द्रा. प्र. । अत्र आत्वाहार्षमित्याहरणम्, अग्रे बृहन्नुषसामित्युपस्थानमित्यस्मन्मतिः । अस्मिन्विषये भूमिका द्रष्टव्या ।
  32. ३०. मुष्टिकरणप्रभृति इति पाठा० ।
  33. ३१. दिवस्परीत्येकादशभिर्द्वादशभिस्त्रयोदशभिर्वा वात्सप्रेणोपतिष्ठते इति सूत्रम् । अस्मिन्ननुवाके एकादशानां ऋचां विद्यमानत्वात् यदा द्वादशभिस्त्रयोदशभिर्वा उपस्थानं तदा एकादशी आवर्तते ।
  34. ३२. क्वचिन् मातृकाग्रन्थेषु एतदनन्तरं व्रतमुक्तमस्ति । एतन्न साधु भाति, इन्धनव्रतनाध्यवसानसन्निपते घृतानुषिक्तां पूर्वामादधाति इति सूत्रेण देवयजनाध्यवसनावसरे व्रतस्य विहितत्वात् । प्राचीनकरिकायां द्राविडप्रयोगे च तत्रैव व्रतमुक्तम् ।
  35. ३३. यजमानः उख्यमुद्यम्य इति MM पाठः ।
  36. ३४. प्रक्षिप्तभस्मन एकदेशमपादाय इत्यर्थः ।
  37. ३५. मासप्रभृतिषु मासचतुर्मास इत्यादिषु दीक्षाकल्पेषु दीक्षानन्तरमिष्टकाः कार्याः । मासादर्वाक्कालेषु दीक्षाकल्पेषु यथा त्र्यहष्षडह इत्यादिषु प्राजापत्याद्वायव्याद्वा पशोरनन्तरं कार्याः ।
  38. ३६. अत्र कात्यायनसूत्रे " श्वोऽभ्यवहरणादि प्रायश्चित्यन्तं कृत्वा विष्णुक्रमवात्सप्रसमासः । वात्सप्रं कृत्वोपस्थेयं चेत्” (१७.१,२) इति । अस्य विद्याधरव्याख्यानम् - श्वः उपसदां प्रथमेऽहनि सोमक्रयदिने.... पूर्वोक्तयोर्विष्णुक्रम वात्सप्रयोस्समासः एकस्मिन्दिने द्वयोरनुष्ठानं कर्तव्यम् ॥ यदि तस्मिन् क्रयणीयेऽहनि वात्सप्रोपस्थानस्य पर्यायो भवेत् तदा वात्सप्रं कृत्वा वात्सप्रेणोपस्थाय विष्णुक्रमान् वात्सप्रोपस्थानं च कुर्यात् । यदि विष्णुक्रमपर्यायस्तदा विष्णुक्रमान् कृत्वा वात्सप्रोपस्थानम् इति ।
  39. ३७. अत्र दर्शितक्रमस्तु L.M पाठानुसारी कपर्दिभाष्यानुसारी च । आन्ध्रादिप्रयोगपाठेषु सोमपरिवेषणं विष्णुक्रमा वात्सप्रोपस्थानं इति भिन्नक्रमः ।
  40. ३८. व्रजं कृणुध्व ᳪं、 स हि नृपाणो वर्ष्म सीव्यध्वं बहुला पृथूनि । पुरः कृष्णाध्वमायसीरसृष्टामाहुः सुहोच्चमसो दृ ᳪं、हता तं इति पाठान्तरम् ।
  41. ३९. मन्त्रे तयादेवतपाठात् न पुनस्तयादेवतम् ।
  42. ४०. तृतीयायां रीत्यामन्तिमे इष्टके ।
  43. ४१. तृतीयायां रीत्यामाद्येष्टका ।
  44. ४२. विद्वा ᳪं、 अस्य व्रता ध्रुवा वया इवानु रोधसे इति पाठा० ।
  45. ४३. सन्युप्याभिमन्त्रयते इति पाठा० ।
  46. ४४. सुगमोऽयं पाठः क्वचिदुपलभ्यते । चितेरुख्यान्तश्च पुरोऽग्निः इति बहुल: पाठो विद्यते ।
  47. ४५. L.M पाठे उखापूरणानन्तरं संन्युप्ताभिमन्त्रणं विद्यते ।
  48. ४६. ब्रह्मयजमानौ दक्षिणतः स्थितौ उपास्येते इति भाष्यम् । परं तु अस्माभिर्दृष्टप्रयोगग्रन्थेषु एष विषयो नोक्तः ।
  49. ४७. इष्टकानां दक्षिणत इत्यर्थः ।
  50. ४८. ये सीनाः पाशः, ये सीनान् पाशान् इति पाठा० ।
  51. ४९. मृत्यू एकशत ᳪं、 सुवे, मृत्यो एकशत ᳪं、 सुवे, इति पाठा० ।
  52. ५०. अवास्मादेतु निर्ऋतिर्नोर्हास्मा अपि किञ्चन । अगोतां नाष्ट्रां पाप्मान ᳪं、 सर्वं तदवहन्महे ॥ अपास्म नैर्ऋतान्पाशान्मृत्यूनेकशतं च ये । अपास्म ये सिनाः पाशा मृत्यूनेकशत‍ ᳪं、 सुवे ॥ ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तान्, यज्ञस्य मायया सर्वानवयजामहे ॥ इति M.M पाठः ।
  53. ५१. विश्वस्य या जायमानस्य शिरो देवी प्रतिसूरी विचष्टे, विश्वस्य या जायमानस्य वेद शिरश्शिरः प्रतिसूरी विचष्टे, विश्वस्य या जायमानस्य जायमानस्य वेद शिरश्शिरः प्रतिसूरी विचष्टे, इति पाठा० । विश्वस्य या जायमानस्य वेद शिरश्शिरो देवीः प्रति सूरी वि चष्टे इति आन्ध्र प्र. पा. ।
  54. ५२. अत्र केषांचित् पदानामेवं पाठान्तराण्युपलभ्यन्ते । यथा - बिभ्रद्वसुमनाः – बिभ्रद्वसुवनिः । सुमेधाः - सुवर्चाः । सुवर्चा अघोरेण - सुचक्षा अघोरेण । उत्तराणि - उत्तिराणि ।
  55. ५३. ऊर्जं बिभ्रद्वसुनीथः सुमेधा गृहानेमिर्मनसा मोदमानः सुवर्चाः । अघोरेण चक्षुषाह ᳪं、 शिवेन ग्रहाणां पश्यन्वयमुत्तराणि ॥ गृहाणामायुः प्रवयन्ति रामो गृहा अस्माकं प्रतिरन्त्वायुः । गृहानह ᳪं、 सुमनसः प्रपद्येऽवीरघ्नी वीरवतस्सुवीरान् इति M.M पाठः ।
  56. ५४. यूपैकादशिन्यां रथाक्षेण वेदिर्मातव्या इति सामान्यविधिः । साग्निचित्ये क्रतौ यूपैकादशनीपक्षे तु वेदिसम्मितां यूपैकादशिनीं मिनुयात्, ‘वेदिसम्मितां मिनोति,, इति श्रुतेः । कपर्दिभाष्ये च 'यद्यप्येकादशयूपाः तथापि वेदिसम्मितैव । न रथाक्षेण विमानम् । वेदिसम्मिता साग्निचित्ये इति वेदिसम्मिताम्नानात् रथाक्षविमानं न लभ्यते इति ।
  57. ५५. पश्चादर्धक्रमद्वये इति पाठा० ।
  58. ५६. त्यक्त्वा तु पार्श्वयोश्चैवं पादहीनक्रमद्वयम् । इति पाठा० ।
  59. ५७. अरत्निमात्रं मध्ये स्यादुपरवाणां तु लक्षणम् ॥ इति पाठा० ।
  60. ५८. छागेन ते क्रीणानि इति पाठा० ।
  61. ५९. सहस्रदक्षिणापक्षे चतुर्विंशत्या क्रयपक्षः सूत्रकारेण विकल्पेनोक्तः । तत्पक्षे सोमक्रयण्या क्रयणानन्तरं त्रयोविंशत्या गोभिस्ते क्रीणानि । न भूयः । अस्मे चन्द्राणीत्यादि इति प्रयोगक्रमः ॥
  62. ६०. हविष्कृता वाचं विसृज्येति वाजसनेयकम् इति सूत्रकारेण विकल्प उक्तः । अत्र कपर्दिभाष्यम् – आतिथ्यायां हविष्कृता वाचं विसृज्य सोमं च प्रवेश्याग्निं राजानं चान्तरेण मा सञ्चारिष्टेत्येवमन्त्रं कृत्वा अग्निमानाद्याग्निकं सिकताव्यूहनान्तं कृत्वातिथ्या परिसमाप्तिः इति ।
  63. ६१. यूपावटीयतः पश्चादवशिष्य तु सञ्चरम् इति पाठा० । एष सार्धसप्तविधाग्निविषयः । पूर्वोक्तस्यैकविधाग्ने- र्वेदिमानकारिकारीत्या षोडशे शङ्कौ वह्निपुच्छं भवति । तदा शिरोऽग्रयूपयोर्मध्येऽन्तरालमधिकं भवति । विस्तरेणास्य विवेचनं ४७५ पृष्ठे द्रष्टव्यम् ।
  64. ६२. विमानपाशयोर्मध्यं भवेत्प्रक्रमपञ्चकम् ॥ इति पाठा० ।
  65. ६३. पक्षाग्रचतुरस्राणां अग्नीशानदलांस्त्यजेत् ॥ इत्येव मातृकाग्रन्थपाठः । नैषः साधुः । एतदनन्तरश्लोके उच्यमानत्वात् । तस्मात् शुल्बसूत्रतद्व्याख्याऽनुसारोऽयं पाठः कल्पितः ।
  66. ६४. एषः सार्धसप्तविधाग्निविषयः । इतरविधाग्नीनां दण्डप्रमाणानि पूर्वमेव दत्तानि ।
  67. ६५. अयं आन्ध्रपाठानुसारी । अन्यत्र सर्वत्र एवं - त्रीन् प्राचः चतुर उदीचः । पुरुषमात्राणि पक्षपुच्छानि । आत्मा चतुः पुरुषः । अरत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति । एवमुत्तरत उत्तरम् । प्रादेशेन वितस्त्या वा पश्चात्पुच्छम् इति । एष तु प्रकृतिचयनविषयकः । प्रकृतिचयनविषयः भूमिकायां द्रष्टव्यः ।
  68. ६६. कीलालपेशसः इति M.M. पाठः ।
  69. ६७. पृथिवी नेत्वा पृणन् इति पाठा० ।
  70. ६८. अनाप्ता या वः इति पाठादयं वरीयान् । अद्भ्य इदमिति उद्देशत्यागलिङ्गात् ।
  71. ६९. द्विषस्थ रूध्या ऋणया ईयते स्वाहा इति पाठा० ।
  72. ७०. मधुजिह्वा असश्चतः इति पाठा० ।
  73. ७१. सन्ति सेतवस्स्वाहा इति पाठा० ।
  74. ७२. अनुष्टुभमस्था इति पाठा० ।
  75. ७३. पक्षयोः कर्षणस्य विवृतरूपं क्वचिन्मातृकाग्रन्थेषूपलभ्यते । तद्यथा अथैवमेव दक्षिणपक्षाग्रादारभ्य उत्तरपक्षाग्रपर्यन्तम् लाङ्गलं पवीरवं --- अस्मासु धत्तम् इति द्वाभ्यां कृषति । उत्क्षिप्य लाङ्गलं प्रदक्षिणमावर्तयन् कामं कामदुघे- -- प्रजाभ्यः इति जपति । पुनश्च लाङ्गलं इति द्वाभ्यामुत्तरपक्षाग्रादारभ्य दक्षिण पक्षाग्रपर्यन्तं पूर्वकृष्टां सीतां पूर्वेण कृषति । पुनश्च कामं कामदुघे इति उत्क्षिप्य लाङ्गलं प्रदक्षिणमावर्तयन् कामं कामदुघे -- -प्रजाभ्यः इति जपति । पुनश्च लाङ्गलं इति द्वाभ्यां दक्षिणपक्षाग्रादारभ्य उत्तरपक्षाग्रपर्यन्तम् द्वितीयां सीतां पूर्वेण कृषति । ततो न प्रदक्षिणं न कामम् - इति ।
  76. ७४. अस्य कर्षणस्य विवृतरूपं क्वचिन्मातृकाग्रन्थेषूपलभ्यते । तद्यथा - अथ दक्षिणश्रोणिमारभ्य उत्तरांसपर्यन्तं लाङ्गलं पवीरवं --- अस्मासु धत्तम् इति द्वाभ्यां कृषति । प्रदक्षिणमावर्तयन् कामं कामदुघे--- प्रजाभ्यः इति जपति । दक्षिणां श्रोणिं प्राप्य तामारभ्य तामुत्तरेण (कृष्टां सीतामुत्तरेण) उत्तरांसपर्यन्तं लाङ्गलमिति द्वाभ्यां कृषति । पुनः प्रदक्षिणमावर्तयन् काम कामदुघ इति जपति । पुनरुत्क्षिप्य लाङ्गलं दक्षिणां श्रोणिं प्राप्य तामारभ्य तामुत्तरेण (द्वितीयां सीतामुत्तरेण) उत्तरांसपर्यन्तं लाङ्गलमिति द्वाभ्यां कृषति । ततो न प्रदक्षिणं, न कामम् । एवमेव उत्तरां श्रोणिमारभ्य दक्षिणांसपर्यन्तं तिस्रः सीताः कृषति । एवमादित आरभ्य द्वादश सीताः संपद्यन्ते इति ॥
  77. ७५. यदा कर्षणं दक्षिणायै श्रोणेरुत्तरमंसम्, तदनन्तरं उत्तरायै श्रोणे: दक्षिणमंसं तदा दक्षिणेंऽसे उत्सर्गः । विपरीतपक्षे उत्तरेंऽसे उत्सर्गः ।
  78. ७६. मर्कटा इति प्राचीनकारिकापाठः ।
  79. ७७. “ अधिगतायां लब्धायाम् । वपनक्रियायां समाप्तायां यः प्रथम इध्म आगच्छति औपसदः तस्मिन्निध्मे एतां बध्नाति । क्षिपति च इध्मेन सह” इति कपर्दिभाष्यम् ।
  80. ७८. “ये वनस्पतीनां फलग्रहयः फलान्येव (पुष्पमन्तरेण) येषां केवलानि ते वनस्पतयः वटोदुम्बराद्याः । तेषामपि प्रसूतफलास्त इष्यन्ते । तानिध्मे बध्नाति औपसत्के प्रथमे इध्मे । प्रोक्षेदिति इध्मसंस्काराणां प्रदर्शनार्थम् । क्षेपश्च सहेध्मेन' इति कपर्दिभाष्यम् । सायणाचार्यैस्तु एतत्प्रकरणं एवं व्याख्यातं " अत्र अनुप्तस्याप्युप्तत्वसिद्धये वनस्पतीनां मध्ये ये पुष्पमन्तरेण फलं गृह्णन्ति उदुम्बरादयः तानपि आदाय इध्मेन सह सन्नह्य प्रोक्षणं कुर्यात्" इति । कपर्दिमते तु वपनकाले अलब्धानामोषधीनां वपनोत्तरं लब्धानामिध्मेन सह बन्धनम् । फलग्रहीणां वनस्पतीनां तु नित्यमिध्मेन बन्धनम् ।
  81. ७९. कर्षणकाले ये लोष्टाः अग्निक्षेत्रात् बहिर्गताः तानग्निक्षेत्रे पुनः क्षिपतीत्यर्थः ।
  82. ८१. सामिधेनीष्वनूच्यमानासु इध्मेन सह आदधाति इति पाठा० ।
  83. ८२. प्रथमस्याश्चितेरिष्टकासंसादनपक्षे इष्टकाप्रणयनं प्रतिचिति कार्यम् । अपि वा तिस्रः स्वयमातृण्णाः इति पक्षे तु न तथा । सर्वचित्यर्थे आदावेव प्रणीतत्वात् ।
  84. ८३. दर्भग्रुमुष्टिर्नाम प्रभूतो दर्भमुष्टिः । तेन दर्भमुष्टिना आज्येन विविधं अवोक्षणं व्यवोक्षणम् ।
  85. *. 'श्वेताभावे अश्वेते । अश्वाभावे अनडुहि' (कात्या. श्रौ . सू १७ - ३ - २०) इति कात्यायनेन अनुग्रहः दर्शितः ।