अष्टाङ्गहृदयम्/उत्तरस्थानम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अध्याय 01[सम्पाद्यताम्]

जात-मात्रं विशोध्योल्बाद् बालं सैन्धव-सर्पिषा ।
प्रसूति-क्लेशितं चानु बला-तैलेन सेचयेत् ॥ १ ॥

अश्मनोर् वादनं चास्य कर्ण-मूले समाचरेत् ।
अथास्य दक्षिणे कर्णे मन्त्रम् उच्चारयेद् इमम् ॥ २ ॥

अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे ।
आत्मा वै पुत्र-नामासि संजीव शरदां शतम् ॥ ३ ॥

१.३dv संजीव शरदः शतम् शतायुः शत-वर्षो ऽसि दीर्घम् आयुर् अवाप्नुहि ।
नक्षत्राणि दिशो रात्रिर् अहश् च त्वाभिरक्षतु ॥ ४ ॥

१.४dv अहश् चत्वारि रक्षतु स्वस्थी-भूतस्य नाभिं च सूत्रेण चतुर्-अङ्गुलात् ।
बद्ध्वोर्ध्वं वर्धयित्वा च ग्रीवायाम् अवसञ्जयेत् ॥ ५ ॥

१.५cv बद्ध्वोर्ध्वं वर्धयित्वा तु १.५dv ग्रीवायाम् अवसज्जयेत् नाभिं च कुष्ठ-तैलेन सेचयेत् स्नापयेद् अनु ।
क्षीरि-वृक्ष-कषायेण सर्व-गन्धोदकेन वा ॥ ६ ॥

१.६av नाभिं तु कुष्ठ-तैलेन १.६bv सेचयेत् स्नपयेद् अनु कोष्णेन तप्त-रजत-तपनीय-निमज्जनैः ।
ततो दक्षिण-तर्जन्या तालून्नम्यावगुण्ठयेत् ॥ ७ ॥

शिरसि स्नेह-पिचुना प्राश्यं चास्य प्रयोजयेत् ।
हरेणु-मात्रं मेधायुर्-बलार्थम् अभिमन्त्रितम् ॥ ८ ॥

१.८bv प्राशं चास्य प्रयोजयेत् ऐन्द्री-ब्राह्मी-वचा-शङ्खपुष्पी-कल्कं घृतं मधु ।
चामीकर-वचा-ब्राह्मी-ताप्य-पथ्या रजी-कृताः ॥ ९ ॥

१.९dv -कुष्ठ-पथ्या रजी-कृताः लिह्यान् मधु-घृतोपेता हेम-धात्री-रजो ऽथ-वा ।
गर्भाम्भः सैन्धव-वता सर्पिषा वामयेत् ततः ॥ १० ॥

१.१०cv गर्भाम्भः सैन्धव-वचा- १.१०dv -सर्पिषा वामयेत् ततः प्राजापत्येन विधिना जात-कर्माणि कारयेत् ।
सिराणां हृदय-स्थानां विवृत-त्वात् प्रसूतितः ॥ ११ ॥

तृतीये ऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते ।
प्रथमे दिवसे तस्मात् त्रि-कालं मधु-सर्पिषी ॥ १२ ॥

अनन्ता-मिश्रिते मन्त्र-पाविते प्राशयेच् छिशुम् ।
द्वितीये लक्ष्मणा-सिद्धं तृतीये च घृतं ततः ॥ १३ ॥

प्राङ्-निषिद्ध-स्तनस्यास्य तत्-पाणि-तल-संमितम् ।
स्तन्यानु-पानं द्वौ कालौ नव-नीतं प्रयोजयेत् ॥ १४ ॥

मातुर् एव पिबेत् स्तन्यं तद् ध्य् अलं देह-वृद्धये ।
स्तन्य-धात्र्याव् उभे कार्ये तद्-अ-संपदि वत्सले ॥ १५ ॥

१.१५bv तत् परं देह-वृद्धये अ-व्यङ्गे ब्रह्म-चारिण्यौ वर्ण-प्रकृतितः समे ।
नी-रुजे मध्य-वयसौ जीवद्-वत्से न लोलुपे ॥ १६ ॥

हिताहार-विहारेण यत्नाद् उपचरेच् च ते ।
शुक्-क्रोध-लङ्घनायासाः स्तन्य-नाशस्य हेतवः ॥ १७ ॥

स्तन्यस्य सीधु-वर्ज्यानि मद्यान्य् आनूप-जा रसाः ।
क्षीरं क्षीरिण्य ओषध्यः शोकादेश् च विपर्ययः ॥ १८ ॥

१.१८cv क्षीरं क्षीरिण्य् औषधयः विरुद्धाहार-भुक्तायाः क्षुधिताया वि-चेतसः ।
प्रदुष्ट-धातोर् गर्भिण्याः स्तन्यं रोग-करं शिशोः ॥ १९ ॥

१.१९av विरुद्धाहार-चेष्टायाः स्तन्या-भावे पयश् छागं गव्यं वा तद्-गुणं पिबेत् ।
ह्रस्वेन पञ्च-मूलेन स्थिराभ्यां वा सिता-युतम् ॥ २० ॥

१.२०cv मूलैः सिद्धं बृहत्य्-आद्यैः षष्ठीं निशां विशेषेण कृत-रक्षा-बलि-क्रियाः ।
जागृयुर् बान्धवास् तस्य दधतः परमां मुदम् ॥ २१ ॥

दशमे दिवसे पूर्णे विधिभिः स्व-कुलोचितैः ।
कारयेत् सूतिकोत्थानं नाम बालस्य चार्चितम् ॥ २२ ॥

१.२२bv विधि-वत् स्व-कुलोचितैः बिभ्रतो ऽङ्गैर् मनोह्वाल-रोचनागुरु-चन्दनम् ।
नक्षत्र-देवता-युक्तं बान्धवं वा समाक्षरम् ॥ २३ ॥

ततः प्रकृति-भेदोक्त-रूपैर् आयुः-परीक्षणम् ।
प्राग्-उदक्-शिरसः कुर्याद् बालस्य ज्ञान-वान् भिषक् ॥ २४ ॥

शुचि-धौतोपधानानि निर्-वलीनि मृदूनि च ।
शय्यास्तरण-वासांसि रक्षो-घ्नैर् धूपितानि च ॥ २५ ॥

काको विशस्तः शस्तश् च धूपने त्रिवृतान्वितः ।
जीवत्-खड्गादि-शृङ्गोत्थान् सदा बालः शुभान् मणीन् ॥ २६ ॥

१.२६av कङ्को विशस्तः शस्तश् च १.२६cv जीवत्-खड्गादि-शृङ्ग-स्थान् धारयेद् औषधीः श्रेष्ठाः ब्राह्म्य्-ऐन्द्री-जीवकादिकाः ।
हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात् सततं वचाम् ॥ २७ ॥

१.२७av धारयेच् चौषधीः श्रेष्ठा १.२७av धारयेद् औषधीश् चेष्टा आयुर्-मेधा-स्मृति-स्वास्थ्य-करीं रक्षो-ऽभिरक्षिणीम् ।
षट्-सप्ताष्टम-मासेषु नी-रुजस्य शुभे ऽहनि ॥ २८ ॥

१.२८cv षट्-सप्ताष्टसु मासेषु कर्णौ हिमागमे विध्येद् धात्र्य्-अङ्क-स्थस्य सान्त्वयन् ।
प्राग् दक्षिणं कुमारस्य भिषग् वामं तु योषितः ॥ २९ ॥

दक्षिणेन दधत् सूचीं पालीम् अन्येन पाणिना ।
मध्यतः कर्ण-पीठस्य किञ्-चिद् गण्डाश्रयं प्रति ॥ ३० ॥

जरायु-मात्र-प्रच्छन्ने रवि-रश्म्य्-अवभासिते ।
घृतस्य निश्-चलं सम्यग् अलक्तक-रसाङ्किते ॥ ३१ ॥

विध्येद् दैव-कृते च्छिद्रे सकृद् एवर्जु लाघवात् ।
नोर्ध्वं न पार्श्वतो नाधः सिरास् तत्र हि संश्रिताः ॥ ३२ ॥

कालिका-मर्मरी-रक्तास् तद्-व्यधाद् राग-रुग्-ज्वराः ।
स-शोफ-दाह-संरम्भ-मन्या-स्तम्भापतानकाः ॥ ३३ ॥

१.३३bv तद्-बाधाद् राग-रुग्-ज्वराः तेषां यथामयं कुर्याद् विभज्याशु चिकित्सितम् ।
स्थाने व्यधान् न रुधिरं न रुग्-रागादि-संभवः ॥ ३४ ॥

१.३४cv स्थान-व्यधान् न रुधिरं स्नेहाक्तं सूच्य्-अनुस्यूतं सूत्रं चानु निधापयेत् ।
आम-तैलेन सिञ्चेच् च बहलां तद्-वद् आरया ॥ ३५ ॥

विध्येत् पालीं हित-भुजः संचार्याथ स्थवीयसी ।
वर्तिस् त्र्य्-अहात् ततो रूढं वर्धयेत शनैः शनैः ॥ ३६ ॥

१.३६bv संचार्यान्या स्थवीयसी १.३६cv वर्तिस् त्र्य्-अहात् ततो रूढां अथैनं जात-दशनं क्रमेणापनयेत् स्तनात् ।
पूर्वोक्तं योजयेत् क्षीरम् अन्नं च लघु बृंहणम् ॥ ३७ ॥

१.३७av जात-दन्तं शिशुं शीते १.३७bv क्रम-शो ऽपनयेत् स्तनात् प्रियाल-मज्ज-मधुक-मधु-लाज-सितोपलैः ।
अप-स्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः ॥ ३८ ॥

दीपनो बाल-बिल्वैला-शर्करा-लाज-सक्तुभिः ।
संग्राही धातकी-पुष्प-शर्करा-लाज-तर्पणैः ॥ ३९ ॥

रोगांश् चास्य जयेत् सौम्यैर् भेषजैर् अ-विषादकैः ।
अन्य-त्रात्ययिकाद् व्याधेर् विरेकं सु-तरां त्यजेत् ॥ ४० ॥

१.४०bv भेषजैर् अ-विषादिकैः १.४०bv भेषजैर् अ-विपादिकैः १.४०bv भेषजैर् अ-विपादकैः त्रासयेन् ना-विधेयं तं त्रस्तं गृह्णन्ति हि ग्रहाः ।
वस्त्र-वातात् पर-स्पर्शात् पालयेल् लङ्घनाच् च तम् ॥ ४१ ॥

१.४१av त्रासयेन् ना-विधेयं च १.४१cv वस्त्र-पातात् खर-स्पर्शात् १.४१cv वस्त्र-पातात् पर-स्पर्शात् १.४१dv पालयेल् लङ्घिताच् च तम् ब्राह्मी-सिद्धार्थक-वचा-शारिवा-कुष्ठ-सैन्धवैः ।
स-कणैः साधितं पीतं वाङ्-मेधा-स्मृति-कृद् घृतम् ॥ ४२ ॥

आयुष्यं पाप्म-रक्षो-घ्नं भूतोन्माद-निबर्हणम् ।
वचेन्दुलेखा-मण्डूकी-शङ्खपुष्पी-शतावरीः ॥ ४३ ॥

१.४३cv वचेन्दुलेखा मण्डूकी १.४३dv शङ्खपुष्पी शतावरी ब्रह्मसोमामृता-ब्राह्मीः कल्की-कृत्य पलांशिकाः ।
अष्टाङ्गं विपचेत् सर्पिः प्रस्थं क्षीर-चतुर्-गुणम् ॥ ४४ ॥

१.४४av ब्रह्मसोमांर्ता ब्राह्मी १.४४bv कल्की-कृत्य पलांशिकैः १.४४dv प्रस्थं क्षीरं चतुर्-गुणम् तत् पीतं धन्यम् आयुष्यं वाङ्-मेधा-स्मृति-बुद्धि-कृत् ।
अजा-क्षीराभया-व्योष-पाठोग्रा-शिग्रु-सैन्धवैः ॥ ४५ ॥

१.४५bv वाङ्-मेधा-स्मृति-कृत् परम् १.४५bv वाङ्-मेधा-स्मृति-वह्नि-कृत् १.४५dv -पाठोग्रा-शक्र-सैन्धवैः सिद्धं सारस्वतं सर्पिर् वाङ्-मेधा-स्मृति-वह्नि-कृत् ।
वचामृता-शठी-पथ्या-शङ्खिनी-वेल्ल-नागरैः ॥ ४६ ॥

१.४६bv वाङ्-मेधा-स्मृति-बुद्धि-कृत् १.४६cv वचामृता-वरी-पथ्या- अपामार्गेण च घृतं साधितं पूर्व-वद् गुणैः ।
हेम श्वेत-वचा कुष्ठम् अर्कपुष्पी स-काञ्चना ॥ ४७ ॥

१.४७cv हेम श्वेत-वचा कुष्ठं १.४७dv शङ्खपुष्पी स-काञ्चना १.४७dv शङ्खपुष्पी स-रोचना हेम मत्स्याक्षकः शङ्खः कैडर्यः कनकं वचा ।
चत्वार एते पादोक्ताः प्राशा मधु-घृत-प्लुताः ॥ ४८ ॥

१.४८av हेम मत्स्याक्षकः फञ्जी १.४८bv कैडर्यं कनकं वचा १.४८dv प्राश्या मधु-घृत-प्लुताः वर्षं लीढा वपुर्-मेधा-बल-वर्ण-कराः शुभाः ।
वचा-यष्ट्य्-आह्व-सिन्धूत्थ-पथ्या-नागर-दीप्यकैः ॥ ४९ ॥

शुध्यते वाग् घविर्-लीढैः स-कुष्ठ-कण-जीरकैः ॥ ४९ऊ̆अब् ॥
१.४९ऊ̆अव् शुध्यते वाग् घृतालीढैः

अध्याय 02[सम्पाद्यताम्]

त्रि-विधः कथितो बालः क्षीरान्नोभय-वर्तनः ।
स्वास्थ्यं ताभ्याम् अ-दुष्टाभ्यां दुष्टाभ्यां रोग-संभवः ॥ १ ॥

यद् अद्भिर् एक-तां याति न च दोषैर् अधिष्ठितम् ।
तद् विशुद्धं पयो वाताद् दुष्टं तु प्लवते ऽम्भसि ॥ २ ॥

२.२dv दुष्टं तु प्लवते जले कषायं फेनिलं रूक्षं वर्चो-मूत्र-विबन्ध-कृत् ।
पित्ताद् उष्णाम्ल-कटुकं पीत-राज्य् अप्सु दाह-कृत् ॥ ३ ॥

कफात् स-लवणं सान्द्रं जले मज्जति पिच्छिलम् ।
संसृष्ट-लिङ्गं संसर्गात् त्रि-लिङ्गं सांनिपातिकम् ॥ ४ ॥

यथा-स्व-लिङ्गांस् तद् व्याधीन् जनयत्य् उपयोजितम् ।
शिशोस् तीक्ष्णम् अभीक्ष्णं च रोदनाल् लक्षयेद् रुजम् ॥ ५ ॥

२.५cv शिशोस् तीक्ष्णम् अ-तीक्ष्णं च स यं स्पृशेद् भृशं देशं यत्र च स्पर्शना-क्षमः ।
तत्र विद्याद् रुजं मूर्ध्नि रुजं चाक्षि-निमीलनात् ॥ ६ ॥

२.६av स्वयं स्पृशेद् भृशं देशं २.६bv यत्र च स्पर्शना-क्षमम् हृदि जिह्वौष्ठ-दशन-श्वास-मुष्टि-निपीडनैः ।
कोष्ठे विबन्ध-वमथु-स्तन-दंशान्त्र-कूजनैः ॥ ७ ॥

२.७bv -श्वास-मुष्टि-निपीडितैः २.७dv -स्तन्य-द्वेषान्त्र-कूजनैः आध्मान-पृष्ठ-नमन-जठरोन्नमनैर् अपि ।
वस्तौ गुह्ये च विण्-मूत्र-सङ्गोत्त्रास-दिग्-ईक्षणैः ॥ ८ ॥

अथ धात्र्याः क्रियां कुर्याद् यथा-दोषं यथामयम् ।
तत्र वातात्मके स्तन्ये दश-मूलं त्र्य्-अहं पिबेत् ॥ ९ ॥

अथ-वाग्नि-वचा-पाठा-कटुका-कुष्ठ-दीप्यकम् ।
स-भार्गी-दारु-सरल-वृश्चिकाली-कणोषणम् ॥ १० ॥

ततः पिबेद् अन्य-तमं वात-व्याधि-हरं घृतम् ।
अनु चाच्छ-सुराम् एवं स्निग्धां मृदु विरेचयेत् ॥ ११ ॥

२.११bv वात-व्याधि-हितं घृतम् वस्ति-कर्म ततः कुर्यात् स्वेदादींश् चानिलापहान् ।
रास्नाजमोदा-सरल-देवदारु-रजो-ऽन्वितम् ॥ १२ ॥

बालो लिह्याद् घृतं तैर् वा विपक्वं स-सितोपलम् ।
पित्त-दुष्टे ऽमृताभीरु-पटोली-निम्ब-चन्दनम् ॥ १३ ॥

धात्री कुमारश् च पिबेत् क्वाथयित्वा स-शारिवम् ।
अथ-वा त्रि-फला-मुस्त-भूनिम्ब-कटु-रोहिणीः ॥ १४ ॥

शारिवादिं पटोलादिं पद्मकादिं तथा गणम् ।
घृतान्य् एभिश् च सिद्धानि पित्त-घ्नं च विरेचनम् ॥ १५ ॥

शीतांश् चाभ्यङ्ग-लेपादीन् युञ्ज्याच् छ्लेष्मात्मके पुनः ।
यष्ट्य्-आह्व-सैन्धव-युतं कुमारं पाययेद् घृतम् ॥ १६ ॥

सिन्धूत्थ-पिप्पली-मद् वा पिष्टैः क्षौद्र-युतैर् अथ ।
राठ-पुष्पैः स्तनौ लिम्पेच् छिशोश् च दशन-च्छदौ ॥ १७ ॥

२.१७av सिन्धूत्थ-पिप्पली-मद्य- २.१७av सिन्धूत्थ-पिप्पली-मुस्ता- २.१७av सिन्धूत्थ-पिप्पली-मूर्वा- २.१७bv -पिष्टैः क्षौद्र-युतैर् अथ सुखम् एवं वमेद् बालः तीक्ष्णैर् धात्रीं तु वामयेत् ।
अथाचरित-संसर्गी मुस्तादिं क्वथितं पिबेत् ॥ १८ ॥

तद्-वत् तगर-पृथ्वीका-सुरदारु-कलिङ्गकान् ।
अथ-वातिविषा-मुस्त-षड्ग्रन्था-पञ्च-कोलकम् ॥ १९ ॥

२.१९bv -सुरदारु-कलिङ्गकम् २.१९dv -षड्ग्रन्था-पञ्च-कोलकान् स्तन्ये त्रि-दोष-मलिने दुर्-गन्ध्य् आमं जलोपमम् ।
विबद्धम् अच्छं विच्छिन्नं फेनिलं चोपवेश्यते ॥ २० ॥

शकृन् नाना-व्यथा-वर्णं मूत्रं पीतं सितं घनम् ।
ज्वरा-रोचक-तृट्-छर्दि-शुष्कोद्गार-विजृम्भिकाः ॥ २१ ॥

अङ्ग-भङ्गो ऽङ्ग-विक्षेपः कूजनं वेपथुर् भ्रमः ।
घ्राणाक्षि-मुख-पाकाद्या जायन्ते ऽन्ये ऽपि तं गदम् ॥ २२ ॥

२.२२bv क्वणनं वेपथुर् भ्रमः क्षीरालसकम् इत्य् आहुर् अत्ययं चाति-दारुणम् ।
तत्राशु धात्रीं बालं च वमनेनोपपादयेत् ॥ २३ ॥

विहितायां च संसर्ग्यां वचादिं योजयेद् गणम् ।
निशादिं वाथ-वा माद्री-पाठा-तिक्ता-घनामयान् ॥ २४ ॥

पाठा-शुण्ठ्य्-अमृता-तिक्त-तिक्ता-देवाह्व-शारिवाः ।
स-मुस्त-मूर्वेन्द्रयवाः स्तन्य-दोष-हराः परम् ॥ २५ ॥

अनुबन्धे यथा-व्याधि प्रतिकुर्वीत काल-वित् ।
दन्तोद्भेदश् च रोगाणां सर्वेषाम् अपि कारणम् ॥ २६ ॥

विशेषाज् ज्वर-विड्-भेद-कास-च्छर्दि-शिरो-रुजाम् ।
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते ॥ २७ ॥

पृष्ठ-भङ्गे बिडालानां बर्हिणां च शिखोद्भवे ।
दन्तोद्भेदे च बालानां न हि किञ्-चिन् न दूयते ॥ २८ ॥

२.२८cv दन्तोद्भवे च बालानां यथा-दोषं यथा-रोगं यथोद्रेकं यथा-भयम् ।
विभज्य देश-कालादींस् तत्र योज्यं भिषग्-जितम् ॥ २९ ॥

२.२९bv यथोद्रेकं यथा-बलम् २.२९bv यथोद्रेकं यथा-वयः २.२९bv यथोद्रेकं यथाशयम् त एव दोषा दूष्याश् च ज्वराद्या व्याधयश् च यत् ।
अतस् तद् एव भैषज्यं मात्रा त्व् अस्य कनीयसी ॥ ३० ॥

२.३०bv ज्वराद्या व्याधयश् च ते सौकुमार्याल्प-काय-त्वात् सर्वान्नान्-उपसेवनात् ।
स्निग्धा एव सदा बाला घृत-क्षीर-निषेवणात् ॥ ३१ ॥

२.३१bv सर्वान्नान्-उपसेवनैः सद्यस् तान् वमनं तस्मात् पाययेन् मति-मान् मृदु ।
स्तन्यस्य तृप्तं वमयेत् क्षीर-क्षीरान्न-सेविनम् ॥ ३२ ॥

पीत-वन्तं तनुं पेयाम् अन्नादं घृत-संयुताम् ।
वस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनम् ॥ ३३ ॥

युञ्ज्याद् विरेचनादींस् तु धात्र्या एव यथोदितान् ।
मूर्वा-व्योष-वरा-कोल-जम्बू-त्वग्-दारु-सर्षपाः ॥ ३४ ॥

२.३४av युञ्ज्याद् विरेचनादींश् च २.३४cv मूर्वा-व्योष-वचा-कोल- २.३४cv मूर्वा-व्योष-वराङ्कोल्ल- स-पाठा मधुना लीढाः स्तन्य-दोष-हराः परम् ।
दन्त-पालीं स-मधुना चूर्णेन प्रतिसारयेत् ॥ ३५ ॥

२.३५bv स्तन्य-दोष-निबर्हणाः पिप्पल्या धातकी-पुष्प-धात्री-फल-कृतेन वा ।
लाव-तित्तिरि-वल्लूर-रजः पुष्प-रस-द्रुतम् ॥ ३६ ॥

२.३६bv -धात्री-फल-रसेन वा २.३६dv -रजः पुष्प-रस-प्लुतम् २.३६dv -रजः पुष्प-रसाप्लुतम् द्रुतं करोति बालानां दन्त-केसर-वन् मुखम् ।
वचा-द्वि-बृहती-पाठा-कटुकातिविषा-घनैः ॥ ३७ ॥

मधुरैश् च घृतं सिद्धं सिद्धं दशन-जन्मनि ।
रजनी-दारु-सरल-श्रेयसी-बृहती-द्वयम् ॥ ३८ ॥

२.३८cv रजनी-दारु-सरलाः २.३८dv श्रेयसी-बृहती-द्वयम् पृश्निपर्णी शताह्वा च लीढं माक्षिक-सर्पिषा ।
ग्रहणी-दीपनं श्रेष्ठं मारुतस्यानुलोमनम् ॥ ३९ ॥

अतीसार-ज्वर-श्वास-कामला-पाण्डु-कास-नुत् ।
बालस्य सर्व-रोगेषु पूजितं बल-वर्ण-दम् ॥ ४० ॥

२.४०bv -कामला-पाण्डु-रोग-नुत् समङ्गा-धातकी-लोध्र-कुटन्नट-बला-द्वयैः ।
महा-सहा-क्षुद्र-सहा-मुद्ग-बिल्व-शलाटुभिः ॥ ४१ ॥

२.४१bv -कुटन्नट-बलाह्वयैः २.४१bv -कुटन्नट-वटाह्वयैः स-कार्पासी-फलैस् तोये साधितैः साधितं घृतम् ।
क्षीर-मस्तु-युतं हन्ति शीघ्रं दन्तोद्भवोद्भवान् ॥ ४२ ॥

विविधान् आमयान् एतद् वृद्ध-काश्यप-निर्मितम् ।
दन्तोद्भवेषु रोगेषु न बालम् अतियन्त्रयेत् ॥ ४३ ॥

२.४३cv दन्तोद्भेदोत्थ-रोगेषु स्वयम् अप्य् उपशाम्यन्ति जात-दन्तस्य यद्-गदाः ।
अत्य्-अहः-स्वप्न-शीताम्बु-श्लैष्मिक-स्तन्य-सेविनः ॥ ४४ ॥

२.४४dv -श्लैष्मिक-स्तन्य-पायिनः शिशोः कफेन रुद्धेषु स्रोतःसु रस-वाहिषु ।
अ-रोचकः प्रतिश्यायो ज्वरः कासश् च जायते ॥ ४५ ॥

कुमारः शुष्यति ततः स्निग्ध-शुक्ल-मुखेक्षणः ।
सैन्धव-व्योष-शार्ङ्गष्टा-पाठा-गिरि-कदम्बकान् ॥ ४६ ॥

२.४६dv -पाठा-गिरि-कदम्बकम् शुष्यतो मधु-सर्पिर्भ्याम् अ-रुच्य्-आदिषु योजयेत् ।
अशोक-रोहिणी-युक्तं पञ्च-कोलं च चूर्णितम् ॥ ४७ ॥

बदरी-धातकी-धात्री-चूर्णं वा सर्पिषा द्रुतम् ।
स्थिरा-वचा-द्वि-बृहती-काकोली-पिप्पली-नतैः ॥ ४८ ॥

२.४८bv -चूर्णं वा सर्पिषाप्लुतम् निचुलोत्पल-वर्षाभू-भार्गी-मुस्तैश् च कार्षिकैः ।
सिद्धं प्रस्थार्धम् आज्यस्य स्रोतसां शोधनं परम् ॥ ४९ ॥

सिंह्य्-अश्वगन्धा-सुरसा-कणा-गर्भं च तद्-गुणम् ।
यष्ट्य्-आह्व-पिप्पली-लोध्र-पद्मकोत्पल-चन्दनैः ॥ ५० ॥

तालीश-शारिवाभ्यां च साधितं शोष-जिद् घृतम् ।
शृङ्गी-मधूलिका-भार्गी-पिप्पली-देवदारुभिः ॥ ५१ ॥

अश्वगन्धा-द्वि-काकोली-रास्नर्षभक-जीवकैः ।
शूर्पपर्णी-विडङ्गैश् च कल्कितैः साधितं घृतम् ॥ ५२ ॥

शशोत्तमाङ्ग-निर्यूहे शुष्यतः पुष्टि-कृत् परम् ।
वचा-वयःस्था-तगर-कायस्था-चोरकैः शृतम् ॥ ५३ ॥

बस्त-मूत्र-सुराभ्यां च तैलम् अभ्यञ्जने हितम् ।
लाक्षा-रस-समं तैल-प्रस्थं मस्तु चतुर्-गुणम् ॥ ५४ ॥

२.५४bv तैलान् मस्तु चतुर्-गुणम् २.५४cv लाक्षा-रस-समं तैलं २.५४dv प्रस्थं मस्तु चतुर्-गुणम् अश्वगन्धा-निशा-दारु-कौन्ती-कुष्ठाब्द-चन्दनैः ।
स-मूर्वा-रोहिणी-रास्ना-शताह्वा-मधुकैः समैः ॥ ५५ ॥

सिद्धं लाक्षादिकं नाम तैलम् अभ्यञ्जनाद् इदम् ।
बल्यं ज्वर-क्षयोन्माद-श्वासापस्मार-वात-नुत् ॥ ५६ ॥

यक्ष-राक्षस-भूत-घ्नं गर्भिणीनां च शस्यते ।
मधुनातिविषा-शृङ्गी-पिप्पलीर् लेहयेच् छिशुम् ॥ ५७ ॥

एकां वातिविषां कास-ज्वर-च्छर्दिर्-उपद्रुतम् ।
पीतं पीतं वमति यः स्तन्यं तं मधु-सर्पिषा ॥ ५८ ॥

२.५८bv -ज्वर-च्छर्दिभिर् अर्दितम् २.५८cv पीतं पीतं च वमति २.५८dv यः स्तन्यं मधु-सर्पिषा द्वि-वार्ताकी-फल-रसं पञ्च-कोलं च लेहयेत् ।
पिप्पली-पञ्च-लवणं कृमिजित्-पारिभद्रकम् ॥ ५९ ॥

२.५९cv पिप्पली-पञ्च-लवण- २.५९dv -कृमिजित्-पारिभद्रकम् २.५९dv विडङ्गं पारिभद्रकम् तद्-वल् लिह्यात् तथा व्योषं मषीं वा रोम-चर्मणाम् ।
लाभतः शल्यक-श्वाविद्-गोधर्क्ष-शिखि-जन्मनाम् ॥ ६० ॥

खदिरार्जुन-तालीश-कुष्ठ-चन्दन-जे रसे ।
स-क्षीरं साधितं सर्पिर् वमथुं विनियच्छति ॥ ६१ ॥

हनु-मूल-गतो वायुर् दन्त-देशास्थि-गो-चरः ।
यदा शिशोः प्रकुपितो नोत्तिष्ठन्ति तदा द्वि-जाः ॥ ६१+(१) ॥
२.६१+(१)अव् हनु-मूलाश्रितो वायुर् २.६१+(१)ब्व् दन्त-देशान् विशोषयेत् २.६१+(१)ब्व् दन्त-देशान् विशोधयेत् रूक्षाशिनो वातिकस्य चालयत्य् अनिलः सिराः ।
हन्व्-आश्रयाः प्रसुप्तस्य दन्तैः शब्दं करोत्य् अतः ॥ ६१+(२) ॥
स-दन्तो जायते यस् तु दन्ताः प्राग् यस्य चोत्तराः ।
कुर्वीत तस्मिन्न् उत्पाते शान्तिं तं च द्वि-जातये ॥ ६२ ॥

२.६२dv शान्तिकं च द्वि-जातये दद्यात् स-दक्षिणं बालं नैगमेषं च पूजयेत् ।
तालु-मांसे कफः क्रुद्धः कुरुते तालु-कण्टकम् ॥ ६३ ॥

२.६३bv सैनिकेशं च पूजयेत् तेन तालु-प्रदेशस्य निम्न-ता मूर्ध्नि जायते ।
तालु-पातः स्तन-द्वेषः कृच्छ्रात् पानं शकृद्-द्रवम् ॥ ६४ ॥

तृड्-आस्य-कण्ड्व्-अक्षि-रुजा ग्रीवा-दुर्-धर-ता वमिः ।
तत्रोत्क्षिप्य यव-क्षार-क्षौद्राभ्यां प्रतिसारयेत् ॥ ६५ ॥

तालु तद्-वत् कणा-शुण्ठी-गो-शकृद्-रस-सैन्धवैः ।
शृङ्गवेर-निशा-भृङ्गं कल्कितं वट-पल्लवैः ॥ ६६ ॥

बद्ध्वा गो-शकृता लिप्तम् कुकूले स्वेदयेत् ततः ।
रसेन लिम्पेत् ताल्व्-आस्यं नेत्रे च परिषेचयेत् ॥ ६७ ॥

हरीतकी-वचा-कुष्ठ-कल्कं माक्षिक-संयुतम् ।
पीत्वा कुमारः स्तन्येन मुच्यते तालु-कण्टकात् ॥ ६८ ॥

मलोपलेपात् स्वेदाद् वा गुदे रक्त-कफोद्भवः ।
ताम्रो व्रणो ऽन्तः कण्डू-मान् जायते भूर्य्-उपद्रवः ॥ ६९ ॥

के-चित् तं मातृका-दोषं वदन्त्य् अन्ये ऽहि-पूतनम् ।
पृष्ठारुर् गुद-कुट्टं च के-चिच् च तम् अ-नामिकम् ॥ ७० ॥

२.७०av के-चिच् च तम् अ-नामकम् २.७०bv वदन्त्य् अन्ये ऽपि पूतनम् २.७०bv वदन्त्य् अन्ये तु पूतनम् २.७०ब्च् वदन्त्य् अन्ये हि पूतनम् २.७०cv पृष्ठारुर् गुद-कण्डूं च २.७०cv पृष्ठारुर् गुद-किट्टं च २.७०cv पृष्ठारुर् गुद-कुष्ठं च तत्र धात्र्याः पयः शोध्यं पित्त-श्लेष्म-हरौषधैः ।
शृत-शीतं च शीताम्बु-युक्तम् अन्तर-पानकम् ॥ ७१ ॥

२.७१cv सित-शीतं च शीताम्बु- स-क्षौद्र-तार्क्ष्य-शैलेन व्रणं तेन च लेपयेत् ।
त्रि-फला-बदरी-प्लक्ष-त्वक्-क्वाथ-परिषेचितम् ॥ ७२ ॥

कासीस-रोचना-तुत्थ-मनोह्वाल-रसाञ्जनैः ।
लेपयेद् अम्ल-पिष्टैर् वा चूर्णितैर् वावचूर्णयेत् ॥ ७३ ॥

सु-श्लक्ष्णैर् अथ-वा यष्टी-शङ्ख-सौवीरकाञ्जनैः ।
शारिवा-शङ्खनाभिभ्याम् असनस्य त्वचाथ-वा ॥ ७४ ॥

राग-कण्डूत्कटे कुर्याद् रक्त-स्रावं जलौकसा ।
सर्वं च पित्त-व्रण-जिच् छस्यते गुद-कुट्टके ॥ ७५ ॥

२.७५dv छस्यते गुद-किट्टके पाठा-वेल्ल-द्वि-रजनी-मुस्त-भार्गी-पुनर्नवैः ।
स-बिल्व-त्र्य्-ऊषणैः सर्पिः वृश्चिकाली-युतैः शृतम् ॥ ७६ ॥

लिहानो मात्रया रोगैर् मुच्यते मृत्तिकोद्भवैः ॥ ७७अब् ॥
व्याधेर् यद्य् अस्य भैषज्यं स्तनस् तेन प्रलेपितः ॥ ७७च्द् ॥
स्थितो मुहूर्तं धौतो ऽनु पीतस् तं तं जयेद् गदम् ॥ ७७एf ॥
२.७७fव् पीतस् तत् तं जयेद् गदम्

अध्याय 03[सम्पाद्यताम्]

पुरा गुहस्य रक्षार्थं निर्मिताः शूल-पाणिना ।
मनुष्य-विग्रहाः पञ्च सप्त स्त्री-विग्रहा ग्रहाः ॥ १ ॥

स्कन्दो विशाखो मेषाख्यः श्व-ग्रहः पितृ-संज्ञितः ।
शकुनिः पूतना शीत-पूतना-दृष्टि-पूतना ॥ २ ॥

३.२av स्कन्दो विशाखो मेषास्यः मुख-मण्डितिका तद्-वद् रेवती शुष्क-रेवती ।
तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः ॥ ३ ॥

३.३av मुख-मण्डनिका तद्-वद् ३.३av मुख-मण्डिनिका तद्-वद् सामान्यं रूपम् उत्त्रास-जृम्भा-भ्रू-क्षेप-दीन-ताः ।
फेन-स्रावोर्ध्व-दृष्ट्य्-ओष्ठ-दन्त-दंश-प्रजागराः ॥ ४ ॥

३.४bv -जृम्भा-भ्रूत्क्षेप-दीन-ताः रोदनं कूजनं स्तन्य-विद्वेषः स्वर-वैकृतम् ।
नखैर् अ-कस्मात् परितः स्व-धात्र्य्-अङ्ग-विलेखनम् ॥ ५ ॥

तत्रैक-नयन-स्रावी शिरो विक्षिपते मुहुः ।
हतैक-पक्षः स्तब्धाङ्गः स-स्वेदो नत-कन्धरः ॥ ६ ॥

३.६bv शिरो विक्षेपते मुहुः ३.६bv शिरो विक्षिप्यते मुहुः दन्त-खादी स्तन-द्वेषी त्रस्यन् रोदिति वि-स्वरम् ।
वक्र-वक्त्रो वमन् लालां भृशम् ऊर्ध्वं निरीक्षते ॥ ७ ॥

३.७bv त्रसन् रोदिति वि-स्वरम् ३.७cv वक्र-वक्त्रो वमेल् लालां वसासृग्-गन्धिर् उद्विग्नो बद्ध-मुष्टि-शकृच् छिशुः ।
चलितैकाक्षि-गण्ड-भ्रूः संरक्तोभय-लोचनः ॥ ८ ॥

स्कन्दार्तस् तेन वैकल्यं मरणं वा भवेद् ध्रुवम् ।
संज्ञा-नाशो मुहुः केश-लुञ्चनं कन्धरा-नतिः ॥ ९ ॥

३.९bv मरणं वा भवेद् द्रुतम् ३.९cv संज्ञा-नाशो भवेत् केश- विनम्य जृम्भमाणस्य शकृन्-मूत्र-प्रवर्तनम् ।
फेनोद्वमनम् ऊर्ध्वेक्षा हस्त-भ्रू-पाद-नर्तनम् ॥ १० ॥

स्तन-स्व-जिह्वा-संदंश-संरम्भ-ज्वर-जागराः ।
पूय-शोणित-गन्धश् च स्कन्दापस्मार-लक्षणम् ॥ ११ ॥

आध्मानं पाणि-पादस्य स्पन्दनं फेन-निर्वमः ।
तृण्-मुष्टि-बन्धातीसार-स्वर-दैन्य-वि-वर्ण-ताः ॥ १२ ॥

३.१२av आध्मानं पाणि-पादास्य- ३.१२bv -स्पन्दनं फेन-निर्वमः ३.१२bv स्पन्दनं फेन-निर्गमः ३.१२bv स्पन्दनं हननं भ्रमः कूजनं स्तननं छर्दिः कास-हिध्मा-प्रजागराः ।
ओष्ठ-दंशाङ्ग-संकोच-स्तम्भ-बस्ताभ-गन्ध-ताः ॥ १३ ॥

३.१३av कूजनं श्वसनं छर्दिः ३.१३av कूजनं स्तम्भनं छर्दिः ३.१३av कूजनं स्वननं छर्दिः ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः ।
मूर्छैक-नेत्र-शोफश् च नैगमेष-ग्रहाकृतिः ॥ १४ ॥

कम्पो हृषित-रोम-त्वं स्वेदश् चक्षुर्-निमीलनम् ।
बहिर्-आयामनं जिह्वा-दंशो ऽन्तः-कण्ठ-कूजनम् ॥ १५ ॥

३.१५av कम्पो हर्षित-रोम-त्वं धावनं विट्-स-गन्ध-त्वं क्रोशनं च श्व-वच् छुनि ।
रोम-हर्षो मुहुस् त्रासः सहसा रोदनं ज्वरः ॥ १६ ॥

३.१६bv क्रोशनं श्वान-वच् छुनि ३.१६cv रोम-हर्षो मुहुः श्वासः कासातीसार-वमथु-जृम्भा-तृट्-शव-गन्ध-ताः ।
अङ्गेष्व् आक्षेप-विक्षेप-शोष-स्तम्भ-वि-वर्ण-ताः ॥ १७ ॥

मुष्टि-बन्धः स्रुतिश् चाक्ष्णोर् बालस्य स्युः पितृ-ग्रहे ।
स्रस्ताङ्ग-त्वम् अतीसारो जिह्वा-तालु-गले व्रणाः ॥ १८ ॥

स्फोटाः स-दाह-रुक्-पाकाः संधिषु स्युः पुनः पुनः ।
निश्य् अह्नि प्रविलीयन्ते पाको वक्त्रे गुदे ऽपि वा ॥ १९ ॥

भयं शकुनि-गन्ध-त्वं ज्वरश् च शकुनि-ग्रहे ।
पूतनायां वमिः कम्पस् तन्द्रा रात्रौ प्रजागरः ॥ २० ॥

हिध्माध्मानं शकृद्-भेदः पिपासा मूत्र-निग्रहः ।
स्रस्त-हृष्टाङ्ग-रोम-त्वं काक-वत् पूति-गन्धि-ता ॥ २१ ॥

शीत-पूतनया कम्पो रोदनं तिर्यग्-ईक्षणम् ।
तृष्णान्त्र-कूजो ऽतीसारो वसा-वद् विस्र-गन्ध-ता ॥ २२ ॥

पार्श्वस्यैकस्य शीत-त्वम् उष्ण-त्वम् अपरस्य च ।
अन्ध-पूतनया छर्दिर् ज्वरः कासो ऽल्प-निद्र-ता ॥ २३ ॥

३.२३dv ज्वरः कासो ऽल्प-वह्नि-ता वर्चसो भेद-वैवर्ण्य-दौर्गन्ध्यान्य् अङ्ग-शोषणम् ।
दृष्टेः सादाति-रुक्-कण्डू-पोथकी-जन्म-शून-ताः ॥ २४ ॥

३.२४cv दृष्टि-प्रसादो रुक्-कण्डू- ३.२४cv दृष्टि-सादो ऽक्षि-रुक्-कण्डू- ३.२४cv दृष्टि-सादो ऽति-रुक् कण्डूः ३.२४cv दृष्टि-सादो ऽति-रुक्-कण्डू- ३.२४cv दृष्टेः सादो ऽक्षि-रुक्-कण्डू- ३.२४dv पोथकी-जन्म शून-ता ३.२४dv -पोथकी-जन्म शून-ता ३.२४dv -पोथकी-जन्म शून्य-ता हिध्मोद्वेग-स्तन-द्वेष-वैवर्ण्य-स्वर-तीक्ष्ण-ताः ।
वेपथुर् मत्स्य-गन्ध-त्वम् अथ-वा साम्ल-गन्ध-ता ॥ २५ ॥

३.२५bv -वैवर्ण्यं स्वर-तीक्ष्ण-ता ३.२५cv वमथुर् मत्स्य-गन्ध-त्वम् मुख-मण्डितया पाणि-पादास्य-रमणीय-ता ।
सिराभिर् असिताभाभिर् आचितोदर-ता ज्वरः ॥ २६ ॥

३.२६av मुख-मण्डिकया पाणि- ३.२६bv -पादस्य रमणीय-ता अ-रोचको ऽङ्ग-ग्लपनं गो-मूत्र-सम-गन्ध-ता ।
रेवत्यां श्याव-नील-त्वं कर्ण-नासाक्षि-मर्दनम् ॥ २७ ॥

३.२७cv रेवत्या श्याव-नील-त्वं कास-हिध्माक्षि-विक्षेप-वक्र-वक्त्र-त्व-रक्त-ताः ।
बस्त-गन्धो ज्वरः शोषः पुरीषं हरितं द्रवम् ॥ २८ ॥

जायते शुष्क-रेवत्यां क्रमात् सर्वाङ्ग-संक्षयः ।
केश-शातो ऽन्न-विद्वेषः स्वर-दैन्यं वि-वर्ण-ता ॥ २९ ॥

३.२९av जायते शुष्क-रेवत्या नाना-वर्ण-पुरीष-त्वम् उदरे ग्रन्थयः सिराः ॥ २९+१अब् ॥
रोदनं गृध्र-गन्ध-त्वं दीर्घ-कालानुवर्तनम् ।
उदरे ग्रन्थयो वृत्ता यस्य नाना-विधं शकृत् ॥ ३० ॥

जिह्वाया निम्न-ता मध्ये श्यावं तालु च तं त्यजेत् ।
भुञ्जानो ऽन्नं बहु-विधं यो बालः परिहीयते ॥ ३१ ॥

३.३१av जिह्वायां निम्न-ता मध्ये तृष्णा-गृहीतः क्षामाक्षो हन्ति तं शुष्क-रेवती ।
हिंसा-रत्य्-अर्चनाकाङ्क्षा ग्रह-ग्रहण-कारणम् ॥ ३२ ॥

तत्र हिंसात्मके बालो महान् वा स्रुत-नासिकः ।
क्षत-जिह्वः क्वणेद् बाढम् अ-सुखी साश्रु-लोचनः ॥ ३३ ॥

३.३३cv क्षत-जिह्वः क्वणन् बाढम् ३.३३cv क्षत-जिह्वः क्वणेद् गाढम् ३.३३cv क्षत-जिह्वो वमेद् बाढम् ३.३३dv अ-सुखी सास्र-लोचनः दुर्-वर्णो हीन-वचनः पूति-गन्धिश् च जायते ।
क्षामो मूत्र-पुरीषं स्वं मृद्नाति न जुगुप्सते ॥ ३४ ॥

३.३४bv पूति-गन्धिस् तु जायते ३.३४dv गृह्णाति न जुगुप्सते हस्तौ चोद्यम्य संरब्धो हन्त्य् आत्मानं तथा परम् ।
तद्-वच् च शस्त्र-काष्ठाद्यैर् अग्निं वा दीप्तम् आविशेत् ॥ ३५ ॥

३.३५av हस्तौ चोद्यम्य संक्रुद्धो अप्सु मज्जेत् पतेत् कूपे कुर्याद् अन्यच् च तद्-विधम् ।
तृड्-दाह-मोहान् पूयस्य च्छर्दनं च प्रवर्तयेत् ॥ ३६ ॥

३.३६cv तृड्-दाह-मोहाः पूयस्य रक्तं च सर्व-मार्गेभ्यो रिष्टोत्पत्तिं च तं त्यजेत् ।
रहः-स्त्री-रति-संलाप-गन्ध-स्रग्-भूषण-प्रियः ॥ ३७ ॥

३.३७bv रिष्टोत्पत्तिश् च तं त्यजेत् हृष्टः शान्तश् च दुः-साध्यो रति-कामेन पीडितः ।
दीनः परिमृशन् वक्त्रं शुष्कौष्ठ-गल-तालुकः ॥ ३८ ॥

३.३८cv दीनः परिमृशेद् वक्त्रं शङ्कितं वीक्षते रौति ध्यायत्य् आयाति दीन-ताम् ।
अन्नम् अन्नाभिलाषे ऽपि दत्तं नाति बुभुक्षते ॥ ३९ ॥

गृहीतं बलि-कामेन तं विद्यात् सुख-साधनम् ।
हन्तु-कामं जयेद् धोमैः सिद्ध-मन्त्र-प्रवर्तितैः ॥ ४० ॥

३.४०av गृहीतं मह-कामेन इतरौ तु यथा-कामं रति-बल्य्-आदि-दानतः ।
अथ साध्य-ग्रहं बालं विविक्ते शरणे स्थितम् ॥ ४१ ॥

त्रिर् अह्नः सिक्त-संमृष्टे सदा संनिहितानले ।
विकीर्ण-भूति-कुसुम-पत्त्र-बीजान्न-सर्षपे ॥ ४२ ॥

३.४२av त्रिर् अह्नं सिक्त-संमृष्टे ३.४२av त्रिर् अह्नः सिक्त-संसृष्टे ३.४२av त्रिर् अह्नि सिक्त-संमृष्टे ३.४२av त्रिर् अह्नि सिक्त-संसृष्टे ३.४२cv विकीर्ण-भूरि-कुसुम- रक्षो-घ्न-तैल-ज्वलित-प्रदीप-हत-पाप्मनि ।
व्यवाय-मद्य-पिशित-निवृत्त-परिचारके ॥ ४३ ॥

३.४३bv -प्रदीपे हत-पाप्मनि पुराण-सर्पिषाभ्यक्तं परिषिक्तं सुखाम्बुना ।
साधितेन बला-निम्ब-वैजयन्ती-नृपद्रुमैः ॥ ४४ ॥

पारिभद्रक-कट्वङ्ग-जम्बू-वरुण-कट्तृणैः ।
कपोतवङ्कापामार्ग-पाटला-मधु-शिग्रुभिः ॥ ४५ ॥

३.४५dv -पाटली-मधुशिग्रुभिः ३.४५dv -मालती-मधुशिग्रुभिः काकजङ्घा-महाश्वेता-कपित्थ-क्षीरि-पादपैः ।
स-कदम्ब-करञ्जैश् च धूपं स्नातस्य चाचरेत् ॥ ४६ ॥

३.४६bv -कपित्थ-क्षीर-पादपैः द्वीपि-व्याघ्राहि-सिंहर्क्ष-चर्मभिर् घृत-मिश्रितैः ।
पूति-दशाङ्ग-सिद्धार्थ-वचा-भल्लात-दीप्यकैः ॥ ४७ ॥

३.४७cv पूति-दशाङ्गी-सिद्धार्थ- स-कुष्ठैः स-घृतैर् धूपः सर्व-ग्रह-विमोक्षणः ।
सर्षपा निम्ब-पत्त्राणि मूलम् अश्वखुरा वचा ॥ ४८ ॥

३.४८av स-कुष्ठैः साधितो धूपः ३.४८dv मूत्रम् अश्वखुरा वचा ३.४८dv मूलम् अश्वखुरं वचा भूर्ज-पत्त्रं घृतं धूपः सर्व-ग्रह-निवारणः ।
अनन्ताम्रास्थि-तगरं मरिचं मधुरो गणः ॥ ४९ ॥

३.४९bv सर्व-ग्रह-निबर्हणः ३.४९cv अनन्ताम्रास्थि-तगर- ३.४९dv -मरिचं मधुरो गणः शृगालविन्ना मुस्ता च कल्कितैस् तैर् घृतं पचेत् ।
दश-मूल-रस-क्षीर-युक्तं तद् ग्रह-जित् परम् ॥ ५० ॥

रास्ना-द्व्य्-अंशुमती-वृद्ध-पञ्च-मूल-बला-घनात् ।
क्वाथे सर्पिः पचेत् पिष्टैः शारिवा-व्योष-चित्रकैः ॥ ५१ ॥

३.५१av रास्ना-द्व्य्-अंशुमती-पत्त्र- ३.५१av रास्ना-द्व्य्-अंशुमती-लोध्र- ३.५१bv -पञ्च-मूल-वचा-घनात् पाठा-विडङ्ग-मधुक-पयस्या-हिङ्गु-दारुभिः ।
स-ग्रन्थिकैः सेन्द्रयवैः शिशोस् तत् सततं हितम् ॥ ५२ ॥

३.५२dv शिशोस् तु सततं हितम् सर्व-रोग-ग्रह-हरं दीपनं बल-वर्ण-दम् ।
शारिवा-सुरभि-ब्राह्मी-शङ्खिनी-कुष्ठ-सर्षपैः ॥ ५३ ॥

३.५३bv दीपनं बल-वर्धनम् ३.५३dv -शङ्खिनी-कृष्ण-सर्षपैः वचाश्वगन्धा-सुरस-युक्तैः सर्पिर् विपाचयेत् ।
तन् नाशयेद् ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च ॥ ५४ ॥

३.५४av वचाश्वगन्धा-सुरसा- गो-शृङ्ग-चर्म-वालाहि-निर्मोकं वृष-दंश-विट् ।
निम्ब-पत्त्राज्य-कटुका-मदनं बृहती-द्वयम् ॥ ५५ ॥

३.५५av गो-शृङ्ग-चर्म-वालास्थि- ३.५५av गो-शृङ्ग-रोम-वालाहि- कार्पासास्थि-यव-च्छाग-रोम-देवाह्व-सर्षपम् ।
मयूर-पत्त्र-श्रीवासं तुष-केशं स-रामठम् ॥ ५६ ॥

३.५६av कार्पासास्थि-यव-वचा- ३.५६av कार्पासास्थि-वचा-बिल्व- ३.५६av कार्पासास्थि-वचा-लोध्र- ३.५६av मयूर-पिच्छ-श्रीवास- ३.५६av मयूर-पिच्छ-श्रीवासं ३.५६bv -लोध्र-देवाह्व-सर्षपम् ३.५६bv -देवाह्वं यव-सर्षपम् ३.५६cv मयूर-पत्त्र-श्रीवास- ३.५६dv -नर-केशं स-रामठम् मृद्-भाण्डे बस्त-मूत्रेण भावितं श्लक्ष्ण-चूर्णितम् ।
धूपनं च हितं सर्व-भूतेषु विषम-ज्वरे ॥ ५७ ॥

३.५७cv धूपनार्थं हितं सर्व- घृतानि भूत-विद्यायां वक्ष्यन्ते यानि तानि च ।
युञ्ज्यात् तथा बलिं होमं स्नपनं मन्त्र-तन्त्र-वित् ॥ ५८ ॥

पूति-करञ्ज-त्वक्-पत्त्रं क्षीरिभ्यो बर्बराद् अपि ।
तुम्बी-विशालारलुक-शमी-बिल्व-कपित्थतः ॥ ५९ ॥

३.५९av पूति-करञ्ज-त्वक्-पत्त्र- ३.५९av पूति-करञ्जात् त्वक्-पत्त्रं ३.५९bv -क्षीरिभ्यो वेदराद् अपि ३.५९bv -मूलेभ्यो बर्बराद् अपि ३.५९bv -मूलेभ्यो वर्धराद् अपि ३.५९dv -शमी-बिल्व-कपित्थकम् उत्क्वाथ्य तोयं तद् रात्रौ बालानां स्नपनं शिवम् ।
अनुबन्धान् यथा-कृच्छ्रं ग्रहापाये ऽप्य् उपद्रवान् ॥ ६० ॥

३.६०dv ग्रह-व्यापद्य् उपद्रवान् बालामय-निषेधोक्त-भेषजैः समुपाचरेत् ॥ ६०ऊ̆अब् ॥
३.६०ऊ̆ब्व् -भैषज्यैः समुपाचरेत्

अध्याय 04[सम्पाद्यताम्]

लक्षयेज् ज्ञान-विज्ञान-वाक्-चेष्टा-बल-पौरुषम् ।
पुरुषे ऽ-पौरुषं यत्र तत्र भूत-ग्रहं वदेत् ॥ १ ॥

भूतस्य रूप-प्रकृति-भाषा-गत्य्-आदि-चेष्टितैः ।
यस्यानुकारं कुरुते तेनाविष्टं तम् आदिशेत् ॥ २ ॥

सो ऽष्टा-दश-विधो देव-दानवादि-विभेदतः ।
हेतुस् तद्-अनुषक्तौ तु सद्यः पूर्व-कृतो ऽथ-वा ॥ ३ ॥

४.३dv सद्यः पूर्वं कृतो ऽथ-वा प्रज्ञापराधः सु-तरां तेन कामादि-जन्मना ।
लुप्त-धर्म-व्रताचारः पूज्यान् अप्य् अतिवर्तते ॥ ४ ॥

४.४dv पूज्यानाम् अतिवर्तनैः तं तथा भिन्न-मर्यादं पापम् आत्मोपघातिनम् ।
देवादयो ऽप्य् अनुघ्नन्ति ग्रहाश् छिद्र-प्रहारिणः ॥ ५ ॥

छिद्रं पाप-क्रियारम्भः पाको ऽन्-इष्टस्य कर्मणः ।
एकस्य शून्ये ऽवस्थानं श्मशानादिषु वा निशि ॥ ६ ॥

दिग्-वासस्-त्वं गुरोर् निन्दा रतेर् अ-विधि-सेवनम् ।
अ-शुचेर् देवतार्चादि पर-सूतक-संकरः ॥ ७ ॥

४.७cv अ-शुचेर् देवताराद्धिः ४.७dv पर-सूतक-संकरात् होम-मन्त्र-बलीज्यानां वि-गुणं परिकर्म च ।
समासाद् दिन-चर्यादि-प्रोक्ताचार-व्यतिक्रमः ॥ ८ ॥

४.८dv -प्रोक्तानां च विपर्ययः गृह्णन्ति शुक्ल-प्रतिपत्-त्रयो-दश्योः सुरा नरम् ।
शुक्ल-त्रयो-दशी-कृष्ण-द्वा-दश्योर् दानवा ग्रहाः ॥ ९ ॥

४.९dv -द्वा-दश्योर् दानव-ग्रहाः गन्धर्वास् तु चतुर्-दश्यां द्वा-दश्यां चोरगाः पुनः ।
पञ्चम्यां शुक्ल-सप्तम्य्-एका-दश्योस् तु धनेश्वराः ॥ १० ॥

४.१०cv पञ्चम्यां शुक्ल-सप्तम्याम् ४.१०dv एका-दश्यां धनेश्वराः शुक्लाष्ट-पञ्चमी-पौर्णमासीषु ब्रह्म-राक्षसाः ।
कृष्णे रक्षः-पिशाचाद्या नव-द्वा-दश-पर्वसु ॥ ११ ॥

४.११av शुक्लाष्ट-पञ्चमी-पूर्ण- ४.११bv -मासीषु ब्रह्म-राक्षसाः दशामावास्ययोर् अष्ट-नवम्योः पितरो ऽपरे ।
गुरु-वृद्धादयः प्रायः कालं संध्यासु लक्षयेत् ॥ १२ ॥

४.१२av दर्शामावास्ययोर् अष्ट- ४.१२av दशामावास्ययोः षष्ठी- फुल्ल-पद्मोपम-मुखं सौम्य-दृष्टिम् अ-कोपनम् ।
अल्प-वाक्-स्वेद-विण्-मूत्रं भोजनान्-अभिलाषिणम् ॥ १३ ॥

४.१३cv स्व्-अल्प-वाक्-स्वेद-विण्-मूत्रं देव-द्वि-जाति-परमं शुचिं संस्कृत-वादिनम् ।
मीलयन्तं चिरान् नेत्रे सुरभिं वर-दायिनम् ॥ १४ ॥

शुक्ल-माल्याम्बर-सरिच्-छैलोच्च-भवन-प्रियम् ।
अ-निद्रम् अ-प्रधृष्यं च विद्याद् देव-वशी-कृतम् ॥ १५ ॥

४.१५av शुक्ल-माल्याम्बर-धरं ४.१५bv शैलोच्च-भवन-प्रियम् जिह्म-दृष्टिं दुर्-आत्मानं गुरु-देव-द्वि-ज-द्विषम् ।
निर्-भयं मानिनं शूरं क्रोधनं व्यवसायिनम् ॥ १६ ॥

४.१६cv निर्-भयं मानिनं क्रूरं रुद्रः स्कन्दो विशाखो ऽहम् इन्द्रो ऽहम् इति वादिनम् ।
सुरा-मांस-रुचिं विद्याद् दैत्य-ग्रह-गृहीतकम् ॥ १७ ॥

४.१७av रुद्रः स्कन्दः पिशाचो ऽहम् ४.१७cv मद्य-मांस-रुचिं विद्याद् ४.१७dv दैत्य-ग्रह-वशी-कृतम् स्व्-आचारं सुरभिं हृष्टं गीत-नर्तन-कारिणम् ।
स्नानोद्यान-रुचिं रक्त-वस्त्र-माल्यानुलेपनम् ॥ १८ ॥

४.१८av स्व्-आचार-सुरभि-शिष्ट- ४.१८av स्वे-चरं सुरभिं हृष्टं ४.१८bv -गीत-नर्तन-कारिणम् ४.१८cv स्नानोद्यान-रतं रक्त- शृङ्गार-लीलाभिरतं गन्धर्वाध्युषितं वदेत् ।
रक्ताक्षं क्रोधनं स्तब्ध-दृष्टिं वक्र-गतिं चलम् ॥ १९ ॥

४.१९av शृङ्गार-माल्याभिरतं ४.१९av शृङ्गार-लीलाभिहितं श्वसन्तम् अ-निशं जिह्वा-लोलिनं सृक्किणी-लिहम् ।
प्रिय-दुग्ध-गुड-स्नानम् अधो-वदन-शायिनम् ॥ २० ॥

उरगाधिष्ठितं विद्यात् त्रस्यन्तं चातप-त्रतः ।
विप्लुत-त्रस्त-रक्ताक्षं शुभ-गन्धं सु-तेजसम् ॥ २१ ॥

प्रिय-नृत्य-कथा-गीत-स्नान-माल्यानुलेपनम् ।
मत्स्य-मांस-रुचिं हृष्टं तुष्टं बलिनम् अ-व्यथम् ॥ २२ ॥

४.२२av प्रिय-नर्त-कथा-गीत- ४.२२cv मत्स्य-मांस-रुचिं हृष्ट- ४.२२dv -तुष्टं बलिनम् अ-व्यथम् ४.२२dv तुष्टं बलिनम् अ-व्ययम् चलिताग्र-करं कस्मै किं ददामीति वादिनम् ।
रहस्य-भाषिणं वैद्य-द्वि-जाति-परिभाविनम् ॥ २३ ॥

४.२३dv -द्वि-जाति-परिवादिनम् अल्प-रोषं द्रुत-गतिं विद्याद् यक्ष-गृहीतकम् ।
हास्य-नृत्य-प्रियं रौद्र-चेष्टं छिद्र-प्रहारिणम् ॥ २४ ॥

४.२४av अल्प-रोषं हृत-गतिं ४.२४cv हास्य-नृत्त-प्रियं रौद्र- ४.२४cv हास्य-नृत्य-करं रौद्र- आक्रोशिनं शीघ्र-गतिं देव-द्वि-ज-भिषग्-द्विषम् ।
आत्मानं काष्ठ-शस्त्राद्यैर् घ्नन्तं भोः-शब्द-वादिनम् ॥ २५ ॥

४.२५dv घ्नन्तं गो-शब्द-वादिनम् शास्त्र-वेद-पठं विद्याद् गृहीतं ब्रह्म-राक्षसैः ।
स-क्रोध-दृष्टिं भ्रू-कुटीम् उद्वहन्तं स-संभ्रमं ॥ २६ ॥

४.२६bv गृहीतं ब्रह्म-राक्षसा प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम् ।
अन्नाद् विनापि बलिनं नष्ट-निद्रं निशा-चरम् ॥ २७ ॥

४.२७bv रुदन्तं भैरवाननम् निर्-लज्जम् अ-शुचिं शूरं क्रूरं परुष-भाषिणम् ।
रोषणं रक्त-माल्य-स्त्री-रक्त-मद्यामिष-प्रियम् ॥ २८ ॥

४.२८dv -मेघ-मद्यामिष-प्रियम् दृष्ट्वा च रक्तं मांसं वालिहानं दशन-च्छदौ ।
हसन्तम् अन्न-काले च राक्षसाधिष्ठितं वदेत् ॥ २९ ॥

४.२९av दृष्ट्वा च रक्त-मांसानि ४.२९bv लिहानं दशन-च्छदौ अ-स्वस्थ-चित्तं नैक-त्र तिष्ठन्तं परिधाविनम् ।
उच्छिष्ट-नृत्य-गन्धर्व-हास-मद्यामिष-प्रियम् ॥ ३० ॥

निर्भर्त्सनाद् दीन-मुखं रुदन्तम् अ-निमित्ततः ।
नखैर् लिखन्तम् आत्मानं रूक्ष-ध्वस्त-वपुः-स्वरम् ॥ ३१ ॥

आवेदयन्तम् दुःखादि संबद्धा-बद्ध-भाषिणम् ।
नष्ट-स्मृतिं शून्य-रतिं लोलं नग्नं मलीमसम् ॥ ३२ ॥

४.३२av आवेदयन्तम् दुःखानि रथ्या-चैल-परीधानं तृण-माला-विभूषणम् ।
आरोहन्तं च काष्ठाश्वं तथा संकर-कूटकम् ॥ ३३ ॥

४.३३cv आरोहन्तं च काष्ठाश्म- ४.३३dv -राशिं संकर-कूटकम् ४.३३dv तथा संकार-कूटकम् बह्व्-आशिनं पिशाचेन विजानीयाद् अधिष्ठितम् ।
प्रेताकृति-क्रिया-गन्धं भीतम् आहार-विद्विषम् ॥ ३४ ॥

४.३४dv भीरुम् आहार-विद्विषम् तृण-च्छिदं च प्रेतेन गृहीतं नरम् आदिशेत् ।
बहु-प्रलापं कृष्णास्यं प्रविलम्बित-यायिनम् ॥ ३५ ॥

शून-प्रलम्ब-वृषणं कूष्माण्डाधिष्ठितं वदेत् ।
गृहीत्वा काष्ठ-लोष्टादि भ्रमन्तं चीर-वाससम् ॥ ३६ ॥

४.३६cv गृहीत्वा काष्ठ-लोहादि नग्नं धावन्तम् उत्त्रस्त-दृष्टिं तृण-विभूषणम् ।
श्मशान-शून्यायतन-रथ्यैक-द्रुम-सेविनम् ॥ ३७ ॥

तिलान्न-मद्य-मांसेषु सततं सक्त-लोचनं ।
निषादाधिष्ठितं विद्याद् वदन्तं परुषाणि च ॥ ३८ ॥

४.३८bv संसक्तं रक्त-लोचनम् ४.३८bv सततं रक्त-लोचनम् ४.३८bv स-रक्तं रक्त-लोचनम् ४.३८cv कर्कोटाधिष्ठितं विन्द्याद् याचन्तम् उदकं चान्नं त्रस्त-लोहित-लोचनम् ।
उग्र-वाक्यं च जानीयान् नरम् औकिरणार्दितम् ॥ ३९ ॥

४.३९av धावन्तम् उदकं नान्नं ४.३९av याचन्तम् उदकं नान्नं ४.३९av याचन्तम् उदकान्नं च ४.३९bv रक्त-वित्रस्त-लोचनम् ४.३९dv नरम् औत्किरणार्दितम् ४.३९dv नरं मौकिरणार्दितम् ४.३९dv नरम् उत्तरुणार्दितम् गन्ध-माल्य-रतिं सत्य-वादिनं परिवेपिनम् ।
बहु-निद्रं च जानीयाद् वेतालेन वशी-कृतम् ॥ ४० ॥

४.४०av गन्ध-माल्य-रतं सत्य- ४.४०av गन्ध-माल्य-रुचिं सत्य- ४.४०bv -वादिनं परिवेदिनम् ४.४०bv -वादिनं परिदेविनम् ४.४०dv वैतालेन वशी-कृतम् अ-प्रसन्न-दृशं दीन-वदनं शुष्क-तालुकम् ।
चलन्-नयन-पक्ष्माणं निद्रालुं मन्द-पावकम् ॥ ४१ ॥

अपसव्य-परीधानं तिल-मांस-गुड-प्रियम् ।
स्खलद्-वाचं च जानीयात् पितृ-ग्रह-वशी-कृतम् ॥ ४२ ॥

४.४२cv स्खलद्-वाचं विजानीयात् गुरु-वृद्धर्षि-सिद्धाभिशाप-चिन्तानुरूपतः ।
व्याहाराहार-चेष्टाभिर् यथा-स्वं तद्-ग्रहं वदेत् ॥ ४३ ॥

४.४३av गुरु-वृद्धर्षि-सिद्धानां ४.४३bv शाप-चिन्तानुरूपतः ४.४३bv ंशाप-चित्तानुरूपतः ४.४३bv शाप-चित्तानुरूपतः ४.४३cv विहाराहार-चेष्टाभिर् ४.४३dv यथा-स्वं तं ग्रहं वदेत् कुमार-वृन्दानुगतं नग्नम् उद्धत-मूर्ध-जम् ।
अ-स्वस्थ-मनसं दैर्घ्य-कालिकं स-ग्रहं त्यजेत् ॥ ४४ ॥


अध्याय 05[सम्पाद्यताम्]

भूतं जयेद् अ-हिंसेच्छं जप-होम-बलि-व्रतैः ।
तपः-शील-समाधान-दान-ज्ञान-दयादिभिः ॥ १ ॥

५.१av भूतं जयेद् अ-हिंसोत्थं ५.१cv तपः-शील-समाध्यान- हिङ्गु-व्योषाल-नेपाली-लशुनार्क-जटा-जटाः ।
अजलोमी स-गोलोमी भूतकेशी वचा लता ॥ २ ॥

५.२bv -लशुनार्क-जटामयाः ५.२dv भूतकेशी-वचा-लताः ५.२dv भूतकेशी वचा बला कुक्कुटी सर्पगन्धाख्या तिलाः काण-विकाणिके ।
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्ल्य् अपि ॥ ३ ॥

५.३bv तिलाः काल-विकाणिके ५.३bv तिलाः काण-विषाणिके ५.३bv तथा काण-विकाणिके ५.३cv वज्रप्रोक्ता वयःस्था वा स्रोतो-जाञ्जन-रक्षोघ्नं रक्षो-घ्नं चान्यद् औषधम् ।
खराश्व-श्वाविद्-उष्ट्रर्क्ष-गोधा-नकुल-शल्यकात् ॥ ४ ॥

५.४dv -गोधा-नकुल-मत्स्यकात् द्वीपि-मार्जार-गो-सिंह-व्याघ्र-सामुद्र-सत्-त्वतः ।
चर्म-पित्त-द्वि-ज-नखा वर्गे ऽस्मिन् साधयेद् घृतम् ॥ ५ ॥

पुराणम् अथ-वा तैलं नवं तत् पान-नस्ययोः ।
अभ्यङ्गे च प्रयोक्तव्यम् एषां चूर्णं च धूपने ॥ ६ ॥

एभिश् च गुटिकां युञ्ज्याद् अञ्जने सावपीडने ।
प्रलेपे कल्कम् एतेषां क्वाथं च परिषेचने ॥ ७ ॥

५.७bv अञ्जने सावपीडके प्रयोगो ऽयं ग्रहोन्मादान् सापस्माराञ् छमं नयेत् ।
गजाह्वा-पिप्पली-मूल-व्योषामलक-सर्षपान् ॥ ८ ॥

गोधा-नकुल-मार्जार-झष-पित्त-प्रपेषितान् ।
नावनाभ्यङ्ग-सेकेषु विदधीत ग्रहापहान् ॥ ९ ॥

५.९bv -शश-पित्त-प्रपेषितान् ५.९bv -ऋक्ष-पित्त-प्रपेषितान् सिद्धार्थक-वचा-हिङ्गु-प्रियङ्गु-रजनी-द्वयम् ।
मञ्जिष्ठा श्वेत-कटभी वरा श्वेताद्रिकर्णिका ॥ १० ॥

५.१०cv मञ्जिष्ठा-श्वेत-कटभी- ५.१०dv -वरा-श्वेताद्रिकर्णिकाः निम्बस्य पत्त्रं बीजं तु नक्तमाल-शिरीषयोः ।
सुराह्वं त्र्य्-ऊषणं सर्पिर् गो-मूत्रे तैश् चतुर्-गुणे ॥ ११ ॥

५.११dv गो-मूत्रे च चतुर्-गुणे सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम् ।
ग्रहान् सर्वान् निहन्त्य् आशु विशेषाद् आसुरान् ग्रहान् ॥ १२ ॥

कृत्या-लक्ष्मी-विषोन्माद-ज्वरापस्मार-पाप्म च ।
एभिर् एवौषधैर् बस्त-वारिणा कल्पितो ऽ-गदः ॥ १३ ॥

५.१३bv -ज्वरापस्मार-पाप्म-नुत् पान-नस्याञ्जनालेप-स्नानोद्घर्षण-योजितः ।
गुणैः पूर्व-वद् उद्दिष्टो राज-द्वारे च सिद्धि-कृत् ॥ १४ ॥

५.१४cv स गुणैः पूर्व-वद् दिष्टो सिद्धार्थक-व्योष-वचाश्वगन्धा निशा-द्वयं हिङ्गु-पलाण्डु-कन्दः ।
बीजं करञ्जात् कुसुमं शिरीषात् फलं च वल्कं च कपित्थ-वृक्षात् ॥ १५ ॥

५.१५bv निशा-द्वयं हिङ्गु-पलाण्डु-कन्दम् ५.१५dv फलं च कल्कश् च कपित्थ-वृक्षात् ५.१५dv फलं च पुष्पं च कपित्थ-वृक्षात् ५.१५dv फलं च वल्कश् च कपित्थ-वृक्षात् स-माणिमन्थं स-नतं स-कुष्ठं श्योणाक-मूलं किणिही सिता च ।
बस्तस्य मूत्रेण सु-भावितं तत् पित्तेन गव्येन गुडान् विदध्यात् ॥ १६ ॥

दुष्ट-व्रणोन्माद-तमो-निशान्धान् उद्बन्धकान् वारि-निमग्न-देहान् ।
दिग्धाहतान् दर्पित-सर्प-दष्टांस् ते साधयन्त्य् अञ्जन-नस्य-लेपैः ॥ १७ ॥

५.१७av दुष्ट-व्रणोन्माद-तमो-निशान्ध्यम् ५.१७bv उद्बद्धकान् वारि-निमग्न-देहान् ५.१७dv तान् साधयन्त्य् अञ्जन-नस्य-लेपैः ५.१७dv ते साधयन्त्य् अञ्जन-पान-लेपैः कार्पासास्थि-मयूर-पत्त्र-बृहती-निर्माल्य-पिण्डीतक- ॥ १८अ ॥
५.१८av कार्पासास्थि-मयूर-पिच्छ-बृहती-निर्माल्य-पिण्डीतक- -त्वङ्-मांसी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोककैः ॥ १८ब् ॥
५.१८bv -त्वग्-वांशी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोचनैः ५.१८bv -त्वग्-वांशी-वृष-दंश-विण्-नख-वचा-केशाहि-निर्मोचनैः ५.१८bv -त्वङ्-मांसी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोचनैः नागेन्द्र-द्वि-ज-शृङ्ग-हिङ्गु-मरिचैस् तुल्यैः कृतं धूपनं ॥ १८च् ॥
स्कन्दोन्माद-पिशाच-राक्षस-सुरावेश-ज्वर-घ्नं परम् ॥ १८द् ॥
५.१८dv स्कन्दोन्माद-पिशाच-राक्षस-सुरावेश-ग्रह-घ्नं परम् त्रि-कटुक-दल-कुङ्कुम-ग्रन्थिक-क्षार-सिंही-निशा-दारु-सिद्धार्थ-युग्माम्बु-शक्राह्व् अयैः ॥ १९अ ॥
सित-लशुन-फल-त्रयोशीर-तिक्ता-वचा-तुत्थ-यष्टी-बला-लोहितैला-शिला-पद्मकैः ॥ १९ब् ॥
दधि-तगर-मधूक-सार-प्रियाह्वा-विषाख्या-विषा-तार्क्ष्य-शैलैः स-चव्यामयैः कल्कितैः ॥ १९च् ॥
घृतम् अ-नवम् अ-शेष-मूत्रांश-सिद्धं मतं भूत-रावाह्वयं पानतस् तद् ग्रह-घ्नं परम् ॥ १९द् ॥

नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटली-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग् -लता-रोहिणी- ॥ २०अ ॥
५.२०av नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटला-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग् -लता-रोहिणी-

-बदर-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बु देन्द्राह्वयैः ॥ २०ब् ॥
५.२०bv -बदर-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धा-सुराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः ५.२०bv -मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः ५.२०bv मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धा-सुराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः ५.२०bv -मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामृता-कोल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः गद-शुकतरु-पुष्प-बीजोग्र-यष्ट्य्-अद्रिकर्णी-निकुम्भाग्नि-बिल्वैः समैः कल्कितैर् मूत्र-वर्गेण सिद्धं घृतं ॥ २०च् ॥
विधि-विनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत- रावं स्मृतम् ॥ २०द् ॥
५.२०dv विधि-वन् निहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत- रावं स्मृतम् ५.२०dv चिर-विनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत-रावं स्मृतम् ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः ।
दिनेषु बलि-होमादीन् प्रयुञ्जीत चिकित्सकः ॥ २१ ॥

स्नान-वस्त्र-वसा-मांस-मद्य-क्षीर-गुडादि च ।
रोचते यद् यदा येभ्यस् तत् तेषाम् आहरेत् तदा ॥ २२ ॥

५.२२av स्नानं वस्त्रं वसा मांसं ५.२२bv मद्यं क्षीर-गुडानि वा रत्नानि गन्ध-माल्यानि बीजानि मधु-सर्पिषी ।
भक्ष्याश् च सर्वे सर्वेषां सामान्यो विधिर् इत्य् अयम् ॥ २३ ॥

५.२३av रक्तानि गन्ध-माल्यानि ५.२३cv भक्षाश् च सर्वे सर्वेषां सुरर्षि-गुरु-वृद्धेभ्यः सिद्धेभ्यश् च सुरालये ।
दिश्य् उत्तरस्यां तत्रापि देवायोपहरेद् बलिम् ॥ २४ ॥

पश्चिमायां यथा-कालं दैत्य-भूताय चत्वरे ।
गन्धर्वाय गवां मार्गे स-वस्त्राभरणं बलिम् ॥ २५ ॥

पितृ-नाग-ग्रहे नद्यां नागेभ्यः पूर्व-दक्षिणे ।
यक्षाय यक्षायतने सरितोर् वा समागमे ॥ २६ ॥

५.२६av पितृ-नाम-ग्रहे नद्यां चतुष्-पथे राक्षसाय भीमेषु गहनेषु च ।
रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्म-रक्षसाम् ॥ २७ ॥

५.२७bv भीमेषु गहनेषु वा शून्यालये पिशाचाय पश्चिमां दिशम् आस्थिते ।
शुचि-शुक्लानि माल्यानि गन्धाः क्षैरेयम् ओदनम् ॥ २८ ॥

५.२८bv पश्चिमां दिशम् आश्रिते ५.२८bv पश्चिमायां दिशि स्थिते दधि च्छत्त्रं च धवलं देवानां बलिर् इष्यते ।
हिङ्गु-सर्षप-षड्ग्रन्था-व्योषैर् अर्ध-पलोन्मितैः ॥ २९ ॥

चतुर्-गुणे गवां मूत्रे घृत-प्रस्थं विपाचयेत् ।
तत्-पान-नावनाभ्यङ्गैर् देव-ग्रह-विमोक्षणम् ॥ ३० ॥

नस्याञ्जनं वचा-हिङ्गु-लशुनं बस्त-वारिणा ।
दैत्ये बलिर् बहु-फलः सोशीर-कमलोत्पलः ॥ ३१ ॥

५.३१av नस्याञ्जने वचा-हिङ्गु- नागानां सुमनो-लाज-गुडापूप-गुडौदनैः ।
परमान्न-मधु-क्षीर-कृष्ण-मृन्-नागकेसरैः ॥ ३२ ॥

वचा-पद्म-पुरोशीर-रक्तोत्पल-दलैर् बलिः ।
श्वेतपत्त्रं च लोध्रं च तगरं नाग-सर्षपाः ॥ ३३ ॥

५.३३av वचा-पाठा-पुरोशीर- शीतेन वारिणा पिष्टं नावनाञ्जनयोर् हितम् ।
यक्षाणां क्षीर-दध्य्-आज्य-मिश्रकौदन-गुग्गुलु ॥ ३४ ॥

देवदारूत्पलं पद्मं उशीरं वस्त्र-काञ्चनम् ।
हिरण्यं च बलिर् योज्यो मूत्राज्य-क्षीरम् एकतः ॥ ३५ ॥

५.३५bv उशीरं वस्त्र-चन्दनम् ५.३५bv उशीरं वस्त्र-कम्बलम् सिद्धं समोन्मितं पान-नावनाभ्यञ्जने हितम् ।
हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा ॥ ३६ ॥

५.३६av सिद्धं पलोन्मितं पान- निम्ब-पत्त्रं च बस्ताम्बु-कल्कितं नावनाञ्जनम् ।
ब्रह्म-रक्षो-बलिः सिद्धं यवानां पूर्णम् आढकम् ॥ ३७ ॥

५.३७dv यवानां चूर्णम् आढकम् तोयस्य कुम्भः पललं छत्त्रं वस्त्रम् विलेपनम् ।
गायत्री-विंशति-पल-क्वाथे ऽर्ध-पलिकैः पचेत् ॥ ३८ ॥

५.३८av तोय-कुम्भं च पललं त्र्य्-ऊषण-त्रि-फला-हिङ्गु-षड्ग्रन्था-मिशि-सर्षपैः ।
स-निम्ब-पत्त्र-लशुनैः कुडवान् सप्त सर्पिषः ॥ ३९ ॥

गो-मूत्रे त्रि-गुणे पान-नस्याभ्यङ्गेषु तद् धितम् ।
रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम् ॥ ४० ॥

५.४०av गो-मूत्रे त्रि-गुणे सिद्धं ५.४०bv पानाभ्यङ्गेषु तद् धितम् ५.४०dv कुसुमं मिश्रकौदनः बलिः पक्वाम-मांसानि निष्पावा रुधिरोक्षिताः ।
नक्तमाल-शिरीष-त्वङ्-मूल-पुष्प-फलानि च ॥ ४१ ॥

५.४१dv -मूलं पुष्पं फलानि च ५.४१dv -मूले पुष्पं फलानि च तद्-वच् च कृष्ण-पाटल्या बिल्व-मूलं कटु-त्रिकम् ।
हिङ्ग्व्-इन्द्रयव-सिद्धार्थ-लशुनामलकी-फलम् ॥ ४२ ॥

नावनाञ्जनयोर् योज्यो बस्त-मूत्र-युतो ऽ-गदः ।
एभिर् एव घृतं सिद्धं गवां मूत्रे चतुर्-गुणे ॥ ४३ ॥

५.४३bv बस्त-मूत्र-हृतो ऽ-गदः ५.४३bv बस्त-मूत्र-द्रुतो ऽ-गदः रक्षो-ग्रहान् वारयते पानाभ्यञ्जन-नावनैः ।
पिशाचानां बलिः सीधुः पिण्याकः पललं दधि ॥ ४४ ॥

मूलकं लवणं सर्पिः स-भूतौदन-यावकम् ।
हरिद्रा-द्वय-मञ्जिष्ठा-मिशि-सैन्धव-नागरम् ॥ ४५ ॥

५.४५bv प्रभूतौदन-यावकम् ५.४५bv प्राग्-भूतौदन-यावकम् ५.४५dv -मिशि-सैन्धव-नागरैः हिङ्गु-प्रियङ्गु-त्रि-कटु-लशुन-त्रि-फला वचा ।
पाटली-श्वेत-कटभी-शिरीष-कुसुमैर् घृतम् ॥ ४६ ॥

५.४६bv -लशुन-त्रि-फला-वचाः ५.४६cv पटोली-श्वेत-कटभी- ५.४६cv पाटला-श्वेत-कटभी- गो-मूत्र-पादिकं सिद्धं पानाभ्यञ्जनयोर् हितम् ।
बस्ताम्बु-पिष्टैस् तैर् एव योज्यम् अञ्जन-नावनम् ॥ ४७ ॥

देवर्षि-पितृ-गन्धर्वे तीक्ष्णं नस्यादि वर्जयेत् ।
सर्पिः-पानादि मृद्व् अस्मिन् भैषज्यम् अवचारयेत् ॥ ४८ ॥

ऋते पिशाचात् सर्वेषु प्रतिकूलं च नाचरेत् ।
स-वैद्यम् आतुरं घ्नन्ति क्रुद्धास् ते हि महौजसः ॥ ४९ ॥

ईश्वरं द्वा-दश-भुजं नाथम् आर्यावलोकितम् ।
सर्व-व्याधि-चिकित्सां च जपन् सर्व-ग्रहान् जयेत् ॥ ५० ॥

५.५०cv सर्व-व्याधि-चिकित्सन्तं ५.५०cv सर्व-व्याधि-चिकित्सं च ५.५०cv सर्व-व्याधि-चिकित्सितं तथोन्मादान् अपस्मारान् अन्यं वा चित्त-विप्लवम् ।
महा-विद्यां च मायूरीं शुचिं तं श्रावयेत् सदा ॥ ५१ ॥

५.५१bv अन्यान् वा चित्त-विभ्रमान् ५.५१dv शुचिस् तं श्रावयेत् सदा भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश् च तद्-गणान् ।
जपन् सिद्धांश् च तन्-मन्त्रान् ग्रहान् सर्वान् अपोहति ॥ ५२ ॥

यच् चान्-अन्तरयोः किञ्-चिद् वक्ष्यते ऽध्याययोर् हितम् ।
यच् चोक्तम् इह तत् सर्वं प्रयुञ्जीत परस्-परम् ॥ ५३ ॥

५.५३cv यथोक्तम् इह तत् सर्वं

अध्याय 06[सम्पाद्यताम्]

उन्मादाः षट् पृथग्-दोष-निचयाधि-विषोद्भवाः ।
उन्मादो नाम मनसो दोषैर् उन्मार्ग-गैर् मदः ॥ १ ॥

शारीर-मानसैर् दुष्टैर् अ-हिताद् अन्न-पानतः ।
विकृता-सात्म्य-स-मलाद् विषमाद् उपयोगतः ॥ २ ॥

६.२av शारीर-मानसैर् दोषैर् ६.२cv विकृता-सात्म्य-स-मल- ६.२dv -विषमाद् उपयोगतः विषण्णस्याल्प-सत्-त्वस्य व्याधि-वेग-समुद्गमात् ।
क्षीणस्य चेष्टा-वैषम्यात् पूज्य-पूजा-व्यतिक्रमात् ॥ ३ ॥

६.३bv व्याधि-वेग-समुद्भवात् ६.३bv व्याधि-वेग-समुद्भ्रमात् आधिभिर् चित्त-विभ्रंशाद् विषेणोपविषेण च ।
एभिर् हि हीन-सत्-त्वस्य हृदि दोषाः प्रदूषिताः ॥ ४ ॥

६.४bv विषेणोपविषेण वा ६.४cv एभिर् विहीन-सत्-त्वस्य धियो विधाय कालुष्यं हृत्वा मार्गान् मनो-वहान् ।
उन्मादं कुर्वते तेन धी-विज्ञान-स्मृति-भ्रमात् ॥ ५ ॥

देहो दुःख-सुख-भ्रष्टो भ्रष्ट-सारथि-वद् रथः ।
भ्रमत्य् अ-चिन्तितारम्भस् तत्र वातात् कृशाङ्ग-ता ॥ ६ ॥

६.६av देही दुःख-सुख-भ्रष्टो अ-स्थाने रोदनाक्रोश-हसित-स्मित-नर्तनम् ।
गीत-वादित्र-वाग्-अङ्ग-विक्षेपास्फोटनानि च ॥ ७ ॥

अ-साम्ना वेणु-वीणादि-शब्दानुकरणं मुहुः ।
आस्यात् फेनागमो ऽजस्रम् अटनं बहु-भाषि-ता ॥ ८ ॥

६.८av अभीक्ष्णं वेणु-वीणादि- ६.८av आस्येन वेणु-वीणादि- ६.८bv -शब्दादि-करणं मुहुः ६.८dv अटनं बहु-भाषितम् अलङ्कारो ऽन्-अलङ्कारैर् अ-यानैर् गमनोद्यमः ।
गृद्धिर् अभ्यवहार्येषु तल्-लाभे चावमान-ता ॥ ९ ॥

६.९dv तल्-लाभे वावमान-ता ६.९dv तल्-लाभेष्व् अवमान-ता उत्पिण्डितारुणाक्षि-त्वं जीर्णे चान्ने गदोद्भवः ।
पित्तात् संतर्जनं क्रोधो मुष्टि-लोष्टाद्य्-अभिद्रवः ॥ १० ॥

६.१०av उत्पीडितारुणाक्षि-त्वं शीत-च्छायोदकाकाङ्क्षा नग्न-त्वं पीत-वर्ण-ता ।
अ-सत्य-ज्वलन-ज्वाला-तारका-दीप-दर्शनम् ॥ ११ ॥

६.११bv नेत्र-त्वक्-पीत-वर्ण-ता ६.११cv अ-सति ज्वलने ज्वाला- ६.११cv अ-सत्य-ज्वलनोल्कादि- कफाद् अ-रोचकश् छर्दिर् अल्पेहाहार-वाक्य-ता ।
स्त्री-काम-ता रहः-प्रीतिर् लाला-सिङ्घाणक-स्रुतिः ॥ १२ ॥

बैभत्स्यं शौच-विद्वेषो निद्रा श्वयथुर् आनने ।
उन्मादो बल-वान् रात्रौ भुक्त-मात्रे च जायते ॥ १३ ॥

सर्वायतन-संस्थान-संनिपाते तद्-आत्मकम् ।
उन्मादं दारुणं विद्यात् तं भिषक् परिवर्जयेत् ॥ १४ ॥

६.१४bv -संनिपातात् तद्-आत्मकम् धन-कान्तादि-नाशेन दुः-सहेनाभिषङ्ग-वान् ।
पाण्डुर् दीनो मुहुर् मुह्यन् हाहेति परिदेवते ॥ १५ ॥

रोदित्य् अ-कस्मान् म्रियते तद्-गुणान् बहु मन्यते ।
शोक-क्लिष्ट-मना ध्यायञ् जागरूको विचेष्टते ॥ १६ ॥

६.१६av रोदित्य् अ-कस्मात् स्मयते विषेण श्याव-वदनो नष्ट-च्छाया-बलेन्द्रियः ।
वेगान्तरे ऽपि संभ्रान्तो रक्ताक्षस् तं विवर्जयेत् ॥ १७ ॥

६.१७bv नष्ट-च्छायो ऽ-बलेन्द्रियः अथानिल-ज उन्मादे स्नेह-पानं प्रयोजयेत् ।
पूर्वम् आवृत-मार्गे तु स-स्नेहं मृदु शोधनम् ॥ १८ ॥

कफ-पित्त-भवे ऽप्य् आदौ वमनं स-विरेचनम् ।
स्निग्ध-स्विन्नस्य वस्तिं च शिरसः स-विरेचनम् ॥ १९ ॥

६.१९av कफ-पित्तोद्भवे ऽप्य् आदौ ६.१९cv स्निग्ध-स्विन्नस्य वस्तींश् च ६.१९dv शिरसश् च विरेचनम् तथास्य शुद्ध-देहस्य प्रसादं लभते मनः ।
इत्थम् अप्य् अनुवृत्तौ तु तीक्ष्णं नावनम् अञ्जनम् ॥ २० ॥

६.२०av तथैव शुद्ध-देहस्य हर्षणाश्वासनोत्त्रास-भय-ताडन-तर्जनम् ।
अभ्यङ्गोद्वर्तनालेप-धूपान् पानं च सर्पिषः ॥ २१ ॥

६.२१dv -धूमान् पानं च सर्पिषः युञ्ज्यात् तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः ।
हिङ्गु-सौवर्चल-व्योषैर् द्वि-पलांशैर् घृताढकम् ॥ २२ ॥

सिद्धं स-मूत्रम् उन्माद-भूतापस्मार-नुत् परम् ।
द्वौ प्रस्थौ स्व-रसाद् ब्राह्म्या घृत-प्रस्थं च साधितम् ॥ २३ ॥

व्योष-श्यामा-त्रिवृद्-दन्ती-शङ्खपुष्पी-नृपद्रुमैः ।
स-सप्तला-कृमिहरैः कल्कितैर् अक्ष-संमितैः ॥ २४ ॥

६.२४av व्योष-श्यामा-त्रिवृद्-बिम्बी- ६.२४cv सातला-कृमिजित्-कल्कैः ६.२४dv सर्वैस् तैर् अक्ष-संमितैः पल-वृद्ध्या प्रयुञ्जीत परं मात्रा चतुः-पलम् ।
उन्माद-कुष्ठापस्मार-हरं वन्ध्या-सुत-प्रदम् ॥ २५ ॥

वाक्-स्वर-स्मृति-मेधा-कृद् धन्यं ब्राह्मी-घृतं स्मृतम् ।
वरा-विशाला-भद्रैला-देवदार्व्-एलवालुकैः ॥ २६ ॥

६.२६cv वरा-विशालाकौत्पला- ६.२६cv वरा-विशाला-पत्त्रैला- द्वि-शारिवा-द्वि-रजनी-द्वि-स्थिरा-फलिनी-नतैः ।
बृहती-कुष्ठ-मञ्जिष्ठा-नागकेसर-दाडिमैः ॥ २७ ॥

वेल्ल-तालीश-पत्त्रैला-मालती-मुकुलोत्पलैः ।
स-दन्ती-पद्मक-हिमैः कर्षांशैः सर्पिषः पचेत् ॥ २८ ॥

६.२८bv -मालती-कुमुदोत्पलैः ६.२८cv रुदन्ती-पद्मक-हिमैः प्रस्थं भूत-ग्रहोन्माद-कासापस्मार-पाप्मसु ।
पाण्डु-कण्डू-विषे शोषे मोहे मेहे गरे ज्वरे ॥ २९ ॥

६.२९bv -कासापस्मार-पाप्म-जित् ६.२९cv पाण्डु-कण्डू-विषे शोफे अ-रेतस्य् अ-प्रजसि वा दैवोपहत-चेतसि ।
अ-मेधसि स्खलद्-वाचि स्मृति-कामे ऽल्प-पावके ॥ ३० ॥

६.३०av अ-रेतस्य् अल्प-रजसि बल्यं मङ्गल्यम् आयुष्यं कान्ति-सौभाग्य-पुष्टि-दम् ।
कल्याणकम् इदं सर्पिः श्रेष्ठं पुं-सवनेषु च ॥ ३१ ॥

एभ्यो द्वि-शारिवादीनि जले पक्त्वैक-विंशतिम् ।
रसे तस्मिन् पचेत् सर्पिर् गृष्टि-क्षीर-चतुर्-गुणम् ॥ ३२ ॥

६.३२dv गृष्टि-क्षीरे चतुर्-गुणे ६.३२dv गृष्टि-क्षीरं चतुर्-गुणम् वीरा-द्वि-मेदा-काकोली-कपिकच्छू-विषाणिभिः ।
शूर्पपर्णी-युतैर् एतन् महा-कल्याणकं परम् ॥ ३३ ॥

६.३३av वीरर्द्धि-मेदा-काकोली- ६.३३dv महा-कल्याणकं स्मृतम् बृंहणं संनिपात-घ्नं पूर्वस्माद् अधिकं गुणैः ।
जटिला पूतना केशी चारटी मर्कटी वचा ॥ ३४ ॥

त्रायमाणा जया वीरा चोरकः कटु-रोहिणी ।
वयःस्था शूकरी छत्त्रा सातिच्छत्त्रा पलङ्कषा ॥ ३५ ॥

६.३५dv अतिच्छत्त्रा पलङ्कषा महापुरुषदन्ता च कायस्था नाकुली-द्वयम् ।
कटम्भरा वृश्चिकाली शालिपर्णी च तैर् घृतम् ॥ ३६ ॥

६.३६cv कटम्भरा-वृश्चिकाली- ६.३६dv -स्थिराश् चाहृत्य तैर् घृतम् सिद्धं चातुर्थिकोन्माद-ग्रहापस्मार-नाशनम् ।
महा-पैशाचकं नाम घृतम् एतद् यथामृतम् ॥ ३७ ॥

६.३७av सिद्धं चतुर्थकोन्माद- ६.३७av सिद्धं चातुर्थकोन्माद- बुद्धि-मेधा-स्मृति-करं बालानां चाङ्ग-वर्धनम् ।
ब्राह्मीम् ऐन्द्रीं विडङ्गानि व्योषं हिङ्गु जटां मुराम् ॥ ३८ ॥

६.३८av स्मृति-बुद्धि-करं चैव ६.३८bv बालानाम् अङ्ग-वर्धनम् रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम् ।
ज्योतिष्मतीं नागविन्नाम् अनन्तां स-हरीतकीम् ॥ ३९ ॥

६.३९av रास्नां विषघ्नीं लशुनं काङ्क्षीं च हस्ति-मूत्रेण पिष्ट्वा छाया-विशोषीता ।
वर्तिर् नस्याञ्जनालेप-धूपैर् उन्माद-सूदनी ॥ ४० ॥

६.४०av काच्छीं च हस्ति-मूत्रेण ६.४०av सौराष्ट्रीं बस्त-मूत्रेण ६.४०dv -धूपैर् उन्माद-नाशिनी अवपीडाश् च विविधाः सर्षपाः स्नेह-संयुताः ।
कटु-तैलेन चाभ्यङ्गो ध्मापयेच् चास्य तद् रजः ॥ ४१ ॥

स-हिङ्गुस् तीक्ष्ण-धूमश् च सूत्र-स्थानोदितो हितः ।
शृगाल-शल्यकोलूक-जलौका-वृष-बस्त-जैः ॥ ४२ ॥

६.४२av स-हिङ्गु तीक्ष्ण-धूमश् च ६.४२dv -जलूका-वृष-बस्त-जैः ६.४२dv -जलौका-वृक-बस्त-जैः मूत्र-पित्त-शकृद्-रोम-नख-चर्मभिर् आचरेत् ।
धूप-धूमाञ्जनाभ्यङ्ग-प्रदेह-परिषेचनम् ॥ ४३ ॥

धूपयेत् सततं चैनं श्व-गो-मत्स्यैः सु-पूतिभिः ।
वात-श्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ॥ ४४ ॥

तिक्तकं जीवनीयं च सर्पिः स्नेहश् च मिश्रकः ।
शीतानि चान्न-पानानि मधुराणि लघूनि च ॥ ४५ ॥

विध्येत् सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा ।
निवाते शाययेद् एवं मुच्यते मति-विभ्रमात् ॥ ४६ ॥

६.४६av विध्येत् सिरां यथोक्तां च प्रक्षिप्या-सलिले कूपे शोषयेद् वा बुभुक्षया ।
आश्वासयेत् सुहृत् तं वा वाक्यैर् धर्मार्थ-संहितैः ॥ ४७ ॥

६.४७cv आश्वासयेत् सुहृद्भिस् तं ब्रूयाद् इष्ट-विनाशं वा दर्शयेद् अद्भुतानि वा ।
बद्धं सर्षप-तैलाक्तं न्यसेद् वोत्तानम् आतपे ॥ ४८ ॥

६.४८av ब्रूयाद् इष्टस्य नाशं वा ६.४८dv न्यस्तं चोत्तानम् आतपे कपिकच्छ्वाथ-वा तप्तैर् लोह-तैल-जलैः स्पृशेत् ।
कशाभिस् ताडयित्वा वा बद्धं श्वभ्रे विनिःक्षिपेत् ॥ ४९ ॥

६.४९dv बद्ध्वा श्वभ्रे विनिःक्षिपेत् अथ-वा वीत-शस्त्राश्म-जने संतमसे गृहे ।
सर्पेणोद्धृत-दंष्ट्रेण दान्तैः सिंहैर् गजैश् च तम् ॥ ५० ॥

त्रासयेच् छस्त्र-हस्तैर् वा किराताराति-तस्करैः ॥ ५०+(१)अब् ॥
६.५०+(१)ब्व् तस्करैः शत्रुभिस् तथा अथ-वा राज-पुरुषा बहिर् नीत्वा सु-संयतम् ।
भापयेयुर् वधेनैनं तर्जयन्तो नृपाज्ञया ॥ ५१ ॥

देह-दुःख-भयेभ्यो हि परं प्राण-भयं मतम् ।
तेन याति शमं तस्य सर्वतो विप्लुतं मनः ॥ ५२ ॥

६.५२dv सर्वतो ऽपसृतं मनः सिद्धा क्रिया प्रयोज्येयं देश-कालाद्य्-अपेक्षया ।
इष्ट-द्रव्य-विनाशात् तु मनो यस्योपहन्यते ॥ ५३ ॥

६.५३av सिद्धाः क्रिया प्रयोक्तव्या तस्य तत्-सदृश-प्राप्ति-सान्त्वाश्वासैः शमं नयेत् ।
काम-शोक-भय-क्रोध-हर्षेर्ष्या-लोभ-संभवान् ॥ ५४ ॥

६.५४av तस्य तत्-सदृश-प्राप्तिः ६.५४bv -सान्त्वाश्वासैः प्रसादयेत् ६.५४bv -प्रियाश्वासैः प्रदर्शयेत् ६.५४bv सान्त्वाश्वासैः शमं नयेत् परस्-पर-प्रति-द्वन्द्वैर् एभिर् एव शमं नयेत् ।
भूतानुबन्धम् ईक्षेत प्रोक्त-लिङ्गाधिकाकृतिम् ॥ ५५ ॥

६.५५cv भूतानुबद्धम् ईक्षेत यद्य् उन्मादे ततः कुर्याद् भूत-निर्दिष्टम् औषधम् ।
बलिं च दद्यात् पललं यावकं सक्तु-पिण्डिकाम् ॥ ५६ ॥

६.५६av यद्य् उन्मादे च तत् कुर्याद् स्निग्धं मधुरम् आहारं तण्डुलान् रुधिरोक्षितान् ।
पक्वामकानि मांसानि सुरां मैरेयम् आसवम् ॥ ५७ ॥

६.५७cv पक्वामाह्वानि मांसानि ६.५७dv सुरा-मैरेयम् आसवम् अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च ।
चतुष्-पथे गवां तीर्थे नदीनां संगमेषु च ॥ ५८ ॥

निवृत्तामिष-मद्यो यो हिताशी प्रयतः शुचिः ।
निजागन्तुभिर् उन्मादैः सत्-त्व-वान् न स युज्यते ॥ ५९ ॥

६.५९av निवृत्तामिष-मद्यो ऽपि प्रसाद इन्द्रियार्थानां बुद्ध्य्-आत्म-मनसां तथा ।
धातूनां प्रकृति-स्थ-त्वं विगतोन्माद-लक्षणम् ॥ ६० ॥

६.६०av इन्द्रियाणां प्रसन्न-त्वं ६.६०dv गतोन्मादस्य लक्षणम्

अध्याय 07[सम्पाद्यताम्]

स्मृत्य्-अपायो ह्य् अपस्मारः स धी-सत्-त्वाभिसंप्लवात् ।
जायते ऽभिहते चित्ते चिन्ता-शोक-भयादिभिः ॥ १ ॥

७.१bv स धी-सत्-त्वादि-संप्लवात् उन्माद-वत् प्रकुपितैश् चित्त-देह-गतैर् मलैः ।
हते सत्-त्वे हृदि व्याप्ते संज्ञा-वाहिषु खेषु च ॥ २ ॥

तमो विशन् मूढ-मतिर् बीभत्साः कुरुते क्रियाः ।
दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन् ॥ ३ ॥

७.३dv हस्तौ पादौ च कम्पयन् पश्यन्न् अ-सन्ति रूपाणि प्रस्खलन् पतति क्षितौ ।
विजिह्माक्षि-भ्रुवो दोष-वेगे ऽतीते विबुध्यते ॥ ४ ॥

कालान्तरेण स पुनश् चैवम् एव विचेष्टते ।
अपस्मारश् चतुर्-भेदो वाताद्यैर् निचयेन च ॥ ५ ॥

रूपम् उत्पत्स्यमाने ऽस्मिन् हृत्-कम्पः शून्य-ता भ्रमः ।
तमसो दर्शनं ध्यानं भ्रू-व्युदासो ऽक्षि-वैकृतम् ॥ ६ ॥

७.६av रूपम् उत्पद्यमाने ऽस्मिन् अ-शब्द-श्रवणं स्वेदो लाला-सिङ्घाणक-स्रुतिः ।
अ-विपाको ऽ-रुचिर् मूर्छा कुक्ष्य्-आटोपो बल-क्षयः ॥ ७ ॥

निद्रा-नाशो ऽङ्ग-मर्दस् तृट् स्वप्ने गानं स-नर्तनम् ।
पानं तैलस्य मद्यस्य तयोर् एव च मेहनम् ॥ ८ ॥

तत्र वातात् स्फुरत्-सक्थिः प्रपतंश् च मुहुर् मुहुः ।
अपस्मरति संज्ञां च लभते वि-स्वरं रुदन् ॥ ९ ॥

७.९bv प्रततं च मुहुर् मुहुः उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते ।
आविध्यति शिरो दन्तान् दशत्य् आध्मात-कन्धरः ॥ १० ॥

परितो विक्षिपत्य् अङ्गं विषमं विनताङ्गुलिः ।
रूक्ष-श्यावारुणाक्षि-त्वङ्-नखास्यः कृष्णम् ईक्षते ॥ ११ ॥

चपलं परुषं रूपं वि-रूपं विकृताननम् ।
अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति ॥ १२ ॥

७.१२av चपलं परमं रूपं ७.१२av चपलं परुषं रूक्षं पीत-फेनाक्षि-वक्त्र-त्वग् आस्फालयति मेदिनीम् ।
भैरवादीप्त-रुषित-रूप-दर्शी तृषान्वितः ॥ १३ ॥

कफाच् चिरेण ग्रहणं चिरेणैव विबोधनम् ।
चेष्टाल्पा भूयसी लाला शुक्ल-नेत्र-नखास्य-ता ॥ १४ ॥

शुक्लाभ-रूप-दर्शि-त्वं सर्व-लिङ्गं तु वर्जयेत् ।
अथावृतानां धी-चित्त-हृत्-खानां प्राक्-प्रबोधनम् ॥ १५ ॥

तीक्ष्णैः कुर्याद् अपस्मारे कर्मभिर् वमनादिभिः ।
वातिकं वस्ति-भूयिष्ठैः पैत्तं प्रायो विरेचनैः ॥ १६ ॥

श्लैष्मिकं वमन-प्रायैर् अपस्मारम् उपाचरेत् ।
सर्वतः सु-विशुद्धस्य सम्यग् आश्वासितस्य च ॥ १७ ॥

अपस्मार-विमोक्षार्थं योगान् संशमनाञ् छृणु ।
गो-मय-स्व-रस-क्षीर-दधि-मूत्रैः शृतं हविः ॥ १८ ॥

अपस्मार-ज्वरोन्माद-कामलान्त-करं पिबेत् ।
द्वि-पञ्च-मूल-त्रि-फला-द्वि-निशा-कुटज-त्वचः ॥ १९ ॥

७.१९cv द्वि-पञ्च-मूली-त्रि-फला- सप्तपर्णम् अपामार्गं नीलिनीं कटु-रोहिणीम् ।
शम्याक-पुष्कर-जटा-फल्गु-मूल-दुरालभाः ॥ २० ॥

७.२०cv श्योणाक-पुष्कर-जटा- द्वि-पलाः सलिल-द्रोणे पक्त्वा पादावशेषिते ।
भार्गी-पाठाढकी-कुम्भ-निकुम्भ-व्योष-रोहिषैः ॥ २१ ॥

७.२१av द्वि-पलानि जल-द्रोणे मूर्वा-भूतिक-भूनिम्ब-श्रेयसी-शारिवा-द्वयैः ।
मदयन्त्य्-अग्नि-निचुलैर् अक्षांशैः सर्पिषः पचेत् ॥ २२ ॥

७.२२av मूर्वा-पूतिक-भूनिम्ब- प्रस्थं तद्-वद् द्रवैः पूर्वैः पञ्च-गव्यम् इदं महत् ।
ज्वरापस्मार-जठर-भगन्दर-हरं परम् ॥ २३ ॥

शोफार्शः-कामला-पाण्डु-गुल्म-कास-ग्रहापहम् ।
ब्राह्मी-रस-वचा-कुष्ठ-शङ्खपुष्पी-शृतं घृतम् ॥ २४ ॥

७.२४bv -गुल्म-कास-भ्रमापहम् पुराणं मेध्यम् उन्मादा-लक्ष्म्य्-अपस्मार-पाप्म-जित् ।
तैल-प्रस्थं घृत-प्रस्थं जीवनीयैः पलोन्मितैः ॥ २५ ॥

क्षीर-द्रोणे पचेत् सिद्धम् अपस्मार-विमोक्षणम् ।
कंसे क्षीरेक्षु-रसयोः काश्मर्ये ऽष्ट-गुणे रसे ॥ २६ ॥

कार्षिकैर् जीवनीयैश् च सर्पिः-प्रस्थं विपाचयेत् ।
वात-पित्तोद्भवं क्षिप्रम् अपस्मारं निहन्ति तत् ॥ २७ ॥

तद्-वत् काश-विदारीक्षु-कुश-क्वाथ-शृतं पयः ।
कूष्माण्ड-स्व-रसे सर्पिर् अष्टा-दश-गुणे शृतम् ॥ २८ ॥

७.२८bv -कुश-क्वाथे शृतं पयः ७.२८bv -कुश-क्वाथैः शृतं पयः यष्टी-कल्कम् अपस्मार-हरं धी-वाक्-स्वर-प्रदम् ।
कपिलानां गवां पित्तं नावने परमं हितम् ॥ २९ ॥

७.२९av यष्टी-कल्कं अपस्मारं ७.२९bv नावनं परमं हितम् ७.२९bv हरेद् धी-वाक्-स्वर-प्रदम् श्व-शृगाल-बिडालानां सिंहादीनां च पूजितम् ।
गोधा-नकुल-नागानां पृषतर्क्ष-गवाम् अपि ॥ ३० ॥

७.३०dv वृषभर्क्ष-गवाम् अपि ७.३०dv वृक-चर्क-गवाम् अपि पित्तेषु साधितं तैलं नस्ये ऽभ्यङ्गे च शस्यते ।
त्रि-फला-व्योष-पीतद्रु-यव-क्षार-फणिज्जकैः ॥ ३१ ॥

७.३१av पित्तेषु साधयेत् तैलं ७.३१bv नस्याभ्यङ्गेषु शस्यते श्र्य्-आह्वापामार्ग-कारञ्ज-बीजैस् तैलं विपाचितम् ।
बस्त-मूत्रे हितं नस्यं चूर्णं वा ध्मापयेद् भिषक् ॥ ३२ ॥

७.३२av श्यामापामार्ग-कारञ्ज- ७.३२bv -बीजैस् तैलं प्रसाधितम् ७.३२bv -बीजैस् तैलं विपाचयेत् नकुलोलूक-मार्जार-गृध्र-कीटाहि-काक-जैः ।
तुण्डैः पक्षैः पुरीषैश् च धूपम् अस्य प्रयोजयेत् ॥ ३३ ॥

७.३३dv धूमम् अस्य प्रयोजयेत् ७.३३dv धूपम् अस्मै प्रयोजयेत् शीलयेत् तैल-लशुनं पयसा वा शतावरीम् ।
ब्राह्मी-रसं कुष्ठ-रसं वचां वा मधु-संयुताम् ॥ ३४ ॥

समं क्रुद्धैर् अपस्मारो दोषैः शारीर-मानसैः ।
यज् जायते यतश् चैष महा-मर्म-समाश्रयः ॥ ३५ ॥

तस्माद् रसायनैर् एनं दुश्-चिकित्स्यम् उपाचरेत् ।
तद्-आर्तं चाग्नि-तोयादेर् विषमात् पालयेत् सदा ॥ ३६ ॥

७.३६av तस्माद् रसायनेनैनं ७.३६cv तद्-आर्तं चाग्नि-तोयादि- ७.३६dv -विषमात् पालयेत् सदा मुक्तं मनो-विकारेण त्वम् इत्थं कृत-वान् इति ।
न ब्रूयाद् विषयैर् इष्टैः क्लिष्टं चेतो ऽस्य बृंहयेत् ॥ ३७ ॥


अध्याय 08[सम्पाद्यताम्]

सर्व-रोग-निदानोक्तैर् अ-हितैः कुपिता मलाः ।
अ-चक्षुष्यैर् विशेषेण प्रायः पित्तानुसारिणः ॥ १ ॥

सिराभिर् ऊर्ध्वं प्रसृता नेत्रावयवम् आश्रिताः ।
वर्त्म संधिं सितं कृष्णं दृष्टिं वा सर्वम् अक्षि वा ॥ २ ॥

रोगान् कुर्युश् चलस् तत्र प्राप्य वर्त्माश्रयाः सिराः ।
सुप्तोत्थितस्य कुरुते वर्त्म-स्तम्भं स-वेदनम् ॥ ३ ॥

पांसु-पूर्णाभ-नेत्र-त्वं कृच्छ्रोन्मीलनम् अश्रु च ।
विमर्दनात् स्याच् च शमः कृच्छ्रोन्मूलं वदन्ति तत् ॥ ४ ॥

चालयन् वर्त्मनी वायुर् निमेषोन्मेषणं मुहुः ।
करोत्य् अ-रुङ् निमेषो ऽसौ वर्त्म यत् तु निमील्यते ॥ ५ ॥

विमुक्त-संधि निश्-चेष्टं हीनं वात-हतं हि तत् ।
कृष्णाः पित्तेन बह्व्यो ऽन्तर्-वर्त्म कुम्भीक-बीज-वत् ॥ ६ ॥

८.६cv पित्तेन वर्त्मनो ऽन्तर्-जा ८.६dv बह्व्यः कुम्भीक-बीज-वत् आध्मायन्ते पुनर् भिन्नाः पिटिकाः कुम्भि-संज्ञिताः ।
स-दाह-क्लेद-निस्तोदं रक्ताभं स्पर्शना-क्षमम् ॥ ७ ॥

८.७bv पिटिकाः कुम्भि-संज्ञकाः पित्तेन जायते वर्त्म पित्तोत्क्लिष्टम् उशन्ति तत् ।
करोति कण्डूं दाहं च पित्तं पक्ष्ंान्तम् आस्थितम् ॥ ८ ॥

८.८dv पित्तं पक्ष्ंान्तम् आश्रितम् पक्ष्मणां शातनं चानु पक्ष्म-शातं वदन्ति तम् ।
पोथक्यः पिटिकाः श्वेताः सर्षपाभा घनाः कफात् ॥ ९ ॥

८.९av पक्ष्मणां शतनं चानु ८.९av पक्ष्मणां सदनं चानु शोफोपदेह-रुक्-कण्डू-पिच्छिलाश्रु-समन्विताः ।
कफोत्क्लिष्टं भवेद् वर्त्म स्तम्भ-क्लेदोपदेह-वत् ॥ १० ॥

ग्रन्थिः पाण्डुर-रुक्-पाकः कण्डू-मान् कठिनः कफात् ।
कोल-मात्रः स लगणः किञ्-चिद् अल्पस् ततो ऽथ-वा ॥ ११ ॥

८.११dv किञ्-चिद् अल्पस् ततो ऽपि वा रक्ता रक्तेन पिटिका तत्-तुल्य-पिटिकाचिता ।
उत्सङ्गाख्या तथोत्क्लिष्टं राजी-मत् स्पर्शना-क्षमम् ॥ १२ ॥

८.१२av रक्ता रक्तेन पिटिकास् ८.१२bv तत्-तुल्य-पिटिकाचिताः ८.१२cv उत्सङ्गाख्यास् तथोत्क्लिष्टं अर्शो ऽधि-मांसं वर्त्मान्तः स्तब्धं स्निग्धं स-दाह-रुक् ।
रक्तं रक्तेन तत्-स्रावि च्छिन्नं छिन्नं च वर्धते ॥ १३ ॥

मध्ये वा वर्त्मनो ऽन्ते वा कण्डूषा-रुग्-वती स्थिरा ।
मुद्ग-मात्रासृजा ताम्रा पिटिकाञ्जन-नामिका ॥ १४ ॥

दोषैर् वर्त्म बहिः शूनं यद् अन्तः सूक्ष्म-खाचितम् ।
स-स्रावम् अन्तर्-उदकं बिसाभं बिस-वर्त्म तत् ॥ १५ ॥

यद् वर्त्मोत्क्लिष्टम् उत्क्लिष्टम् अ-कस्मान् म्लान-ताम् इयात् ।
रक्त-दोष-त्रयोत्क्लेशाद् भवत्य् उत्क्लिष्ट-वर्त्म तत् ॥ १६ ॥

८.१६dv वदन्त्य् उत्क्लिष्ट-वर्त्म तत् श्याव-वर्त्म मलैः सास्रैः श्यावं रुक्-क्लेद-शोफ-वत् ।
श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डू-श्वयथु-रागिणी ॥ १७ ॥

वर्त्मनो ऽन्तः खरा रूक्षाः पिटिकाः सिकतोपमाः ।
सिकता-वर्त्म कृष्णं तु कर्दमं कर्दमोपमम् ॥ १८ ॥

बहलं बहलैर् मांसैः स-वर्णैश् चीयते समैः ।
कुकूणकः शिशोर् एव दन्तोत्पत्ति-निमित्त-जः ॥ १९ ॥

स्यात् तेन शिशुर् उच्छून-ताम्राक्षो वीक्षणा-क्षमः ।
स-वर्त्म-शूल-पैच्छिल्यः कर्ण-नासाक्षि-मर्दनः ॥ २० ॥

८.२०bv -ताम्राक्षो वीक्षणे ऽ-क्षमः पक्ष्मोपरोधे संकोचो वर्त्मनां जायते तथा ।
खर-तान्तर्-मुख-त्वं च रोम्णाम् अन्यानि वा पुनः ॥ २१ ॥

८.२१bv वर्त्मनो जायते तथा कण्टकैर् इव तीक्ष्णाग्रैर् घृष्टं तैर् अक्षि शूयते ।
उष्यते चानिलादि-द्विड् अल्पाहः शान्तिर् उद्धृतैः ॥ २२ ॥

८.२२bv घृष्टं तैर् अक्षि सूयते ८.२२cv उष्यते वानिलादि-द्विड् ८.२२cv उष्यते चानिलाद्यैश् च ८.२२dv अल्पाहं शान्तिर् उद्धृतैः कनीनके बहिर्-वर्त्म कठिनो ग्रन्थिर् उन्नतः ।
ताम्रः पक्वो ऽस्र-पूय-स्रुद् अलज्य् आध्मायते मुहुः ॥ २३ ॥

वर्त्मान्तर् मांस-पिण्डाभः श्वयथुर् ग्रथितो ऽ-रुजः ।
सास्रैः स्याद् अर्बुदो दोषैर् विषमो बाह्यतश् चलः ॥ २४ ॥

चतुर्-विंशतिर् इत्य् एते व्याधयो वर्त्म-संश्रयाः ।
आद्यो ऽत्र भेषजैः साध्यो द्वौ ततो ऽर्शश् च वर्यजेत् ॥ २५ ॥

पक्ष्मोपरोधो याप्यः स्याच् छेषाञ् छस्त्रेण साधयेत् ।
कुट्टयेत् पक्ष्म-सदनं छिन्द्यात् तेष्व् अपि चार्बुदम् ॥ २६ ॥

८.२६cv कुट्टयेत् पक्ष्म-शदनं भिन्द्याल् लगण-कुम्भीका-बिसोत्सङ्गाञ्जनालजीः ।
पोथकी-श्याव-सिकता-श्लिष्टोत्क्लिष्ट-चतुष्टयम् ॥ २७ ॥

स-कर्दमं स-बहलं विलिखेत् स-कुकूणकम् ॥ २७ऊ̆अब् ॥

अध्याय 09[सम्पाद्यताम्]

कृच्छ्रोन्मीले पुराणाज्यं द्राक्षा-कल्काम्बु-साधितम् ।
स-सितं योजयेत् स्निग्धं नस्य-धूमाञ्जनादि च ॥ १ ॥

कुम्भीका-वर्त्म-लिखितं सैन्धव-प्रतिसारितम् ।
यष्टी-धात्री-पटोलीनां क्वाथेन परिषेचयेत् ॥ २ ॥

निवाते ऽधिष्ठितस्याप्तैः शुद्धस्योत्तान-शायिनः ।
बहिः कोष्णाम्बु-तप्तेन स्वेदितं वर्त्म वाससा ॥ ३ ॥

निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुली-घृतम् ।
न स्रंसते चलति वा वर्त्मैवं सर्वतस् ततः ॥ ४ ॥

९.४cv न स्रंसते न चलति मण्डलाग्रेण तत् तिर्यक् कृत्वा शस्त्र-पदाङ्कितम् ।
लिखेत् तेनैव पत्त्रैर् वा शाक-शेफालिकादि-जैः ॥ ५ ॥

९.५dv शाक-शेफालिकादिकैः ९.५dv शाक-शेफालिकादिभिः फेनेन तोय-राशेर् वा पिचुना प्रमृजन्न् असृक् ।
स्थिते रक्ते सु-लिखितं स-क्षौद्रैः प्रतिसारयेत् ॥ ६ ॥

यथा-स्वम् उक्तैर् अनु च प्रक्षाल्योष्णेन वारिणा ।
घृतेन सिक्तम् अभ्यक्तं बध्नीयान् मधु-सर्पिषा ॥ ७ ॥

९.७cv घृतेनासिक्तम् अभ्यक्तं ऊर्ध्वाधः कर्णयोर् दत्त्वा पिण्डीं च यव-सक्तुभिः ।
द्वितीये ऽहनि मुक्तस्य परिषेकं यथा-यथम् ॥ ८ ॥

कुर्याच् चतुर्थे नस्यादीन् मुञ्चेद् एवाह्नि पञ्चमे ।
समं नख-निभं शोफ-कण्डू-घर्षाद्य-पीडितम् ॥ ९ ॥

विद्यात् सु-लिखितं वर्त्म लिखेद् भूयो विपर्यये ।
रुक्-पक्ष्म-वर्त्म-सदन-स्रंसनान्य् अति-लेखनात् ॥ १० ॥

स्नेह-स्वेदादिकस् तस्मिन्न् इष्टो वात-हरः क्रमः ।
अभ्यज्य नव-नीतेन श्वेत-लोध्रं प्रलेपयेत् ॥ ११ ॥

एरण्ड-मूल-कल्केन पुट-पाके पचेत् ततः ।
स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटली-कृतम् ॥ १२ ॥

स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्र-सेचनम् ।
शालि-तण्डुल-कल्केन लिप्तं तद्-वत् परिष्कृतम् ॥ १३ ॥

९.१३av स्त्रियाः क्षीरे छागले वा कुर्यान् नेत्रे ऽति-लिखिते मृदितं दधि-मस्तुना ।
केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः ॥ १४ ॥

पिटिका व्रीहि-वक्त्रेण भित्त्वा तु कठिनोन्नताः ।
निष्पीडयेद् अनु विधिः परिशेषस् तु पूर्व-वत् ॥ १५ ॥

९.१५av पिटिकां व्रीहि-वक्त्रेण ९.१५bv भित्त्वा तु कठिनोन्नताम् लेखने भेदने चायं क्रमः सर्व-त्र वर्त्मनि ।
पित्तास्रोत्क्लिष्टयोः स्वादु-स्कन्ध-सिद्धेन सर्पिषा ॥ १६ ॥

सिरा-विमोक्षः स्निग्धस्य त्रिवृच् छ्रेष्ठं विरेचनम् ।
लिखिते स्रुत-रक्ते च वर्त्मनि क्षालनं हितम् ॥ १७ ॥

९.१७bv त्रिवृच् छ्रेष्ठा विरेचने ९.१७cv लिखिते निःसृते रक्ते यष्टी-कषायः सेकस् तु क्षीरं चन्दन-साधितम् ।
पक्ष्मणां सदने सूच्या रोम-कूपान् विकुट्टयेत् ॥ १८ ॥

९.१८av यष्टी-क्वाथेन सेकस् तु ग्राहयेद् वा जलौकोभिः पयसेक्षु-रसेन वा ।
वमनं नावनं सर्पिः शृतं मधुर-शीतलैः ॥ १९ ॥

संचूर्ण्य पुष्प-कासीसं भावयेत् सुरसा-रसैः ।
ताम्रे दशाहं परमं पक्ष्म-शाते तद् अञ्जनम् ॥ २० ॥

पोथकीर् लिखिताः शुण्ठी-सैन्धव-प्रतिसारिताः ।
उष्णाम्बु-क्षालिताः सिञ्चेत् खदिराढकि-शिग्रुभिः ॥ २१ ॥

९.२१av पोथकीं लिखितं शुण्ठी- ९.२१bv -सैन्धव-प्रतिसारिताम् ९.२१cv उष्णाम्बु-क्षालितां सिञ्चेत् अप्-सिद्धैर् द्वि-निषा-श्रेष्ठा-मधुकैर् वा स-माक्षिकैः ।
कफोत्क्लिष्टे विलिखिते स-क्षौद्रैः प्रतिसारणम् ॥ २२ ॥

सूक्ष्मैः सैन्धव-कासीस-मनोह्वा-कण-तार्क्ष्य-जैः ।
वमनाञ्जन-नस्यादि सर्वं च कफ-जिद् धितम् ॥ २३ ॥

कर्तव्यं लगणे ऽप्य् एतद् अ-शान्ताव् अग्निना दहेत् ।
कुकूणे खदिर-श्रेष्ठा-निम्ब-पत्त्र-शृतं घृतम् ॥ २४ ॥

९.२४dv -निम्ब-पत्त्रैः शृतं घृतम् स्विन्नां भित्त्वा विनिष्पीड्य भिषग् अञ्जन-नामिकाम् ।
शिलैला-सैन्धव-नतैः स-क्षौद्रैः प्रतिसारयेत् ॥ २४.१+(१) ॥
९.२४.१+(१)अव् स्विन्नां भित्त्वा विनिष्पीड्योत्ं ९.२४.१+(१)ब्व् ंसङ्गां चाञ्जन-नामिकाम् पीत्वा धात्री वमेत् कृष्णा-यष्टी-सर्षप-सैन्धवैः ।
अभया-पिप्पली-द्राक्षा-क्वाथेनैनां विरेचयेत् ॥ २५ ॥

मुस्ता-द्वि-रजनी-कृष्णा-कल्केनालेपयेत् स्तनौ ।
धूपयेत् सर्षपैः साज्यैः शुद्धां क्वाथं च पाययेत् ॥ २६ ॥

पटोल-मुस्त-मृद्वीका-गुडूची-त्रि-फलोद्भवम् ।
शिशोस् तु लिखितं वर्त्म स्रुतासृग् वाम्बु-जन्मभिः ॥ २७ ॥

धात्र्य्-अश्मन्तक-जम्बूत्थ-पत्त्र-क्वाथेन सेचयेत् ।
प्रायः क्षीर-घृताशि-त्वाद् बालानां श्लेष्म-जा गदाः ॥ २८ ॥

तस्माद् वमनम् एवाग्रे सर्व-व्याधिषु पूजितम् ।
सिन्धूत्थ-कृष्णापामार्ग-बीजाज्य-स्तन्य-माक्षिकम् ॥ २९ ॥

चूर्णो वचायाः स-क्षौद्रो मदनं मधुकान्वितम् ।
क्षीरं क्षीरान्नम् अन्नं च भजतः क्रमतः शिशोः ॥ ३० ॥

९.३०dv भजतः क्रम-शः शिशोः वमनं सर्व-रोगेषु विशेषेण कुकूणके ।
सप्तला-रस-सिद्धाज्यं योज्यं चोभय-शोधनम् ॥ ३१ ॥

द्वि-निशा-लोध्र-यष्ट्य्-आह्व-रोहिणी-निम्ब-पल्लवैः ।
कुकूणके हिता वर्तिः पिष्टैस् ताम्र-रजो-ऽन्वितैः ॥ ३२ ॥

क्षीर-क्षौद्र-घृतोपेतं दग्धं वा लोह-जं रजः ।
एला-लशुन-कतक-शङ्खोषण-फणिज्जकैः ॥ ३३ ॥

९.३३bv दग्धं वा लोध्र-जं रजः वर्तिः कुकूण-पोथक्योः सुरा-पिष्टैः स-कट्फलैः ।
पक्ष्म-रोधे प्रवृद्धेषु शुद्ध-देहस्य रोमसु ॥ ३४ ॥

उत्सृज्य द्वौ भ्रुवो ऽधस्-ताद् भागौ भागं च पक्ष्मतः ।
यव-मात्रं यवाकारं तिर्यक् छित्त्वार्द्र-वाससा ॥ ३५ ॥

अपनेयम् असृक् तस्मिन्न् अल्पी-भवति शोणिते ।
सीव्येत् कुटिलया सूच्या मुद्ग-मात्रान्तरैः पदैः ॥ ३६ ॥

बद्ध्वा ललाटे पट्टं च तत्र सीवन-सूत्रकम् ।
नाति-गाढ-श्लथं सूच्या निक्षिपेद् अथ योजयेत् ॥ ३७ ॥

मधु-सर्पिः-कवलिकां न चास्मिन् बन्धम् आचरेत् ।
न्यग्रोधादि-कषायैश् च स-क्षीरैः सेचयेद् रुजि ॥ ३८ ॥

पञ्चमे दिवसे सूत्रम् अपनीयावचूर्णयेत् ।
गैरिकेण व्रणं युञ्ज्यात् तीक्ष्णं नस्याञ्जनादि च ॥ ३९ ॥

९.३९dv तीक्ष्ण-नस्याञ्जनादि च ९.३९dv तीक्ष्ण-नस्याञ्जनानि च ९.३९dv तीक्ष्णं नस्याञ्जनानि च दहेद् अ-शान्तौ निर्भुज्य वर्त्म-दोषाश्रयां वलीम् ।
संदंशेनाधिकं पक्ष्म हृत्वा तस्याश्रयं दहेत् ॥ ४० ॥

सूच्य्-अग्रेणाग्नि-वर्णेन दाहो बाह्यालजेः पुनः ।
भिन्नस्य क्षार-वह्निभ्यां सु-च्छिन्नस्यार्बुदस्य च ॥ ४१ ॥


अध्याय 10[सम्पाद्यताम्]

वायुः क्रुद्धः सिराः प्राप्य जलाभं जल-वाहिनीः ।
अश्रु स्रावयते वर्त्म-शुक्ल-संधेः कनीनकात् ॥ १ ॥

१०.१dv -शुक्ल-संधि-कनीनिकात् तेन नेत्रं स-रुग्-राग-शोफं स्यात् स जलास्रवः ।
कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत् ॥ २ ॥

१०.२cv कफात् कफ-श्रवे श्वेतं १०.२cv कफात् कफ-स्रवे श्वेतं कफेन शोफस् तीक्ष्णाग्रः क्षार-बुद्बुदकोपमः ।
पृथु-मूल-बलः स्निग्धः स-वर्णो मृदु-पिच्छिलः ॥ ३ ॥

१०.३dv स-वर्ण-मृदु-पिच्छिलः महान् अ-पाकः कण्डू-मान् उपनाहः स नी-रुजः ।
रक्ताद् रक्तास्रावे ताम्रं बहूष्णं चाश्रु संस्रवेत् ॥ ४ ॥

१०.४cv रक्ताद् रक्त-स्रवे ताम्रं १०.४cv रक्ताद् रक्तं स्रवेत् ताम्रं १०.४dv बहूष्णं वाश्रु संस्रवेत् वर्त्म-संध्य्-आश्रया शुक्ले पिटिका दाह-शूलिनी ।
ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी ॥ ५ ॥

पूयास्रवे मलाः सास्रा वर्त्म-संधेः कनीनकात् ।
स्रावयन्ति मुहुः पूयं सास्रं त्वङ्-मांस-पाकतः ॥ ६ ॥

१०.६bv वर्त्म-संधि-कनीनकात् १०.६dv सास्र-त्वङ्-मांस-पाकतः १०.६dv साश्रु-त्वङ्-मांस-पाकतः पूयालसो व्रणः सूक्ष्मः शोफ-संरम्भ-पूर्वकः ।
कनीन-संधाव् आध्मायी पूयास्रावी स-वेदनः ॥ ७ ॥

कनीनस्यान्तर् अलजी शोफो रुक्-तोद-दाह-वान् ।
अपाङ्गे वा कनीने वा कण्डूषा-पक्ष्म-पोट-वान् ॥ ८ ॥

पूयास्रावी कृमि-ग्रन्थिर् ग्रन्थिः कृमि-युतो ऽर्ति-मान् ।
उपनाह-कृमि-ग्रन्थि-पूयालसक-पर्वणीः ॥ ९ ॥

शस्त्रेण साधयेत् पञ्च सालजीन् आस्रवांस् त्यजेत् ।
पित्तं कुर्यात् सिते बिन्दून् असित-श्याव-पीतकान् ॥ १० ॥

मलाक्तादर्श-तुल्यं वा सर्वं शुक्लं स-दाह-रुक् ।
रोगो ऽयं शुक्तिका-संज्ञः स-शकृद्-भेद-तृड्-ज्वरः ॥ ११ ॥

१०.११bv सर्वं शुक्लम् अ-दाह-रुक् कफाच् छुक्ले समं श्वेतं चिर-वृद्ध्य्-अधि-मांसकम् ।
शुक्लार्म शोफस् त्व् अ-रुजः स-वर्णो बहलो ऽ-मृदुः ॥ १२ ॥

गुरुः स्निग्धो ऽम्बु-बिन्द्व्-आभो बलास-ग्रथितं स्मृतं ।
बिन्दुभिः पिष्ट-धवलैर् उत्सन्नैः पिष्टकं वदेत् ॥ १३ ॥

१०.१३dv बलास-ग्रन्थि स स्मृतः रक्त-राजी-ततं शुक्लम् उष्यते यत् स-वेदनम् ।
अ-शोफाश्रूपदेहं च सिरोत्पातः स शोणितात् ॥ १४ ॥

१०.१४cv स-शोथाश्रूपदेहं च उपेक्षितह् सिरोत्पातो राजीस् ता एव वर्धयन् ।
कुर्यात् सास्रं सिरा-हर्षं तेनाक्ष्य्-उद्वीक्षणा-क्षमम् ॥ १५ ॥

१०.१५cv कुर्यात् साश्रुं सिरा-हर्षं १०.१५dv तेनाक्षं वीक्षणा-क्षमम् सिरा-जाले सिरा-जालं बृहद् रक्तं घनोन्नतम् ।
शोणितार्म समं श्लक्ष्णं पद्माभम् अधि-मांसकम् ॥ १६ ॥

नी-रुक् श्लक्ष्णो ऽर्जुनं बिन्दुः शश-लोहित-लोहितः ।
मृद्व्-आशु-वृद्ध्य्-अ-रुङ्-मांसं प्रस्तारि श्याव-लोहितम् ॥ १७ ॥

प्रस्तार्य्-अर्म मलैः सास्रैः स्नावार्म स्नाव-संनिभम् ।
शुष्कासृक्-पिण्ड-वच् छ्यावं यन् मांसं बहलं पृथु ॥ १८ ॥

अधि-मांसार्म तद् दाह-घर्ष-वत्यः सिरावृताः ।
कृष्णासन्नाः सिरा-संज्ञाः पिटिकाः सर्षपोपमाः ॥ १९ ॥

१०.१९av अधि-मांसार्म रुग्-दाह- शुक्ति-हर्ष-सिरोत्पात-पिष्टक-ग्रथितार्जुनम् ।
साधयेद् औषधैः षट्कं शेषं शस्त्रेण सप्तकम् ॥ २० ॥

१०.२०av शुक्ति-हर्ष-सिरोत्पातान् १०.२०bv पिष्टक-ग्रथितार्जुनम् नवोत्थं तद् अपि द्रव्यैर् अर्मोक्तं यच् च पञ्च-धा ।
तच् छेद्यम् असित-प्राप्तं मांस-स्नाव-सिरावृतम् ॥ २१ ॥

१०.२१bv अर्मोक्तं यत् तु पञ्च-धा चर्मोद्दाल-वद् उच्छ्रायि दृष्टि-प्राप्तं च वर्जयेत् ।
पित्तं कृष्णे ऽथ-वा दृष्टौ शुक्रं तोदाश्रु-राग-वत् ॥ २२ ॥

१०.२२bv दृष्टि-प्राप्तं तु वर्जयेत् १०.२२dv शुक्रं तोदास्र-राग-वत् छित्त्वा त्वचं जनयति तेन स्यात् कृष्ण-मण्डलम् ।
पक्व-जम्बू-निभं किञ्-चिन् निम्नं च क्षत-शुक्रकम् ॥ २३ ॥

तत् कृच्छ्र-साध्यं याप्यं तु द्वितीय-पटल-व्यधात् ।
तत्र तोदादि-बाहुल्यं सूची-विद्धाभ-कृष्ण-ता ॥ २४ ॥

तृतीय-पटल-च्छेदाद् अ-साध्यं निचितं व्रणैः ।
शङ्ख-शुक्लं कफात् साध्यं नाति-रुक् शुद्ध-शुक्रकम् ॥ २५ ॥

आ-ताम्र-पिच्छिलास्र-स्रुद् आ-ताम्र-पिटिकाति-रुक् ।
अजा-विट्-सदृशोच्छ्राय-कार्ष्ण्या वर्ज्यासृजाजका ॥ २६ ॥

१०.२६av आ-ताम्र-पिच्छिलाश्रुः स्याद् १०.२६av आ-ताम्र-पिच्छिलासृक् स्याद् १०.२६cv अजा-विट्-सदृशोच्छ्राया १०.२६dv कृष्णा वर्ज्यासृजाजका सिरा-शुक्रं मलैः सास्रैस् तज्-जुष्टं कृष्ण-मण्डलम् ।
स-तोद-दाह-ताम्राभिः सिराभिर् अवतन्यते ॥ २७ ॥

अ-निमित्तोष्ण-शीताच्छ-घनास्र-स्रुच् च तत् त्यजेत् ।
दोषैः सास्रैः सकृत् कृष्णं नीयते शुक्ल-रूप-ताम् ॥ २८ ॥

१०.२८bv -घनाश्रु स्याच् च तत् त्यजेत् १०.२८bv -घनाश्रु-स्रावि तत् त्यजेत् १०.२८ब्च् -घनाश्रु-स्रुच् च तत् त्यजेत् १०.२८cv दोषैः सास्रैः स-दृक् कृष्णं धवलाभ्रोपलिप्ताभं निष्पावार्ध-दलाकृति ।
अति-तीव्र-रुजा-राग-दाह-श्वयथु-पीडितम् ॥ २९ ॥

पाकात्ययेन तच् छुक्रं वर्जयेत् तीव्र-वेदनम् ।
यस्य वा लिङ्ग-नाशो ऽन्तः श्यावं यद् वा स-लोहितम् ॥ ३० ॥

अत्य्-उत्सेधावगाढं वा साश्रु नाडी-व्रणावृतम् ।
पुराणं विषमं मध्ये विच्छिन्नं यच् च शुक्रकम् ॥ ३१ ॥

१०.३१bv सास्र-नाडी-व्रणावृतम् पञ्चेत्य् उक्ता गदाः कृष्णे साध्या-साध्य-विभागतः ॥ ३१ऊ̆अब् ॥

अध्याय 11[सम्पाद्यताम्]

उपनाहं भिषक् स्विन्नं भिन्नं व्रीहि-मुखेन च ।
लेखयेन् मण्डलाग्रेण ततश् च प्रतिसारयेत् ॥ १ ॥

११.१bv भिन्नं व्रीहि-मुखेन तु पिप्पली-क्षौद्र-सिन्धूत्थैर् बध्नीयात् पूर्व-वत् ततः ।
पटोल-पत्त्रामलक-क्वाथेनाश्च्योतयेच् च तम् ॥ २ ॥

पर्वणी बडिशेनात्ता बाह्य-संधि-त्रि-भागतः ।
वृद्धि-पत्त्रेण वर्ध्यार्धे स्याद् अश्रु-गतिर् अन्य-था ॥ ३ ॥

११.३av पर्वणी बडिशेनान्तर्- ११.३bv -बाह्य-संधि-त्रि-भागतः ११.३dv स्याद् अस्र-गतिर् अन्य-था ११.३dv स्याद् अस्र-स्रुतिर् अन्य-था चिकित्सा चार्म-वत् क्षौद्र-सैन्धव-प्रतिसारिता ।
पूयालसे सिरां विध्येत् ततस् तम् उपनाहयेत् ॥ ४ ॥

११.४dv ततस् तद् उपनाहयेत् कुर्वीत चाक्षि-पाकोक्तं सर्वं कर्म यथा-विधि ।
सैन्धवार्द्रक-कासीस-लोह-ताम्रैः सु-चूर्णितैः ॥ ५ ॥

चूर्णाञ्जनं प्रयुञ्जीत स-क्षौद्रैर् वा रस-क्रियाम् ।
कृमि-ग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च ॥ ६ ॥

त्रि-फला-क्षौद्र-कासीस-सैन्धवैः प्रतिसारयेत् ।
पित्ताभिष्यन्द-वच् छुक्तिं बलासाह्वय-पिष्टके ॥ ७ ॥

११.७dv बलासाह्वय-पिष्टकौ कफाभिष्यन्द-वन् मुक्त्वा सिरा-व्यधम् उपाचरेत् ।
बीजपूर-रसाक्तं च व्योष-कट्फलम् अञ्जनम् ॥ ८ ॥

जाती-मुकुल-सिन्धूत्थ-देवदारु-महौषधैः ।
पिष्टैः प्रसन्नया वर्तिः शोफ-कण्डू-घ्नम् अञ्जनम् ॥ ९ ॥

११.९dv शोफ-कण्डू-घ्नम् औषधम् रक्त-स्यन्द-वद् उत्पात-हर्ष-जालार्जुन-क्रिया ।
सिरोत्पाते विशेषेण घृत-माक्षिकम् अञ्जनम् ॥ १० ॥

सिरा-हर्षे तु मधुना श्लक्ष्ण-घृष्टं रसाञ्जनम् ।
अर्जुने शर्करा-मस्तु-क्षौद्रैर् आश्च्योतनं हितम् ॥ ११ ॥

स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाञ्जनम् ।
मधुना चाञ्जनं शङ्खः फेनो वा सितया सह ॥ १२ ॥

११.१२av स्फटिकं कुङ्कुमं शङ्खं ११.१२bv कासीसं मधुनाञ्जनम् अर्मोक्तं पञ्च-धा तत्र तनु धूमाविलं च यत् ।
रक्तं दधि-निभं यच् च शुक्र-वत् तस्य भेषजम् ॥ १३ ॥

उत्तानस्येतरत् स्विन्नं स-सिन्धूत्थेन चाञ्जितम् ।
रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत् ॥ १४ ॥

इत्थं संरोषिताक्षस्य प्रचले ऽर्माधि-मांसके ।
घृतस्य निश्-चलं मूर्ध्नि वर्त्मनोश् च विशेषतः ॥ १५ ॥

११.१५bv प्रबले ऽर्माधि-मांसके अपाङ्गम् ईक्षमाणस्य वृद्धे ऽर्मणि कनीनकात् ।
वली स्याद् यत्र तत्रार्म बडिशेनावलम्बितम् ॥ १६ ॥

नात्य्-आयतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः ।
समन्तान् मण्डलाग्रेण मोचयेद् अथ मोक्षितम् ॥ १७ ॥

११.१७av नात्य्-आयतं समुत्पाट्य कनीनकम् उपानीय चतुर्-भागावशेषितम् ।
छिन्द्यात् कनीनकं रक्षेद् वाहिनीश् चाश्रु-वाहिनीः ॥ १८ ॥

११.१८cv छिन्द्यात् कनीनकं रक्षन् ११.१८cv छिन्द्यात् कनीनकं रक्ष्ये कनीनक-व्यधाद् अश्रु नाडी चाक्ष्णि प्रवर्तते ।
वृद्धे ऽर्मणि तथापाङ्गात् पश्यतो ऽस्य कनीनकम् ॥ १९ ॥

११.१९av कनीनक-वधाद् अश्रु ११.१९av कनीनक-वधाद् आशु ११.१९av कनीनक-व्यधाद् अ-स्रु- ११.१९bv -नाडी चाक्ष्णि प्रवर्तते सम्यक्-छिन्नं मधु-व्योष-सैन्धव-प्रतिसारितम् ।
उष्णेन सर्पिषा सिक्तम् अभ्यक्तं मधु-सर्पिषा ॥ २० ॥

बध्नीयात् सेचयेन् मुक्त्वा तृतीयादि-दिनेषु च ।
करञ्ज-बीज-सिद्धेन क्षीरेण क्वथितैस् तथा ॥ २१ ॥

स-क्षौद्रैर् द्वि-निशा-लोध्र-पटोली-यष्टि-किंशुकैः ।
कुरण्ट-मुकुलोपेतैर् मुञ्चेद् एवाह्नि सप्तमे ॥ २२ ॥

११.२२cv कोरण्ट-मुकुलोपेतैर् सम्यक्-छिन्ने भवेत् स्वास्थ्यं हीनाति-च्छेद-जान् गदान् ।
सेकाञ्जन-प्रभृतिभिर् जयेल् लेखन-बृंहणैः ॥ २३ ॥

सिता-मनःशिलैलेय-लवणोत्तम-नागरम् ।
अर्ध-कर्षोन्मितं तार्क्ष्यं पलार्धं च मधु-द्रुतम् ॥ २४ ॥

११.२४dv पलार्धं च मधु-प्लुतम् अञ्जनं श्लेष्म-तिमिर-पिल्ल-शुक्रार्म-शोष-जित् ।
त्रि-फलैक-तम-द्रव्य-त्वचं पानीय-कल्किताम् ॥ २५ ॥

११.२५bv -पिल्ल-शुक्रार्म-काच-जित् शराव-पिहितां दग्ध्वा कपाले चूर्णयेत् ततः ।
पृथक्-शेषौषध-रसैः पृथग् एव च भाविता ॥ २६ ॥

सा मषी शोषिता पेष्या भूयो द्वि-लवणान्विता ।
त्रीण्य् एतान्य् अञ्जनान्य् आह लेखनानि परं निमिः ॥ २७ ॥

सिरा-जाले सिरा यास् तु कठिना लेखनौषधैः ।
न सिध्यन्त्य् अर्म-वत् तासां पिटिकानां च साधनम् ॥ २८ ॥

दोषानुरोधाच् छुक्रेषु स्निग्ध-रूक्षा वरा घृतम् ।
तिक्तम् ऊर्ध्वम् असृक्-स्रावो रेक-सेकादि चेष्यते ॥ २९ ॥

११.२९av दोषानुबन्धाच् छुक्रेषु ११.२९bv स्निग्धा रूक्षा वरा घृतम् ११.२९bv स्निग्ध-रूक्ष-वरा घृतम् ११.२९cv तिक्तम् ऊर्ध्वम् असृक्-स्राव- ११.२९dv -रेक-सेकादि चेष्यते त्रिस् त्रिवृद्-वारिणा पक्वं क्षत-शुक्रे घृतं पिबेत् ।
सिरयानु हरेद् रक्तं जलौकोभिश् च लोचनात् ॥ ३० ॥

सिद्धेनोत्पल-काकोली-द्राक्षा-यष्टी-विदारिभिः ।
स-सितेनाज-पयसा सेचनं सलिलेन वा ॥ ३१ ॥

रागाश्रु-वेदना-शान्तौ परं लेखनम् अञ्जनम् ।
वर्तयो जाति-मुकुल-लाक्षा-गैरिक-चन्दनैः ॥ ३२ ॥

प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षत-शुक्रकम् ।
दन्तैर् दन्ति-वराहोष्ट्र-गवाश्वाज-खरोद्भवैः ॥ ३३ ॥

११.३३av प्रसादयन्ति पित्तासृक् ११.३३dv -गो-रासभ-समुद्भवैः स-शङ्ख-मौक्तिकाम्भो-धि-फेनैर् मरिच-पादिकैः ।
क्षत-शुक्रम् अपि व्यापि दन्त-वर्तिर् निवर्तयेत् ॥ ३४ ॥

तमाल-पत्त्रं गो-दन्त-शङ्ख-फेनो ऽस्थि गार्दभम् ।
ताम्रं च वर्तिर् मूत्रेण सर्व-शुक्रक-नाशिनी ॥ ३५ ॥

११.३५cv ताम्रं च बस्त-मूत्रेण रत्नानि दन्ताः शृङ्गाणि धातवस् त्र्य्-ऊषणं त्रुटी ।
करञ्ज-बीजं लशुनो व्रण-सादि च भेषजम् ॥ ३६ ॥

स-व्रणा-व्रण-गम्भीर-त्वक्-स्थ-शुक्र-घ्नम् अञ्जनम् ।
निम्नम् उन्नमयेत् स्नेह-पान-नस्य-रसाञ्जनैः ॥ ३७ ॥

स-रुजं नी-रुजं तृप्ति-पुट-पाकेन शुक्रकम् ।
शुद्ध-शुक्रे निशा-यष्टी-शारिवा-शाबराम्भसा ॥ ३८ ॥

११.३८dv -शारिवा-साधिताम्भसा सेचनं लोध्र-पोटल्या कोष्णाम्भो-मग्नयाथ-वा ।
बृहती-मूल-यष्ट्य्-आह्व-ताम्र-सैन्धव-नागरैः ॥ ३९ ॥

धात्री-फलाम्बुना पिष्टैर् लेपितं ताम्र-भाजनम् ।
यवाज्यामलकी-पत्त्रैर् बहु-शो धूपयेत् ततः ॥ ४० ॥

तत्र कुर्वीत गुटिकास् ता जल-क्षौद्र-पेषिताः ।
महा-नीला इति ख्याताः शुद्ध-शुक्र-हराः परम् ॥ ४१ ॥

स्थिरे शुक्रे घने चास्य बहु-शो ऽपहरेद् असृक् ।
शिरः-काय-विरेकांश् च पुट-पाकांश् च भूरि-शः ॥ ४२ ॥

कुर्यान् मरिच-वैदेही-शिरीष-फल-सैन्धवैः ।
हर्षणं त्रि-फला-क्वाथ-पीतेन लवणेन वा ॥ ४३ ॥

११.४३cv घर्षणं त्रि-फला-क्वाथ- ११.४३cv सर्षप-त्रि-फला-क्वाथ- कुर्याद् अञ्जन-योगौ वा श्लोकार्ध-गदिताव् इमौ ।
शङ्ख-कोलास्थि-कतक-द्राक्षा-मधुक-माक्षिकैः ॥ ४४ ॥

सुरा-दन्तार्णव-मलैः शिरीष-कुसुमान्वितैः ।
धात्री-फणिज्जक-रसे क्षारो लाङ्गलिकोद्भवः ॥ ४५ ॥

११.४५av खर-दन्तार्णव-मलैः ११.४५dv क्षारो लाङ्गलिका-भवः ११.४५dv क्षारो लाङ्गलिकी-भवः उषितः शोषितश् चूर्णः शुक्र-हर्षणम् अञ्जनम् ।
मुद्गा वा निस्-तुषाः पिष्टाः शङ्ख-क्षौद्र-समायुताः ॥ ४६ ॥

११.४६bv शुक्र-घर्षणम् अञ्जनम् सारो मधूकान् मधु-मान् मज्जा वाक्षात् स-माक्षिका ।
गो-खराश्वोष्ट्र-दशनाः शङ्खः फेनः समुद्र-जः ॥ ४७ ॥

११.४७av सारो मधूकात् स-मधुर् ११.४७av सारो मधूकान् मधुना वर्तिर् अर्जुन-तोयेन हृष्ट-शुक्रक-नाशिनी ।
उत्सन्नं वा स-शल्यं वा शूक्रं वालादिभिर् लिखेत् ॥ ४८ ॥

११.४८bv पिष्टा शुक्रक-नाशिनी ११.४८bv दुष्ट-शुक्रक-नाशिनी सिरा-शुक्रे त्व् अ-दृष्टि-घ्ने चिकित्सा व्रण-शुक्र-वत् ।
पुण्ड्र-यष्ट्य्-आह्व-काकोली-सिंही-लोह-निशाञ्जनम् ॥ ४९ ॥

कल्कितं छाग-दुग्धेन स-घृतैर् धूपितं यवैः ।
धात्री-पत्त्रैश् च पर्यायाद् वर्तिर् अत्राञ्जनं परम् ॥ ५० ॥

११.५०dv वर्तिर् अत्राञ्जनं हितम् ११.५०dv वर्तिर् नेत्राञ्जनं परम् अ-शान्ताव् अर्म-वच् छस्त्रम् अजकाख्ये च योजयेत् ।
अजकायाम् अ-साध्यायां शुक्रे ऽन्य-त्र च तद्-विधे ॥ ५१ ॥

वेदनोपशमं स्नेह-पानासृक्-स्रावणादिभिः ।
कुर्याद् बीभत्स-तां जेतुं शुक्रस्योत्सेध-साधनम् ॥ ५२ ॥

११.५२dv शुक्ल-त्वोत्सेध-साधनम् नारिकेलास्थि-भल्लात-ताल-वंश-करीर-जम् ।
भस्माद्भिः स्रावयेत् ताभिर् भावयेत् करभास्थि-जम् ॥ ५३ ॥

चूर्णं शुक्रेष्व् अ-साध्येषु तद् वैवर्ण्य-घ्नम् अञ्जनम् ।
साध्येषु साधनायालम् इदम् एव च शीलितम् ॥ ५४ ॥

अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ।
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत् ॥ ५५ ॥

व्रणं गो-मांस-चूर्णेन बद्धं बद्धं विमुच्य च ।
सप्त-रात्राद् व्रणे रूढे कृष्ण-भागे समे स्थिरे ॥ ५६ ॥

स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीर-सर्पिषा ।
तथापि पुनर्-आध्माने भेद-च्छेदादिकां क्रियाम् ॥ ५७ ॥

११.५७cv तथापि पुनर्-आध्माते युक्त्या कुर्याद् यथा नाति-च्छेदेन स्यात् निमज्जनम् ॥ ५७ऊ̆अब् ॥
११.५७ऊ̆अव् युक्त्या युञ्ज्याद् यथा नाति- नित्यं च शुक्रेषु शृतं यथा-स्वं पाने च मर्शे च घृतं विदध्यात् ।
न हीयते लब्ध-बला तथान्तस् तीक्ष्णाञ्जनैर् दृक् सततं प्रयुक्तैः ॥ ५८ ॥

११.५८dv तीक्ष्णाञ्जनैर् दृक् प्रततं प्रयुक्तैः

अध्याय 12[सम्पाद्यताम्]

सिरानुसारिणि मले प्रथमं पटलं श्रिते ।
अ-व्यक्तम् ईक्षते रूपं व्यक्तम् अप्य् अ-निमित्ततः ॥ १ ॥

१२.१bv प्रथमं पटलं गते १२.१cv अ-व्यक्तम् ईक्ष्यते रूपं प्राप्ते द्वितीयं पटलं अ-भूतम् अपि पश्यति ।
भूतं तु यत्नाद् आसन्नं दूरे सूक्ष्मं च नेक्षते ॥ २ ॥

१२.२dv दूरं सूक्ष्मं च नेक्षते दूरान्तिक-स्थं रूपं च विपर्यासेन मन्यते ।
दोषे मण्डल-संस्थाने मण्डलानीव पश्यति ॥ ३ ॥

द्वि-धैकं दृष्टि-मध्य-स्थे बहु-धा बहु-धा-स्थिते ।
दृष्टेर् अभ्यन्तर-गते ह्रस्व-वृद्ध-विपर्ययम् ॥ ४ ॥

१२.४dv ह्रस्व-दीर्घ-विपर्ययम् १२.४dv ह्रस्वं बहु विपर्ययम् नान्तिक-स्थम् अधः-संस्थे दूर-गं नोपरि स्थिते ।
पार्श्वे पश्येन् न पार्श्व-स्थे तिमिराख्यो ऽयम् आमयः ॥ ५ ॥

प्राप्नोति काच-तां दोषे तृतीय-पटलाश्रिते ।
तेनोर्ध्वम् ईक्षते नाधस् तनु-चैलावृतोपमम् ॥ ६ ॥

१२.६cv तेनोर्ध्वम् ईक्ष्यते नाधस् यथा-वर्णं च रज्येत दृष्टिर् हीयेत च क्रमात् ।
तथाप्य् उपेक्षमाणस्य चतुर्थं पटलं गतः ॥ ७ ॥

१२.७av यथा-दोषं च रज्येत लिङ्ग-नाशं मलः कुर्वंश् छादयेद् दृष्टि-मण्डलम् ।
तत्र वातेन तिमिरे व्याविद्धम् इव पश्यति ॥ ८ ॥

चलाविलारुणाभासं प्रसन्नं चेक्षते मुहुः ।
जालानि केशान् मशकान् रश्मींश् चोपेक्षिते ऽत्र च ॥ ९ ॥

१२.९av धूमाविलारुणाभासं १२.९bv प्रसन्नं वीक्षते मुहुः १२.९dv रश्मींश् चोपेक्षिते ऽत्र तु काची-भूते दृग् अरुणा पश्यत्य् आस्यम् अ-नासिकम् ।
चन्द्र-दीपाद्य्-अनेक-त्वं वक्रम् ऋज्व् अपि मन्यते ॥ १० ॥

वृद्धः काचो दृशं कुर्याद् रजो-धूमावृताम् इव ।
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हत-दर्शनाम् ॥ ११ ॥

१२.११cv स्फुटारुणाभां विस्तीर्णां स लिङ्ग-नाशो वाते तु संकोचयति दृक्-सिराः ।
दृङ्-मण्डलं विशत्य् अन्तर् गम्भीरा दृग् असौ स्मृता ॥ १२ ॥

पित्त-जे तिमिरे विद्युत्-खद्योत-द्योत-दीपितम् ।
शिखि-तित्तिरि-पत्त्राभं प्रायो नीलं च पश्यति ॥ १३ ॥

१२.१३bv -खद्योतोद्योत-दीपितम् १२.१३cv शिखि-तित्तिरि-पिच्छाभं काचे दृग् काच-नीलाभा तादृग् एव च पश्यति ।
अर्केन्दु-परिवेषाग्नि-मरीचीन्द्र-धनूंषि च ॥ १४ ॥

१२.१४av काचे दृग् कांस्य-नीलाभा भृङ्ग-नीला निर्-आलोका दृक् स्निग्धा लिङ्ग-नाशतः ।
दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्व-दर्शिनी ॥ १५ ॥

भवेत् पित्त-विदग्धाख्या पीता पीताभ-दर्शना ।
कफेन तिमिरे प्रायः स्निग्धं श्वेतं च पश्यति ॥ १६ ॥

१२.१६bv पीता पीताभ-दर्शिनी शङ्खेन्दु-कुन्द-कुसुमैः कुमुदैर् इव चाचितम् ।
काचे तु निष्-प्रभेन्द्व्-अर्क-प्रदीपाद्यैर् इवाचितम् ॥ १७ ॥

१२.१७bv कुमुदैर् इव वाचितम् सिताभा सा च दृष्टिः स्याल् लिङ्ग-नाशे तु लक्ष्यते ।
मूर्तः कफो दृष्टि-गतः स्निग्धो दर्शन-नाशनः ॥ १८ ॥

बिन्दुर् जलस्येव चलः पद्मिनी-पुट-संस्थितः ।
उष्णे संकोचम् आयाति च्छायायां परिसर्पति ॥ १९ ॥

१२.१९bv पद्मिनी-पुट-संश्रितः १२.१९bv पद्मिनी-पत्त्र-संश्रितः शङ्ख-कुन्देन्दु-कुमुद-स्फटिकोपम-शुक्लिमा ।
रक्तेन तिमिरे रक्तं तमो-भूतं च पश्यति ॥ २० ॥

काचेन रक्ता कृष्णा वा दृष्टिस् तादृक् च पश्यति ।
लिङ्ग-नाशे ऽपि तादृग् दृङ् निष्-प्रभा हत-दर्शना ॥ २१ ॥

संसर्ग-संनिपातेषु विद्यात् संकीर्ण-लक्षणान् ।
तिमिरादीन् अ-कस्माच् च तैः स्याद् व्यक्ताकुलेक्षणः ॥ २२ ॥

१२.२२dv तैः स्याद् वक्राकुलेक्षणः १२.२२dv तैः स्याद् व्यक्ताकुलेक्षणम् तिमिरे शेषयोर् दृष्टौ चित्रो रागः प्रजायते ।
द्योत्यते नकुलस्येव यस्य दृङ् निचिता मलैः ॥ २३ ॥

नकुलान्धः स तत्राह्नि चित्रं पश्यति नो निशि ।
अर्के ऽस्त-मस्तक-न्यस्त-गभस्तौ स्तम्भम् आगताः ॥ २४ ॥

स्थगयन्ति दृशं दोषा दोषान्धः स गदो ऽपरः ।
दिवा-कर-कर-स्पृष्टा भ्रष्टा दृष्टि-पथान् मलाः ॥ २५ ॥

विलीन-लीना यच्छन्ति व्यक्तम् अत्राह्नि दर्शनम् ।
उष्ण-तप्तस्य सहसा शीत-वारि-निमज्जनात् ॥ २६ ॥

त्रि-दोष-रक्त-संपृक्तो यात्य् ऊष्मोर्ध्वं ततो ऽक्षिणि ।
दाहोषे मलिनं शुक्लम् अहन्य् आविल-दर्शनम् ॥ २७ ॥

रात्राव् आन्ध्यं च जायेत विदग्धोष्णेन सा स्मृता ।
भृशम् अम्लाशनाद् दोषैः सास्रैर् या दृष्टिर् आचिता ॥ २८ ॥

स-क्लेद-कण्डू-कलुषा विदग्धाम्लेन सा स्मृता ।
शोक-ज्वर-शिरो-रोग-संतप्तस्यानिलादयः ॥ २९ ॥

१२.२९bv विदग्धाम्लेन सा मता धूमाविलां धूम-दृशं दृशं कुर्युः स धूमरः ।
सहसैवाल्प-सत्-त्वस्य पश्यतो रूपम् अद्भुतम् ॥ ३० ॥

१२.३०av धूमाविलां धूम-दृशां १२.३०bv दृशं कुर्युः स धूसरः १२.३०bv दृशं कुर्युः स धूमकः भास्वरं भास्-करादिं वा वाताद्या नयनाश्रिताः ।
कुर्वन्ति तेजः संशोष्य दृष्टिं मुषित-दर्शनाम् ॥ ३१ ॥

१२.३१av भासुरं भास्-करादिं वा वैडूर्य-वर्णां स्तिमितां प्रकृति-स्थाम् इवा-व्यथाम् ।
औपसर्गिक इत्य् एष लिङ्ग-नाशो ऽत्र वर्जयेत् ॥ ३२ ॥

विना कफाल् लिङ्ग-नाशान् गम्भीरां ह्रस्व-जाम् अपि ।
षट् काचा नकुलान्धश् च याप्याः शेषांस् तु साधयेत् ॥ ३३ ॥

१२.३३cv षट् काचा नकुलान्ध्यश् च द्वा-दशेति गदा दृष्टौ निर्दिष्टाः सप्त-विंशतिः ॥ ३३ऊ̆अब् ॥

अध्याय 13[सम्पाद्यताम्]

तिमिरं काच-तां याति काचो ऽप्य् आन्ध्यम् उपेक्षया ।
नेत्र-रोगेष्व् अतो घोरं तिमिरं साधयेद् द्रुतम् ॥ १ ॥

तुलां पचेत जीवन्त्या द्रोणे ऽपां पाद-शेषिते ।
तत्-क्वाथे द्वि-गुण-क्षीरं घृत-प्रस्थं विपाचयेत् ॥ २ ॥

१३.२cv तत्-क्वाथे द्वि-गुणं क्षीरं प्रपौण्डरीक-काकोली-पिप्पली-लोध्र-सैन्धवैः ।
शताह्वा-मधुक-द्राक्षा-सिता-दारु-फल-त्रयैः ॥ ३ ॥

कार्षिकैर् निशि तत् पीतं तिमिरापहरं परम् ।
द्राक्षा-चन्दन-मञ्जिष्ठा-काकोली-द्वय-जीवकैः ॥ ४ ॥

१३.४bv तिमिराणां हरं परम् सिता-शतावरी-मेदा-पुण्ड्राह्व-मधुकोत्पलैः ।
पचेज् जीर्ण-घृत-प्रस्थं सम-क्षीरं पिचून्मितैः ॥ ५ ॥

१३.५cv पचेज् जीर्णं घृत-प्रस्थं हन्ति तत् काच-तिमिर-रक्त-राजी-शिरो-रुजः ।
पटोल-निम्ब-कटुका-दार्वी-सेव्य-वरा-वृषम् ॥ ६ ॥

स-धन्वयास-त्रायन्ती-पर्पटं पालिकं पृथक् ।
प्रस्थम् आमलकानां च क्वाथयेन् नल्वणे ऽम्भसि ॥ ७ ॥

तद्-आढके ऽर्ध-पलिकैः पिष्टैः प्रस्थं घृतात् पचेत् ।
मुस्त-भूनिम्ब-यष्ट्य्-आह्व-कुटजोदीच्य-चन्दनैः ॥ ८ ॥

१३.८av तद्-आढके ऽर्ध-पलिकैर् १३.८bv घृत-प्रस्थं विपाचयेत् स-पिप्पलीकैस् तत् सर्पिर् घ्राण-कर्णास्य-रोग-जित् ।
विद्रधि-ज्वर-दुष्टारुर्-विसर्पापचि-कुष्ठ-नुत् ॥ ९ ॥

१३.९av स-व्योष-चव्यैस् तत् सर्पिर् १३.९bv घ्राण-कर्णाक्षि-रोग-जित् १३.९cv विद्रधि-ज्वर-दुष्टास्र- विशेषाच् छुक्र-तिमिर-नक्तान्ध्योष्णाम्ल-दाह-हृत् ।
त्रि-फलाष्ट-पलं क्वाथ्यं पाद-शेषं जलाढके ॥ १० ॥

१३.१०bv -नक्तान्ध्योष्णाम्ल-दाह-नुत् १३.१०dv पाद-शेषे जलाढके तेन तुल्य-पयस्केन त्रि-फला-पल-कल्क-वान् ।
अर्ध-प्रस्थो घृतात् सिद्धः सितया माक्षिकेण वा ॥ ११ ॥

युक्तं पिबेत् तत् तिमिरी तद्-युक्तं वा वरा-रसम् ।
यष्टीमधु-द्वि-काकोली-व्याघ्री-कृष्णामृतोत्पलैः ॥ १२ ॥

पालिकैः स-सिता-द्राक्षैर् घृत-प्रस्थं पचेत् समैः ।
अजा-क्षीर-वरा-वसा-मार्कव-स्व-रसैः पृथक् ॥ १३ ॥

महा-त्रैफलम् इत्य् एतत् परं दृष्टि-विकार-जित् ।
त्रैफलेनाथ हविषा लिहानस् त्रि-फलां निशि ॥ १४ ॥

१३.१४bv परं दृष्टि-विकार-नुत् यष्टीमधुक-संयुक्तां मधुना च परिप्लुताम् ।
मासम् एकं हिताहारः पिबन्न् आमलकोदकम् ॥ १५ ॥

सौपर्णं लभते चक्षुर् इत्य् आह भग-वान् निमिः ।
ताप्यायो-हेम-यष्ट्य्-आह्व-सिता-जीर्णाज्य-माक्षिकैः ॥ १६ ॥

संयोजिता यथा-कामं तिमिर-घ्नी वरा वरा ।
स-घृतं वा वरा-क्वाथं शीलयेत् तिमिरामयी ॥ १७ ॥

अपूप-सूप-सक्तून् वा त्रि-फला-चूर्ण-संयुतान् ।
पायसं वा वरा-युक्तं शीतं स-मधु-शर्करम् ॥ १८ ॥

१३.१८av अपूप-तक्र-सक्तून् वा प्रातर् भक्तस्य वा पूर्वम् अद्यात् पथ्यां पृथक् पृथक् ।
मृद्वीका-शर्करा-क्षौद्रैः सततं तिमिरातुरः ॥ १९ ॥

१३.१९av प्रातर् भुक्तस्य वा पूर्वम् स्रोतो-जांशांश् चतुः-षष्टिं ताम्रायो-रूप्य-काञ्चनैः ।
युक्तान् प्रत्य्-एकम् एकांशैर् अन्ध-मूषोदर-स्थितान् ॥ २० ॥

ध्मापयित्वा समावृत्तं ततस् तच् च निषेचयेत् ।
रस-स्कन्ध-कषायेषु सप्त-कृत्वः पृथक् पृथक् ॥ २१ ॥

वैडूर्य-मुक्ता-शङ्खानां त्रिभिर् भागैर् युतं ततः ।
चूर्णाञ्जनं प्रयुञ्जीत तत् सर्व-तिमिरापहम् ॥ २२ ॥

१३.२२dv तत् सर्वं तिमिरापहम् मांसी-त्रि-जातकायः-कुङ्कुम-नीलोत्पलाभया-तुत्थैः ।
सित-काच-शङ्ख-फेनक-मरिचाञ्जन-पिप्पली-मधुकैः ॥ २३ ॥

चन्द्रे ऽश्विनी-स-नाथे सु-चूर्णितैर् अञ्जयेद् युगलं अक्ष्णोः ।
तिमिरार्म-रक्त-राजी-कण्डू-काचादि-शमम् इच्छन् ॥ २४ ॥

मरिच-वर-लवण-भागौ भागौ द्वौ कण-समुद्र-फेनाभ्याम् ।
सौवीर-भाग-नवकं चित्रायां चूर्णितं कफामय-जित् ॥ २५ ॥

१३.२५dv चित्रा-संचूर्णितं कफामय-जित् मनोह्वा-तुत्थ-कस्तूरी-मांसी-मलय-रोचनाः ।
दश-कर्पूर-संयुक्तम् अशीति-गुणम् अञ्जनम् ॥ २५+(१) ॥
१३.२५+(१)च्व् दर-कर्पूर-संयुक्तम् पिष्टं चित्राश्विनी-पुष्ये षड्-विधे तिमिरे हितम् ।
प्रसादनं च दृष्टेः स्याच् चक्षुषेणावभाषितम् ॥ २५+(२) ॥
द्राक्षा-मृणाली-स्व-रसे क्षीर-मद्य-वसासु च ।
पृथक् दिव्याप्सु स्रोतो-जं सप्त-कृत्वो निषेचयेत् ॥ २६ ॥

तच् चूर्णितं स्थितं शङ्खे दृक्-प्रसादनम् अञ्जनम् ।
शस्तं सर्वाक्षि-रोगेषु विदेह-पति-निर्मितम् ॥ २७ ॥

१३.२७av तच् चूर्णितं घृतं शङ्खे निर्दग्धं बादराङ्गारैस् तुत्थं चेत्थं निषेचितम् ।
क्रमाद् अजा-पयः-सर्पिः-क्षौद्रे तस्मात् पल-द्वयम् ॥ २८ ॥

१३.२८bv तुत्थं चैवं निषेचितम् १३.२८cv क्रमाच् छाग-पयः-सर्पिः- कार्षिकैस् ताप्य-मरिच-स्रोतो-ज-कटुका-नतैः ।
पटु-लोध्र-शिला-पथ्या-कणैलाञ्जन-फेनकैः ॥ २९ ॥

युक्तं पलेन यष्ट्याश् च मूषान्तर्-ध्मात-चूर्णितम् ।
हन्ति काचार्म-नक्तान्ध्य-रक्त-राजीः सु-शीलितः ॥ ३० ॥

चूर्णो विशेषात् तिमिरं भास्-करो भास्-करो यथा ।
त्रिंशद्-भागा भुजङ्गस्य गन्ध-पाषाण-पञ्चकम् ॥ ३१ ॥

शुल्ब-तालकयोर् द्वौ द्वौ वङ्गस्यैको ऽञ्जनात् त्रयम् ।
अन्ध-मूषी-कृतं ध्मातं पक्वं वि-मलम् अञ्जनम् ॥ ३२ ॥

१३.३२av शुल्ब-तारकयोर् द्वौ द्वौ १३.३२cv अन्ध-मूषा-गतं ध्मातं तिमिरान्त-करं लोके द्वितीय इव भास्-करः ॥ ३३अब् ॥
१३.३३av तिमिरापहरं लोके गो-मूत्रे छगण-रसे ऽम्ल-काञ्जिके च स्त्री-स्तन्ये ॥ ३३च् ॥
१३.३३cv गो-मूत्रे छगल-रसे ऽम्ल-काञ्जिके च हविषि विषे च माक्षिके च ॥ ३३द् ॥
यत् तुत्थं ज्वलितम् अनेक-शो निषिक्तं ॥ ३३ए ॥
तत् कुर्याद् गरुड-समं नरस्य चक्षुः ॥ ३३f ॥
तुत्थं स-काशं कनकं स-फलं शङ्ख-शिला-गैरिकम् अञ्जनं च ।
नरः कपाल-सहि-कूङ्कुडाण्डं सप्त-द्वि-सप्त-त्रि-समयो गतः ॥ ३३+१ ॥

भृङ्गोद्भव-स्व-रस-भावितम् आज-दुग्धे मूत्रे गवाम् पयसि च त्रि-फला-कषाये ।
द्राक्षा-रसे च परिशुद्धम् इति क्रमेण सौवीरम् अञ्जनम् इदं तिमिरं निहन्ति ॥ ३३+२ ॥
श्रेष्ठा-जलं भृङ्ग-रसं स-विषाज्यम् अजा-पयः ।
यष्टी-रसं च यत् सीसं सप्त-कृत्वः पृथक् पृथक् ॥ ३४ ॥

१३.३४av श्रेष्ठा-रसं भृङ्ग-रसं तप्तं तप्तं पायितं तच्-छलाका नेत्रे युक्ता साञ्जनान्-अञ्जना वा ।
तैमिर्यार्म-स्राव-पैच्छिल्य-पैल्लं कण्डूं जाड्यं रक्त-राजीं च हन्ति ॥ ३५ ॥

रसेन्द्र-भुजगौ तुल्यौ तयोस् तुल्यम् अथाञ्जनम् ।
ईषत्-कर्पूर-संयुक्तम् अञ्जनं तिमिरापहम् ॥ ३६ ॥

१३.३६cv ईषत्-कर्पूर-सहितम् १३.३६dv अञ्जनं तिमिरे वरम् १३.३६dv अञ्जनं नयनामृतम् यो गृध्रस् तरुण-रवि-प्रकाश-गल्लस् तस्यास्यं समय-मृतस्य गो-शकृद्भिः ।
निर्दग्धं सम-घृतम् अञ्जनं च पेष्यं योगो ऽयं नयन-बलं करोति गार्ध्रम् ॥ ३७ ॥
कृष्ण-सर्प-वदने स-हविष्कं दग्धम् अञ्जन-निःसृत-धूमम् ।
चूर्णितं नलद-पत्त्र-विमिश्रं भिन्न-तारम् अपि रक्षति चक्षुः ॥ ३८ ॥

१३.३८bv दग्धम् अञ्जन-निर्गत-धूमम् १३.३८cv योजितं नलद-पत्त्र-विमिश्रं नागाञ्जनाश्माल-शिलार्क-वङ्गैस् त्रिंशद्-द्वि-पञ्च-द्वयम् अ-द्विकैकैः ।
अन्ध-मूषी-कृतैश् छाग-पयो-निषिक्तैर् दृष्टेर् इदं भास्-करम् अञ्जनं स्यात् ॥ ३८+१ ॥

स्रोतो-ऽश्म-वीरं ... वेष्ट्याजमोदा-वट-च्छदैः ।
षट्कं तिमिर-जित् क्लिष्टं मृल्-लिप्तं गो-मयाग्निना ॥ ३८+२ ॥

ताम्रायस्-कान्त-गन्धाह्वा-तार्क्षा यत् सु-च्छलं रजः ।
लोहे भृङ्गरजो भृष्टं सप्ताहं दृष्टि-रोग-जित् ॥ ३८+३ ॥

१३.३८+३bv -तार्क्ष्या यत् सु-च्छलं रजः कृष्ण-सर्पं मृतं न्यस्य चतुरश् चापि वृश्चिकान् ।
क्षीर-कुम्भे त्रि-सप्ताहं क्लेदयित्वा प्रमन्थयेत् ॥ ३९ ॥

१३.३९dv क्लेदयित्वानु मन्थयेत् १३.३९dv क्लेदयित्वाथ मन्थयेत् तत्र यन् नव-नीतं स्यात् पुष्णीयात् तेन कुक्कुटम् ।
अन्धस् तस्य पुऋईषेण प्रेक्षते ध्रुवम् अञ्जनात् ॥ ४० ॥

कृष्ण-सर्प-वसा शङ्खः कतकात् फलम् अञ्जनम् ।
रस-क्रियेयम् अ-चिराद् अन्धानां दर्शन-प्रदा ॥ ४१ ॥

मरिचानि दशार्ध-पिचुस् ताप्यात् तुत्थात् पलं पिचुर् यष्ट्याः ।
क्षीरार्द्र-दग्धम् अञ्जनम् अ-प्रतिसाराख्यम् उत्तमं तिमिरे ॥ ४२ ॥

१३.४२cv मरिचानि दश द्वि-पलं अक्ष-बीज-मरिचामलक-त्वक्-तुत्थ-यष्टिमधुकैर् जल-पिष्टैः ।
छाययैव गुटिकाः परिशुष्का नाशयन्ति तिमिराण्य् अ-चिरेण ॥ ४३ ॥

मरिचामलक-जलोद्भव-तुत्थाञ्जन-ताप्य-धातुभिः क्रम-वृद्धैः ।
षण्-माक्षिक इति योगस् तिमिरार्म-क्लेद-काच-कण्डू-हन्ता ॥ ४४ ॥

१३.४४dv तिमिरार्म-क्लेद-काच-कण्डू-हा १३.४४dv तिमिरार्म-क्लेद-काच-कण्डू-घ्नः रत्नानि रूप्यं स्फटिकं सुवर्णं स्रोतो-ऽञ्जनं ताम्रम् अयः स-शङ्खं ।
कु-चन्दनं लोहित-गैरिकं च चूर्णाञ्जनं सर्व-दृग्-आमय-घ्नम् ॥ ४५ ॥

तिल-तैलम् अक्ष-तैलं भृङ्ग-स्व-रसो ऽसनाच् च निर्यूहः ।
आयस-पात्र-विपक्वं करोति दृष्टेर् बलं नस्यम् ॥ ४६ ॥

१३.४६dv करोति दृष्टेर् बलं नस्यात् दोषानुरोधेन च नैक-शस् तं स्नेहास्र-विस्रावण-रेक-नस्यैः ।
उपाचरेद् अञ्जन-मूर्ध-वस्ति-वस्ति-क्रिया-तर्पण-लेप-सेकैः ॥ ४७ ॥

सामान्यं साधनम् इदं प्रति-दोषम् अतः शृणु ॥ ४८अब् ॥
वात-जे तिमिरे तत्र दश-मूलाम्भसा घृतम् ।
क्षीरे चतुर्-गुणे श्रेष्ठा-कल्क-पक्वं पिबेत् ततः ॥ ४९ ॥

त्रि-फला-पञ्च-मूलानां कषायं क्षीर-संयुतम् ।
एरण्ड-तैल-संयुक्तं योजयेच् च विरेचनम् ॥ ५० ॥

१३.५०cv एरण्ड-तैल-संमिश्रं १३.५०dv योजयेत विरेचनम् स-मूल-जाल-जीवन्ती-तुलां द्रोणे ऽम्भसः पचेत् ।
अष्ट-भाग-स्थिते तस्मिंस् तैल-प्रस्थं पयः-समे ॥ ५१ ॥

१३.५१dv तैल-प्रस्थं पयः-समम् बला-त्रितय-जीवन्ती-वरी-मूलैः पलोन्मितैः ।
यष्टी-पलैश् चतुर्भिश् च लोह-पात्रे विपाचयेत् ॥ ५२ ॥

१३.५२av बला-त्रि-जात-जीवन्ती- लोह एव स्थितं मासं नावनाद् ऊर्ध्व-जत्रु-जान् ।
वात-पित्तामयान् हन्ति तद् विशेषाद् दृग्-आश्रयान् ॥ ५३ ॥

१३.५३av लोह-पात्र-स्थितं मासं १३.५३dv तद् विशेषाद् दृग्-आमयान् केशास्य-कन्धरा-स्कन्ध-पुष्टि-लावण्य-कान्ति-दम् ।
सितैरण्ड-जटा-सिंही-फल-दारु-वचा-नतैः ॥ ५४ ॥

१३.५४bv -पुष्टि-लावण्य-कान्ति-कृत् घोषया बिल्व-मूलैश् च तैलं पक्वं पयो-ऽन्वितम् ।
नस्यं सर्वोर्ध्व-जत्रूत्थ-वात-श्लेष्मामयार्ति-जित् ॥ ५५ ॥

१३.५५av शताह्वा-बिल्व-मूलैश् च वसाञ्जने च वैयाघ्री वाराही वा प्रशस्यते ।
गृध्राहि-कुक्कुटोत्था वा मधुकेनान्विता पृथक् ॥ ५६ ॥

प्रत्यञ्जने च स्रोतो-जं रस-क्षीर-घृते क्रमात् ।
निषिक्तं पूर्व-वद् योज्यं तिमिर-घ्नम् अन्-उत्तमम् ॥ ५७ ॥

१३.५७bv रस-क्षीर-घृतैः क्रमात् न चेद् एवं शमं याति ततस् तर्पणम् आचरेत् ।
शताह्वा-कुष्ठ-नलद-काकोली-द्वय-यष्टिभिः ॥ ५८ ॥

प्रपौण्डरीक-सरल-पिप्पली-देवदारुभिः ।
सर्पिर् अष्ट-गुण-क्षीरं पक्वं तर्पणम् उत्तमम् ॥ ५९ ॥

मेदसस् तद्-वद् ऐणेयाद् दुग्ध-सिद्धात् खजाहतात् ।
उद्धृतं साधितं तेजो मधुकोशीर-चन्दनैः ॥ ६० ॥

श्वाविच्-छल्यक-गोधानां दक्ष-तित्तिरि-बर्हिणाम् ।
पृथक् पृथग् अनेनैव विधिना कल्पयेद् वसाम् ॥ ६१ ॥

१३.६१av श्वाविच्-छल्यक-गोधानाम् १३.६१av श्वा-विष्किराक-गोधानाम् १३.६१bv ऋक्ष-तित्तिरि-बर्हिणाम् प्रसादनं स्नेहनं च पुट-पाकं प्रयोजयेत् ।
वात-पीनस-वच् चात्र निरूहं सानुवासनम् ॥ ६२ ॥

१३.६२dv निरूहं चानुवासनम् पित्त-जे तिमिरे सर्पिर् जीवनीय-फल-त्रयैः ।
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत् सिराम् ॥ ६३ ॥

शर्करैला-त्रिवृच्-चूर्णैर् मधु-युक्तैर् विरेचयेत् ।
सु-शीतान् सेक-लेपादीन् युञ्ज्यान् नेत्रास्य-मूर्धसु ॥ ६४ ॥

शारिवा-पद्मकोशीर-मुक्ता-शाबर-चन्दनैः ।
वर्तिः शस्ताञ्जने चूर्णस् तथा पत्त्रोत्पलाञ्जनैः ॥ ६५ ॥

१३.६५cv वर्तिः शस्ताञ्जनं चूर्णस् १३.६५dv तथा पद्मोत्पलाञ्जनैः स-नागपुष्प-कर्पूर-यष्ट्य्-आह्व-स्वर्ण-गैरिकैः ।
सौवीराञ्जन-तुत्थक-शृङ्गी-धात्री-फल-स्फटिक-कर्पूरम् ॥ ६६ ॥

पञ्चांशं पञ्चांशं त्र्य्-अंशम् अथैकांशम् अञ्जनं तिमिर-घ्नम् ।
नस्यं चाज्यं शृतं क्षीर-जीवनीय-सितोत्पलैः ॥ ६७ ॥

श्लेष्मोद्भवे ऽमृता-क्वाथ-वरा-कण-शृतं घृतम् ।
विध्येत् सिरां पीत-वतो दद्याच् चानु विरेचनम् ॥ ६८ ॥

क्वाथं पूगाभया-शुण्ठी-कृष्णा-कुम्भ-निकुम्भ-जम् ।
ह्रीवेर-दारु-द्वि-निशा-कृष्णा-कल्कैः पयो-ऽन्वितैः ॥ ६९ ॥

द्वि-पञ्च-मूल-निर्यूहे तैलं पक्वं च नावनम् ।
शङ्ख-प्रियङ्गु-नेपाली-कटु-त्रिक-फल-त्रिकैः ॥ ७० ॥

दृग्-वैमल्याय वि-मला वर्तिः स्यात् कोकिला पुनः ।
कृष्ण-लोह-रजो-व्योष-सैन्धव-त्रि-फलाञ्जनैः ॥ ७१ ॥

१३.७१bv वर्तिः स्यात् कौलिका पुनः शश-गो-खर-सिंहोष्ट्र-द्वि-जा लालाटम् अस्थि च ।
श्वेत-गो-वाल-मरिच-शङ्ख-चन्दन-फेनकम् ॥ ७२ ॥

पिष्टं स्तन्याज्य-दुग्धाभ्यां वर्तिस् तिमिर-शुक्र-जित् ।
रक्त-जे पित्त-वत् सिद्धिः शीतैश् चास्रं प्रसादयेत् ॥ ७३ ॥

मधूक-साराञ्जन-ताम्र-त्रि-कटुक-विडङ्ग-पौण्डरीकाणि ।
स-लवण-तुत्थ-त्रि-फला-लोध्राणि नभो-ऽम्बु-पिष्टानि ॥ ७३+१ ॥

वर्तिश् चतुर्-दशाङ्गी नयनामय-नाशनी शिला-स्तम्भे ।
लिखिता हिताय जगतस् तिमिरापहरी विशेषेण ॥ ७३+२ ॥

एक-गुणा मागधिका द्वि-गुणा च हरीतकी सलिल-पिष्टा ।
वर्तिर् इयं तिमिर-पटल-काच-कण्ड्व्-अस्र-हरी ॥ ७३+३ ॥

द्राक्षया नलद-लोध्र-यष्टिभिः शङ्ख-ताम्र-हिम-पद्म-पद्मकैः ।
सोत्पलैश् छगल-दुग्ध-वर्तितैर् अस्र-जं तिमिरम् आशु नश्यति ॥ ७४ ॥

१३.७४av द्राक्षया नलद-लोध्र-यष्टिका- १३.७४bv -शङ्ख-ताम्र-हिम-पद्म-पद्मकैः १३.७४bv -शङ्ख-ताम्र-हिम-पद्म-पत्त्रकैः संसर्ग-संनिपातोत्थे यथा-दोषोदयं क्रिया ।
सिद्धं मधूक-कृमिजिन्-मरिचामरदारुभिः ॥ ७५ ॥

स-क्षीरं नावनं तैलं पिष्टैर् लेपो मुखस्य च ।
नत-नीलोत्पलानन्ता-यष्ट्य्-आह्व-सुनिषण्णकैः ॥ ७६ ॥

साधितं नावने तैलं शिरो-वस्तौ च शस्यते ।
दद्याद् उशीर-निर्यूहे चूर्णितं कण-सैन्धवम् ॥ ७७ ॥

१३.७७av साधितं नावनं तैलं तत् स्रुतं स-घृतं भूयः पचेत् क्षौद्रं घने क्षिपेत् ।
शीते चास्मिन् हितम् इदं सर्व-जे तिमिरे ऽञ्जनम् ॥ ७८ ॥

१३.७८av तच् छृतं स-घृतं भूयः अस्थीनि मज्ज-पूर्णानि सत्-त्वानां रात्रि-चारिणाम् ।
स्रोतो-जाञ्जन-युक्तानि वहत्य् अम्भसि वासयेत् ॥ ७९ ॥

१३.७९cv स्रोतो-ऽञ्जनेन युक्तानि मासं विंशति-रात्रं वा ततश् चोद्धृत्य शोषयेत् ।
स-मेषशृङ्गी-पुष्पाणि स-यष्ट्य्-आह्वानि तान्य् अनु ॥ ८० ॥

१३.८०dv स-यष्ट्य्-आह्वानि तानि तु चूर्णितान्य् अञ्जनं श्रेष्ठं तिमिरे सांनिपातिके ।
काचे ऽप्य् एषा क्रिया मुक्त्वा सिरां यन्त्र-निपीडिताः ॥ ८१ ॥

१३.८१dv सिरा यन्त्र-निपीडिताः १३.८१dv सिरां यन्त्र-निपीडनात् आन्ध्याय स्युर् मला दद्यात् स्राव्ये त्व् अस्रे जलौकसः ।
गुडः फेनो ऽञ्जनं कृष्णा मरिचं कुङ्कुमाद् रजः ॥ ८२ ॥

१३.८२av आन्ध्याय स्युर् अतो दद्यात् रस-क्रियेयं स-क्षौद्रा काच-यापनम् अञ्जनम् ।
नकुलान्धे त्रि-दोषोत्थे तैमिर्य-विहितो विधिः ॥ ८३ ॥

१३.८३dv तैमिर्य-विधि-वत् क्रियाः रस-क्रिया घृत-क्षौद्र-गो-मय-स्व-रस-द्रुतैः ।
तार्क्ष्य-गैरिक-तालीशैर् निशान्धे हितम् अञ्जनम् ॥ ८४ ॥

१३.८४dv निशान्ध्ये हितम् अञ्जनम् दध्ना विघृष्टं मरिचं रात्र्य्-अन्धे ऽञ्जनम् उत्तमम् ।
करञ्जिकोत्पल-स्वर्ण-गैरिकाम्भो-ज-केसरैः ॥ ८५ ॥

१३.८५bv रात्र्य्-अन्धाञ्जनम् उत्तमम् १३.८५cv कारञ्जिकोत्पल-स्वर्ण- पिष्टैर् गो-मय-तोयेन वर्तिर् दोषान्ध-नासिनी ।
अजा-मूत्रेण वा कौन्ती-कृष्णा-स्रोतो-ज-सैन्धवैः ॥ ८६ ॥

१३.८६bv वर्तिर् दोषान्ध्य-नासिनी कालानुसारी-त्रि-कटु-त्रि-फलाल-मनःशिलाः ।
स-फेनाश् छाग-दुग्धेन रात्र्य्-अन्धे वर्तयो हिताः ॥ ८७ ॥

१३.८७dv रात्र्य्-आन्ध्ये वर्तयो हिताः संनिवेश्य यकृन्-मध्ये पिप्पलीर् अ-दहन् पचेत् ।
ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठम् अञ्जनम् ॥ ८८ ॥

१३.८८dv निशान्ध्ये श्रेष्ठम् अञ्जनम् १३.८८dv नक्तान्ध्ये श्रेष्ठम् अञ्जनम् खादेच् च प्लीह-यकृती माहिषे तैल-सर्पिषा ।
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत् ॥ ८९ ॥

तथातिमुक्तकैरण्ड-शेफाल्य्-अभीरु-जानि च ।
भृष्टं घृतं कुम्भयोनेः पत्त्रैः पाने च पूजितम् ॥ ९० ॥

१३.९०cv सिद्धं घृतं कुम्भ-योनेः १३.९०dv पत्त्रैः पाने ऽति-पूजितम् धूमराख्याम्ल-पित्तोष्ण-विदाहे जीर्ण-सर्पिषा ।
स्निग्धं विरेचयेच् छीतैः शीतैर् दिह्याच् च सर्वतः ॥ ९१ ॥

गो-शकृद्-रस-दुग्धाज्यैर् विपक्वं शस्यते ऽञ्जनम् ।
स्वर्ण-गैरिक-तालीश-चूर्णावापा रस-क्रिया ॥ ९२ ॥

मेदा-शाबरकानन्ता-मञ्जिष्ठा-दार्वि-यष्टिभिः ।
क्षीराष्टांशं घृतं पक्वं स-तैलं नावनं हितम् ॥ ९३ ॥

तर्पणं क्षीर-सर्पिः स्याद् अ-शाम्यति सिरा-व्यधः ।
चिन्ताभिघात-भी-शोक-रौक्ष्यात् सोत्कटकासनात् ॥ ९४ ॥

१३.९४dv -रूक्षाम्ल-कटुकाशनात् विरेक-नस्य-वमन-पुट-पाकादि-विभ्रमात् ।
विदग्धाहार-वमनात् क्षुत्-तृष्णादि-विधारणात् ॥ ९५ ॥

अक्षि-रोगावसानाच् च पश्येत् तिमिर-रोगि-वत् ।
यथा-स्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम् ॥ ९६ ॥

सूर्योपरागानल-विद्युद्-आदि-विलोकनेनोपहतेक्षणस्य ।
संतर्पणं स्निग्ध-हिमादि कार्यं तथाञ्जनं हेम घृतेन घृष्टम् ॥ ९७ ॥

चक्षू-रक्षायां सर्व-कालं मनुष्यैर् यत्नः कर्तव्यो जीविते यावद् इच्छा ।
व्यर्थो लोको ऽयं तुल्य-रात्रिन्-दिवानां पुंसाम् अन्धानां विद्यमाने ऽपि वित्ते ॥ ९८ ॥

त्रि-फला रुधिर-स्रुतिर् विशुद्धिर् मनसो निर्वृतिर् अञ्जनं स-नस्यम् ।
शकुनाशन-ता स-पाद-पूजा घृत-पानं च सदैव नेत्र-रक्षा ॥ ९९ ॥

१३.९९bv मनसो निर्वृतिर् अञ्जनं च नस्यम् १३.९९cv शयनासन-ता स-पाद-पूजा १३.९९cv शयनासन-तोष-पाद-पूजा अ-हिताद् अशनात् सदा निवृत्तिर् भृश-भास्-वच्-चल-सूक्ष्म-वीक्षणाच् च ।
मुनिना निमिनोपदिष्टम् एतत् परमं रक्षणम् ईक्षणस्य पुंसाम् ॥ १०० ॥


अध्याय 14[सम्पाद्यताम्]

विध्येत् सु-जातं निष्-प्रेक्ष्यं लिङ्ग-नाशं कफोद्भवम् ।
आवर्तक्य्-आदिभिः षड्भिर् विवर्जितम् उपद्रवैः ॥ १ ॥

सो ऽ-संजातो हि विषमो दधि-मस्तु-निभस् तनुः ।
शलाकयावकृष्टो ऽपि पुनर् ऊर्ध्वं प्रपद्यते ॥ २ ॥

१४.२dv पुनर् ऊर्ध्वं प्रवर्तते करोति वेदनां तीव्रां दृष्टिं च स्थगयेत् पुनः ।
श्लेष्मलैः पूर्यते चाशु सो ऽन्यैः सोपद्रवश् चिरात् ॥ ३ ॥

१४.३dv सो ऽन्यैः सोपद्रवैश् चिरात् श्लैष्मिको लिङ्ग-नाशो हि सित-त्वाच् छ्लेष्मणः सितः ।
तस्यान्य-दोषाभिभवाद् भवत्य् आ-नील-ता गदः ॥ ४ ॥

१४.४dv भवत्य् आ-नील-ता गदे १४.४dv भवत्य् आ-नीलिका गदे तत्रावर्त-चला दृष्टिर् आवर्तक्य् अरुणासिता ।
शर्करार्क-पयो-लेश-निचितेव घनाति च ॥ ५ ॥

१४.५bv आवर्तक्य् अरुणा सिता राजी-मती दृङ् निचिता शालि-शूकाभ-राजिभिः ।
विषम-च्छिन्न-दग्धाभा स-रुक् छिन्नांशुका स्मृता ॥ ६ ॥

दृष्टिः कांस्य-सम-च्छाया चन्द्रकी चन्द्रकाकृतिः ।
छत्त्राभा नैक-वर्णा च छत्त्रकी नाम नीलिका ॥ ७ ॥

न विध्येद् अ-सिरार्हाणां न तृट्-पीनस-कासिनाम् ।
ना-जीर्णि-भीरु-वमित-शिरः-कर्णाक्षि-शूलिनाम् ॥ ८ ॥

१४.८bv न दृक्-पीनस-कासिनाम् अथ साधारणे काले शुद्ध-संभोजितात्मनः ।
देशे प्रकाशे पूर्वाह्णे भिषग् जानूच्च-पीठ-गः ॥ ९ ॥

यन्त्रितस्योपविष्टस्य स्विन्नाक्षस्य मुखानिलैः ।
अङ्गुष्ठ-मृदिते नेत्रे दृष्टौ दृष्ट्वोत्प्लुतं मलम् ॥ १० ॥

स्वां नासां प्रेक्षमाणस्य निष्-कम्पं मूर्ध्नि धारिते ।
कृष्णाद् अर्धाङ्गुलं मुक्त्वा तथार्धार्धम् अपाङ्गतः ॥ ११ ॥

१४.११av स्व-नासां प्रेक्षमाणस्य १४.११dv तद् अर्धार्धम् अपाङ्गतः तर्जनी-मध्यमाङ्गुष्ठैः शलाकां निश्-चलं धृताम् ।
दैव-च्छिद्रं नयेत् पार्श्वाद् ऊर्ध्वम् आमन्थयन् इव ॥ १२ ॥

सव्यं दक्षिण-हस्तेन नेत्रं सव्येन चेतरत् ।
विध्येत् सु-विद्धे शब्दः स्याद् अ-रुक् चाम्बु-लव-स्रुतिः ॥ १३ ॥

सान्त्वयन्न् आतुरं चानु नेत्रं स्तन्येन सेचयेत् ।
शलाकायास् ततो ऽग्रेण निर्लिखेन् नेत्र-मण्डलम् ॥ १४ ॥

१४.१४dv निर्लिखेद् दृष्टि-मण्डलम् अ-बाधमानः शनकैर् नासां प्रति नुदंस् ततः ।
उच्छिङ्घनाच् चापहरेद् दृष्टि-मण्डल-गं कफम् ॥ १५ ॥

१४.१५cv उच्छिङ्खनाच् चापहरेद् स्थिरे दोषे चले वाति स्वेदयेद् अक्षि बाह्यतः ।
अथ दृष्टेषु रूपेषु शलाकाम् आहरेच् छनैः ॥ १६ ॥

१४.१६av स्थिरे दोषे चले वापि घृताप्लुतं पिचुं दत्त्वा बद्धाक्षं शाययेत् ततः ।
विद्धाद् अन्येन पार्श्वेन तम् उत्तानं द्वयोर् व्यधे ॥ १७ ॥

१४.१७cv व्यधाद् अन्येन पार्श्वेन निवाते शयने ऽभ्यक्त-शिरः-पादं हिते रतम् ।
क्षवथुं कासम् उद्गारं ष्ठीवनं पानम् अम्भसः ॥ १८ ॥

१४.१८bv -शिरो-गात्रं हिते रतम् अधो-मुख-स्थितिं स्नानं दन्त-धावन-भक्षणम् ।
सप्ताहं नाचरेत् स्नेह-पीत-वच् चात्र यन्त्रणा ॥ १९ ॥

शक्तितो लङ्घयेत् सेको रुजि कोष्णेन सर्पिषा ।
स-व्योषामलकं वाट्यम् अश्नीयात् स-घृतं द्रवम् ॥ २० ॥

विलेपीं वा त्र्य्-अहाच् चास्य क्वाथैर् मुक्त्वाक्षि सेचयेत् ।
वात-घ्नैः सप्तमे त्व् अह्नि सर्व-थैवाक्षि मोचयेत् ॥ २१ ॥

यन्त्रणाम् अनुरुध्येत दृष्टेर् आ-स्थैर्य-लाभतः ।
रूपाणि सूक्ष्म-दीप्तानि सहसा नावलोकयेत् ॥ २२ ॥

शोफ-राग-रुजादीनाम् अधिमन्थस्य चोद्भवः ।
अ-हितैर् वेध-दोषाच् च यथा-स्वं तान् उपाचरेत् ॥ २३ ॥

१४.२३cv अ-हितैर् वेध्य-दोषाच् च १४.२३dv यथा-स्वं तान् उपक्रमेत् कल्किताः स-घृता दूर्वा-यव-गैरिक-शारिवाः ।
मुखालेपे प्रयोक्तव्या रुजा-रागोपशान्तये ॥ २४ ॥

स-सर्षपास् तिलास् तद्-वन् मातुलुङ्ग-रसाप्लुताः ।
पयस्या-शारिवा-पत्त्र-मञ्जिष्ठा-मधुयष्टिभिः ॥ २५ ॥

अजा-क्षीर-युतैर् लेपः सुखोष्णः शर्म-कृत् परम् ।
लोध्र-सैन्धव-मृद्वीका-मधुकैश् छागलं पयः ॥ २६ ॥

१४.२६av अजा-क्षीरान्वितैर् लेपः शृतम् आश्च्योतनं योज्यं रुजा-राग-विनाशनम् ।
मधुकोत्पल-कुष्ठैर् वा द्राक्षा-लाक्षा-सितान्वितैः ॥ २७ ॥

१४.२७cv मधुकोत्पल-कुष्ठैला- १४.२७dv द्राक्षा-लाक्षा-रसान्वितैः १४.२७dv -द्राक्षा-लाक्षा-सितान्वितैः १४.२७dv -द्राक्षा-लाक्षा-रसान्वितैः वात-घ्न-सिद्धे पयसि शृतं सर्पिश् चतुर्-गुणे ।
पद्मकादि-प्रतीवापं सर्व-कर्मसु शस्यते ॥ २८ ॥

सिरां तथान्-उपशमे स्निग्ध-स्विन्नस्य मोक्षयेत् ।
मन्थोक्तां च क्रियां कुर्याद् वेधे रूढे ऽञ्जनं मृदु ॥ २९ ॥

१४.२९dv व्यधे रूढे ऽञ्जनं मृदु आढकी-मूल-मरिच-हरिताल-रसाञ्जनैः ।
विद्धे ऽक्ष्णि स-गुडा वर्तिर् योज्या दिव्याम्बु-पेषिता ॥ ३० ॥

जाती-शिरीष-धव-मेषविषाणि-पुष्प-वैडूर्य-मौक्तिक-फलं पयसा सु-पिष्टम् ।
आजेन ताम्रम् अमुना प्रतनु प्रदिग्धं सप्ताहतः पुनर् इदं पयसैव पिष्टम् ॥ ३१ ॥
१४.३१av जाती-शिरीष-धव-मेषविषाण-पुष्प- पिण्डाञ्जनं हितम् अन्-आतप-शुष्कम् अक्ष्णि विद्धे प्रसाद-जननं बल-कृच् च दृष्टेः ।
स्रोतो-ज-विद्रुम-शिलाम्बु-धि-फेन-तीक्ष्णैर् अस्यैव तुल्यम् उदितं गुण-कल्पनाभिः ॥
३२ ॥

१४.३२cv स्रोतो-ज-विद्रुम-शिलार्णव-फेन-तीक्ष्णैर्

अध्याय 15[सम्पाद्यताम्]

वातेन नेत्रे ऽभिष्यण्णे नासानाहो ऽल्प-शोफ-ता ।
शङ्खाक्षि-भ्रू-ललाटस्य तोद-स्फुरण-भेदनम् ॥ १ ॥

१५.१av वातेन नेत्रे ऽभिष्यन्दे १५.१cv शङ्खाक्षि-भ्रू-ललाटास्य- १५.१dv -तोद-स्फुरण-भेदनम् शुष्काल्पा दूषिका शीतम् अच्छं चाश्रु चला रुजः ।
निमेषोन्मेषणं कृच्छ्राज् जन्तूनाम् इव सर्पणम् ॥ २ ॥

१५.२bv अच्छम् अश्रु चला रुजः अक्ष्य् आध्मातम् इवाभाति सूक्ष्मैः शल्यैर् इवाचितम् ।
स्निग्धोष्णैश् चोपशमनं सो ऽभिष्यन्द उपेक्षितः ॥ ३ ॥

१५.३cv स्निग्धोष्णेच्छोपशमनं अधिमन्थो भवेत् तत्र कर्णयोर् नदनं भ्रमः ।
अरण्येव च मथ्यन्ते ललाटाक्षि-भ्रुवादयः ॥ ४ ॥

हताधिमन्थः सो ऽपि स्यात् प्रमादात् तेन वेदनाः ।
अनेक-रूपा जायन्ते व्रणो दृष्टौ च दृष्टि-हा ॥ ५ ॥

मन्याक्षि-शङ्खतो वायुर् अन्यतो वा प्रवर्तयन् ।
व्यथां तीव्राम् अ-पैच्छिल्य-राग-शोफं विलोचनम् ॥ ६ ॥

१५.६bv अन्यतो वा प्रवर्तयेत् संकोचयति पर्य्-अश्रु सो ऽन्यतो-वात-संज्ञितः ।
तद्-वज् जिह्मं भवेन् नेत्रम् ऊनं वा वात-पर्यये ॥ ७ ॥

१५.७cv तद्-वज् जिह्मं भवेन् नेत्रं १५.७cv तद्-वन् नेत्रं भवेज् जिह्मम् १५.७dv शूनं वा वात-पर्यये दाहो धूमायनं शोफः श्याव-ता वर्त्मनो बहिः ।
अन्तः-क्लेदो ऽश्रु पीतोष्णं रागः पीताभ-दर्शनम् ॥ ८ ॥

क्षारोक्षित-क्षताक्षि-त्वं पित्ताभिष्यन्द-लक्षणम् ।
ज्वलद्-अङ्गार-कीर्णाभं यकृत्-पिण्ड-सम-प्रभम् ॥ ९ ॥

अधिमन्थे भवेन् नेत्रं स्यन्दे तु कफ-संभवे ।
जाड्यं शोफो महान् कण्डूर् निद्रान्नान्-अभिनन्दनम् ॥ १० ॥

सान्द्र-स्निग्ध-बहु-श्वेत-पिच्छा-वद्-दूषिकाश्रु-ता ।
अधिमन्थे नतं कृष्णम् उन्नतं शुक्ल-मण्डलम् ॥ ११ ॥

१५.११bv -पिच्छा-वद्-दूषिकास्र-ता प्रसेको नासिकाध्मानं पांसु-पूर्णम् इवेक्षणम् ।
रक्ताश्रु-राजी-दूषीका-रक्त-मण्डल-दर्शनम् ॥ १२ ॥

१५.१२cv रक्तास्र-राजी-दूषीका- १५.१२dv -शुक्ल-मण्डल-दर्शनम् रक्त-स्यन्देन नयनं स-पित्त-स्यन्द-लक्षणम् ।
मन्थे ऽक्षि ताम्र-पर्य्-अन्तम् उत्पाटन-समान-रुक् ॥ १३ ॥

रागेण बन्धूक-निभं ताम्यति स्पर्शना-क्षमम् ।
असृङ्-निमग्नारिष्टाभं कृष्णम् अग्न्य्-आभ-दर्शनम् ॥ १४ ॥

अधिमन्था यथा-स्वं च सर्वे स्यन्दाधिक-व्यथाः ।
शङ्ख-दन्त-कपोलेषु कपाले चाति-रुक्-कराः ॥ १५ ॥

वात-पित्तातुरं घर्ष-तोद-भेदोपदेह-वत् ।
रूक्ष-दारुण-वर्त्माक्षि कृच्छ्रोन्मील-निमीलनम् ॥ १६ ॥

१५.१६av वात-पित्तोत्तरं घर्ष- विकूणन-विशुष्क-त्व-शीतेच्छा-शूल-पाक-वत् ।
उक्तः शुष्कादि-पाको यं स-शोफः स्यात् त्रिभिर् मलैः ॥ १७ ॥

१५.१७av विकूणनं विशुष्कं च १५.१७av विकूणेन विशुष्क-त्वं १५.१७bv शीतेच्छा-शूल-पाक-वत् स-रक्तैस् तत्र शोफो ऽति-रुग्-दाह-ष्ठीवनादि-मान् ।
पक्वोदुम्बर-संकाशं जायते शुक्ल-मण्डलम् ॥ १८ ॥

अश्रूष्ण-शीत-विशद-पिच्छिलाच्छ-घनं मुहुः ।
अल्प-शोफे ऽल्प-शोफस् तु पाको ऽन्यैर् लक्षणैस् तथा ॥ १९ ॥

१५.१९cv अल्प-शोफो ऽल्प-शोफस् तु अक्षि-पाकात्यये शोफः संरम्भः कलुषाश्रु-ता ।
कफोपदिग्धम् असितं सितं प्रक्लेद-राग-वत् ॥ २० ॥

१५.२०cv कफेन दिग्धम् असितं दाहो दर्शन-संरोधो वेदनाश् चान्-अवस्थिताः ।
अन्न-सारो ऽम्ल-तां नीतः पित्त-रक्तोल्बणैर् मलैः ॥ २१ ॥

सिराभिर् नेत्रम् आरूढः करोति श्याव-लोहितम् ।
स-शोफ-दाह-पाकाश्रु भृशं चाविल-दर्शनम् ॥ २२ ॥

अम्लोषितो ऽयम् इत्य् उक्ता गदाः षो-डश सर्व-गाः ।
हताधिमन्थम् एतेषु साक्षि-पाकात्ययं त्यजेत् ॥ २३ ॥

१५.२३cv हताधिमन्थं चैतेषु वातोद्भूतः पञ्च-रात्रेण दृष्टिं सप्ताहेन श्लेष्म-जातो ऽधिमन्थः ।
रक्तोत्पन्नो हन्ति तद्-वत् त्रि-रात्रान् मिथ्याचारात् पैत्तिकः सद्य एव ॥ २४ ॥

१५.२४bv सप्ताहेन श्लेष्म-जश् चाधिमन्थः

अध्याय 16[सम्पाद्यताम्]

प्राग्-रूप एव स्यन्देषु तीक्ष्णं गण्डूष-नावनम् ।
कारयेद् उपवासं च कोपाद् अन्य-त्र वात-जात् ॥ १ ॥

दाहोपदेह-रागाश्रु-शोफ-शान्त्यै बिडालकम् ।
कुर्यात् सर्व-त्र पत्त्रैला-मरिच-स्वर्ण-गैरिकैः ॥ २ ॥

स-रसाञ्जन-यष्ट्य्-आह्व-नत-चन्दन-सैन्धवैः ।
सैन्धवं नागरं तार्क्ष्यं भृष्टं मण्डेन सर्पिषः ॥ ३ ॥

१६.३dv घृष्टं मण्डेन सर्पिषः बदरी-पत्त्र-यष्ट्य्-आह्व-पथ्यामलक-तुत्थकम् ।
अन्तर्-धूमं दहेत् सद्यः कोपे तच्-चूर्णं वात-जे ॥ ३.१+१ ॥

वात-जे घृत-भृष्टं वा योज्यं शबर-देश-जम् ।
मांसी-पद्मक-कालीय-यष्ट्य्-आह्वैः पित्त-रक्तयोः ॥ ४ ॥

१६.४bv योज्यं शाबर-देश-जम् १६.४cv मांसी-पद्मक-काकोली- मनोह्वा-फलिनी-क्षौद्रैः कफे सर्वैस् तु सर्व-जे ॥ ५अब् ॥
सित-मरिच-भागम् एकं चतुर्-मनोह्वं द्विर् अष्ट-शाबरकम् ॥ ५च्द् ॥
संचूर्ण्य वस्त्र-बद्धं प्रकुपित-मात्रे ऽवगुण्ठनं नेत्रे ॥ ५एf ॥
१६.५एव् संचूर्ण्यम् अति-प्रबद्धं १६.५fव् प्रकुपित-मात्रे ऽवगुण्ठनम् इदं नेत्रे धातु-शुण्ठ्य्-अभया-तार्क्ष्यं बहिर्-लेपो ऽक्षि-रोग-हा ॥ ५.१(१)+१अब् ॥
१६.५.१(१)+१av धातु-शुण्ठ्य्-अभया-तार्क्ष्य- १६.५.१(१)+१bv -बहिर्-लेपो ऽक्षि-रोग-हा हरीतकी-सैन्धव-तार्क्ष्य-शीलैः स-गैरिकैः स्व-स्व-कर-प्रमृष्टैः ।
बहिः-प्रलेपं नयनस्य कुर्यात् सर्वाक्षि-रोग-प्रशमार्थम् एतत् ॥ ५.१(२)+१ ॥

आरण्याश् छगण-रसे पटावबद्धाः सु-स्विन्ना नख-वि-तुषी-कृताः कुलत्थाः ।
तच्-चूर्णं सकृद् अवचूर्णनान् निशीथे नेत्राणां विधमति सद्य एव कोपम् ॥ ६ ॥

१६.६av आरण्याश् छगण-रसे पटावनद्धाः घोषाभया-तुत्थक-यष्टि-लोध्रैर् मूती सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः ।
ताम्र-स्थ-धान्याम्ल-निमग्न-मूर्तिर् अर्तिं जयत्य् अक्षिणि नैक-रूपाम् ॥ ७ ॥

१६.७av घोषाभया-तुत्थक-यष्टि-लोध्रैः १६.७av व्योषाभया-तुत्थक-यष्टि-लोध्रैर् १६.७bv गुण्डी सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः १६.७bv पिष्टैः सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः १६.७cv ताम्राच्छ-धान्याम्ल-निमग्न-मूर्तिर् षो-डशभिः सलिल-पलैः पलं तथैकं कटङ्कटेर्याः सिद्धम् ।
सेको ऽष्ट-भाग-शिष्टः क्षौद्र-युतः सर्व-दोष-कुपिते नेत्रे ॥ ८ ॥

१६.८dv क्षौद्र-युतः सर्व-दोष-प्रकुपिते नेत्रे वात-पित्त-कफ-संनिपात-जां नेत्रयोर् बहु-विधाम् अपि व्यथाम् ।
शीघ्रम् एव जयति प्रयोजितः शिग्रु-पल्लव-रसः स-माक्षिकः ॥ ९ ॥

तरुणम् उरुबूक-पत्त्रं मूलं च विभिद्य सिद्धम् आजे क्षीरे ।
वाताभिष्यन्द-रुजं सद्यो विनिहन्ति सक्तु-पिण्डिका चोष्णा ॥ १० ॥

१६.१०bv मूलं च विचूर्ण्य सिद्धम् आजे क्षीरे आश्च्योतनं मारुत-जे क्वाथो बिल्वादिभिर् हितः ।
कोष्णः सहैरण्ड-जटा-बृहती-मधु-शिग्रुभिः ॥ ११ ॥

ह्रीवेर-वक्र-शार्ङ्गष्टोदुम्बर-त्वक्षु साधितम् ।
साम्भसा पयसाजेन शूलाश्च्योतनम् उत्तमम् ॥ १२ ॥

१६.१२bv ंदुम्बर-त्वक्-प्रसाधितम् १६.१२bv ंदुम्बर-प्लक्ष-साधितम् लोध्रामलक-रसाञ्ज[न]-बिम्बितिका-पत्त्र-तुबरिका-तुत्थैः ।
आश्च्योतनम् इदम् अक्ष्णोः प्रसह्य सद्यः प्रकोप-हरम् ॥ १२+१ ॥

मञ्जिष्ठा-रजनी-लाक्षा-द्राक्षर्द्धि-मधुकोत्पलैः ।
क्वाथः स-शर्करः शीतः सेचनं रक्त-पित्त-जित् ॥ १३ ॥

१६.१३bv -द्राक्षा-द्वि-मधुकोत्पलैः कसेरु-यष्ट्य्-आह्व-रजस् तान्तवे शिथिलं स्थितम् ।
अप्सु दिव्यासु निहितं हितं स्यन्दे ऽस्र-पित्त-जे ॥ १४ ॥

१६.१४bv तान्तवे शिथिले स्थितम् पुण्ड्र-यष्टी-निशा-मूती प्लुता स्तन्ये स-शर्करे ।
छाग-दुग्धे ऽथ-वा दाह-रुग्-रागाश्रु-निवर्तनी ॥ १५ ॥

श्वेत-लोध्रं स-मधुकं घृत-भृष्टं सु-चूर्णितम् ।
वस्त्र-स्थं स्तन्य-मृदितं पित्त-रक्ताभिघात-जित् ॥ १६ ॥

नागर-त्रि-फला-निम्ब-वासा-लोध्र-रसः कफे ।
कोष्णम् आश्च्योतनं मिश्रैर् भेषजैः सांनिपातिके ॥ १७ ॥

१६.१७bv -वासा-लोध्र-रसाः कफे १६.१७bv -वासा-लोध्र-रसं कफे सर्पिः पुराणं पवने पित्ते शर्करयान्वितम् ।
व्योष-सिद्धं कफे पीत्वा यव-क्षारावचूर्णितम् ॥ १८ ॥

१६.१८bv पित्ते शर्करया युतम् स्रावयेद् रुधिरं भूयस् ततः स्निग्धं विरेचयेत् ।
आनूप-वेसवारेण शिरो-वदन-लेपनम् ॥ १९ ॥

उष्णेन शूले दाहे तु पयः-सर्पिर्-युतैर् हिमैः ।
तिमिर-प्रतिषेधं च वीक्ष्य युञ्ज्याद् यथा-यथम् ॥ २० ॥

अयम् एव विधिः सर्वो मन्थादिष्व् अपि शस्यते ।
अ-शान्तौ सर्व-था मन्थे भ्रुवोर् उपरि दाहयेत् ॥ २१ ॥

रूप्यं रूक्षेण गो-दध्ना लिम्पेन् नील-त्वम् आगते ।
शुष्के तु मस्तुना वर्तिर् वाताक्ष्य्-आमय-नाशिनी ॥ २२ ॥

१६.२२bv लिप्तं नील-त्वम् आगते १६.२२bv लिप्ते नील-त्वम् आगते सुमनः-कोरकाः शङ्खस् त्रि-फला मधुकं बला ।
पित्त-रक्तापहा वर्तिः पिष्टा दिव्येन वारिणा ॥ २३ ॥

१६.२३av सुमनः-क्षारकाः शङ्खस् सैन्धवं त्रि-फला व्योषं शङ्खनाभिः समुद्र-जः ।
फेन ऐलेयकं सर्जो वर्तिः श्लेष्माक्षि-रोग-नुत् ॥ २४ ॥

प्रपौण्डरीकं यष्ट्य्-आह्वं दार्वी चाष्ट-पलं पचेत् ।
जल-द्रोणे रसे पूते पुनः पक्वे घने क्षिपेत् ॥ २५ ॥

पुष्पाञ्जनाद् दश-पलं कर्षं च मरिचात् ततः ।
कृतश् चूर्णो ऽथ-वा वर्तिः सर्वाभिष्यन्द-संभवान् ॥ २६ ॥

हन्ति राग-रुजा-घर्षान् सद्यो दृष्टिं प्रसादयेत् ।
अयं पाशुपतो योगो रहस्यं भिषजां परम् ॥ २७ ॥

शुष्काक्षि-पाके हविषः पानम् अक्ष्णोश् च तर्पणम् ।
घृतेन जीवनीयेन नस्यं तैलेन वाणुना ॥ २८ ॥

१६.२८dv नस्यं तैलेन चाणुना परिषेको हितश् चात्र पयः कोष्णं स-सैन्धवम् ।
सर्पिर्-युक्तं स्तन्य-पिष्टम् अञ्जनं च महौषधम् ॥ २९ ॥

१६.२९cv सर्पिर्-युक्तं स्तन्य-घृष्टम् वसा वानूप-सत्-त्वोत्था किञ्-चित्-सैन्धव-नागरा ।
घृताक्तान् दर्पणे घृष्टान् केशान् मल्लक-संपुटे ॥ ३० ॥

१६.३०av वसा चानूप-सत्-त्वोत्था दग्ध्वाज्य-पिष्टा लोह-स्था सा मषी श्रेष्ठम् अञ्जनम् ।
स-शोफे वाल्प-शोफे च स्निग्धस्य व्यधयेत् सिराम् ॥ ३१ ॥

१६.३१cv स-शोफे चाल्प-शोफे च रेकः स्निग्धे पुनर् द्राक्षा-पथ्या-क्वाथ-त्रिवृद्-घृतैः ।
श्वेत-लोध्रं घृते भृष्टं चूर्णितं तान्तव-स्थितम् ॥ ३२ ॥

१६.३२cv श्वेत-लोध्रं घृत-भृष्टं उष्णाम्बुना विमृदितं सेकः शूल-हरः परम् ।
दार्वी-प्रपौण्डरीकस्य क्वाथो वाश्च्योतने हितः ॥ ३३ ॥

१६.३३cv दार्व्याः प्रपौण्डरीकस्य यष्टी-हिमोत्पल-क्षीरैः कुर्यान् मूर्धस्य लेपनम् ॥ ३३+१अब् ॥
संधावांश् च प्रयुञ्जीत घर्ष-रागाश्रु-रुग्-घरान् ॥ ३३ऊ̆अब् ॥
ताम्रं लोहे मूत्र-घृष्टं प्रयुक्तं नेत्रे सर्पिर्-धूपितं वेदना-घ्नम् ।
ताम्रे घृष्टो गव्य-दध्नः सरो वा युक्तः कृष्णा-सैन्धवाभ्यां वरिष्ठः ॥ ३४ ॥

शङ्खं ताम्रे स्तन्य-घृष्टं घृताक्तैः शम्याः पत्त्रैर् धूपितं तद् यवैश् च ।
नेत्रे युक्तं हन्ति संधाव-संज्ञं क्षिप्रं घर्षं वेदनां चाति-तीव्राम् ॥ ३५ ॥

उदुम्बर-फलं लोहे घृष्टं स्तन्येन धूपितम् ॥ ३६अब् ॥
साज्यैः शमी-च्छदैर् दाह-शूल-रागाश्रु-हर्ष-जित् ।
शिग्रु-पल्लव-निर्यासः सु-घृष्टस् ताम्र-संपुटे ॥ ३७ ॥

१६.३७cv शिग्रु-पल्लव-निर्यासो १६.३७dv घृष्टस् ताम्रस्य संपुटे द्वि-निशा-त्रि-फला-मुस्तैः प्रमदा-दुग्ध-पेषितैः ।
सेकः स-शर्करा-क्षौद्रैर् अभिघात-रुजापहः ॥ ३७.१+१ ॥

१६.३७.१+१bv प्रमदा-दुग्ध-कल्कितैः निषिक्तं तुत्थकं वारान् गो-जले पञ्च-विंशतिम् ।
स्तन्ये वा छाग-दुग्धे वा सद्यः-कोपे तद् अञ्जनम् ॥ ३७.१+२ ॥

घृतेन धूपितो हन्ति शोफ-घर्षाश्रु-वेदनाः ।
तिलाम्भसा मृत्-कपालं कांस्ये घृष्टं सु-धूपितम् ॥ ३८ ॥

निम्ब-पत्त्रैर् घृताभ्यक्तैर् घर्ष-शूलाश्रु-राग-जित् ।
संधावेनाञ्जिते नेत्रे विगतौषध-वेदने ॥ ३९ ॥

स्तन्येनाश्च्योतनं कार्यं त्रिः परं नाञ्जयेच् च तैः ।
तालीश-पत्त्र-चपला-नत-लोह-रजो-ऽञ्जनैः ॥ ४० ॥

१६.४०dv -नत-लोह-रसाञ्जनैः जाती-मुकुल-कासीस-सैन्धवैर् मूत्र-पेषितैः ।
ताम्रम् आलिप्य सप्ताहं धारयेत् पेषयेत् ततः ॥ ४१ ॥

मूत्रेणैवानु गुटिकाः कार्याश् छाया-विशोषिताः ।
ताः स्तन्य-घृष्टा घर्षाश्रु-शोफ-कण्डू-विनाशनाः ॥ ४२ ॥

१६.४२av मूत्रेण चानु गुटिकाः १६.४२bv कुर्याच् छाया-विशोषिताः व्याघ्री-त्वङ्-मधुकं ताम्र-रजो ऽजा-क्षीर-कल्कितम् ।
शम्य्-आमलक-पत्त्राज्य-धूपितं शोफ-रुक्-प्रणुत् ॥ ४३ ॥

१६.४३bv -रजो ऽजा-क्षीर-पेषितम् अम्लोषिते प्रयुञ्जीत पित्ताभिष्यन्द-साधनम् ।
उत्क्लिष्टाः कफ-पित्तास्र-निचयोत्थाः कुकूणकः ॥ ४४ ॥

पक्ष्मोपरोधं शुष्काक्षि-पाकः पूयालसो बिसः ।
पोथक्य्-अम्लोषितो ऽल्पाख्यः स्यन्द-मन्था विनानिलात् ॥ ४५ ॥

एते ऽष्टा-दश पिल्लाख्या दीर्घ-कालानुबन्धिनः ।
चिकित्सा पृथग् एतेषां स्वं स्वम् उक्ताथ वक्ष्यते ॥ ४६ ॥

१६.४६dv स्वं स्वम् उक्ताथ कथ्यते पिल्ली-भूतेषु सामान्याद् अथ पिल्लाख्य-रोगिणः ।
स्निग्धस्य छर्दित-वतः सिरा-व्यध-हृतासृजः ॥ ४७ ॥

१६.४७bv अथ पिल्लाक्षि-रोगिणः विरिक्तस्य च वर्त्मानु निर्लिखेद् आ-विशुद्धितः ।
तुत्थकस्य पलं श्वेत-मरिचानि च विंशतिः ॥ ४८ ॥

१६.४८av विरिक्तस्य तु वर्त्मानु १६.४८bv विलिखेद् आ-विशुद्धितः त्रिंशता काञ्जिक-पलैः पिष्ट्वा ताम्रे निधापयेत् ।
पिल्लान् अ-पिल्लान् कुरुते बहु-वर्षोत्थितान् अपि ॥ ४९ ॥

तत् सेकेनोपदेहाश्रु-कण्डू-शोफांश् च नाशयेत् ।
करञ्ज-बीजं सुरसं सुमनः-कोरकाणि च ॥ ५० ॥

१६.५०dv सुमनः-क्षारकाणि च संक्षुद्य साधयेत् क्वाथे पूते तत्र रस-क्रिया ।
अञ्जनं पिल्ल-भैषज्यं पक्ष्मणां च प्ररोहणम् ॥ ५१ ॥

रसाञ्जनं सर्ज-रसो रीति-पुष्पं मनःशिला ।
समुद्र-फेनो लवणं गैरिकं मरिचानि च ॥ ५२ ॥

१६.५२bv जाती-पुष्पं मनःशिला १६.५२cv समुद्र-फेनं लवणं अञ्जनं मधुना पिष्टं क्लेद-कण्डू-घ्नम् उत्तमम् ।
अभया-रस-पिष्टं वा तगरं पिल्ल-नाशनम् ॥ ५३ ॥

भावितं बस्त-मूत्रेण स-स्नेहं देवदारु च ।
सैन्धव-त्रि-फला-कृष्णा-कटुका-शङ्खनाभयः ॥ ५४ ॥

१६.५४bv स-स्नेहं देवदारु वा स-ताम्र-रजसो वर्तिः पिल्ल-शुक्रक-नाशिनी ।
पुष्प-कासीस-चूर्णो वा सुरसा-रस-भावितः ॥ ५५ ॥

ताम्रे दशाहं तत् पैल्ल्य-पक्ष्म-शात-जिद् अञ्जनम् ॥ ५५ऊ̆अब् ॥
अलं च सौवीरकम् अञ्जनं च ताभ्यां समं ताम्र-रजः सु-सूक्ष्मम् ।
पिल्लेषु रोमाणि निषेवितो ऽसौ चूर्णः करोत्य् एक-शलाकयापि ॥ ५६ ॥

१६.५६bv ताभ्यां समं ताम्र-रजश् च सूक्ष्मम् १६.५६cv पिल्लेषु रोमाणि निषेवितो ऽयं लाक्षा-निर्गुण्डी-भृङ्ग-दार्वी-रसेन श्रेष्ठं कार्पासं भावितं सप्त-कृत्वः ।
दीपः प्रज्वाल्यः सर्पिषा तत्-समुत्था श्रेष्ठा पिल्लानां रोपणार्थे मषी सा ॥ ५७ ॥

१६.५७dv श्रेष्ठा पिल्लानां रोपणार्थं मषी सा वर्त्मावलेखं बहु-शस् तद्-वच् छोणित-मोक्षणम् ॥ ५८अब् ॥
पुनः पुनर् विरेकं च नित्यम् आश्च्योतनाञ्जनम् ।
नावनं धूम-पानं च पिल्ल-रोगातुरो भजेत् ॥ ५९ ॥

पूयालसे त्व् अ-शान्ते ऽन्ते दाहः सूक्ष्म-शलाकया ।
चतुर्-णवतिर् इत्य् अक्ष्णो हेतु-लक्षण-साधनैः ॥ ६० ॥

१६.६०av पूयालसे त्व् अ-शान्ते तु १६.६०cv चतुर्-णवतिर् इत्य् अक्ष्णोर् परस्-परम् अ-संकीर्णाः कार्त्स्न्येन गदिता गदाः ।
सर्व-दा च निषेवेत स्वस्थो ऽपि नयन-प्रियः ॥ ६१ ॥

पुराण-यव-गोधूम-शालि-षष्टिक-कोद्रवान् ।
मुद्गादीन् कफ-पित्त-घ्नान् भूरि-सर्पिः-परिप्लुतान् ॥ ६२ ॥

शाकं चैवं-विधं मांसं जाङ्गलं दाडिमं सिताम् ।
सैन्धवं त्रि-फलां द्राक्षां वारि पाने च नाभसम् ॥ ६३ ॥

आतप-त्रं पद-त्राणं विधि-वद् दोष-शोधनम् ।
वर्जयेद् वेग-संरोधम् अ-जीर्णाध्यशनानि च ॥ ६४ ॥

१६.६४dv अ-जीर्णाध्यशनादि च क्रोध-शोक-दिवा-स्वप्न-रात्रि-जागरणातपान् ।
विदाहि विष्टम्भ-करं यच् चेहाहार-भेषजम् ॥ ६५ ॥

१६.६५bv -निशा-जागरणानि च १६.६५cv विदाह-विष्टम्भ-करं १६.६५dv यद् यद् आहार-भेषजम् १६.६५dv विहाराहार-भेषजम् द्वे पाद-मध्ये पृथु-संनिवेशे सिरे गते ते बहु-धा च नेत्रे ।
ता म्रक्षणोद्वर्तन-लेपनादीन् पाद-प्रयुक्तान् नयने नयन्ति ॥ ६६ ॥

१६.६६av द्वे पाद-मध्ये पृथु-संनिविष्टे १६.६६dv पाद-प्रयुक्तान् नयनं नयन्ति मलौष्ण्य-संघट्टन-पीडनाद्यैस् ता दूषयन्ते नयनानि दुष्टाः ।
भजेत् सदा दृष्टि-हितानि तस्माद् उपानद्-अभ्यञ्जन-धावनानि ॥ ६७ ॥

१६.६७av तलोष्ण-संघट्टन-पीडनाद्यैस् १६.६७av मृल्-लोष्ट-संघट्टन-पीडनाद्यैस्

अध्याय 17[सम्पाद्यताम्]

प्रतिश्याय-जल-क्रीडा-कर्ण-कण्डूयनैर् मरुत् ।
मिथ्या-योगेन शब्दस्य कुपितो ऽन्यैश् च कोपनैः ॥ १ ॥

प्राप्य श्रोत्र-सिराः कुर्याच् छूलं स्रोतसि वेग-वत् ।
अर्धावभेदकं स्तम्भं शिशिरान्-अभिनन्दनम् ॥ २ ॥

चिराच् च पाकं पक्वं तु लसीकाम् अल्प-शः स्रवेत् ।
श्रोत्रं शून्यम् अ-कस्माच् च स्यात् संचार-विचार-वत् ॥ ३ ॥

शूलं पित्तात् स-दाहोषा-शीतेच्छा-श्वयथु-ज्वरम् ।
आशु-पाकं प्रपक्वं च स-पीत-लसिका-स्रुति ॥ ४ ॥

१७.४bv -शीतेच्छा-श्वयथुर् ज्वरः सा लसीका स्पृशेद् यद् यत् तत् तत् पाकम् उपैति च ।
कफाच् छिरो-हनु-ग्रीवा-गौरवं मन्द-ता रुजः ॥ ५ ॥

कण्डूः श्वयथुर् उष्णेच्छा पाकाच् छ्वेत-घन-स्रुतिः ।
करोति श्रवणे शूलम् अभिघातादि-दूषितम् ॥ ६ ॥

१७.६bv पाकाच् छ्वेत-घना स्रुतिः रक्तं पित्त-समानार्ति किञ्-चिद् वाधिक-लक्षणम् ।
शूलं समुदितैर् दोषैः स-शोफ-ज्वर-तीव्र-रुक् ॥ ७ ॥

पर्यायाद् उष्ण-शीतेच्छां जायते श्रुति-जाड्य-वत् ।
पक्वं सितासिता-रक्त-घन-पूय-प्रवाहि च ॥ ८ ॥

शब्द-वाहि-सिरा-संस्थे शृणोति पवने मुहुः ।
नादान् अ-कस्माद् विविधान् कर्ण-नादं वदन्ति तम् ॥ ९ ॥

श्लेष्मणानुगतो वायुर् नादो वा समुपेक्षितः ।
उच्चैः कृच्छ्राच् छ्रुतिं कुर्याद् बधिर-त्वं क्रमेण च ॥ १० ॥

१७.१०dv बधिर-त्वं क्रमेण वा वातेन शोषितः श्लेष्मा श्रोतो लिम्पेत् ततो भवेत् ।
रुग्-गौरवं पिधानं च स प्रतीनाह-संज्ञितः ॥ ११ ॥

कण्डू-शोफौ कफाच् छ्रोत्रे स्थिरौ तत्-संज्ञया स्मृतौ ।
कफो विदग्धः पित्तेन स-रुजं नी-रुजं त्व् अपि ॥ १२ ॥

१७.१२bv स्थिरौ तत्-संज्ञितौ स्मृतौ १७.१२dv स-रुजं नी-रुजं त्व् अथ घन-पूति-बहु-क्लेदं कुरुते पूति-कर्णकम् ।
वातादि-दूषितं श्रोत्रं मांसासृक्-क्लेद-जा रुजम् ॥ १३ ॥

१७.१३dv मांसासृक्-क्लेद-जां रुजम् खादन्तो जन्तवः कुर्युस् तीव्रां स कृमि-कर्णकः ।
श्रोत्र-कण्डूयनाज् जाते क्षते स्यात् पूर्व-लक्षणः ॥ १४ ॥

१७.१४cv श्रोतः-कण्डूयनाज् जाते विद्रधिः पूर्व-वच् चान्यः शोफो ऽर्शो ऽर्बुदम् ईरितम् ।
तेषु रुक् पूति-कर्ण-त्वं बधिर-त्वं च बाधते ॥ १५ ॥

१७.१५bv षो-ढार्शो ऽर्बुदम् ईरितम् १७.१५dv बधिर-त्वं च जायते गर्भे ऽनिलात् संकुचिता शष्कुली कुचि-कर्णकः ।
एको नी-रुग् अनेको वा गर्भे मांसाङ्कुरः स्थिरः ॥ १६ ॥

१७.१६bv शष्कुली कुञ्चि-कर्णकः १७.१६bv शष्कुली कूचि-कर्णकः १७.१६dv गर्भे मांसाङ्कुरः स्थितः पिप्पली पिप्पली-मानः संनिपाताद् विदारिका ।
स-वर्णः स-रुजः स्तब्धः श्वयथुः स उपेक्षितः ॥ १७ ॥

कटु-तैल-निभं पक्वः स्रवेत् कृच्छ्रेण रोहति ।
संकोचयति रूढा च सा ध्रुवं कर्ण-शष्कुलीम् ॥ १८ ॥

१७.१८bv स्रवन् कृच्छ्रेण रोहति सिरा-स्थः कुरुते वायुः पाली-शोषं तद्-आह्वयम् ।
कृशा दृढा च तन्त्री-वत् पाली वातेन तन्त्रिका ॥ १९ ॥

सु-कुमारे चिरोत्सर्गात् सहसैव प्रवर्धिते ।
कर्णे शोफः स-रुक् पाल्याम् अरुणः परिपोट-वान् ॥ २० ॥

परिपोटः स पवनाद् उत्पातः पित्त-शोणितात् ।
गुर्व्-आभरण-भाराद्यैः श्यावो रुग्-दाह-पाक-वान् ॥ २१ ॥

श्वयथुः स्फोट-पिटिका-रागोषा-क्लेद-संयुतः ।
पाल्यां शोफो ऽनिल-कफात् सर्वतो निर्-व्यथः स्थिरः ॥ २२ ॥

स्तब्धः स-वर्णः कण्डू-मान् उन्मन्थो गल्लिरश् च सः ।
दुर्-विद्धे वर्धिते कर्णे स-कण्डू-दाह-पाक-रुक् ॥ २३ ॥

१७.२३bv उन्मन्थो गल्लिकश् च सः श्वयथुः संनिपातोत्थः स नाम्ना दुःख-वर्धनः ।
कफासृक्-कृमि-जाः सूक्ष्माः स-कण्डू-क्लेद-वेदनाः ॥ २४ ॥

लिह्युः पालीम् उपेक्षिताः लेह्याख्याः पिटिकास् ता हि ।
पिप्पली सर्व-जं शूलं विदारी कुचि-कर्णकः ॥ २५ ॥

१७.२५av लिह्याख्याः पिटिकास् ता हि १७.२५dv विदारी कूचि-कर्णकः एषाम् अ-साध्या याप्यैका तन्त्रिकान्यांस् तु साधयेत् ।
पञ्च-विंशतिर् इत्य् उक्ताः कर्ण-रोगा विभागतः ॥ २६ ॥


अध्याय 18[सम्पाद्यताम्]

कर्ण-शूले पवन-जे पिबेद् रात्रौ रसाशितः ।
वात-घ्न-साधितं सर्पिः कर्णं स्विन्नं च पूरयेत् ॥ १ ॥

पत्त्राणां पृथग् अश्वत्थ-बिल्वार्कैरण्ड-जन्मनाम् ।
तैल-सिन्धूत्थ-दिग्धानां स्विन्नानां पुट-पाकतः ॥ २ ॥

रसैः कवोष्णैस् तद्-वच् च मूलकस्यारलोर् अपि ।
गणे वात-हरे ऽम्लेषु मूत्रेषु च विपाचितः ॥ ३ ॥

महा-स्नेहो द्रुतं हन्ति सु-तीव्राम् अपि वेदनाम् ।
महतः पञ्च-मूलस्य काष्ठात् क्षौमेण वेष्टितात् ॥ ४ ॥

तैल-सिक्तात् प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः ।
योज्यश् चैवं भद्रकाष्ठात् कुष्ठात् काष्ठाच् च सारलात् ॥ ५ ॥

१८.५bv स्नेहः सद्यो रुजा-हरः वात-व्याधि-प्रतिश्याय-विहितं हितम् अत्र च ।
वर्जयेच् छिरसा स्नानं शीताम्भः-पानम् अह्न्य् अपि ॥ ६ ॥

१८.६cv वर्जयेच् छिरसः स्नानं पित्त-शूले सिता-युक्त-घृत-स्निग्धं विरेचयेत् ।
द्राक्षा-यष्टी-शृतं स्तन्यं शस्यते कर्ण-पूरणम् ॥ ७ ॥

यष्ट्य्-अनन्ता-हिमोशीर-काकोली-लोध्र-जीवकैः ।
मृणाल-बिस-मञ्जिष्ठा-शारिवाभिश् च साधयेत् ॥ ८ ॥

यष्टीमधु-रस-प्रस्थ-क्षीर-द्वि-प्रस्थ-संयुतम् ।
तैलस्य कुडवं नस्य-पूरणाभ्यञ्जनैर् इदम् ॥ ९ ॥

निहन्ति शूल-दाहोषाः केवलं क्षौद्रम् एव वा ।
यष्ट्य्-आदिभिश् च स-घृतैः कर्णौ दिह्यात् समन्ततः ॥ १० ॥

वामयेत् पिप्पली-सिद्ध-सर्पिः-स्निग्धं कफोद्भवे ।
धूम-नावन-गण्डूष-स्वेदान् कुर्यात् कफापहान् ॥ ११ ॥

लशुनार्द्रक-शिग्रूणां मुरङ्ग्या मूलकस्य च ।
कदल्याः स्व-रसः श्रेष्ठः कद्-उष्णः कर्ण-पूरणे ॥ १२ ॥

१८.१२bv सुरङ्ग्या मूलकस्य च १८.१२bv भृङ्गस्य मूलकस्य च अर्काङ्कुरान् अम्ल-पिष्टांस् तैलाक्ताō̃ लवणान्वितान् ।
संनिधाय स्नुही-काण्डे कोरिते तच्-छदावृतान् ॥ १३ ॥

१८.१३dv कोरिते तच् छदावृते स्वेदयेत् पुट-पाकेन स रसः शूल-जित् परम् ।
रसेन बीजपूरस्य कपित्थस्य च पूरयेत् ॥ १४ ॥

शुक्तेन पूरयित्वा वा फेनेनान्व् अवचूर्णयेत् ।
अजावि-मूत्र-वंश-त्वक्-सिद्धं तैलं च पूरणम् ॥ १५ ॥

१८.१५dv -सिद्ध-तैलेन पूरयेत् सिद्धं वा सार्षपं तैलं हिङ्गु-तुम्बुरु-नागरैः ।
रक्त-जे पित्त-वत् कार्यं सिरां चाशु विमोक्षयेत् ॥ १६ ॥

पक्वे पूय-वहे कर्णे धूम-गण्डूष-नावनम् ।
युञ्ज्यान् नाडी-विधानं च दुष्ट-व्रण-हरं च यत् ॥ १७ ॥

स्रोतः प्रमृज्य दिग्धं तु द्वौ कालौ पिचु-वर्तिभिः ।
पुरेण धूपयित्वा तु माक्षिकेण प्रपूरयेत् ॥ १८ ॥

सुरसादि-गण-क्वाथ-फाणिताक्तां च योजयेत् ।
पिचु-वर्तिं सु-सूक्ष्मैश् च तच्-चूर्णैर् अवचूर्णयेत् ॥ १९ ॥

१८.१९bv -फाणिताक्तां च शीलयेत् १८.१९bv -फाणिताक्तां प्रयोजयेत् १८.१९bv -फाणिताक्तां नियोजयेत् शूल-क्लेद-गुरु-त्वानां विधिर् एष निवर्तकः ।
प्रियङ्गु-मधुकाम्बष्ठा-धातक्य्-उत्पल-पर्णिभिः ॥ २० ॥

मञ्जिष्ठा-लोध्र-लाक्षाभिः कपित्थस्य रसेन च ।
पचेत् तैलं तद् आस्रावं निगृह्णात्य् आशु पूरणात् ॥ २१ ॥

नाद-बाधिर्ययोः कुर्याद् वात-शूलोक्तम् औषधम् ।
श्लेष्मानुबन्धे श्लेष्माणम् प्राग् जयेद् वमनादिभिः ॥ २२ ॥

एरण्ड-शिग्रु-वरुण-मूलकात् पत्त्र-जे रसे ।
चतुर्-गुणे पचेत् तैलं क्षीरे चाष्ट-गुणोन्मिते ॥ २३ ॥

१८.२३av एरण्ड-शिग्रु-तरुण- यष्ट्य्-आह्वा-क्षीर-काकोली-कल्क-युक्तं निहन्ति तत् ।
नाद-बाधिर्य-शूलानि नावनाभ्यङ्ग-पूरणैः ॥ २४ ॥

१८.२४bv -कल्क-युक्तं हिनस्ति तत् पक्वं प्रतिविषा-हिङ्गु-मिशि-त्वक्-स्वर्जिकोषणैः ।
स-शुक्तैः पूरणात् तैलं रुक्-स्रावा-श्रुति-नाद-नुत् ॥ २५ ॥

१८.२५dv रुक्-स्राव-श्रुति-नाद-नुत् कर्ण-नादे हितं तैलं सर्षपोत्थं च पूरणे ।
शुष्क-मूलक-खण्डानां क्षारो हिङ्गु महौषधम् ॥ २६ ॥

शतपुष्पा-वचा-कुष्ठ-दारु-शिग्रु-रसाञ्जनम् ।
सौवर्चल-यव-क्षार-स्वर्जिकौद्भिद-सैन्धवम् ॥ २७ ॥

भूर्ज-ग्रन्थि-विडं मुस्ता मधु-शुक्तं चतुर्-गुणम् ।
मातुलुङ्ग-रसस् तद्-वत् कदली-स्व-रसश् च तैः ॥ २८ ॥

पक्वं तैलं जयत्य् आशु सु-कृच्छ्रान् अपि पूरणात् ।
कण्डूं क्लेदं च बाधिर्य-पूति-कर्ण-त्व-रुक्-कृमीन् ॥ २९ ॥

१८.२९cv कण्डू-क्ष्वेडन-बाधिर्य- १८.२९cv कण्डू-ज्वलन-बाधिर्य- क्षार-तैलम् इदं श्रेष्ठं मुख-दन्तामयेषु च ।
अथ सुप्ताव् इव स्यातां कर्णौ रक्तं हरेत् ततः ॥ ३० ॥

१८.३०dv कर्णौ रक्तं हरेत् तयोः स-शोफ-क्लेदयोर् मन्द-श्रुतेर् वमनम् आचरेत् ।
बाधिर्यं वर्जयेद् बाल-वृद्धयोश् चिर-जं च यत् ॥ ३१ ॥

प्रतीनाहे परिक्लेद्य स्नेह-स्वेदैर् विशोधयेत् ।
कर्ण-शोधनकेनानु कर्णं तैलस्य पूरयेत् ॥ ३२ ॥

१८.३२dv कर्णं तैलेन पूरयेत् स-शुक्त-सैन्धव-मधोर् मातुलुङ्ग-रसस्य वा ।
शोधनाद् रूक्ष-तोत्पत्तौ घृत-मण्डस्य पूरणम् ॥ ३३ ॥

१८.३३av स-शुक्त-सैन्धवेनाशु १८.३३bv मातुलुङ्ग-रसेन वा १८.३३dv घृत-मण्डेन पूरणम् क्रमो ऽयं मल-पूर्णे ऽपि कर्णे कण्ड्वां कफापहम् ।
नस्यादि तद्-वच् छोफे ऽपि कटूष्णैश् चात्र लेपनम् ॥ ३४ ॥

१८.३४dv कटूष्णैश् चानु लेपनम् कर्ण-स्रावोदितं कुर्यात् पूति-कृमिण-कर्णयोः ।
पूरणं कटु-तैलेन विशेषात् कृमि-कर्णके ॥ ३५ ॥

१८.३५bv पूति-कृमिल-कर्णयोः १८.३५bv पूति-कृमिक-कर्णयोः वमि-पूर्वा हिता कर्ण-विद्रधौ विद्रधि-क्रिया ।
पित्तोत्थ-कर्ण-शूलोक्तं कर्तव्यं क्षत-विद्रधौ ॥ ३६ ॥

१८.३६av वमिः पूर्वं हिता कर्ण- अर्शो-ऽर्बुदेषु नासा-वद् आमा कर्ण-विदारिका ।
कर्ण-विद्रधि-वत् साध्या यथा-दोषोदयेन च ॥ ३७ ॥

पाली-शोषे ऽनिल-श्रोत्र-शूल-वन् नस्य-लेपनम् ।
स्वेदं च कुर्यात् स्विन्नां च पालीम् उद्वर्तयेत् तिलैः ॥ ३८ ॥

प्रियाल-बीज-यष्ट्य्-आह्व-हयगन्धा-यवान्वितैः ।
ततः पुष्टि-करैः स्नेहैर् अभ्यङ्गं नित्यम् आचरेत् ॥ ३९ ॥

शतावरी-वाजिगन्धा-पयस्यैरण्ड-जीवकैः ।
तैलं विपक्वं स-क्षीरं पालीनां पुष्टि-कृत् परम् ॥ ४० ॥

कल्केन जीवनीयेन तैलं पयसि पाचितम् ।
आनूप-मांस-क्वाथे च पाली-पोषण-वर्धनम् ॥ ४१ ॥

१८.४१cv आनूप-मांस-क्वाथेन पालीं छित्त्वाति-संक्षीणां शेषां संधाय पोषयेत् ।
याप्यैवं तन्त्रिकाख्यापि परिपोटे ऽप्य् अयं विधिः ॥ ४२ ॥

उत्पाते शीतलैर् लेपो जलौको-हृत-शोणिते ।
जम्ब्व्-आम्र-पल्लव-बला-यष्टी-लोध्र-तिलोत्पलैः ॥ ४३ ॥

स-धान्याम्लैः स-मञ्जिष्ठैः स-कदम्बैः स-शारिवैः ।
सिद्धम् अभ्यञ्जने तैलं विसर्पोक्त-घृतानि च ॥ ४४ ॥

१८.४४cv सिद्धम् अभ्यञ्जनं तैलं उन्मन्थे ऽभ्यञ्जनं तैलं गोधा-कर्क-वसान्वितम् ।
तालपत्त्र्य्-अश्वगन्धार्क-वाकुची-फल-सैन्धवैः ॥ ४५ ॥

१८.४५bv गोधा-कर्कि-वसान्वितम् १८.४५dv -वाकुची-तिल-सैन्धवैः सुरसा-लाङ्गलीभ्यां च सिद्धं तीक्ष्णं च नावनम् ।
दुर्-विद्धे ऽश्मन्त-जम्ब्व्-आम्र-पत्त्र-क्वाथेन सेचिताम् ॥ ४६ ॥

१८.४६bv सिद्धं तीक्ष्णं तु नावनम् तैलेन पालीं स्व्-अभ्यक्तां सु-श्लक्ष्णैर् अवचूर्णयेत् ।
चूर्णैर् मधुक-मञ्जिष्ठा-प्रपुण्ड्राह्व-निशोद्भवैः ॥ ४७ ॥

१८.४७dv -प्रपौण्ड्राह्व-निशोद्भवैः १८.४७dv -पौण्डरीक-निशोद्भवैः लाक्षा-विडङ्ग-सिद्धं च तैलम् अभ्यञ्जने हितम् ।
स्विन्नां गो-मय-जैः पिण्डैर् बहु-शः परिलेहिकाम् ॥ ४८ ॥

विडङ्ग-सारैर् आलिम्पेद् उरभ्री-मूत्र-कल्कितैः ।
कौटजेङ्गुद-कारञ्ज-बीज-शम्याक-वल्कलैः ॥ ४९ ॥

अथ-वाभ्यञ्जनं तैर् वा कटु-तैलं विपाचयेत् ।
स-निम्ब-पत्त्र-मरिच-मदनैर् लेहिका-व्रणे ॥ ५० ॥

छिन्नं तु कर्णं शुद्धस्य बन्धम् आलोच्य यौगिकम् ।
शुद्धास्रं लागयेल् लग्ने सद्यश्-छिन्ने विशोधनम् ॥ ५१ ॥

१८.५१dv सम्यक्-छिन्ने विशोधनम् अथ ग्रथित्वा केशान्तं कृत्वा छेदन-लेखनम् ।
निवेश्य संधिं सुषमं न निम्नं न समुन्नतम् ॥ ५२ ॥

अभ्यज्य मधु-सर्पिर्भ्यां पिचु-प्लोतावगुण्ठितम् ।
सूत्रेणा-गाढ-शिथिलं बद्ध्वा चूर्णैर् अवाकिरेत् ॥ ५३ ॥

शोणित-स्थापनैर् व्रण्यम् आचारं चादिशेत् ततः ।
सप्ताहाद् आम-तैलाक्तं शनैर् अपनयेत् पिचुम् ॥ ५४ ॥

१८.५४av शोणितास्थापनैर् व्रण्यम् सु-रूढं जात-रोमाणं श्लिष्ट-संधिं समं स्थिरम् ।
सु-वर्ष्माणम् अ-रोगं च शनैः कर्णं विवर्धयेत् ॥ ५५ ॥

१८.५५cv सु-वर्ष्माणं सु-रोमं च जल-शूकः स्वयङ्गुप्ता रजन्यौ बृहती-फलम् ।
अश्वगन्धा-बला-हस्ति-पिप्पली-गौर-सर्षपाः ॥ ५६ ॥

मूलं कोशातकाश्वघ्न-रूपिका-सप्तपर्ण-जम् ।
छुच्छुन्दरी काल-मृता गृहं मधु-करी-कृतम् ॥ ५७ ॥

जतूका जल-जन्मा च तथा शबरकन्दकम् ।
एभिः कल्कैः खरं पक्वं स-तैलं माहिषं घृतम् ॥ ५८ ॥

१८.५८bv तथा शबरकन्दकः हस्त्य्-अश्व-मूत्रेण परम् अभ्यङ्गात् कर्ण-वर्धनम् ।
अथ कुर्याद् वयः-स्थस्य च्छिन्नां शुद्धस्य नासिकाम् ॥ ५९ ॥

छिन्द्यान् नासा-समं पत्त्रं तत्-तुल्यं च कपोलतः ।
त्वङ्-मांसं नासिकासन्ने रक्षंस् तत् तनु-तां नयेत् ॥ ६० ॥

सीव्येद् गण्डं ततः सूच्या सेविन्या पिचु-युक्तया ।
नासा-च्छेदे ऽथ लिखिते परिवर्त्योपरि त्वचम् ॥ ६१ ॥

१८.६१cv नासा-च्छेदे सु-लिखिते कपोल-वध्रं संदध्यात् सीव्येन् नासां च यत्नतः ।
नाडीभ्याम् उत्क्षिपेद् अन्तः सुखोच्छ्वास-प्रवृत्तये ॥ ६२ ॥

१८.६२av कपोल-बन्धं संदध्यात् १८.६२av कपोल-वध्रीं संदध्यात् आम-तैलेन सिक्त्वानु पत्तङ्ग-मधुकाञ्जनैः ।
शोणित-स्थापनैश् चान्यैः सु-श्लक्ष्णैर् अवचूर्णयेत् ॥ ६३ ॥

१८.६३bv पतङ्ग-मधुकाञ्जनैः १८.६३cv शोणितास्थापनैश् चान्यैः ततो मधु-घृताभ्यक्तं बद्ध्वाचारिकम् आदिशेत् ।
ज्ञात्वावस्थान्तरं कुर्यात् सद्यो-व्रण-विधिं ततः ॥ ६४ ॥

१८.६४bv बद्ध्वाचारम् अथादिशेत् छिन्द्याद् रूढे ऽधिकं मांसं नासोपान्ताच् च चर्म तत् ।
सीव्येत् ततश् च सु-श्लक्ष्णं हीनं संवर्धयेत् पुनः ॥ ६५ ॥

१८.६५bv नासोपान्ताच् च चर्म-वत् निवेशिते यथा-न्यासं सद्यश्-छिन्ने ऽप्य् अयं विधिः ।
नाडी-योगाद् विनौष्ठस्य नासा-संधान-वद् विधिः ॥ ६६ ॥

१८.६६bv सद्यश्-छेदे ऽप्य् अयं विधिः

अध्याय 19[सम्पाद्यताम्]

अवश्यायानिल-रजो-भाष्याति-स्वप्न-जागरैः ।
नीचात्य्-उच्चोपधानेन पीतेनान्येन वारिणा ॥ १ ॥

अत्य्-अम्बु-पान-रमण-च्छर्दि-बाष्प-ग्रहादिभिः ।
क्रुद्धा वातोल्बणा दोषा नासायां स्त्यान-तां गताः ॥ २ ॥

१९.२cv क्षुब्धा वातोल्बणा दोषा १९.२cv वृद्धा वातोल्बणा दोषा जनयन्ति प्रतिश्यायं वर्धमानं क्षय-प्रदम् ।
तत्र वातात् प्रतिश्याये मुख-शोषो भृशं क्षवः ॥ ३ ॥

घ्राणोपरोध-निस्तोद-दन्त-शङ्ख-शिरो-व्यथाः ।
कीटिका इव सर्पन्तीर् मन्यते परितो भ्रुवौ ॥ ४ ॥

१९.४cv कीटका इव सर्पन्ति स्वर-सादश् चिरात् पाकः शिशिराच्छ-कफ-स्रुतिः ।
पित्तात् तृष्णा-ज्वर-घ्राण-पिटिका-संभव-भ्रमाः ॥ ५ ॥

१९.५cv पित्तात् तृष्णा-ज्वरो घ्राणे १९.५dv पिटिका-संभव-भ्रमाः नासाग्र-पाको रूक्षोष्ण-ताम्र-पीत-कफ-स्रुतिः ।
कफात् कासो ऽ-रुचिः श्वासो वमथुर् गात्र-गौरवम् ॥ ६ ॥

माधुर्यं वदने कण्डूः स्निग्ध-शुक्ल-कफ-स्रुतिः ।
सर्व-जो लक्षणैः सर्वैर् अ-कस्माद् वृद्धि-शान्ति-मान् ॥ ७ ॥

१९.७bv स्निग्ध-शुक्ल-घन-स्रुतिः १९.७bv स्निग्ध-शुक्ल-घना स्रुतिः दुष्टं नासा-सिराः प्राप्य प्रतिश्यायं करोत्य् असृक् ।
उरसः सुप्त-ता ताम्र-नेत्र-त्वं श्वास-पूति-ता ॥ ८ ॥

कण्डूः श्रोत्राक्षि-नासासु पित्तोक्तं चात्र लक्षणम् ।
सर्व एव प्रतिश्याया दुष्ट-तां यान्त्य् उपेक्षिताः ॥ ९ ॥

१९.९bv पित्तोत्थं चात्र लक्षणम् यथोक्तोपद्रवाधिक्यात् स सर्वेन्द्रिय-तापनः ।
साग्नि-साद-ज्वर-श्वास-कासोरः-पार्श्व-वेदनः ॥ १० ॥

कुप्यत्य् अ-कस्माद् बहु-शो मुख-दौर्गन्ध्य-शोफ-कृत् ।
नासिका-क्लेद-संशोष-शुद्धि-रोध-करो मुहुः ॥ ११ ॥

१९.११bv मुख-दौर्गन्ध्य-शोष-कृत् पूयोपमासिता-रक्त-ग्रथित-श्लेष्म-संस्रुतिः ।
मूर्छन्ति चात्र कृमयो दीर्घ-स्निग्ध-सिताणवः ॥ १२ ॥

१९.१२av पूयोपमासिता रक्ता १९.१२bv -ग्रथिता श्लेष्म-संस्रुतिः १९.१२bv ग्रथित-श्लेष्म-संस्रुतिः पक्व-लिङ्गानि तेष्व् अङ्ग-लाघवं क्षवथोः शमः ।
श्लेष्मा स-चिक्कणः पीतो ऽ-ज्ञानं च रस-गन्धयोः ॥ १३ ॥

१९.१३dv ज्ञानं च रस-गन्धयोः तीक्ष्णाघ्राणोपयोगार्क-रश्मि-सूत्र-तृणादिभिः ।
वात-कोपिभिर् अन्यैर् वा नासिका-तरुणास्थनि ॥ १४ ॥

१९.१४av तीक्ष्ण-घ्राणोपयोगार्क- विघट्टिते ऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् ।
निवृत्तः कुरुते ऽत्य्-अर्थं क्षवथुं स भृश-क्षवः ॥ १५ ॥

१९.१५bv रुद्धः शृङ्गाटकं व्रजन् १९.१५dv क्षवथुं स भृशङ्-क्षवः शोषयन् नासिका-स्रोतः कफं च कुरुते ऽनिलः ।
शूक-पूर्णाभ-नासा-त्वं कृच्छ्राद् उच्छ्वसनं ततः ॥ १६ ॥

१९.१६av शोषयेन् नासिका-स्रोतः १९.१६cv शूक-पूर्णाभ-कण्ठ-त्वं १९.१६cv शूक-पूर्णाभ-नास-त्वं स्मृतो ऽसौ नासिका-शोषो नासानाहे तु जायते ।
नद्ध-त्वम् इव नासायाः श्लेष्म-रुद्धेन वायुना ॥ १७ ॥

निःश्वासोच्छ्वास-संरोधात् स्रोतसी संवृते इव ।
पचेन् नासा-पुटे पित्तं त्वङ्-मांसं दाह-शूल-वत् ॥ १८ ॥

स घ्राण-पाकः स्रावस् तु तत्-संज्ञः श्लेष्म-संभवः ।
अच्छो जलोपमो ऽजस्रं विशेषान् निशि जायते ॥ १९ ॥

कफः प्रवृद्धो नासायां रुद्ध्वा स्रोतांस्य् अ-पीनसम् ।
कुर्यात् स-घुर्घुर-श्वासं पीनसाधिक-वेदनम् ॥ २० ॥

१९.२०bv रुद्धः स्रोतःसु पीनसम् अवेर् इव स्रवत्य् अस्य प्रक्लिन्ना तेन नासिका ।
अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम् ॥ २१ ॥

रक्तेन नासा दग्धेव बाह्यान्तः-स्पर्शना-सहा ।
भवेद् धूमोपमोच्छ्वासा सा दीप्तिर् दहतीव च ॥ २२ ॥

तालु-मूले मलैर् दुष्टैर् मारुतो मुख-नासिकात् ।
श्लेष्मा च पूतिर् निर्गच्छेत् पूति-नासं वदन्ति तम् ॥ २३ ॥

निचयाद् अभिघाताद् वा पूयासृङ् नासिका स्रवेत् ।
तत् पूय-रक्तम् आख्यातं शिरो-दाह-रुजा-करम् ॥ २४ ॥

पित्त-श्लेष्मावरुद्धो ऽन्तर् नासायां शोषयेन् मरुत् ।
कफं स शुष्कः पुट-तां प्राप्नोति पुटकं तु तत् ॥ २५ ॥

१९.२५cv कफं स शुष्क-पुट-तां अर्शो-ऽर्बुदानि विभजेद् दोष-लिङ्गैर् यथा-यथम् ।
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसः प्रततं क्षुतिः ॥ २६ ॥

१९.२६dv पीनसः प्रततं क्षवः १९.२६dv पीनसः सततं क्षुतिः सानुनासिक-वादि-त्वं पूति-नासः शिरो-व्यथा ।
अष्टा-दशानाम् इत्य् एषां यापयेद् दुष्ट-पीनसम् ॥ २७ ॥

१९.२७bv पूति-नासा शिरो-व्यथा १९.२७bv पूतिर् नासा शिरो-व्यथा १९.२७cv अष्टा-दशानाम् एतेषां १९.२७dv यापयेद् दुष्ट-पीनसान् १९.२७dv वर्जयेद् दुष्ट-पीनसम्

अध्याय 20[सम्पाद्यताम्]

सर्वेषु पीनसेष्व् आदौ निवातागार-गो भजेत् ।
स्नेहन-स्वेद-वमन-धूम-गण्डूष-धारणम् ॥ १ ॥

२०.१bv निवातागार-गो भवेत् वासो गुरूष्णं शिरसः सु-घनं परिवेष्टनम् ।
लघ्व्-अम्ल-लवणं स्निग्धम् उष्णं भोजनम् अ-द्रवम् ॥ २ ॥

२०.२cv लघ्व्-अम्ल-लवण-स्निग्धम् २०.२cv लघ्व् अम्लं लवणं स्निग्धम् धन्व-मांस-गुड-क्षीर-चणक-त्रि-कटूत्कटम् ।
यव-गोधूम-भूयिष्ठं दधि-दाडिम-सारिकम् ॥ ३ ॥

२०.३dv दधि-दाडिम-साधितम् बाल-मूलक-जो यूषः कुलत्थोत्थश् च पूजितः ।
कवोष्णं दश-मूलाम्बु जीर्णां वा वारुणीं पिबेत् ॥ ४ ॥

जिघ्रेच् चोरक-तर्कारी-वचाजाज्य्-उपकुञ्चिकाः ।
व्योष-तालीश-चविका-तिन्तिडीकाम्ल-वेतसम् ॥ ५ ॥

मनःशिला-विडङ्गाल-वचा-त्रि-कटु-हिङ्गुभिः ।
चूर्णी-कृत्य समाघ्रातः प्रतिश्यायो विनश्यति ॥ ५.१+१ ॥

तद्-वद् दोरक-वल्ल्य्-एला-लवा-तार्क्ष्य-द्वि-जीरकैः ॥ ५.१+२अब् ॥
साग्न्य्-अजाजि द्वि-पलिकं त्वग्-एला-पत्त्र-पादिकम् ।
जीर्णाद् गुडात् तुलार्धेन पक्वेन वटकी-कृतम् ॥ ६ ॥

पीनस-श्वास-कास-घ्नं रुचि-स्वर-करं परम् ।
शताह्वा-त्वग्-बला मूलं श्योणाकैरण्ड-बिल्व-जम् ॥ ७ ॥

सारग्वधं पिबेद् धूमं वसाज्य-मदनान्वितम् ।
अथ-वा स-घृतान् सक्तून् कृत्वा मल्लक-संपुटे ॥ ८ ॥

त्यजेत् स्नानं शुचं क्रोधं भृशं शय्यां हिमं जलम् ।
पिबेद् वात-प्रतिश्याये सर्पिर् वात-घ्न-साधितम् ॥ ९ ॥

पटु-पञ्चक-सिद्धं वा विदार्य्-आदि-गणेन वा ।
स्वेद-नस्यादिकां कुर्यात् चिकित्साम् अर्दितोदिताम् ॥ १० ॥

पित्त-रक्तोत्थयोः पेयं सर्पिर् मधुरकैः शृतम् ।
परिषेकान् प्रदेहांश् च शीतैः कुर्वीत शीतलान् ॥ ११ ॥

धव-त्वक्-त्रि-फला-श्यामा-श्रीपर्णी-यष्टि-तिल्वकैः ।
क्षीरे दश-गुणे तैलं नावनं स-निशैः पचेत् ॥ १२ ॥

२०.१२bv -श्रीपर्णी-यष्टि-बिल्वकैः कफ-जे लङ्घनं लेपः शिरसो गौर-सर्षपैः ।
स-क्षारं वा घृतम् पीत्वा वमेत् पिष्टैस् तु नावनम् ॥ १३ ॥

२०.१३cv स-क्षारं च घृतं पीत्वा २०.१३cv स-क्षारं तु घृतं पीत्वा बस्ताम्बुना पटु-व्योष-वेल्ल-वत्सक-जीरकैः ।
कटु-तीक्ष्णैर् घृतैर् नस्यैः कवडैः सर्व-जं जयेत् ॥ १४ ॥

यक्ष्म-कृमि-क्रमं कुर्वन् यापयेद् दुष्ट-पीनसम् ।
व्योषोरुबूक-कृमिजिद्-दारु-माद्री-गदेङ्गुदम् ॥ १५ ॥

२०.१५av यक्ष्म-कृमि-क्रमं कुर्यात् २०.१५dv -दारु-माद्र्य्-अम्बुदेङ्गुदम् वार्ताक-बीजं त्रिवृता सिद्धार्थः पूति-मत्स्यकः ।
अग्निमन्थस्य पुष्पाणि पीलु-शिग्रु-फलानि च ॥ १६ ॥

अश्व-विड्-रस-मूत्राभ्यां हस्ति-मूत्रेण चैकतः ।
क्षौम-गर्भां कृतां वर्तिं धूमं घ्राणास्यतः पिबेत् ॥ १७ ॥

क्षवथौ पुटकाख्ये च तीक्ष्णैः प्रधमनं हितम् ।
शुण्ठी-कुष्ठ-कणा-वेल्ल-द्राक्षा-कल्क-कषाय-वत् ॥ १८ ॥

साधितं तैलम् आज्यं वा नस्यं क्षव-पुट-प्रणुत् ।
नासा-शोषे बला-तैलं पानादौ भोजनं रसैः ॥ १९ ॥

स्निग्धो धूमस् तथा स्वेदो नासानाहे ऽप्य् अयं विधिः ।
पाके दीप्तौ च पित्त-घ्नं तीक्ष्णं नस्यादि संस्रुतौ ॥ २० ॥

२०.२०dv तीक्ष्णं नस्यादि शस्यते कफ-पीनस-वत् पूति-नासा-पीनसयोः क्रिया ।
लाक्षा-करञ्ज-मरिच-वेल्ल-हिङ्गु-कणा-गुडैः ॥ २१ ॥

अवि-मूत्र-द्रुतैर् नस्यं कारयेद् वमने कृते ।
शिग्रु-सिंही-निकुम्भानां बीजैः स-व्योष-सैन्धवैः ॥ २२ ॥

स-वेल्ल-सुरसैस् तैलं नावनं परमं हितम् ।
पूय-रक्ते नवे कुर्याद् रक्त-पीनस-वत् क्रमम् ॥ २३ ॥

२०.२३dv रक्त-पीनस-वत् क्रियाम् अति-प्रवृद्धे नाडी-वद् दग्धेष्व् अर्शो-ऽर्बुदेषु च ।
निकुम्भ-कुम्भ-सिन्धूत्थ-मनोह्वाल-कणाग्निकैः ॥ २४ ॥

२०.२४bv दग्धेष्व् अर्शो-ऽर्बुदेषु तु कल्कितैर् घृत-मध्व्-अक्तां घ्राणे वर्तिं प्रवेशयेत् ।
शिग्र्व्-आदि-नावनं चात्र पूति-नासोदितं भजेत् ॥ २५ ॥

२०.२५av कल्कितैर् घृत-मध्व्-आक्तां

अध्याय 21[सम्पाद्यताम्]

मात्स्य-माहिष-वाराह-पिशितामक-मूलकम् ।
माष-सूप-दधि-क्षीर-शुक्तेक्षु-रस-फाणितम् ॥ १ ॥

२१.१av मत्स्य-माहिष-वाराह- अवाक्-शय्यां च भजतो द्विषतो दन्त-धावनम् ।
धूम-च्छर्दन-गण्डूषान् उचितं च सिरा-व्यधम् ॥ २ ॥

क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्य् अन्तर् मुखं गदान् ।
तत्र खण्डौष्ठ इत्य् उक्तो वातेनौष्ठो द्वि-धा कृतः ॥ ३ ॥

२१.३bv कुर्वन्त्य् अन्तर्-मुखे गदान् ओष्ठ-कोपे तु पवनात् स्तब्धाव् ओष्ठौ महा-रुजौ ।
दाल्येते परिपाट्येते परुषासित-कर्कशौ ॥ ४ ॥

पित्तात् तीक्ष्ण-सहौ पीतौ सर्षपाकृतिभिश् चितौ ।
पिटिकाभिर् बहु-क्लेदाव् आशु-पाकौ कफात् पुनः ॥ ५ ॥

२१.५cv पिटिकाभिर् महा-क्लेदाव् शीता-सहौ गुरू शूनौ स-वर्ण-पिटिकाचितौ ।
संनिपाताद् अनेकाभौ दुर्-गन्धास्राव-पिच्छिलौ ॥ ६ ॥

२१.६dv दुर्-गन्ध-स्राव-पिच्छिलौ २१.६dv दुर्-गन्धाव् अति-पिच्छिलौ अ-कस्मान् म्लान-संशून-रुजौ विषम-पाकिनौ ।
रक्तोपसृष्टौ रुधिरं स्रवतः शोणित-प्रभौ ॥ ७ ॥

खर्जूर-सदृशं चात्र क्षीणे रक्ते ऽर्बुदं भवेत् ।
मांस-पिण्डोपमौ मांसात् स्यातां मूर्छत्-कृमी क्रमात् ॥ ८ ॥

तैलाभ-श्वयथु-क्लेदौ स-कण्ड्वौ मेदसा मृदू ।
क्षत-जाव् अवदीर्येते पाट्येते चा-सकृत् पुनः ॥ ९ ॥

२१.९bv स-कण्डू मेदसा मृदू २१.९dv पाट्येते वा-सकृत् पुनः ग्रथितौ च पुनः स्यातां कण्डूलौ दशन-च्छदौ ।
जल-बुद्बुद-वद् वात-कफाद् ओष्ठे जलार्बुदम् ॥ १० ॥

गण्डालजी स्थिरः शोफो गण्डे दाह-ज्वरान्वितः ।
वाताद् उष्ण-सहा दन्ताः शीत-स्पर्शे ऽधिक-व्यथाः ॥ ११ ॥

दाल्यन्त इव शूलेन शीताख्यो दालनश् च सः ।
दन्त-हर्षे प्रवाताम्ल-शीत-भक्षा-क्षमा द्वि-जाः ॥ १२ ॥

२१.१२dv -शीत-भक्ष्या-सहा द्वि-जाः भवन्त्य् अम्लाशनेनेव स-रुजाश् चलिता इव ।
दन्त-भेदे द्वि-जास् तोद-भेद-रुक्-स्फुटनान्विताः ॥ १३ ॥

२१.१३bv स-रुजश् चलिता इव २१.१३dv -भेद-रुक्-वेदनान्विताः चालश् चलद्भिर् दशनैर् भक्षणाद् अधिक-व्यथैः ।
करालस् तु करालानां दशनानां समुद्गमः ॥ १४ ॥

२१.१४dv दशनानां समुद्भवः २१.१४dv दशनानां समुद्भवे दन्तो ऽधिको ऽधि-दन्ताख्यः स चोक्तः खलु वर्धनः ।
जायमाने ऽति-रुग् दन्ते जाते तत्र तु शाम्यति ॥ १५ ॥

२१.१५cv जायते जायमाने ऽति २१.१५dv रुग् जाते तत्र शाम्यति अ-धावनान् मलो दन्ते कफो वा वात-शोषितः ।
पूति-गन्धिः स्थिरी-भूतः शर्करा साप्य् उपेक्षिता ॥ १६ ॥

२१.१६cv पूति-गन्धः स्थिरी-भूतः २१.१६dv शर्करा सो ऽप्य् उपेक्षितः शातयत्य् अणु-शो दन्तात् कपालानि कपालिका ।
श्यावः श्याव-त्वम् आयातो रक्त-पित्तानिलैर् द्वि-जः ॥ १७ ॥

२१.१७av शातयत्य् अणु-शो दन्त- २१.१७bv -कपालानि कपालिका २१.१७cv श्यावः श्याव-त्वम् आयाता २१.१७dv रक्त-पित्तानिलैर् द्वि-जाः स-मूलं दन्तम् आश्रित्य दोषैर् उल्बण-मारुतैः ।
शोषिते मज्ज्ञि सुषिरे दन्ते ऽन्न-मल-पूरिते ॥ १८ ॥

पूति-त्वात् कृमयः सूक्ष्मा जायन्ते जायते ततः ।
अ-हेतु-तीव्रार्ति-शमः स-संरम्भो ऽसितश् चलः ॥ १९ ॥

प्रलूनः पूय-रक्त-स्रुत् स चोक्तः कृमि-दन्तकः ।
श्लेष्म-रक्तेन पूतीनि वहन्त्य् अस्रम् अ-हेतुकम् ॥ २० ॥

२१.२०av प्रभूत-पूय-रक्त-स्रुत् शीर्यन्ते दन्त-मांसानि मृदु-क्लिन्नासितानि च ।
शीतादो ऽसाव् उप-कुशः पाकः पित्तासृग्-उद्भवः ॥ २१ ॥

दन्त-मांसानि दह्यन्ते रक्तान्य् उत्सेध-वन्त्य् अतः ।
कण्डू-मन्ति स्रवन्त्य् अस्रम् आध्मायन्ते ऽसृजि स्थिते ॥ २२ ॥

चला मन्द-रुजो दन्ताः पूति वक्त्रं च जायते ।
दन्तयोस् त्रिषु वा शोफो बदरास्थि-निभो घनः ॥ २३ ॥

कफास्रात् तीव्र-रुक् शीघ्रं पच्यते दन्त-पुप्पुटः ।
दन्त-मांसे मलैः सास्रैर् बाह्यान्तः श्वयथुर् गुरुः ॥ २४ ॥

स-रुग्-दाहः स्रवेद् भिन्नः पूयास्रं दन्त-विद्रधिः ।
श्वयथुर् दन्त-मूलेषु रुजा-वान् पित्त-रक्त-जः ॥ २५ ॥

२१.२५bv पूयास्रे दन्त-विद्रधिः लाला-स्रावी स सुषिरो दन्त-मांस-प्रशातनः ।
स संनिपाताज् ज्वर-वान् स-पूय-रुधिर-स्रुतिः ॥ २६ ॥

२१.२६cv स संनिपात-ज्वर-वान् महा-सुषिर इत्य् उक्तो विशीर्ण-द्वि-ज-बन्धनः ।
दन्तान्ते कील-वच् छोफो हनु-कर्ण-रुजा-करः ॥ २७ ॥

२१.२७bv विशीर्ण-रद-बन्धनः प्रतिहन्त्य् अभ्यवहृतिम् श्लेष्मणा सो ऽधि-मांसकः ।
घृष्टेषु दन्त-मांसेषु संरम्भो जायते महान् ॥ २८ ॥

यस्मिंश् चलन्ति दन्ताश् च स विदर्भो ऽभिघात-जः ।
दन्त-मांसाश्रितान् रोगान् यः साध्यान् अप्य् उपेक्षते ॥ २९ ॥

२१.२९bv स वैदर्भो ऽभिघात-जः अन्तस् तस्यास्रवन् दोषः सूक्ष्मां संजनयेद् गतिम् ।
पूयं मुहुः सा स्रवति त्वङ्-मांसास्थि-प्रभेदिनी ॥ ३० ॥

ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर् यथोदितैः ।
शाक-पत्त्र-खरा सुप्ता स्फुटिता वात-दूषिता ॥ ३१ ॥

जिह्वा पित्तात् स-दाहोषा रक्तैर् मांसाङ्कुरैश् चिता ।
शाल्मली-कण्टकाभैस् तु कफेन बहला गुरुः ॥ ३२ ॥

२१.३२dv कफेन बहुला गुरुः कफ-पित्ताद् अधः शोफो जिह्वा-स्तम्भ-कृद् उन्नतः ।
मत्स्य-गन्धिर् भवेत् पक्वः सो ऽलसो मांस-शातनः ॥ ३३ ॥

प्रबन्धने ऽधो जिह्वायाः शोफो जिह्वाग्र-संनिभः ।
साङ्कुरः कफ-पित्तास्रैर् लालोषा-स्तम्भ-वान् खरः ॥ ३४ ॥

२१.३४av प्रलम्बनो ऽधो जिह्वायाः अधि-जिह्वः स-रुक्-कण्डुर् वाक्याहार-विघात-कृत् ।
तादृग् एवोप-जिह्वस् तु जिह्वाया उपरि स्थितः ॥ ३५ ॥

तालु-मांसे ऽनिलाद् दुष्टे पिटिकाः स-रुजः खराः ।
बह्व्यो घनाः स्राव-युतास् तास् तालु-पिटिकाः स्मृताः ॥ ३६ ॥

२१.३६bv पिटिकाः स-रुजाः खराः २१.३६cv बह्व्यो घनाः स्राव-युक्तास् तालु-मूले कफात् सास्रान् मत्स्य-वस्ति-निभो मृदुः ।
प्रलम्बः पिच्छिलः शोफो नासयाहारम् ईरयन् ॥ ३७ ॥

कण्ठोपरोध-तृट्-कास-वमि-कृत् गल-शुण्डिका ।
तालु-मध्ये नि-रुङ् मांसं संहतं तालु-संहतिः ॥ ३८ ॥

पद्माकृतिस् तालु-मध्ये रक्ताच् छ्वयथुर् अर्बुदम् ।
कच्छपः कच्छपाकारश् चिर-वृद्धिः कफाद् अ-रुक् ॥ ३९ ॥

कोलाभः श्लेष्म-मेदोभ्यां पुप्पुटो नी-रुजः स्थिरः ।
पित्तेन पाकः पाकाख्यः पूयास्रावी महा-रुजः ॥ ४० ॥

वात-पित्त-ज्वरायासैस् तालु-शोषस् तद्-आह्वयः ।
जिह्वा-प्रबन्ध-जाः कण्ठे दारुणा मार्ग-रोधिनः ॥ ४१ ॥

मांसाङ्कुराः शीघ्र-चया रोहिणी शीघ्र-कारिणी ।
कण्ठास्य-शोष-कृद् वातात् सा हनु-श्रोत्र-रुक्-करी ॥ ४२ ॥

२१.४२bv रोहिणी साशु-कारिणी पित्ताज् ज्वरोषा-तृण्-मोह-कण्ठ-धूमायनान्विता ।
क्षिप्र-जा क्षिप्र-पाकाति-रागिणी स्पर्शना-सहा ॥ ४३ ॥

कफेन पिच्छिला पाण्डुर् असृजा स्फोटकाचिता ।
तप्ताङ्गार-निभा कर्ण-रुक्-करी पित्त-जाकृतिः ॥ ४४ ॥

गम्भीर-पाका निचयात् सर्व-लिङ्ग-समन्विता ।
दोषैः कफोल्बणैः शोफः कोल-वद् ग्रथितोन्नतः ॥ ४५ ॥

शूक-कण्टक-वत् कण्ठे शालूको मार्ग-रोधनः ।
वृन्दो वृत्तोन्नतो दाह-ज्वर-कृद् गल-पार्श्व-गः ॥ ४६ ॥

हनु-संध्य्-आश्रितः कण्ठे कार्पासी-फल-संनिभः ।
पिच्छिलो मन्द-रुक् शोफः कठिनस् तुण्डिकेरिका ॥ ४७ ॥

२१.४७bv कर्पासी-फल-संनिभः बाह्यान्तः श्वयथुर् घोरो गल-मार्गार्गलोपमः ।
गलौघो मूर्ध-गुरु-ता-तन्द्रा-लाला-ज्वर-प्रदः ॥ ४८ ॥

वलयं नाति-रुक् शोफस् तद्-वद् एवायतोन्नतः ।
मांस-कीलो गले दोषैर् एको ऽनेको ऽथ-वा ऽल्प-रुक् ॥ ४९ ॥

कृच्छ्रोच्छ्वासाभ्यवहृतिः पृथु-मूलो गिलायुकः ।
भूरि-मांसाङ्कुर-वृता तीव्र-तृड्-ज्वर-मूर्ध-रुक् ॥ ५० ॥

२१.५०bv पृथु-मूलो गलायुकः शत-घ्नी निचिता वर्तिः शत-घ्नीवाति-रुक्-करी ।
व्याप्त-सर्व-गलः शीघ्र-जन्म-पाको महा-रुजः ॥ ५१ ॥

२१.५१av शत-घ्नी-निचितेवान्तः २१.५१bv शत-घ्नी चाति-रुक्-करी पूति-पूय-निभ-स्रावी श्वयथुर् गल-विद्रधिः ।
जिह्वावसाने कण्ठादाव् अ-पाकं श्वयथुं मलाः ॥ ५२ ॥

जनयन्ति स्थिरं रक्तं नी-रुजं तद् गलार्बुदम् ॥ ५३अब् ॥
२१.५३bv नी-रुजं तं गलार्बुदम् पवन-श्लेष्म-मेदोभिर् गल-गण्डो भवेद् बहिः ॥ ५३च्द् ॥
वर्धमानः स कालेन मुष्क-वल् लम्बते ऽति-रुक् ॥ ५३एf ॥
२१.५३fव् मुष्क-वल् लम्बते नि-रुक् कृष्णो ऽरुणो वा तोदाढ्यः स वातात् कृष्ण-राजि-मान् ।
वृद्धस् तालु-गले शोषं कुर्याच् च वि-रसास्य-ताम् ॥ ५४ ॥

स्थिरः स-वर्णः कण्डू-मान् शीत-स्पर्शो गुरुः कफात् ।
वृद्धस् तालु-गले लेपं कुर्याच् च मधुरास्य-ताम् ॥ ५५ ॥

२१.५५cv वृद्धस् तालु-गले शोफं मेदसः श्लेष्म-वद् धानि-वृद्ध्योः सो ऽनुविधीयते ।
देहं वृद्धश् च कुरुते गले शब्दं स्वरे ऽल्प-ताम् ॥ ५६ ॥

श्लेष्म-रुद्धानिल-गतिः शुष्क-कण्ठो हत-स्वरः ।
ताम्यन् प्रसक्तं श्वसिति येन स स्वर-हानिलात् ॥ ५७ ॥

करोति वदनस्यान्तर् व्रणान् सर्व-सरो ऽनिलः ।
संचारिणो ऽरुणान् रूक्षान् ओष्ठौ ताम्रौ चल-त्वचौ ॥ ५८ ॥

जिह्वा शीता-सहा गुर्वी स्फुटिता कण्टकाचिता ।
विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः ॥ ५९ ॥

२१.५९dv मुखं पाको मुखस्य च अधः प्रतिहतो वायुर् अर्शो-गुल्म-कफादिभिः ।
यात्य् ऊर्ध्वं वक्त्र-दौर्गन्ध्यं कुर्वन्न् ऊर्ध्व-गुदस् तु सः ॥ ६० ॥

२१.६०dv कुर्वन्न् ऊर्ध्व-गदस् तु सः मुखस्य पित्त-जे पाके दाहोषे तिक्त-वक्त्र-ता ।
क्षारोक्षित-क्षत-समा व्रणास् तद्-वच् च रक्त-जे ॥ ६१ ॥

कफ-जे मधुरास्य-त्वं कण्डू-मत्-पिच्छिला व्रणाः ।
अन्तः-कपोलम् आश्रित्य श्याव-पाण्डु कफो ऽर्बुदम् ॥ ६२ ॥

२१.६२dv श्यावं पाण्डु कफो ऽर्बुदम् कुर्यात् तद् घट्टितं छिन्नं मृदितं च विवर्धते ।
मुख-पाको भवेत् सास्रैः सर्वैः सर्वाकृतिर् मलैः ॥ ६३ ॥

२१.६३av कुर्यात् तत् पाटितं छिन्नं २१.६३av कुर्यात् तद् व्यधितं छिन्नं पूत्य्-आस्य-ता च तैर् एव दन्त-काष्ठादि-विद्विषः ।
ओष्ठे गण्डे द्वि-जे मूले जिह्वायां तालुके गले ॥ ६४ ॥

वक्त्रे सर्व-त्र चेत्य् उक्ताः पञ्च-सप्ततिर् आमयाः ।
एका-दशैको दश च त्रयो-दश तथा च षट् ॥ ६५ ॥

अष्टाव् अष्टा-दशाष्टौ च क्रमात् तेष्व् अन्-उपक्रमाः ।
करालो मांस-रक्तौष्ठाव् अर्बुदानि जलाद् विना ॥ ६६ ॥

२१.६६bv क्रमाद् एष्व् अन्-उपक्रमाः कच्छपस् तालु-पिटिका गलौघः सुषिरो महान् ।
स्वर-घ्नोर्ध्व-गुद-श्याव-शत-घ्नी-वलयालसाः ॥ ६७ ॥

२१.६७cv स्वर-घ्नोर्ध्व-गद-श्याव- नाड्य्-ओष्ठ-कोपौ निचयाद् रक्तात् सर्वैश् च रोहिणी ।
दशने स्फुटिते दन्त-भेदः पक्वोप-जिह्विका ॥ ६८ ॥

गल-गण्डः स्वर-भ्रंशी कृच्छ्रोच्छ्वासो ऽति-वत्सरः ।
याप्यस् तु हर्षो भेदश् च शेषाञ् छस्त्रौषधैर् जयेत् ॥ ६९ ॥

२१.६९av गल-गण्डः स्वर-भ्रंशः

अध्याय 22[सम्पाद्यताम्]

खण्डौष्ठस्य विलिख्यान्तौ स्यूत्वा व्रण-वद् आचरेत् ।
यष्टी-ज्योतिष्मती-लोध्र-श्रावणी-शारिवोत्पलैः ॥ १ ॥

पटोल्या काकमाच्या च तैलम् अभ्यञ्जनं पचेत् ।
नस्यं च तैलं वात-घ्न-मधुर-स्कन्ध-साधितम् ॥ २ ॥

महा-स्नेहेन वातौष्ठे सिद्धेनाक्तः पिचुर् हितः ।
देव-धूप-मधूच्छिष्ट-गुग्गुल्व्-अमरदारुभिः ॥ ३ ॥

यष्ट्य्-आह्व-चूर्ण-युक्तेन तेनैव प्रतिसारणम् ।
नाड्य्-ओष्ठं स्वेदयेद् दुग्ध-सिद्धैर् एरण्ड-पल्लवैः ॥ ४ ॥

२२.४av यष्ट्य्-आह्व-चूर्ण-युक्तैस् तु २२.४bv तैर् एव प्रतिसारणम् खण्डौष्ठ-विहितं नस्यं तस्य मूर्ध्नि च तर्पणम् ।
पित्ताभिघात-जाव् ओष्ठौ जलौकोभिर् उपाचरेत् ॥ ५ ॥

लोध्र-सर्ज-रस-क्षौद्र-मधुकैः प्रतिसारणम् ।
गुडूची-यष्टि-पत्तङ्ग-सिद्धम् अभ्यञ्जने घृतम् ॥ ६ ॥

पित्त-विद्रधि-वच् चात्र क्रिया शोणित-जे ऽपि च ।
इदम् एव नवे कार्यं कर्मौष्ठे तु कफातुरे ॥ ७ ॥

२२.७cv इदम् एव भवेत् कार्यं २२.७dv कर्मौष्ठे तु कफोत्तरे पाठा-क्षार-मधु-व्योषैर् हृतास्रे प्रतिसारणम् ।
धूम-नावन-गण्डूषाः प्रयोज्याश् च कफ-च्छिदः ॥ ८ ॥

स्विन्नं भिन्नं वि-मेदस्कं दहेन् मेदो-जम् अग्निना ।
प्रियङ्गु-लोध्र-त्रि-फला-माक्षिकैः प्रतिसारयेत् ॥ ९ ॥

स-क्षौद्रा घर्षणं तीक्ष्णा भिन्न-शुद्धे जलार्बुदे ।
अवगाढे ऽति-वृद्धे वा क्षारो ऽग्निर् वा प्रतिक्रिया ॥ १० ॥

२२.१०av स-क्षौद्रैर् घर्षणं तीक्ष्णैर् २२.१०dv क्षारो वह्निः प्रतिक्रिया आमाद्य्-अवस्थास्व् अलजीं गण्डे शोफ-वद् आचरेत् ।
स्विन्नस्य शीत-दन्तस्य पालीं विलिखितां दहेत् ॥ ११ ॥

तैलेन प्रतिसार्या च स-क्षौद्र-घन-सैन्धवैः ।
दाडिम-त्वग्-वरा-तार्क्ष्य-कान्ता-जम्ब्व्-अस्थि-नागरैः ॥ १२ ॥

कवडः क्षीरिणां क्वाथैर् अणु-तैलं च नावनम् ।
दन्त-हर्षे तथा भेदे सर्वा वात-हरा क्रिया ॥ १३ ॥

२२.१३cv दन्त-भेदे तथा हर्षे २२.१३dv सर्वा वात-हराः क्रियाः तिल-यष्टीमधु-शृतं क्षीरं गण्डूष-धारणम् ।
स-स्नेहं दश-मूलाम्बु गण्डूषः प्रचलद्-द्वि-जे ॥ १४ ॥

२२.१४cv स-स्नेह-दश-मूलाम्बु- २२.१४dv -गण्डूषाः प्रचले द्वि-जे तुत्थ-लोध्र-कणा-श्रेष्ठा-पत्तङ्ग-पटु-घर्षणम् ।
स्निग्धाः शील्या यथावस्थं नस्यान्न-कवडादयः ॥ १५ ॥

२२.१५dv गण्डूष-कवडादयः अधि-दन्तकम् आलिप्तं यदा क्षारेण जर्जरम् ।
कृमि-दन्तम् इवोत्पाट्य तद्-वच् चोपचरेत् तदा ॥ १६ ॥

अन्-अवस्थित-रक्ते च दग्धे व्रण इव क्रिया ।
अ-हिंसन् दन्त-मूलानि दन्तेभ्यः शर्करां हरेत् ॥ १७ ॥

क्षार-चूर्णैर् मधु-युतैस् ततश् च प्रतिसारयेत् ।
कपालिकायाम् अप्य् एवं हर्षोक्तं च समाचरेत् ॥ १८ ॥

जयेद् विस्रावणैः स्विन्नम् अ-चलं कृमि-दन्तकम् ।
स्निग्धैश् चालेप-गण्डूष-नस्याहारैश् चलापहैः ॥ १९ ॥

२२.१९bv अ-बलं कृमि-दन्तकम् गुडेन पूर्णं सुषिरं मधूच्छिष्टेन वा दहेत् ।
सप्तच्छदार्क-क्षीराभ्यां पूरणं कृमि-शूल-जित् ॥ २० ॥

हिङ्गु-कट्फल-कासीस-स्वर्जिका-कुष्ठ-वेल्ल-जम् ।
रजो रुजं जयत्य् आशु वस्त्र-स्थं दशने घृतम् ॥ २१ ॥

२२.२१dv वस्त्र-स्थं दशनैर् घृतम् अलक्तकं वा सिन्धूत्थं वेल्ल-धूमं स-हिङ्गु वा ।
धान्याम्ल-सिद्धं शेवालं कोष्णं वा दशन-स्थितम् ॥ २१+१ ॥

२२.२१+१bv वेश्म-धूमं स-हिङ्गु वा वराहकर्णी-मूलं वा शरपुङ्खा-जटाथ-वा ।
वर्तिर् वावल्गुज-फलैर् बीजपूर-जटान्वितैः ॥ २१+२ ॥

गण्डूषं ग्राहयेत् तैलम् एभिर् एव च साधितम् ।
क्वाथैर् वा युक्तम् एरण्ड-द्वि-व्याघ्री-भूकदम्ब-जैः ॥ २२ ॥

२२.२२av गण्डूषं धारयेत् तैलम् २२.२२dv -व्याघ्री-भूर्ज-कदम्बकैः क्रिया-योगैर् बहु-विधैर् इत्य् अ-शान्त-रुजं भृशम् ।
दृढम् अप्य् उद्धरेद् दन्तं पूर्वं मूलाद् विमोक्षितम् ॥ २३ ॥

संदंशकेन लघुना दन्त-निर्घातनेन वा ।
तैलं स-यष्ट्य्-आह्व-रजो गण्डूषो मधु वा ततः ॥ २४ ॥

२२.२४dv गण्डूषो मधुना ततः ततो विदारि-यष्ट्य्-आह्व-शृङ्गाटक-कसेरुभिः ।
तैलं दश-गुण-क्षीरं सिद्धं युञ्जीत नावनम् ॥ २५ ॥

कृश-दुर्-बल-वृद्धानां वातार्तानां च नोद्धरेत् ।
नोद्धरेच् चोत्तरं दन्तं बहूपद्रव-कृद् धि सः ॥ २६ ॥

एषाम् अप्य् उद्धृतौ स्निग्ध-स्वादु-शीत-क्रमो हितः ।
विस्रावितास्रे शीतादे स-क्षौद्रैः प्रतिसारणम् ॥ २७ ॥

२२.२७av एषाम् अप्य् उद्धृतैः स्निग्ध- मुस्तार्जुन-त्वक्-त्रि-फला-फलिनी-तार्क्ष्य-नागरैः ।
तत्-क्वाथः कवडो नस्यं तैलं मधुर-साधितम् ॥ २८ ॥

दन्त-मांसान्य् उप-कुशे स्विन्नान्य् उष्णाम्बु-धारणैः ।
मण्डलाग्रेण शाकादि-पत्त्रैर् वा बहु-शो लिखेत् ॥ २९ ॥

ततश् च प्रतिसार्याणि घृत-मण्ड-मधु-द्रुतैः ।
लाक्षा-प्रियङ्गु-पत्तङ्ग-लवणोत्तम-गैरिकैः ॥ ३० ॥

२२.३०bv घृत-मण्ड-मधु-प्लुतैः स-कुष्ठ-शुण्ठी-मरिच-यष्टीमधु-रसाञ्जनैः ।
सुखोष्णो घृत-मण्डो ऽनु तैलं वा कवड-ग्रहः ॥ ३१ ॥

२२.३१dv तैलं वा कवड-ग्रहे घृतं च मधुरैः सिद्धं हितं कवड-नस्ययोः ।
दन्त-पुप्पुटके स्विन्न-च्छिन्न-भिन्न-विलेखिते ॥ ३२ ॥

२२.३२av घृतं वा मधुरैः सिद्धं यष्ट्य्-आह्व-स्वर्जिका-शुण्ठी-सैन्धवैः प्रतिसारणम् ।
विद्रधौ कटु-तीक्ष्णोष्ण-रूक्षैः कवड-लेपनम् ॥ ३३ ॥

घर्षणं कटुका-कुष्ठ-वृश्चिकाली-यवोद्भवैः ।
रक्षेत् पाकं हिमैः पक्वः पाट्यो दाह्यो ऽवगाढकः ॥ ३४ ॥

सुषिरे छिन्न-लिखिते स-क्षौद्रैः प्रतिसारणम् ।
लोध्र-मुस्त-मिशि-श्रेष्ठा-तार्क्ष्य-पत्तङ्ग-किंशुकैः ॥ ३५ ॥

२२.३५av सौषिरे छिन्न-लिखिते स-कट्फलैः कषायैश् च तेषां गण्डूष इष्यते ।
यष्टी-लोध्रोत्पलानन्ता-शारिवागुरु-चन्दनैः ॥ ३६ ॥

२२.३६av स-कट्फलैः कषायश् च स-गैरिक-सिता-पुण्ड्रैः सिद्धं तैलं च नावनम् ।
छित्त्वाधि-मांसकं चूर्णैः स-क्षौद्रैः प्रतिसारयेत् ॥ ३७ ॥

वचा-तेजोवती-पाठा-स्वर्जिका-यव-शूक-जैः ।
पटोल-निम्ब-त्रि-फला-कषायः कवडो हितः ॥ ३८ ॥

२२.३८bv -स्वर्जिका-याव-शूक-जैः विदर्भे दन्त-मूलानि मण्डलाग्रेण शोधयेत् ।
क्षारं युञ्ज्यात् ततो नस्यं गण्डूषादि च शीतलम् ॥ ३९ ॥

संशोध्योभयतः कायं शिरश् चोपचरेत् ततः ।
नाडीं दन्तानुगां दन्तं समुद्धृत्याग्निना दहेत् ॥ ४० ॥

कुब्जां नैक-गतिं पूर्णां गुडेन मदनेन वा ।
धावनं जाति-मदन-खदिर-स्वादुकण्टकैः ॥ ४१ ॥

२२.४१av न्युब्जां नैक-गतिं पूर्णां २२.४१bv गुडेन मधुनाथ-वा क्षीरि-वृक्षाम्बु-गण्डूषो नस्यं तैलं च तत्-कृतम् ।
कुर्याद् वातौष्ठ-कोपोक्तं कण्टकेष्व् अनिलात्मसु ॥ ४२ ॥

जिह्वायां पित्त-जातेषु घृष्टेषु रुधिरे स्रुते ।
प्रतिसारण-गण्डूष-नावनं मधुरैर् हितम् ॥ ४३ ॥

तीक्ष्णैः कफोत्थेष्व् एवं च सर्षप-त्र्य्-ऊषणादिभिः ।
नवे जिह्वालसे ऽप्य् एवं तं तु शस्त्रेण न स्पृशेत् ॥ ४४ ॥

२२.४४av तीक्ष्णैः कफोत्थेष्व् अप्य् एवं २२.४४av तीक्ष्णैः कफोत्थेष्व् एवं तु उन्नम्य जिह्वाम् आकृष्टां बडिशेनाधि-जिह्विकाम् ।
छेदयेन् मण्डलाग्रेण तीक्ष्णोष्णैर् घर्षणादि च ॥ ४५ ॥

उप-जिह्वां परिस्राव्य यव-क्षारेण घर्षयेत् ।
कफ-घ्नैः शुण्डिका साध्या नस्य-गण्डूष-घर्षणैः ॥ ४६ ॥

एर्वारु-बीज-प्रतिमं वृद्धायाम् अ-सिरा-ततम् ।
अग्रं निविष्टं जिह्वाया बडीशाद्य्-अवलम्बितम् ॥ ४७ ॥

२२.४७cv अग्रं निविष्टं जिह्वायां २२.४७cv अग्रे निविष्टं जिह्वाया छेदयेन् मण्डलाग्रेण नात्य्-अग्रे न च मूलतः ।
छेदे ऽत्य् असृक्-क्षयान् मृत्युर् हीने व्याधिर् विवर्धते ॥ ४८ ॥

२२.४८bv नात्य्-अग्रे नाति-मूलतः मरिचातिविषा-पाठा-वचा-कुष्ठ-कुटन्नटैः ।
छिन्नायां स-पटु-क्षौद्रैर् घर्षणं कवडः पुनः ॥ ४९ ॥

कटुकातिविषा-पाठा-निम्ब-रास्ना-वचाम्बुभिः ।
संघाते पुप्पुटे कूर्मे विलिख्यैवं समाचरेत् ॥ ५० ॥

अ-पक्वे तालु-पाके तु कासीस-क्षौद्र-तार्क्ष्य-जैः ।
घर्षणं कवडः शीत-कषाय-मधुरौषधैः ॥ ५१ ॥

२२.५१cv घर्षणं कवडः शीतः २२.५१dv कषाय-मधुरौषधैः पक्वे ऽष्टा-पद-वद् भिन्ने तीक्ष्णोष्णैः प्रतिसारणम् ।
वृष-निम्ब-पटोलाद्यैस् तिक्तैः कवड-धारणम् ॥ ५२ ॥

तालु-शोषे त्व् अ-तृष्णस्य सर्पिर् उत्तर-भक्तिकम् ।
कणा-शुण्ठी-शृतं पानम् अम्लैर् गण्डूष-धारणम् ॥ ५३ ॥

२२.५३av तालु-शोषे तृषार्तस्य धन्व-मांस-रसाः स्निग्धाः क्षीर-सर्पिश् च नावनम् ।
कण्ठ-रोगेष्व् असृङ्-मोक्षस् तीक्ष्णैर् नस्यादि कर्म च ॥ ५४ ॥

क्वाथः पानं च दार्वी-त्वङ्-निम्ब-तार्क्ष्य-कलिङ्ग-जः ।
हरीतकी-कषायो वा पेयो माक्षिक-संयुतः ॥ ५५ ॥

श्रेष्ठा-व्योष-यव-क्षार-दार्वी-द्वीपि-रसाञ्जनैः ।
स-पाठा-तेजिनी-निम्बैः शुक्त-गो-मूत्र-साधितैः ॥ ५६ ॥

कवडो गुटिका वात्र कल्पिता प्रतिसारणम् ।
निचुलं कटभी मुस्तं देवदारु महौषधम् ॥ ५७ ॥

२२.५७av कवडो गुटिका चात्र २२.५७cv निचुलं कटभी मुस्ता वचा दन्ती च मूर्वा च लेपः कोष्णो ऽर्ति-शोफ-हा ।
अथान्तर्-बाह्यतः स्विन्नां वात-रोहिणिकां लिखेत् ॥ ५८ ॥

अङ्गुली-शस्त्रकेणाशु पटु-युक्त-नखेन वा ।
पञ्च-मूलाम्बु कवडस् तैलं गण्डूष-नावनम् ॥ ५९ ॥

विस्राव्य पित्त-संभूतां सिता-क्षौद्र-प्रियङ्गुभिः ।
घर्षेत् स-लोध्र-पत्तङ्गैः कवडः क्वथितैश् च तैः ॥ ६० ॥

द्राक्षा-परूषक-क्वाथो हितश् च कवड-ग्रहे ।
उपाचरेद् एवम् एव प्रत्याख्यायास्र-संभवाम् ॥ ६१ ॥

सागार-धूमैः कटुकैः कफ-जां प्रतिसारयेत् ।
नस्य-गण्डूषयोस् तैलं साधितं च प्रशस्यते ॥ ६२ ॥

अपामार्ग-फल-श्वेता-दन्ती-जन्तुघ्न-सैन्धवैः ।
तद्-वच् च वृन्द-शालूक-तुण्डिकेरी-गिलायुषु ॥ ६३ ॥

२२.६३dv -तुण्डिकेरी-गलायुषु विद्रधौ स्राविते श्रेष्ठा-रोचना-तार्क्ष्य-गैरिकैः ।
स-लोध्र-पटु-पत्तङ्ग-कणैर् गण्डूष-घर्षणे ॥ ६४ ॥

२२.६४dv -कणैर् गण्डूष-धारणम् २२.६४dv -कणैर् गण्डूष-घर्षणम् गल-गण्डः पवन-जः स्विन्नो निःस्रुत-शोणितः ।
तिलैर् बीजैश् च लट्वोमा-प्रियाल-शण-संभवैः ॥ ६५ ॥

२२.६५bv स्विन्नो विस्रुत-शोणितः उपनाह्यो व्रणे रूढे प्रलेप्यश् च पुनः पुनः ।
शिग्रु-तिल्वक-तर्कारी-गज-कृष्णा-पुनर्नवैः ॥ ६६ ॥

कालामृतार्क-मूलैश् च पुष्पैश् च करहाट-जैः ।
एकैषीकान्वितैः पिष्टैः सुरया काञ्जिकेन वा ॥ ६७ ॥

२२.६७av ताल-मूलार्क-मूलैश् च २२.६७bv पुष्पैश् च करघाट-जैः गुडूची-निम्ब-कुटज-हंसपदी-बला-द्वयैः ।
साधितं पाययेत् तैलं स-कृष्णा-देवदारुभिः ॥ ६८ ॥

कर्तव्यं कफ-जे ऽप्य् एतत् स्वेद-विम्लापने त्व् अति ।
लेपो ऽजगन्धातिविषा-विशल्याः स-विषाणिकाः ॥ ६९ ॥

गुञ्जालाबु-शुकाह्वाश् च पलाश-क्षार-कल्किताः ।
मूत्र-स्रुतं हठ-क्षारं पक्त्वा कोद्रव-भुक् पिबेत् ॥ ७० ॥

२२.७०cv मूत्र-शृतं यव-क्षारं २२.७०cv मूत्र-स्रुतं यव-क्षारं २२.७०cv सूत्र-स्रुतं यव-क्षारं साधितं वत्सकाद्यैर् वा तैलं स-पटु-पञ्चकैः ।
कफ-घ्नान् धूम-वमन-नावनादींश् च शीलयेत् ॥ ७१ ॥

२२.७१cv कफ-घ्नान् धूम-गण्डूषान् २२.७१dv वमनादींश् च शीलयेत् मेदो-भवे सिरां विध्येत् कफ-घ्नं च विधिं भजेत् ।
असनादि-रजश् चैनं प्रातर् मूत्रेण पाययेत् ॥ ७२ ॥

अ-शान्तौ पाचयित्वा च सर्वान् व्रण-वद् आचरेत् ।
मुख-पाकेषु स-क्षौद्रा प्रयोज्या मुख-धावनाः ॥ ७३ ॥

२२.७३av अ-शान्तौ पाटयित्वा च २२.७३dv प्रयोज्या मुख-पावनाः क्वथितास् त्रि-फला-पाठा-मृद्वीका-जाति-पल्लवाः ।
निष्ठेव्या भक्षयित्वा वा कुठेरादिर् गणो ऽथ-वा ॥ ७४ ॥

२२.७४cv निघृष्टव्या भक्षयित्वा मुख-पाके ऽनिलात् कृष्णा-पट्व्-एलाः प्रतिसारणम् ।
तैलं वात-हरैः सिद्धं हितं कवड-नस्ययोः ॥ ७५ ॥

पित्तास्रे पित्त-रक्त-घ्नः कफ-घ्नश् च कफे विधिः ।
लिखेच् छाकादि-पत्त्रैश् च पिटिकाः कठिनाः स्थिराः ॥ ७६ ॥

२२.७६av पित्तास्रे रक्त-पित्त-घ्नः यथा-दोषोदयं कुर्यात् संनिपाते चिकित्सितम् ।
नवे ऽर्बुदे त्व् अ-संवृद्धे छेदिते प्रतिसारणम् ॥ ७७ ॥

स्वर्जिका-नागर-क्षौद्रैः क्वाथो गण्डूष इष्यते ।
गुडूची-निम्ब-कल्कोत्थो मधु-तैल-समन्वितः ॥ ७८ ॥

यवान्न-भुक् तीक्ष्ण-तैल-नस्याभ्यङ्गांस् तथाचरेत् ।
वमिते पूति-वदने धूमस् तीक्ष्णः स-नावनः ॥ ७९ ॥

समङ्गा-धातकी-लोध्र-फलिनी-पद्मकैर् जलम् ।
धावनं वदनस्यान्तश् चूर्णितैर् अवचूर्णितम् ॥ ८० ॥

२२.८०dv चूर्णितैर् अवचूर्णनम् शीतादोप-कुशोक्तं च नावनादि च शीलयेत् ॥ ८१अब् ॥
फल-त्रय-द्वीपि-किराततिक्त-यष्ट्य्-आह्व-सिद्धार्थ-कटु-त्रिकाणि ॥ ८१च्द् ॥
मुस्ता-हरिद्रा-द्वय-याव-शूक-वृक्षाम्लकाम्लाग्रिम-वेतसाश् च ॥ ८१एf ॥
अश्वत्थ-जम्ब्व्-आम्र-धनञ्जय-त्वक् त्वक् चाहिमारात् खदिरस्य सारः ।
क्वाथेन तेषां घन-तां गतेन तच्-चूर्ण-युक्ता गुटिका विधेयाः ॥ ८२ ॥

ता धारिता घ्नन्ति मुखेन नित्यं कण्ठौष्ठ-ताल्व्-आदि-गदान् सु-कृच्छ्रान् ।
विशेषतो रोहिणिकास्य-शोष-गन्धान् विदेहाधिपति-प्रणीताः ॥ ८३ ॥

खदिर-तुलाम् अम्बु-घटे पक्त्वा तोयेन तेन पिष्टैश् च ।
चन्दन-जोङ्गक-कुङ्कुम-परिपेलव-वालकोशीरैः ॥ ८४ ॥

सुरतरु-लोध्र-द्राक्षा-मञ्जिष्ठा-चोच-पद्मक-विडङ्गैः ।
स्पृक्का-नत-नख-कट्फल-सूक्ष्मैला-ध्यामकैः स-पत्तङ्गैः ॥ ८५ ॥

तैल-प्रस्थं विपचेत् कर्षांशैः पान-नस्य-गण्डूषैस् तत् ।
हत्वास्ये सर्व-गदान् जनयति गार्ध्रीं दृशं श्रुतिं च वाराहीम् ॥ ८६ ॥

२२.८६bv कर्षांशैः पान-नस्य-गण्डूषैः २२.८६cv हन्त्य् आस्ये सर्व-गदान् उद्वर्तितं च प्रपुनाट-लोध्र-दार्वीभिर् अभ्यक्तम् अनेन वक्त्रम् ।
निर्-व्यङ्ग-नीली-मुख-दूषिकादि संजायते चन्द्र-समान-कान्ति ॥ ८७ ॥

२२.८७cv निर्-व्यङ्ग-नीली-मुख-दूषिकं च पल-शतं बाणात् तोय-घटे पक्त्वा रसे ऽस्मिंश् च पलार्धिकैः ।
खदिर-जम्बू-यष्ट्यानन्ताम्रैर् अहिमार-नीलोत्पलान्वितैः ॥ ८८ ॥

२२.८८cv खदिर-जम्बू-यष्ट्यानन्ता-लोध्रैर् तैल-प्रस्थं पाचयेच् छ्लक्ष्ण-पिष्टैर् एभिर् द्रव्यैर् धारितं तन् मुखेन ।
रोगान् सर्वान् हन्ति वक्त्रे विशेषात् स्थैर्यं धत्ते दन्त-पङ्क्तेश् चलायाः ॥ ८९ ॥

२२.८९av तैल-प्रस्थं पाचयेत् सूक्ष्म-पिष्टैर् २२.८९bv एभिर् द्रव्यैर् धारितं तत् सुखेन खदिर-साराद् द्वे तुले पचेद् वल्कात् तुलां चारिमेदसः ।
घट-चतुष्के पाद-शेषे ऽस्मिन् पूते पुनः क्वथनाद् घने ॥ ९० ॥

२२.९०av खदिर-साराद् द्वे तुले विपचेद् २२.९०bv वल्क-तुलां चारिमेदसः २२.९०bv वल्कल-तुलां चारिमेदसः २२.९०bv वल्कल-तुलां चारिमेदतः २२.९०dv ऽस्मिन् पूते पुनः क्वाथनाद् घने २२.९०dv ऽस्मिन् पूते पुनः क्वाथयेद् घने आक्षिकं क्षिपेत् सु-सूक्ष्मं रजः सेव्याम्बु-पत्तङ्ग-गैरिकम् ।
चन्दन-द्वय-लोध्र-पुण्ड्राह्व-यष्ट्य्-आह्व-लाक्षाञ्जन-द्वयम् ॥ ९१ ॥

२२.९१av आक्षिकं क्षिपेत् सु-सूक्ष्म-रजः २२.९१av आक्षिकं च क्षिपेत् सूक्ष्म-रजः २२.९१av कार्षिकं क्षिपेत् सु-सूक्ष्म-रजः २२.९१cv चन्दन-द्वय-श्यामा-पुण्ड्राह्व- धातकी-कट्फल-द्वि-निशा-त्रि-फला-चतुर्-जात-जोङ्गकम् ।
मुस्त-मञ्जिष्ठा-न्यग्रोध-प्ररोह-मांसी-यवासकम् ॥ ९२ ॥

२२.९२dv ंध-प्ररोह-वचा-मांसी-यवासकम् पद्मकैला-समङ्गाश् च शीते तस्मिंस् तथा पालिकां पृथक् ।
जातीपत्त्रिकां स-जाति-फलां सह-लवङ्ग-कण्कोल्लकाम् ॥ ९३ ॥

२२.९३av पद्मकैलेय-समङ्गाश् च २२.९३bv शीते तथा पालिकां पृथक् २२.९३dv सह-नख-लवङ्ग-कङ्कोल्लकाम् स्फटिक-शुभ्र-सुरभि-कर्पूर-कुडवं च तत्रावपेत् ततः ।
कारयेद् गुटिकाः सदा चैता धार्या मुखे तद्-गदापहाः ॥ ९४ ॥

२२.९४cv कारयेद् गुटिकाश् चैता २२.९४cv कार्याश् चैता गुटिका क्वाथ्यौषध-व्यत्यय-योजनेन तैलं पचेत् कल्पनयानयैव ।
सर्वास्य-रोगोद्धृतये तद् आहुर् दन्त-स्थिर-त्वे त्व् इदम् एव मुख्यम् ॥ ९५ ॥

२२.९५av क्वाथौषध-व्यत्यय-योजनेन २२.९५cv सर्वास्य-रोग-प्रशमार्थम् उक्तं २२.९५cv सर्वास्य-रोगे व्ययनं तद् आहुर् खदिरेणैता गुटिकास् तैलम् इदं चारिमेदसा प्रथितम् ।
अनुशीलयन् प्रति-दिनं स्वस्थो ऽपि दृढ-द्वि-जो भवति ॥ ९६ ॥

२२.९६dv वृद्धो ऽपि दृढ-द्वि-जो भवति क्षुद्रा-गुडूची-सुमनः-प्रवाल-दार्वी-यवास-त्रि-फला-कषायः ।
क्षौद्रेण युक्तः कवड-ग्रहो ऽयं सर्वामयान् वक्त्र-गतान् निहन्ति ॥ ९७ ॥

२२.९७av द्राक्षा-गुडूची-सुमनः-प्रवाल- पाठा-दार्वी-त्वक्-कुष्ठ-मुस्ता-समङ्गा-तिक्ता-पीताङ्गी-लोध्र-तेजोवतीनाम् ।
चूर्णः स-क्षौद्रो दन्त-मांसार्ति-कण्डू-पाक-स्रावाणां नाशनो घर्षणेन ॥ ९८ ॥

गृह-धूम-तार्क्ष्य-पाठा-व्योष-क्षाराग्न्य्-अयो-वरा-तेजो-ह्वैः ।
मुख-दन्त-गल-विकारे स-क्षौद्रः कालको विधार्यश् चूर्णः ॥ ९९ ॥

२२.९९dv स-क्षौद्रः कालिको विधार्यश् चूर्णः दार्वी-त्वक्-सिन्धूद्भव-मनःशिला-याव-शूक-हरितालैः ।
धार्यः पीतक-चूर्णो दन्तास्य-गलामये स-मध्व्-आज्यः ॥ १०० ॥

द्वि-क्षार-धूमक-वरा-पञ्च-पटु-व्योष-वेल्ल-गिरि-तार्क्ष्यैः ।
गो-मूत्रेण विपक्वा गलामय-घ्नी रस-क्रिया एषा ॥ १०१ ॥

२२.१०१av द्वि-क्षार-गृह-धूमक-वरा- २२.१०१cv गो-मूत्रेण पिबन् क्वाथं गो-मूत्र-क्वथन-विलीन-विग्रहाणां पथ्यानां जल-मिशि-कुष्ठ-भावितानाम् ।
अत्तारं नरम् अणवो ऽपि वक्त्र-रोगाः श्रोतारं नृपम् इव न स्पृशन्त्य् अन्-अर्थाः ॥ १०२ ॥

सप्तच्छदोशीर-पटोल-मुस्त-हरीतकी-तिक्तक-रोहिणीभिः ।
यष्ट्य्-आह्व-राजद्रुम-चन्दनैश् च क्वाथं पिबेत् पाक-हरं मुखस्य ॥ १०३ ॥

पटोल-शुण्ठी-त्रि-फला-विशाला-त्रायन्ति-तिक्ता-द्वि-निशामृतानाम् ।
पीतः कषायो मधुना निहन्ति मुखे स्थितश् चास्य-गदान् अ-शेषान् ॥ १०४ ॥

२२.१०४dv मुखोत्थितांश् चाशु गदान् अ-शेषान् स्व-रसः क्वथितो दार्व्या घनी-भूतः स-गैरिकः ।
आस्य-स्थः स-मधुर् वक्त्र-पाक-नाडी-व्रणापहः ॥ १०५ ॥

पटोल-निम्ब-यष्ट्य्-आह्व-वासा-जात्य्-अरिमेदसाम् ।
खदिरस्य वरायाश् च पृथग् एवं प्रकल्पना ॥ १०६ ॥

खदिरायो-वरा-पार्थ-मदयन्त्य्-अहिमारकैः ।
गण्डूषो ऽम्बु-शृतैर् धार्यो दुर्-बल-द्वि-ज-शान्तये ॥ १०७ ॥

मुख-दन्त-मूल-गल-जाः प्रायो रोगाः कफास्र-भूयिष्ठाः ।
तस्मात् तेषाम् अ-सकृद् रुधिरं विस्रावयेद् दुष्टम् ॥ १०८ ॥

काय-शिरसोर् विरेको वमनं कवड-ग्रहाश् च कटु-तिक्ताः ।
प्रायः शस्तं तेषां कफ-रक्त-हरं तथा कर्म ॥ १०९ ॥

यव-तृण-धान्यं भक्तं विदलैः क्षारोषितैर् अप-स्नेहाः ।
यूषा भक्ष्याश् च हिता यच् चान्यच् छ्लेष्म-नाशाय ॥ ११० ॥

२२.११०av यव-तृण-धान्यं भुक्तं २२.११०bv विदलैः क्षारोषितैर् अप-स्नेहम् प्राणानिल-पथ-संस्थाः श्वसितम् अपि निरुन्धते प्रमाद-वतः ।
कण्ठामयाश् चिकित्सितम् अतो द्रुतं तेषु कुर्वीत ॥ १११ ॥


अध्याय 23[सम्पाद्यताम्]

धूमातप-तुषाराम्बु-क्रीडाति-स्वप्न-जागरैः ।
उत्स्वेदाधि-पुरो-वात-बाष्प-निग्रह-रोदनैः ॥ १ ॥

२३.१cv उन्मादाधि-पुरो-वात- अत्य्-अम्बु-मद्य-पानेन कृमिभिर् वेग-धारणैः ।
उपधान-मृजाभ्यङ्ग-द्वेषाधः-प्रततेक्षणैः ॥ २ ॥

अ-सात्म्य-गन्ध-दुष्टाम-भाष्याद्यैश् च शिरो-गताः ।
जनयन्त्य् आमयान् दोषास् तत्र मारुत-कोपतः ॥ ३ ॥

२३.३av अ-सात्म्य-गन्ध-दुष्टाम्बु- निस्तुद्येते भृशं शङ्खौ घाटा संभिद्यते तथा ।
भ्रुवोर् मध्यं ललाटं च पततीवाति-वेदनम् ॥ ४ ॥

२३.४cv भ्रुवोर् मध्ये ललाटं च बाध्येते स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी ।
घूर्णतीव शिरः सर्वं संधिभ्य इव मुच्यते ॥ ५ ॥

स्फुरत्य् अति सिरा-जालं कन्धरा-हनु-संग्रहः ।
प्रकाशा-सह-ता घ्राण-स्रावो ऽ-कस्माद् व्यथा-शमौ ॥ ६ ॥

मार्दवं मर्दन-स्नेह-स्वेद-बन्धैश् च जायते ।
शिरस्-तापो ऽयम् अर्धे तु मूर्ध्नः सो ऽर्धावभेदकः ॥ ७ ॥

पक्षात् कुप्यति मासाद् वा स्वयम् एव च शाम्यति ।
अति-वृद्धस् तु नयनं श्रवणं वा विनाशयेत् ॥ ८ ॥

शिरो-ऽभितापे पित्तोत्थे शिरो-धूमायनं ज्वरः ।
स्वेदो ऽक्षि-दहनं मूर्छा निशि शीतैश् च मार्दवम् ॥ ९ ॥

अ-रुचिः कफ-जे मूर्ध्नो गुरु-स्तिमित-शीत-ता ।
सिरा-निष्पन्द-तालस्यं रुङ् मन्दाह्न्य् अधिका निशि ॥ १० ॥

तन्द्रा शूनाक्षि-कूट-त्वं कर्ण-कण्डूयनं वमिः ।
रक्तात् पित्ताधिक-रुजः सर्वैः स्यात् सर्व-लक्षणः ॥ ११ ॥

संकीर्णैर् भोजनैर् मूर्ध्नि क्लेदिते रुधिरामिषे ।
कोपिते संनिपाते च जायन्ते मूर्ध्नि जन्तवः ॥ १२ ॥

शिरसस् ते पिबन्तो ऽस्रं घोराः कुर्वन्ति वेदनाः ।
चित्त-विभ्रंश-जननीर् ज्वरः कासो बल-क्षयः ॥ १३ ॥

रौक्ष्य-शोफ-व्यध-च्छेद-दाह-स्फुरण-पूति-ताः ।
कपाले तालु-शिरसोः कण्डूः शोषः प्रमीलकः ॥ १४ ॥

२३.१४av रौक्ष्य-शोफे व्यध-च्छेद- २३.१४bv -दाह-स्फुटन-पूति-ताः २३.१४dv कण्डूः शोफः प्रमीलकः २३.१४dv कण्डूः शोफो ऽ-प्रमीलकः ताम्राच्छ-सिङ्घाणक-ता कर्ण-नादश् च जन्तु-जे ।
वातोल्बणाः शिरः-कम्पं तत्-संज्ञं कुर्वते मलाः ॥ १५ ॥

पित्त-प्रधानैर् वाताद्यैः शङ्खे शोफः स-शोणितैः ।
तीव्र-दाह-रुजा-राग-प्रलाप-ज्वर-तृड्-भ्रमाः ॥ १६ ॥

तिक्तास्यः पीत-वदनः क्षिप्र-कारी स शङ्खकः ।
त्रि-रात्राज् जीवितं हन्ति सिध्यत्य् अप्य् आशु साधितः ॥ १७ ॥

२३.१७dv सिध्यत्य् आशु सु-साधितः पित्तानुबद्धः शङ्खाक्षि-भ्रू-ललाटेषु मारुतः ।
रुजं स-स्पन्दनां कुर्याद् अनु-सूर्योदयोदयाम् ॥ १८ ॥

२३.१८av पित्तानुबन्धः शङ्खाक्षि- आ-मध्याह्नं विवर्धिष्णुः क्षुद्-वतः सा विशेषतः ।
अ-व्यवस्थित-शीतोष्ण-सुखा शाम्यत्य् अतः परम् ॥ १९ ॥

सूर्यावर्तः स इत्य् उक्ता दश रोगाः शिरो-गताः ।
शिरस्य् एव च वक्ष्यन्ते कपाले व्याधयो नव ॥ २० ॥

कपाले पवने दुष्टे गर्भ-स्थस्यापि जायते ।
स-वर्णो नी-रुजः शोफस् तं विद्याद् उप-शीर्षकम् ॥ २१ ॥

यथा-दोषोदयं ब्रूयात् पिटिकार्बुद-विद्रधीन् ।
कपाले क्लेद-बहुलाः पित्तासृक्-श्लेष्म-जन्तुभिः ॥ २२ ॥

कङ्गु-सिद्धार्थक-निभाः पिटिकाः स्युर् अरूंषिकाः ।
कण्डू-केश-च्युति-स्वाप-रौक्ष्य-कृत् स्फुटनं त्वचः ॥ २३ ॥

२३.२३dv -रूक्ष-कृत् स्फुटनं त्वचः सु-सूक्ष्मं कफ-वाताभ्यां विद्याद् दारुणकं तु तत् ।
रोम-कूपानुगं पित्तं वातेन सह मूर्छितम् ॥ २४ ॥

२३.२४bv विद्याद् दारुणकं च तत् प्रच्यावयति रोमाणि ततः श्लेष्मा स-शोणितः ।
रोम-कूपान् रुणद्ध्य् अस्य तेनान्येषाम् अ-संभवः ॥ २५ ॥

तद् इन्द्र-लुप्तं रुज्यां च प्राहुश् चाचेति चापरे ।
खलतेर् अपि जन्मैवं शातनं तत्र तु क्रमात् ॥ २६ ॥

२३.२६av तद् इन्द्र-लुप्तं तज्जां च २३.२६av तद् इन्द्र-लुप्तं तझ्झां च २३.२६av तद् इन्द्र-लुप्तं तह्नाश् च २३.२६av तद् इन्द्र-लुप्तं रूढ्यां च २३.२६dv शतनं तत्र तु क्रमात् २३.२६dv शदनं तत्र तु क्रमात् २३.२६dv सदनं तत्र तु क्रमात् सा वाताद् अग्नि-दग्धाभा पित्तात् स्विन्न-सिरावृता ।
कफाद् घन-त्वग् वर्णांश् च यथा-स्वं निर्दिशेत् त्वचि ॥ २७ ॥

२३.२७bv पित्तात् स्निग्ध-सिरावृता २३.२७bv पित्तात् स्निग्धा सिरावृता २३.२७bv पित्तात् पीत-सिरावृता दोषैः सर्वाकृतिः सर्वैर् अ-साध्या सा नख-प्रभा ।
दग्धाग्निनेव नी-रोमा स-दाहा या च जायते ॥ २८ ॥

२३.२८dv स-दाहोषा च जायते शोक-श्रम-क्रोध-कृतः शरीरोष्मा शिरो-गतः ।
केशान् स-दोषः पचति पलितं संभवत्य् अतः ॥ २९ ॥

तद् वातात् स्फुटितं श्यावं खरं रूक्षं जल-प्रभम् ।
पित्तात् स-दाहं पीताभं कफात् स्निग्धं विवृद्धि-मत् ॥ ३० ॥

स्थूलं सु-शुक्लं सर्वैस् तु विद्याद् व्यामिश्र-लक्षणम् ।
शिरो-रुजोद्भवं चान्यद् वि-वर्णं स्पर्शना-सहम् ॥ ३१ ॥

२३.३१av स्थूलं स-शुक्लं सर्वैस् तु अ-साध्या संनिपातेन खलतिः पलितानि च ।
शरीर-परिणामोत्थान्य् अपेक्षन्ते रसायनम् ॥ ३२ ॥


अध्याय 24[सम्पाद्यताम्]

शिरो-ऽभितापे ऽनिल-जे वात-व्याधि-विधिं चरेत् ।
घृतम् अक्त-शिरा रात्रौ पिबेद् उष्ण-पयो-ऽनुपः ॥ १ ॥

२४.१cv घृतम् अक्त-शिरो रात्रौ २४.१cv घृताभ्यक्त-शिरो रात्रौ २४.१dv पिबेत् सर्पिः पयो-ऽनुपः माषान् कुलत्थान् मुद्गान् वा तद्-वत् खादेद् घृतान्वितान् ।
तैलं तिलानां कल्कं वा क्षीरेण सह पाययेत् ॥ २ ॥

पिण्डोपनाह-स्वेदाश् च मांस-धान्य-कृता हिताः ।
वात-घ्न-दश-मूलादि-सिद्ध-क्षीरेण सेचनम् ॥ ३ ॥

स्निग्धं नस्यं तथा धूमः शिरः-श्रवण-तर्पणम् ।
वरणादौ गणे क्षुण्णे क्षीरम् अर्धोदकं पचेत् ॥ ४ ॥

२४.४cv वरुणादौ गणे क्षुण्णे क्षीरावशिष्टं तच् छीतं मथित्वा सारम् आहरेत् ।
ततो मधुरकैः सिद्धं नस्यं तत् पूजितं हविः ॥ ५ ॥

वर्गे ऽत्र पक्वं क्षीरे च पेयं सर्पिः स-शर्करम् ।
कार्पास-मज्जा त्वङ् मुस्ता सुमनः-कोरकाणि च ॥ ६ ॥

२४.६av तस्मिन् विपक्वं क्षीरे च २४.६cv कार्पास-मज्जा त्वङ् मुस्तं २४.६dv सुमनः-क्षारकाणि च नस्यम् उष्णाम्बु-पिष्टानि सर्व-मूर्ध-रुजापहम् ।
शर्करा-कुङ्कुम-शृतं घृतं पित्तासृग्-अन्वये ॥ ७ ॥

प्रलेपैः स-घृतैः कुष्ठ-कुटिलोत्पल-चन्दनैः ।
वातोद्रेक-भयाद् रक्तं न चास्मिन्न् अवसेचयेत् ॥ ८ ॥

इत्य् अ-शान्तौ चले दाहः कफे चेष्टो यथोदितः ।
अर्धावभेदके ऽप्य् एषा तथा दोषान्वयात् क्रिया ॥ ९ ॥

२४.९bv कफे चोष्णं यथोदितम् २४.९dv यथा-दोषान्वया क्रिया २४.९dv यथा-दोषान्वये क्रिया शिरीष-बीजापामार्ग-मूलं नस्यं विडान्वितम् ।
स्थिरा-रसो वा लेपे तु प्रपुन्नाटो ऽम्ल-कल्कितः ॥ १० ॥

२४.१०cv स्थिरा-रसो वा लेपो ऽत्र सूर्यावर्ते ऽपि तस्मिंस् तु सिरयापहरेद् असृक् ।
शिरो-ऽभितापे पित्तोत्थे स्निग्धस्य व्यधयेत् सिराम् ॥ ११ ॥

२४.११av सूर्यावर्ते तु तस्मिंस् तु शीताः शिरो-मुखालेप-सेक-शोधन-वस्तयः ।
जीवनीय-शृते क्षीर-सर्पिषी पान-नस्ययोः ॥ १२ ॥

कर्तव्यं रक्त-जे ऽप्य् एतत् प्रत्याख्याय च शङ्खके ।
श्लेष्माभितापे जीर्णाज्य-स्नेहितैः कटुकैर् वमेत् ॥ १३ ॥

स्वेद-प्रलेप-नस्याद्या रूक्ष-तीक्ष्णोष्ण-भेषजैः ।
शस्यन्ते चोपवासो ऽत्र निचये मिश्रम् आचरेत् ॥ १४ ॥

२४.१४cv शस्यते चोपवासो ऽत्र कृमि-जे शोणितं नस्यं तेन मूर्छन्ति जन्तवः ।
मत्ताः शोणित-गन्धेन निर्यान्ति घ्राण-वक्त्रयोः ॥ १५ ॥

२४.१५dv निर्यान्ति घ्राण-वक्त्रतः सु-तीक्ष्ण-नस्य-धूमाभ्यां कुर्यान् निर्हरणं ततः ।
विडङ्ग-स्वर्जिका-दन्ती-हिङ्गु-गो-मूत्र-साधितम् ॥ १६ ॥

कटु-निम्बेङ्गुदी-पीलु-तैलं नस्यं पृथक् पृथक् ।
अजा-मूत्र-द्रुतं नस्यं कृमिजित् कृमि-जित् परम् ॥ १७ ॥

२४.१७cv अजा-मूत्र-द्रुतं नस्ये पूति-मत्स्य-युतैः कुर्याद् धूमं नावन-भेषजैः ।
कृमिभिः पीत-रक्त-त्वाद् रक्तम् अत्र न निर्हरेद् ॥ १८ ॥

पूति-मत्स्यः कृमीन् हत्वा दुर्-गन्ध-त्वात् तु वात-जे ॥ १८.१+१अब् ॥
वाताभिताप-विहितः कम्पे दाहाद् विना क्रमः ।
नवे जन्मोत्तरं जाते योजयेद् उप-शीर्षके ॥ १९ ॥

वात-व्याधि-क्रियां पक्वे कर्म विद्रधि-चोदितम् ।
आम-पक्वे यथा-योग्यं विद्रधि-पिटिकार्बुदे ॥ २० ॥

अरूंषिका जलौकोभिर् हृतास्रा निम्ब-वारिणा ।
सिक्ता प्रभूत-लवणैर् लिम्पेद् अश्व-शकृद्-रसैः ॥ २१ ॥

पटोल-निम्ब-पत्त्रैर् वा स-हरिद्रैः सु-कल्कितैः ।
गो-मूत्र-जीर्ण-पिण्याक-कृकवाकु-मलैर् अपि ॥ २२ ॥

कपाल-भृष्टं कुष्ठं वा चूर्णितं तैल-संयुतम् ।
रूंषिकालेपनं कण्डू-क्लेद-दाहार्ति-नाशनम् ॥ २३ ॥

मालती-चित्रकाश्वघ्न-नक्तमाल-प्रसाधितम् ।
चाचारूंषिकयोस् तैलम् अभ्यङ्गः क्षुर-घृष्टयोः ॥ २४ ॥

२४.२४dv अभ्यङ्गे क्षुर-घृष्टयोः २४.२४dv अभ्यङ्गः क्षुर-मृष्टयोः अ-शान्तौ शिरसः शुद्ध्यै यतेत वमनादिभिः ।
विध्येत् सिरां दारुणके लालाट्यां शीलयेन् मृजाम् ॥ २५ ॥

नावनं मूर्ध-वस्तिं च लेपयेच् च स-माक्षिकैः ।
प्रियाल-बीज-मधुक-कुष्ठ-माषैः स-सर्षपैः ॥ २६ ॥

२४.२६av नावनं मूर्ध्नि वस्तिं च लाक्षा-शम्याक-पत्त्रैडगज-धात्री-फलैस् तथा ।
कोरदूष-तृण-क्षार-वारि-प्रक्षालनं हितम् ॥ २७ ॥

२४.२७dv -वारि प्रक्षालने हितम् इन्द्र-लुप्ते यथासन्नं सिरां विद्ध्वा प्रलेपयेत् ।
प्रच्छाय गाढं कासीस-मनोह्वा-तुत्थकोषणैः ॥ २८ ॥

२४.२८bv सिरां विद्ध्वा प्रलेपनम् वन्यामरतरुभ्यां वा गुञ्जा-मूल-फलैस् तथा ।
तथा लाङ्गलिका-मूलैः करवीर-रसेन वा ॥ २९ ॥

२४.२९av कुटन्नट-मरुभ्यां वा २४.२९av धान्यामरतरुभ्यां वा स-क्षौद्र-क्षुद्र-वार्ताक-स्व-रसेन रसेन वा ।
धत्तूरकस्य पत्त्राणां भल्लातक-रसेन वा ॥ ३० ॥

२४.३०av स-क्षौद्र-क्षुद्र-बृहती- २४.३०dv भल्लातक-फलेन वा अथ-वा माक्षिक-हविस्-तिल-पुष्प-त्रिकण्टकैः ।
तैलाक्ता हस्ति-दन्तस्य मषी चाचौषधं परम् ॥ ३१ ॥

२४.३१dv मषी वाप्य् औषधं परम् २४.३१dv मषी वा चौषधं परम् शुक्ल-रोमोद्गमे तद्-वन् मषी मेष-विषाण-जा ।
वर्जयेद् वारिणा सेकं यावद् रोम-समुद्भवः ॥ ३२ ॥

२४.३२dv यावद् रोम-समुद्गमः २४.३२dv यावद् रोम-पुनर्-भवः खलतौ पलिते वल्यां हरिद्-रोम्नि च शोधितम् ।
नस्य-वक्त्र-शिरो-ऽभ्यङ्ग-प्रदेहैः समुपाचरेत् ॥ ३३ ॥

सिद्धं तैलं बृहत्य्-आद्यैर् जीवनीयैश् च नावनम् ।
मासं वा निम्ब-जं तैलं क्षीर-भुङ् नावयेद् यतिः ॥ ३४ ॥

नीली-शिरीष-कोरण्ट-भृङ्ग-स्व-रस-भावितम् ।
शेल्व्-अक्ष-तिल-रामाणां बीजं काकाण्डकी-समम् ॥ ३५ ॥

पिष्ट्वाज-पयसा लोहाल् लिप्ताद् अर्कांशु-तापितात् ।
तैलं स्रुतं क्षीर-भुजो नावनात् पलितान्त-कृत् ॥ ३६ ॥

२४.३६av पिष्ट्वाज-पयसा लोह- २४.३६bv -लिप्ताद् अर्कांशु-तापितात् क्षीरात् साहचराद् भृङ्गरजसः सौरसाद् रसात् ।
प्रस्थैस् तैलस्य कुडवः सिद्धो यष्टी-पलान्वितः ॥ ३७ ॥

२४.३७av क्षीरात् सहचराद् भृङ्गं २४.३७av क्षीरात् साहचराद् भृङ्ग- २४.३७bv ंराजतः सौरसाद् रसात् २४.३७bv -रसतः सौरसाद् रसात् नस्यं शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः ।
क्षीरेण श्लक्ष्ण-पिष्टौ वा दुग्धिका-करवीरकौ ॥ ३८ ॥

२४.३८av नस्यं शिला-मये भाण्डे २४.३८av नस्यं शैलोद्भवे भाण्डे उत्पाट्य पलितं देयाव् आशये पलितापहौ ।
क्षीरं प्रियालं यष्ट्य्-आह्वं जीवनीयो गणस् तिलाः ॥ ३९ ॥

कृष्णाः प्रलेपो वक्त्रस्य हरिद्-रोम-वली-हितः ।
तिलाः सामलकाः पद्म-किञ्जल्को मधुकं मधु ॥ ४० ॥

२४.४०bv हरि-लोप-वली-हितः बृंहयेद् रञ्जयेच् चैतत् केशान् मूर्ध-प्रलेपनात् ।
मांसी कुष्ठं तिलाः कृष्णाः शारिवा नीलम् उत्पलम् ॥ ४१ ॥

२४.४१av बृंहयेच् च रजेच् चैतत् २४.४१bv केशान् मूर्ध्नः प्रलेपनात् क्षौद्रं च क्षीर-पिष्टानि केश-संवर्धनम् परम् ।
अयो-रजो भृङ्गरजस् त्रि-फला कृष्ण-मृत्तिका ॥ ४२ ॥

स्थितम् इक्षु-रसे मासं स-मूलं पलितं रजेत् ।
माष-कोद्रव-धान्याम्लैर् यवागूंस् त्रि-दिनोषिता ॥ ४३ ॥

२४.४३cv यव-कोद्रव-धान्याम्लैर् लोह-शुक्लोत्कटा पिष्टा बलाकाम् अपि रञ्जयेत् ।
प्रपौण्डरीक-मधुक-पिप्पली-चन्दनोत्पलैः ॥ ४४ ॥

२४.४४av लोह-कुष्ठोत्कटा पिष्टा २४.४४av लोह-शुक्तोत्कटा पिष्टा २४.४४av लोहे शुक्तोत्कटा पिष्टा २४.४४av लौहे शुक्लोत्कटा पिष्टा भृङ्गरजस्-त्रि-फलोत्पल-सारि-लोह-पुरीष-समन्वित-कारि ।
तैलम् इदं पच दारुण-हारि लुञ्चित-केश-घन-स्थिर-कारि ॥ ४४.१+१ ॥

२४.४४.१+१bv -लोह-पुरीष-समन्वित-धारि सिद्धं धात्री-रसे तैलं नस्येनाभ्यञ्जनेन च ।
सर्वान् मूर्ध-गदान् हन्ति पलितानि च शीलितम् ॥ ४५ ॥

मधूक-यष्टी-कृमिजिद्-विश्व-भृङ्गैः शृतं हविः ।
षड्-बिन्दु-दानात् तन् नस्यं सर्व-मूर्ध-गदापहम् ॥ ४५+१ ॥

२४.४५+१cv षड्-बिन्दु-नाम तन् नस्यं २४.४५+१cv षड्-बिन्दु-नाम्ना तन् नस्यं वरी-जीवन्ति-निर्यास-पयोभिर् यमकं पचेत् ।
जीवनीयैश् च तन् नस्यं सर्व-जत्रूर्ध्व-रोग-जित् ॥ ४६ ॥

२४.४६av वरी-जीवन्ति-निर्यासैः २४.४६bv -पयोभिर् यद् घृतं पचेत् २४.४६bv स-पयोभिर् घृतं पचेत् मयूरं पक्ष-पित्तान्त्र-पाद-विट्-तुण्ड-वर्जितम् ।
दश-मूल-बला-रास्ना-मधुकैस् त्रि-पलैर् युतम् ॥ ४७ ॥

२४.४७bv -शकृत्-पात्-तुण्ड-वर्जितम् २४.४७dv -मधुकैस् त्रि-पलैः सहम् जले पक्त्वा घृत-प्रस्थं तस्मिन् क्षीर-समं पचेत् ।
कल्कितैर् मधुर-द्रव्यैः सर्व-जत्रूर्ध्व-रोग-जित् ॥ ४८ ॥

तद् अभ्यासी-कृतं पान-वस्त्य्-अभ्यञ्जन-नावनैः ।
एतेनैव कषायेण घृत-प्रस्थं विपाचयेत् ॥ ४९ ॥

चतुर्-गुणेन पयसा कल्कैर् एभिश् च कार्षिकैः ।
जीवन्ती-त्रि-फला-मेदा-मृद्वीकर्द्धि-परूषकैः ॥ ५० ॥

समङ्गा-चविका-भार्गी-काश्मरी-कर्कटाह्वयैः ।
आत्मगुप्ता-महामेदा-ताल-खर्जूर-मस्तकैः ॥ ५१ ॥

२४.५१dv -ताल-खर्जूर-मुस्तकैः मृणाल-बिस-खर्जूर-यष्टीमधुक-जीवकैः ।
शतावरी-विदारीक्षु-बृहती-शारिवा-युगैः ॥ ५२ ॥

२४.५२dv -बृहती-श्रावणी-युगैः मूर्वा-श्वदंष्ट्रर्षभक-शृङ्गाटक-कसेरुकैः ।
रास्ना-स्थिरा-तामलकी-सूक्ष्मैला-शठि-पौष्करैः ॥ ५३ ॥

२४.५३av दूर्वा-श्वदंष्ट्रषभक- पुनर्नवा-तवक्षीरी-काकोली-धन्वयासकैः ।
मधूकाक्षोट-वाताम-मुञ्जाताभिषुकैर् अपि ॥ ५४ ॥

२४.५४cv मधुकाक्षोट-वाताम- महा-मायूरम् इत्य् एतन् मायूराद् अधिकं गुणैः ।
धात्व्-इन्द्रिय-स्वर-भ्रंश-श्वास-कासार्दितापहम् ॥ ५५ ॥

योन्य्-असृक्-शुक्र-दोषेषु शस्तं वन्ध्या-सुत-प्रदम् ।
आखुभिः कुक्कुटैर् हंसैः शशैश् चेति प्रकल्पयेत् ॥ ५६ ॥

२४.५६cv आखुभिः कर्कटैर् हंसैः जत्रूर्ध्व-जानां व्याधीनाम् एक-त्रिंशच्-छत-द्वयम् ।
परस्-परम् अ-संकीर्णं विस्तरेण प्रकाशितम् ॥ ५७ ॥

२४.५७bv एक-त्रिंशं शत-द्वयम् ऊर्ध्व-मूलम् अधः-शाखम् ऋषयः पुरुषं विदुः ।
मूल-प्रहारिणस् तस्माद् रोगाञ् छीघ्र-तरं जयेत् ॥ ५८ ॥

सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः ।
तेन तस्योत्तमाङ्गस्य रक्षायाम् आदृतो भवेत् ॥ ५९ ॥

नीलोत्पलं सोत्पल-कुष्ठ-युक्तं स-पिप्पलीकं मधुकं शताह्वम् ।
स-शृङ्गवेरं शिरसः प्रलेपः सद्यः शिरो-रोग-विनाशनाय ॥ ५९+१ ॥


अध्याय 25[सम्पाद्यताम्]

व्रणो द्वि-धा निजागन्तु-दुष्ट-शुद्ध-विभेदतः ।
निजो दोषैः शरीरोत्थैर् आगन्तुर् बाह्य-हेतु-जः ॥ १ ॥

२५.१dv आगन्तुर् बाह्य-हेतुभिः दोषैर् अधिष्ठितो दुष्टः शुद्धस् तैर् अन्-अधिष्ठितः ।
संवृत-त्वं विवृत-ता काठिन्यं मृदु-ताति वा ॥ २ ॥

२५.२dv काठिन्यं मृदु-तापि वा २५.२dv काठिन्यं मृदु-तापि च अत्य्-उत्सन्नावसन्न-त्वम् अत्य्-औष्ण्यम् अति-शीत-ता ।
रक्त-त्वं पाण्डु-ता कार्ष्ण्यं पूति-पूय-परिस्रुतिः ॥ ३ ॥

पूति-मांस-सिरा-स्नायु-च्छन्न-तोत्सङ्गि-ताति-रुक् ।
संरम्भ-दाह-श्वयथु-कण्ड्व्-आदिभिर् उपद्रुतः ॥ ४ ॥

दीर्घ-कालानुबन्धश् च विद्याद् दुष्ट-व्रणाकृतिम् ।
स पञ्च-दश-धा दोषैः स-रक्तैस् तत्र मारुतात् ॥ ५ ॥

२५.५cv स पञ्च-धा पृथग् दोषैः श्यावः कृष्णो ऽरुणो भस्म-कपोतास्थि-निभो ऽपि वा ।
मस्तु-मांस-पुलाकाम्बु-तुल्य-तन्व्-अल्प-संस्रुतिः ॥ ६ ॥

२५.६bv -कपोतास्थि-निभो ऽथ-वा निर्-मांसस् तोद-भेदाढ्यो रूक्षश् चटचटायते ।
पित्तेन क्षिप्र-जः पीतो नीलः कपिल-पिङ्गलः ॥ ७ ॥

२५.७cv पित्ताद् वह्नि-प्रभः पीतो मूत्र-किंशुक-भस्माम्बु-तैलाभोष्ण-बहु-स्रुतिः ।
क्षारोक्षित-क्षत-सम-व्यथो रागोष्म-पाक-वान् ॥ ८ ॥

कफेन पाण्डुः कण्डू-मान् बहु-श्वेत-घन-स्रुतिः ।
स्थूलौष्ठः कठिनः स्नायु-सिरा-जाल-ततो ऽल्प-रुक् ॥ ९ ॥

प्रवाल-रक्तो रक्तेन स-रक्तं पूयम् उद्गिरेत् ।
वाजि-स्थान-समो गन्धे युक्तो लिङ्गैश् च पैत्तिकैः ॥ १० ॥

२५.१०bv स-रक्तं पूयम् ईरयेत् २५.१०cv वाजि-स्थान-समो गन्धैर् २५.१०cv वाजि-स्थान-समो गन्धो द्वाभ्यां त्रिभिश् च सर्वैश् च विद्याल् लक्षण-संकरात् ।
जिह्वा-प्रभो मृदुः श्लक्ष्णः श्यावौष्ठ-पिटिकः समः ॥ ११ ॥

२५.११dv श्यावौष्ठो ऽ-पिटिकः समः किञ्-चिद्-उन्नत-मध्यो वा व्रणः शुद्धो ऽन्-उपद्रवः ।
त्वग्-आमिष-सिरा-स्नायु-संध्य्-अस्थीनि व्रणाशयाः ॥ १२ ॥

कोष्ठो मर्म च तान्य् अष्टौ दुः-साध्यान्य् उत्तरोत्तरम् ।
सु-साध्यः सत्-त्व-मांसाग्नि-वयो-बल-वति व्रणः ॥ १३ ॥

२५.१३dv -वयो-बल-वतां व्रणः वृत्तो दीर्घस् त्रि-पुटकश् चतुर्-अश्राकृतिश् च यः ।
तथा स्फिक्-पायु-मेढ्रौष्ठ-पृष्ठान्तर्-वक्त्र-गण्ड-गः ॥ १४ ॥

२५.१४dv -पृष्ठान्तर्-वक्त्र-गण्ड-जः २५.१४dv -पृष्ठान्तर्-वक्त्र-गण्डयोः कृच्छ्र-साध्यो ऽक्षि-दशन-नासिकापाङ्ग-नाभिषु ।
सेवनी-जठर-श्रोत्र-पार्श्व-कक्षा-स्तनेषु च ॥ १५ ॥

फेन-पूयानिल-वहः शल्य-वान् ऊर्ध्व-निर्वमी ।
भगन्दरो ऽन्तर्-वदनस् तथा कट्य्-अस्थि-संश्रितः ॥ १६ ॥

कुष्ठिनां विष-जुष्टानां शोषिणां मधु-मेहिनां ।
व्रणाः कृच्छ्रेण सिध्यन्ति येषां च स्युर् व्रणे व्रणाः ॥ १७ ॥

२५.१७dv येषां चापि व्रणे व्रणाः नैव सिध्यन्ति वीसर्प-ज्वरातीसार-कासिनाम् ।
पिपासूनाम् अ-निद्राणां श्वासिनाम् अ-विपाकिनाम् ॥ १८ ॥

२५.१८cv पिपासूनां स-निद्राणां भिन्ने शिरः-कपाले वा मस्तुलुङ्गस्य दर्शने ।
स्नायु-क्लेदात् सिरा-छेदाद् गाम्भीर्यात् कृमि-भक्षणात् ॥ १९ ॥

अस्थि-भेदात् स-शल्य-त्वात् स-विष-त्वाद् अ-तर्कितात् ।
मिथ्या-बन्धाद् अति-स्नेहाद् रौक्ष्याद् रोमादि-घट्टनात् ॥ २० ॥

क्षोभाद् अ-शुद्ध-कोष्ठ-त्वात् सौहित्याद् अति-कर्शनात् ।
मद्य-पानाद् दिवा-स्वप्नाद् व्यवायाद् रात्रि-जागरात् ॥ २१ ॥

२५.२१cv मद्य-पानाद् दिवा-स्वापाद् व्रणो मिथ्योपचाराच् च नैव साध्यो ऽपि सिध्यति ।
कपोत-वर्ण-प्रतिमा यस्यान्तः क्लेद-वर्जिताः ॥ २२ ॥

२५.२२bv नैव साध्यो ऽपि रोहति स्थिराश् चिपिटिका-वन्तो रोहतीति तम् आदिशेत् ।
अथात्र शोफावस्थायां यथासन्नं विशोधनम् ॥ २३ ॥

२५.२३av स्थिराश् च पिटिका-वन्तो योज्यं शोफो हि शुद्धानां व्रणश् चाशु प्रशाम्यति ।
कुर्याच् छीतोपचारं च शोफावस्थस्य संततम् ॥ २४ ॥

२५.२४cv कुर्याच् छीतोपचारं तु दोषाग्निर् अग्नि-वत् तेन प्रयाति सहसा शमम् ।
शोफे व्रणे च कठिने वि-वर्णे वेदनान्विते ॥ २५ ॥

विष-युक्ते विशेषेण जल-जाद्यैर् हरेद् असृक् ।
दुष्टास्रे ऽपगते सद्यः शोफ-राग-रुजां शमः ॥ २६ ॥

२५.२६bv जलौकाद्यैर् हरेद् असृक् हृते हृते च रुधिरे सु-शीतैः स्पर्श-वीर्ययोः ।
सु-श्लक्ष्णैस् तद्-अहः-पिष्टैः क्षीरेक्षु-स्व-रस-द्रवैः ॥ २७ ॥

२५.२७dv क्षीरेक्षु-स्व-रस-द्रुतैः शत-धौत-घृतोपेतैर् मुहुर् अन्यैर् अ-शोषिभिः ।
प्रतिलोमं हितो लेपः सेकाभ्यङ्गाश् च तत्-कृताः ॥ २८ ॥

न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-वेतस-वल्कलैः ।
प्रदेहो भूरि-सर्पिर्भिः शोफ-निर्वापणः परम् ॥ २९ ॥

२५.२९cv प्रदेहो भूरि-सर्पिश् च वातोल्बणानां स्तब्धानां कठिनानां महा-रुजाम् ।
स्रुतासृजां च शोफानां व्रणानाम् अपि चेदृशाम् ॥ ३० ॥

आनूप-वेसवाराद्यैः स्वेदः सोमास् तिलाः पुनः ।
भृष्टा निर्वापिताः क्षीरे तत्-पिष्टा दाह-रुग्-हराः ॥ ३१ ॥

स्थिरान् मन्द-रुजः शोफान् स्नेहैर् वात-कफापहैः ।
अभ्यज्य स्वेदयित्वा च वेणु-नाड्या शनैः शनैः ॥ ३२ ॥

विम्लापनार्थं मृद्नीयात् तलेनाङ्गुष्ठकेन वा ।
यव-गोधूम-मुद्गैश् च सिद्ध-पिष्टैः प्रलेपयेत् ॥ ३३ ॥

२५.३३dv सिद्धैः पिष्टैः प्रलेपयेत् २५.३३dv सिद्धं पिष्टं प्रलेपयेत् २५.३३dv दुग्ध-पिष्टैः प्रलेपयेत् विलीयते स चेन् नैवं ततस् तम् उपनाहयेत् ।
अ-विदग्धस् तथा शान्तिं विदग्धः पाकम् अश्नुते ॥ ३४ ॥

स-कोल-तिल-वल्लोमा दध्य्-अम्ला सक्तु-पिण्डिका ।
स-किण्व-कुष्ठ-लवणा कोष्णा शस्तोपनाहने ॥ ३५ ॥

२५.३५av स-कोल-तिल-वल्लूर- २५.३५bv -दध्य्-अम्ला सक्तु-पिण्डिका सु-पक्वे पिण्डिते शोफे पीडनैर् उपपीडिते ।
दारणं दारणार्हस्य सु-कुमारस्य चेष्यते ॥ ३६ ॥

गुग्गुल्व्-अतसि-गो-दन्त-स्वर्णक्षीरी-कपोत-विट् ।
क्षारौषधानि क्षाराश् च पक्व-शोफ-विदारणम् ॥ ३७ ॥

२५.३७cv क्षारौषधानि क्षारश् च पूय-गर्भान् अणु-द्वारान् सोत्सङ्गान् मर्म-गान् अपि ।
निः-स्नेहैः पीडन-द्रव्यैः समन्तात् प्रतिपीडयेत् ॥ ३८ ॥

शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति ।
न मुखे चैनम् आलिम्पेत् तथा दोषः प्रसिच्यते ॥ ३९ ॥

कलाय-यव-गोधूम-माष-मुद्ग-हरेणवः ।
द्रव्याणां पिच्छिलानां च त्वङ्-मूलानि प्रपीडनम् ॥ ४० ॥

२५.४०cv द्रव्याणां पिच्छिलानां तु २५.४०cv द्रव्याणां पिच्छिलानां वा सप्तसु क्षालनाद्येषु सुरसारग्वधादिकौ ।
भृशं दुष्टे व्रणे योज्यौ मेह-कुष्ठ-व्रणेषु च ॥ ४१ ॥

अथ-वा क्षालनं क्वाथः पटोली-निम्ब-पत्त्र-जः ।
अ-विशुद्धे विशुद्धे तु न्यग्रोधादि-त्वग्-उद्भवः ॥ ४२ ॥

२५.४२av अथ-वा क्षालने क्वाथः पटोली-तिल-यष्ट्य्-आह्व-त्रिवृद्-दन्ती-निशा-द्वयम् ।
निम्ब-पत्त्राणि चालेपः स-पटुर् व्रण-शोधनः ॥ ४३ ॥

२५.४३dv स-पटुर् व्रण-शोधनम् व्रणान् विशोधयेद् वर्त्या सूक्ष्मास्यान् संधि-मर्म-गान् ।
कृतया त्रिवृता-दन्ती-लाङ्गली-मधु-सैन्धवैः ॥ ४४ ॥

वाताभिभूतान् सास्रावान् धूपयेद् उग्र-वेदनान् ।
यवाज्य-भूर्ज-मदन-श्रीवेष्टक-सुराह्वयैः ॥ ४५ ॥

निर्वापयेद् भृशं शीतैः पित्त-रक्त-विषोल्बणान् ।
शुष्काल्प-मांसे गम्भीरे व्रण उत्सादनं हितम् ॥ ४६ ॥

न्यग्रोध-पद्मकादिभ्याम् अश्वगन्धा-बला-तिलैः ।
अद्यान् मांसाद-मांसानि विधिनोपहितानि च ॥ ४७ ॥

२५.४७dv विहितोपहितानि च २५.४७dv विधानोपहितानि च मांसं मांसाद-मांसेन वर्धते शुद्ध-चेतसः ।
उत्सन्न-मृदु-मांसानां व्रणानाम् अवसादनम् ॥ ४८ ॥

२५.४८bv वर्धते शुद्ध-तेजसः जाती-मुकुल-कासीस-मनोह्वाल-पुराग्निकैः ।
उत्सन्न-मांसान् कठिनान् कण्डू-युक्तांश् चिरोत्थितान् ॥ ४९ ॥

व्रणान् सु-दुःख-शोध्यांश् च शोधयेत् क्षार-कर्मणा ।
स्रवन्तो ऽश्मरी-जा मूत्रं ये चान्ये रक्त-वाहिनः ॥ ५० ॥

२५.५०av व्रणान् सु-दुःख-साध्यांश् च २५.५०bv योजयेत् क्षार-कर्मणा २५.५०dv ये चान्ये क्षत-वाहिनः छिन्नाश् च संधयो येषां यथोक्तैर् ये च शोधनैः ।
शोध्यमाना न शुध्यन्ति शोध्याः स्युस् ते ऽग्नि-कर्मणा ॥ ५१ ॥

२५.५१bv यथोक्तैर् ये च साधनैः २५.५१cv साध्यमाना न सिध्यन्ति २५.५१dv साध्याः स्युस् ते ऽग्नि-कर्मणा २५.५१dv साध्यास् ते चाग्नि-कर्मणा शुद्धानां रोपणं योज्यम् उत्सादाय यद् ईरितम् ।
अश्वगन्धा रुहा लोध्रं कट्फलं मधुयष्टिका ॥ ५२ ॥

२५.५२av शुद्धानां रोपणे योज्यम् समङ्गा धातकी-पुष्पं परमं व्रण-रोपणम् ।
अपेत-पूति-मांसानां मांस-स्थानाम् अ-रोहताम् ॥ ५३ ॥

कल्कं संरोहणं कुर्यात् तिलानां मधुकान्वितम् ।
स्निग्धोष्ण-तिक्त-मधुर-कषाय-त्वैः स सर्व-जित् ॥ ५४ ॥

२५.५४av कल्कं संरोहणे कुर्यात् २५.५४av कल्कः संरोहणं कुर्यात् २५.५४bv तिलानां मधुकान्वितः २५.५४dv -कषायैर् एष सर्व-जित् स क्षौद्र-निम्ब-पत्त्राभ्यां युक्तः संशोधनं परम् ।
पूर्वाभ्यां सर्पिषा चासौ युक्तः स्याद् आशु रोपणः ॥ ५५ ॥

२५.५५bv युक्तः संशोधनः परम् २५.५५dv युक्तः स्याद् अपि रोपणः तिल-वद् यव-कल्कं तु के-चिद् इच्छन्ति तद्-विदः ।
सास्र-पित्त-विषागन्तु-गम्भीरान् सोष्मणो व्रणान् ॥ ५६ ॥

क्षीर-रोपण-भैषज्य-शृतेनाज्येन रोपयेत् ।
रोपणौषध-सिद्धेन तैलेन कफ-वात-जान् ॥ ५७ ॥

काच्छी-लोध्राभया-सर्ज-सिन्दूराञ्जन-तुत्थकम् ।
चूर्णितं तैल-मदनैर् युक्तं रोपणम् उत्तमम् ॥ ५८ ॥

२५.५८av काक्षी-लोध्राभया-सर्ज- २५.५८av काङ्क्षी-लोध्राभया-सर्ज- समानां स्थिर-मांसानां त्वक्-स्थानां चूर्ण इष्यते ।
ककुभोदुम्बराश्वत्थ-जम्बू-कट्फल-लोध्र-जैः ॥ ५९ ॥

२५.५९bv त्वक्-स्थानां चूर्णम् इष्यते त्वक्-चूर्णैश् चूर्णिता व्रणाः त्वक्-चूर्णैश् चूर्णिता व्रणाः ।
लाक्षा-मनोह्वा-मञ्जिष्ठा-हरिताल-निशा-द्वयैः ॥ ६० ॥

२५.६०av त्वचम् आशु निगृह्णाति २५.६०bv त्वक्-चूर्णैश् चूर्णितो व्रणः प्रलेपः स-घृत-क्षौद्रस् त्वग्-विशुद्धि-करः परम् ।
कालीयक-लताम्रास्थि-हेम-काला-रसोत्तमैः ॥ ६१ ॥

२५.६१av प्रलेपः स-घृत-क्षौद्रैस् लेपः स-गो-मय-रसः स-वर्ण-करणः परम् ।
दग्धो वारण-दन्तो ऽन्तर्-धूमं तैलं रसाञ्जनम् ॥ ६२ ॥

२५.६२bv स-वर्ण-करणो भवेत् २५.६२dv -धूमस् तैलं रसाञ्जनम् रोम-संजननो लेपस् तद्-वत् तैल-परिप्लुता ।
चतुष्-पान्-नख-रोमास्थि-त्वक्-शृङ्ग-खुर-जा मषी ॥ ६३ ॥

व्रणिनः शस्त्र-कर्मोक्तं पथ्या-पथ्यान्नम् आदिशेत् ।
द्वे पञ्च-मूले वर्गश् च वात-घ्नो वातिके हितः ॥ ६४ ॥

२५.६४av व्रणिनां शस्त्र-कर्मोक्तं २५.६४bv यत् पथ्या-पथ्यम् आदिशेत् न्यग्रोध-पद्मकाद्यौ तु तद्-वत् पित्त-प्रदूषिते ।
आरग्वधादिः श्लेष्म-घ्नः कफे मिश्रास् तु मिश्र-जे ॥ ६५ ॥

२५.६५dv कफे मिश्रस् तु मिश्र-जे २५.६५dv कफे मिश्रास् तु मिश्रके एभिः प्रक्षालनं लेपो घृतं तैलं रस-क्रिया ।
चूर्णो वर्तिश् च संयोज्य व्रणे सप्त यथा-यथम् ॥ ६६ ॥

२५.६६av एभिः प्रक्षालनालेप- २५.६६bv -घृत-तैल-रस-क्रियाः जाती-निम्ब-पटोल-पत्त्र-कटुका-दार्वी-निशा-शारिवा- ॥ ६७अ ॥
-मञ्जिष्ठाभय-सिक्थ-तुत्थ-मधुकैर् नक्ताह्व-बीजान्वितैः ॥ ६७ब् ॥
२५.६७bv -मञ्जिष्ठाभय-सिक्थ-तुत्थ-मधुकैर् नक्ताह्व-बीजैस् तथा सर्पिः साध्यम् अनेन सूक्ष्म-वदना मर्माश्रिताः क्लेदिनो ॥ ६७च् ॥
२५.६७cv सर्पिः साध्यम् अनेन सूक्ष्म-वदना मर्माश्रिताः स्राविणो २५.६७cv सर्पिः सिद्धम् अनेन सूक्ष्म-वदना मर्माश्रिताः क्लेदिनो गम्भीराः स-रुजो व्रणाः स-गतयः शुध्यन्ति रोहन्ति च ॥ ६७द् ॥
२५.६७dv गम्भीराः स-रुजो व्रणाः स-गतिकाः शुध्यन्ति रोहन्ति च साधितं स्व-रसे तैलं काकमाच्याश् चतुर्-गुणे ।
गति-भाजाम् अपि हितं व्रणानां रोपणं परम् ॥ ६७+१ ॥

२५.६७+१cv गति-भाजाम् अपि वरं

अध्याय 26[सम्पाद्यताम्]

सद्यो-व्रणा ये सहसा संभवन्त्य् अभिघाततः ।
अन्-अन्तैर् अपि तैर् अङ्गम् उच्यते जुष्टम् अष्ट-धा ॥ १ ॥

घृष्टावकृत्त-विच्छिन्न-प्रविलम्बित-पातितम् ।
विद्धं भिन्नं विदलितं तत्र घृष्टं लसीकया ॥ २ ॥

२६.२bv -प्रविलम्बि-निपातितम् रक्त-लेशेन वा युक्तं स-प्लोषं छेदनात् स्रवेत् ।
अवगाढं ततः कृत्तं विच्छिन्नं स्यात् ततो ऽपि च ॥ ३ ॥

प्रविलम्बि स-शेषे ऽस्थ्नि पतितं पातितं तनोः ।
सूक्ष्मास्य-शल्य-विद्धं तु विद्धं कोष्ठ-विवर्जितम् ॥ ४ ॥

२६.४av प्रविलम्बि स-शेषास्थि भिन्नम् अन्यद् विदलितं मज्ज-रक्त-परिप्लुतम् ।
प्रहार-पीडनोत्पेषात् सहास्थ्ना पृथु-तां गतम् ॥ ५ ॥

२६.५cv प्रहार-पीडनोत्पातैः २६.५cv प्रहार-पीडनात् तेषां सद्यः सद्यो-व्रणं सिञ्चेद् अथ यष्ट्य्-आह्व-सर्पिषा ।
तीव्र-व्यथं कवोष्णेन बला-तैलेन वा पुनः ॥ ६ ॥

क्षतोष्मणो निग्रहार्थं तत्-कालं विसृतस्य च ।
कषाय-शीत-मधुर-स्निग्धा लेपादयो हिताः ॥ ७ ॥

सद्यो-व्रणेष्व् आयतेषु संधानार्थं विशेषतः ।
मधु-सर्पिश् च युञ्जीत पित्त-घ्नीश् च हिमाः क्रियाः ॥ ८ ॥

२६.८cv मधु-सर्पिः प्रयुञ्जीत स-संरम्भेषु कर्तव्यम् ऊर्ध्वं चाधश् च शोधनम् ।
उपवासो हितं भुक्तं प्रततं रक्त-मोक्षणम् ॥ ९ ॥

२६.९cv उपवासो हितस् तत्र घृष्टे विदलिते चैष सु-तराम् इष्यते विधिः ।
तयोर् ह्य् अल्पं स्रवत्य् अस्रं पाकस् तेनाशु जायते ॥ १० ॥

अत्य्-अर्थम् अस्रं स्रवति प्राय-शो ऽन्य-त्र विक्षते ।
ततो रक्त-क्षयाद् वायौ कुपिते ऽति-रुजा-करे ॥ ११ ॥

२६.११av अत्य्-अर्थम् अस्रं वमति २६.११bv प्राय-शो ऽन्य-त्र च क्षते स्नेह-पान-परीषेक-स्वेद-लेपोपनाहनम् ।
स्नेह-वस्तिं च कुर्वीत वात-घ्नौषध-साधितम् ॥ १२ ॥

२६.१२dv स्नेहैर् वस्तिं च कुर्वीत २६.१२dv वात-घ्नौषध-साधितैः इति साप्ताहिकः प्रोक्तः सद्यो-व्रण-हितो विधिः ।
सप्ताहाद् गत-वेगे तु पूर्वोक्तं विधिम् आचरेत् ॥ १३ ॥

२६.१३av इति सप्ताहिकः प्रोक्तः प्रायः सामान्य-कर्मेदं वक्ष्यते तु पृथक् पृथक् ।
घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत् ॥ १४ ॥

कल्कादीन्य् अवकृत्ते तु विच्छिन्न-प्रविलम्बिनोः ।
सीवनं विधिनोक्तेन बन्धनं चानु पीडनम् ॥ १५ ॥

२६.१५dv बन्धनं चाशु पीडनम् अ-साध्यं स्फुटितं नेत्रम् अ-दीर्णं लम्बते तु यत् ।
संनिवेश्य यथा-स्थानम् अ-व्याविद्ध-सिरं भिषक् ॥ १६ ॥

२६.१६bv उदीर्णं लम्बते तु यत् २६.१६cv संनिवेश्य यथा-स्थानं २६.१६dv सूच्या विध्येत् सिरां भिषक् पीडयेत् पाणिना पद्म-पलाशान्तरितेन तत् ।
ततो ऽस्य सेचने नस्ये तर्पणे च हितं हविः ॥ १७ ॥

२६.१७dv तर्पणे कथितं हविः विपक्वम् आजं यष्ट्य्-आह्व-जीवकर्षभकोत्पलैः ।
स-पयस्कैः परं तद् धि सर्व-नेत्राभिघात-जित् ॥ १८ ॥

गल-पीडावसन्ने ऽक्ष्णि वमनोत्कासन-क्षवाः ।
प्राणायामो ऽथ-वा कार्यः क्रिया च क्षत-नेत्र-वत् ॥ १९ ॥

२६.१९av गल-पीडो ऽवसन्ने ऽक्ष्णि २६.१९bv वमनोत्क्लेशन-क्षवाः कर्णे स्थानाच् च्युते स्यूते श्रोतस् तैलेन पूरयेत् ।
कृकाटिकायां छिन्नायां निर्गच्छत्य् अपि मारुते ॥ २० ॥

२६.२०av कर्णे स्थान-च्युते स्यूते २६.२०bv स्रोतस् तैलेन पूरयेत् समं निवेश्य बध्नीयात् स्यूत्वा शीघ्रं निर्-अन्तरम् ।
आजेन सर्पिषा चात्र परिषेकः प्रशस्यते ॥ २१ ॥

२६.२१av समां निवेश्य बध्नीयात् २६.२१cv आजेन सर्पिषा तत्र उत्तानो ऽन्नानि भुञ्जीत शयीत च सु-यन्त्रितः ।
घातं शाखासु तिर्यक्-स्थं गात्रे सम्यङ्-निवेशिते ॥ २२ ॥

स्यूत्वा वेल्लित-बन्धेन बध्नीयाद् घन-वाससा ।
चर्मणा गोष्-फणा-बन्धः कार्यश् चा-संगते व्रणे ॥ २३ ॥

२६.२३dv कार्यश् चांस-गते व्रणे २६.२३dv कार्यश् चांश-गते व्रणे पादौ विलम्बि-मुष्कस्य प्रोक्ष्य नेत्रे च वारिणा ।
प्रवेश्य वृषणौ सीव्येत् सेवन्या तुन्न-संज्ञया ॥ २४ ॥

२६.२४dv सेवन्या पिचु-युक्तया २६.२४dv सीवन्या पिचु-युक्तया कार्यश् च गोष्-फणा-बन्धः कट्याम् आवेश्य पट्टकम् ।
स्नेह-सेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः ॥ २५ ॥

२६.२५dv तत्र क्लिद्यन्ति हि व्रणाः २६.२५dv तेन क्लिद्यन्ति हि व्रणाः कालानुसार्य्-अगुर्व्-एला-जाती-चन्दन-पर्पटैः ।
शिला-दार्व्य्-अमृता-तुत्थैः सिद्धं तैलं च रोपणम् ॥ २६ ॥

२६.२६bv -जाती-चन्दन-पद्मकैः छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन युक्तितः ।
बध्नीयात् कोश-बन्धेन ततो व्रण-वद् आचरेत् ॥ २७ ॥

२६.२७bv दग्ध्वा तैलेन युक्तिभिः कार्या शल्याहृते विद्धे भङ्गाद् विदलिते क्रिया ।
शिरसो ऽपहृते शल्ये वाल-वर्तिं प्रवेशयेत् ॥ २८ ॥

मस्तुलुङ्ग-स्रुतेः क्रुद्धो हन्याद् एनं चलो ऽन्य-था ।
व्रणे रोहति चैकैकं शनैर् अपनयेत् कचम् ॥ २९ ॥

२६.२९av मस्तुलुङ्ग-स्रुते क्रुद्धो मस्तुलुङ्ग-स्रुतौ खादेन् मस्तिष्कान् अन्य-जीव-जान् ।
शल्ये हृते ऽङ्गाद् अन्यस्मात् स्नेह-वर्तिं निधापयेत् ॥ ३० ॥

दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुत-शोणिताः ।
सेचयेच् चक्र-तैलेन सूक्ष्म-नेत्रार्पितेन तान् ॥ ३१ ॥

भिन्ने कोष्ठे ऽसृजा पूर्णे मूर्छा-हृत्-पार्श्व-वेदनाः ।
ज्वरो दाहस् तृड् आध्मानं भक्तस्यान्-अभिनन्दनम् ॥ ३२ ॥

सङ्गो विण्-मूत्र-मरुतां श्वासः स्वेदो ऽक्षि-रक्त-ता ।
लोह-गन्धि-त्वम् आस्यस्य स्याद् गात्रे च वि-गन्ध-ता ॥ ३३ ॥

आमाशय-स्थे रुधिरे रुधिरं छर्दयत्य् अपि ।
आध्मानेनाति-मात्रेण शूलेन च विशस्यते ॥ ३४ ॥

२६.३४dv शूलेन च विनश्यति २६.३४dv शूलेन च विशिष्यते पक्वाशय-स्थे रुधिरे स-शूलं गौरवं भवेत् ।
नाभेर् अधस्-ताच् छीत-त्वं खेभ्यो रक्तस्य चागमः ॥ ३५ ॥

अ-भिन्नो ऽप्य् आशयः सूक्ष्मैः स्रोतोभिर् अभिपूर्यते ।
असृजा स्यन्दमानेन पार्श्वे मूत्रेण वस्ति-वत् ॥ ३६ ॥

तत्रान्तर्-लोहितं शीत-पादोच्छ्वास-कराननम् ।
रक्ताक्षं पाण्दु-वदनम् आनद्धं च विवर्जयेत् ॥ ३७ ॥

आमाशय-स्थे वमनं हितं पक्वाशयाश्रिते ।
विरेचनं निरूहं च निः-स्नेहोष्णैर् विशोधनैः ॥ ३८ ॥

२६.३८bv हितं पक्वाशयाश्रये २६.३८bv हितं पक्वाशय-स्थिते २६.३८dv निः-स्नेहोष्णैर् विशोधनम् यव-कोल-कुलत्थानां रसैः स्नेह-विवर्जितैः ।
भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धव-संयुताम् ॥ ३९ ॥

२६.३९dv पिबेत् सैन्धव-संयुतम् अति-निःस्रुत-रक्तस् तु भिन्न-कोष्ठः पिबेद् असृक् ।
क्लिष्ट-च्छिन्नान्त्र-भेदेन कोष्ठ-भेदो द्वि-धा स्मृतः ॥ ४० ॥

२६.४०av अति-निःसृत-रक्तस् तु २६.४०cv क्लिन्न-भिन्नान्त्र-भेदेन २६.४०cv श्लिष्ट-च्छिन्नान्त्र-भेदेन मूर्छादयो ऽल्पाः प्रथमे द्वितीये त्व् अति-बाधकाः ।
क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति ॥ ४१ ॥

२६.४१cv क्लिन्नान्त्रः संशयी देही २६.४१cv क्लिष्टान्त्रः संशये देही २६.४१cv श्लिष्टान्त्रः संशयी देही २६.४१dv भिन्नान्त्रो नैव जीवति यथा-स्वं मार्गम् आपन्ना यस्य विण्-मूत्र-मारुताः ।
व्य्-उपद्रवः स भिन्ने ऽपि कोष्ठे जीवत्य् अ-संशयम् ॥ ४२ ॥

अ-भिन्नम् अन्त्रं निष्क्रान्तं प्रवेश्यं न त्व् अतो ऽन्य-था ।
उत्पङ्गिल-शिरो-ग्रस्तं तद् अप्य् एके वदन्ति तु ॥ ४३ ॥

२६.४३cv उरोगल-शिरो-ग्रस्तं २६.४३cv उरोङ्गिल-शिरो-ग्रस्तं २६.४३cv पुपुङ्गल-शिरो-ग्रस्तं २६.४३cv वयङ्गिल-शिरो-ग्रस्तं प्रक्षाल्य पयसा दिग्धं तृण-शोणित-पांसुभिः ।
प्रवेशयेत् कॢप्त-नखो घृतेनाक्तं शनैः शनैः ॥ ४४ ॥

क्षीरेणार्द्री-कृतं शुष्कं भूरि-सर्पिः-परिप्लुतम् ।
अङ्गुल्या प्रमृशेत् कण्ठं जलेनोद्वेजयेद् अपि ॥ ४५ ॥

तथान्त्राणि विशन्त्य् अन्तस् तत्-कालं पीडयन्ति च ।
व्रण-सौक्ष्म्याद् बहु-त्वाद् वा कोष्ठम् अन्त्रम् अन्-आविशत् ॥ ४६ ॥

२६.४६bv तत्-कालं पीडयेत च तत्-प्रमाणेन जठरं पाटयित्वा प्रवेशयेत् ।
यथा-स्थानं स्थिते सम्यक् अन्त्रे सीव्येद् अनु व्रणम् ॥ ४७ ॥

२६.४७cv यथा-स्थान-स्थिते सम्यग् स्थानाद् अपेतम् आदत्ते जीवितं कुपितं च तत् ।
वेष्टयित्वानु पट्टेन घृतेन परिषेचयेत् ॥ ४८ ॥

२६.४८bv जीवितं कुपितं च यत् चूर्णैर् यथोक्तैः संधानं कृत्वा क्षौद्र-घृत-प्लुतैः ।
ततः कवलिकां दत्त्वा वेष्टयेद् अनु-पूर्व-शः ॥ ४८.१+१ ॥

पाययेत ततः कोष्णं चित्रा-तैल-युतं पयः ।
मृदु-क्रियार्थं शकृतो वायोश् चाधः-प्रवृत्तये ॥ ४९ ॥

२६.४९av पाययेत् तं ततः कोष्णं २६.४९bv चित्र-तैल-युतं पयः अनुवर्तेत वर्षं च यथोक्तं व्रण-यन्त्रणाम् ।
उदरान् मेदसो वर्तिं निर्गतां भस्मना मृदा ॥ ५० ॥

२६.५०bv यथोक्तं व्रण-यन्त्रणम् अवकीर्य कषायैर् वा श्लक्ष्णैर् मूलैस् ततः समम् ।
दृढं बद्ध्वा च सूत्रेण वर्धयेत् कुशलो भिषक् ॥ ५१ ॥

२६.५१bv श्लक्ष्णैर् मूले ततः समम् २६.५१bv श्लक्ष्णैश् चूर्णैस् ततः समम् तीक्ष्णेनाग्नि-प्रतप्तेन शस्त्रेण सकृद् एव तु ।
स्याद् अन्य-था रुग् आटोपो मृत्युर् वा छिद्यमानया ॥ ५२ ॥

स-क्षौद्रे च व्रणे बद्धे सु-जीर्णे ऽन्ने घृतं पिबेत् ।
क्षीरं वा शर्करा-चित्रा-लाक्षा-गोक्षुरकैः शृतम् ॥ ५३ ॥

२६.५३av स-क्षौद्रे तु व्रणे बद्धे २६.५३bv सु-जीर्णान्नो घृतं पिबेत् रुग्-दाह-जित् स-यष्ट्य्-आह्वैः परं पूर्वोदितो विधिः ।
मेदो-ग्रन्थ्य्-उदितं तत्र तैलम् अभ्यञ्जने हितम् ॥ ५४ ॥

२६.५४cv मेदो-ग्रन्थ्य्-उदितं चात्र तालीशं पद्मकं मांसी हरेण्व्-अगुरु-चन्दनम् ।
हरिद्रे पद्म-बीजानि सोशीरं मधुकं च तैः ॥ ५५ ॥

पक्वं सद्यो-व्रणेषूक्तं तैलं रोपणम् उत्तमम् ।
गूढ-प्रहाराभिहते पतिते विषमोच्चकैः ॥ ५६ ॥

२६.५६cv मूढ-प्रहाराभिहते कार्यं वातास्र-जित् तृप्ति-मर्दनाभ्यञ्जनादिकम् ।
विश्लिष्ट-देहं मथितं क्षीणं मर्माहतं हतम् ॥ ५७ ॥

२६.५७av कुर्याद् वातासृग्-उक्तं हि २६.५७bv -मर्दनाभ्यङ्ग-शोधनम् २६.५७bv मर्दनाभ्यङ्ग-शोधनम् २६.५७dv क्षीणं मर्माहताहतम् २६.५७dv क्षीणं मर्माहतं च तम् वासयेत् तैल-पूर्णायां द्रोण्यां मांस-रसाशिनम् ॥ ५७ऊ̆अब् ॥

अध्याय 27[सम्पाद्यताम्]

पात-घातादिभिर् द्वे-धा भङ्गो ऽस्थ्नां संध्य्-अ-संधितः ।
प्रसारणाकुञ्चनयोर् अ-शक्तिः संधि-मुक्त-ता ॥ १ ॥

२७.१bv भङ्गो ऽस्थ्नः संध्य्-अ-संधि-गः २७.१bv भङ्गो ऽस्थ्नः संध्य्-अ-संधितः इतरस्मिन् भृशं शोफः सर्वावस्थास्व् अति-व्यथा ।
अ-शक्तिश् चेष्टिते ऽल्पे ऽपि पीड्यमाने स-शब्द-ता ॥ २ ॥

२७.२bv सर्वावस्थास्व् अति-व्यथः समासाद् इति भङ्गस्य लक्षणं बहु-धा तु तत् ।
भिद्यते भङ्ग-भेदेन तस्य सर्वस्य साधनम् ॥ ३ ॥

यथा स्याद् उपयोगाय तथा तद् उपदेक्ष्यते ।
प्राज्याणु-दारि यत् त्व् अस्थि स्पर्शे शब्दं करोति यत् ॥ ४ ॥

२७.४cv प्राज्याणु-दारि यच् चास्थि यत्रास्थि-लेशः प्रविशेन् मध्यम् अस्थ्नो विदारितः ।
भग्नं यच् चाभिघातेन किञ्-चिद् एवावशेषितम् ॥ ५ ॥

२७.५cv भग्नं यद् अभिघातेन २७.५cv भग्नं यद् वाभिघातेन उन्नम्यमानं क्षत-वद् यच् च मज्जनि मज्जति ।
तद् दुः-साध्यं कृशा-शक्त-वातलाल्पाशिनाम् अपि ॥ ६ ॥

भिन्नं कपालं यत् कट्यां संधि-मुक्तं च्युतं च यत् ।
जघनं प्रति पिष्टं च भग्नं यत् तद् विवर्जयेत् ॥ ७ ॥

२७.७av भिन्नं कपालं यत् कट्याः अ-संश्लिष्ट-कपालं च ललाटं चूर्णितं तथा ।
यच् च भग्नं भवेच् छङ्ख-शिरः-पृष्ठ-स्तनान्तरे ॥ ८ ॥

सम्यग्-यमितम् अप्य् अस्थि दुर्-न्यासाद् दुर्-निबन्धनात् ।
संक्षोभाद् अपि यद् गच्छेद् वि-क्रियां तद् विवर्जयेत् ॥ ९ ॥

२७.९dv वि-क्रियां तच् च वर्जयेत् आदितो यच् च दुर्-जातम् अस्थि संधिर् अथापि वा ।
तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु ॥ १० ॥

२७.१०cv तरुणास्थीनि नम्यन्ते २७.१०dv भज्यन्ते नलकानि च कपालानि विभिद्यन्ते स्फुटन्त्य् अन्यानि भूयसा ।
अथावनतम् उन्नम्यम् उन्नतं चावपीडयेत् ॥ ११ ॥

२७.११av कपालास्थीनि भिद्यन्ते आञ्छेद् अतिक्षिप्तम् अधो-गतं चोपरि वर्तयेत् ।
आञ्छनोत्पीडनोन्नाम-चर्म-संक्षेप-बन्धनैः ॥ १२ ॥

२७.१२av आञ्छेद् अ-विक्षिप्तम् अधो- संधीञ् छरीर-गान् सर्वांश् चलान् अप्य् अ-चलान् अपि ।
इत्य् एतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्-चलम् ॥ १३ ॥

२७.१३dv सम्यक् संस्थाप्य निश्-चलान् पट्टैः प्रभूत-सर्पिर्भिः वेष्टयित्वा सुखैस् ततः ।
कदम्बोदुम्बराश्वत्थ-सर्जार्जुन-पलाश-जैः ॥ १४ ॥

वंशोद्भवैर् वा पृथुभिस् तनुभिः सु-निवेशितैः ।
सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् वल्कलैः शकलैर् अपि ॥ १५ ॥

२७.१५cv सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् ।
शिथिलेन हि बन्धेन संधि-स्थैर्यं न जायते ॥ १६ ॥

२७.१६dv संधेः स्थैर्यं न जायते गाढेनाति रुजा-दाह-पाक-श्वयथु-संभवः ।
त्र्य्-अहात् त्र्य्-अहाद् ऋतौ घर्मे सप्ताहान् मोक्षयेद् धिमे ॥ १७ ॥

२७.१७av गाढेनापि रुजा-दाह- साधारणे तु पञ्चाहाद् भङ्ग-दोष-वशेन वा ।
न्यग्रोधादि-कषायेण ततः शीतेन सेचयेत् ॥ १८ ॥

२७.१८bv भग्न-दोष-वशेन वा २७.१८bv भङ्गे दोष-वशेन वा तं पञ्च-मूल-पक्वेन पयसा तु स-वेदनम् ।
सुखोष्णं वावचार्यं स्याच् चक्र-तैलं विजानता ॥ १९ ॥

२७.१९av पञ्च-मूल-विपक्वेन २७.१९च्च् सुखोष्णम् अवचार्यं स्याच् विभज्य देशं कालं च वात-घ्नौषध-संयुतम् ।
प्रततं सेक-लेपांश् च विदध्याद् भृश-शीतलान् ॥ २० ॥

२७.२०av विभज्य देश-कालौ च २७.२०bv वात-घ्नौषध-साधितम् गृष्टि-क्षीरं स-सर्पिष्कं मधुरौषध-साधितम् ।
प्रातः प्रातः पिबेद् भग्नः शीतलं लाक्षया युतम् ॥ २१ ॥

स-व्रणस्य तु भग्नस्य व्रणो मधु-घृतोत्तरैः ।
कषायैः प्रतिसार्यो ऽथ शेषो भङ्गोदितः क्रमः ॥ २२ ॥

२७.२२cv कषायैः प्रतिसार्यो वा लम्बानि व्रण-मांसानि प्रलिप्य मधु-सर्पिषा ।
संदधीत व्रणान् वैद्यो बन्धनैश् चोपपादयेत् ॥ २३ ॥

तान् समान् सु-स्थिताञ् ज्ञात्वा फलिनी-लोध्र-कट्फलैः ।
समङ्गा-धातकी-युक्तैश् चूर्णितैर् अवचूर्णयेत् ॥ २४ ॥

धातकी-लोध्र-चूर्णैर् वा रोहन्त्य् आशु तथा व्रणाः ।
इति भङ्ग उपक्रान्तः स्थिर-धातोर् ऋतौ हिमे ॥ २५ ॥

मांसलस्याल्प-दोषस्य सु-साध्यो दारुणो ऽन्य-था ।
पूर्व-मध्यान्त-वयसाम् एक-द्वि-त्रि-गुणैः क्रमात् ॥ २६ ॥

२७.२६bv सु-साधो दारुणो ऽन्य-था मासैः स्थैर्यं भवेत् संधेर् यथोक्तं भजतां विधिम् ।
कटी-जङ्घोरु-भग्नानां कपाट-शयनं हितम् ॥ २७ ॥

२७.२७bv यथोक्तं भजतो विधिम् यन्त्रणार्थं तथा कीलाः पञ्च कार्या निबन्धनाः ।
जङ्घोर्वोः पार्श्वयोर् द्वौ द्वौ तल एकश् च कीलकः ॥ २८ ॥

श्रोण्यां वा पृष्ठ-वंशे वा वक्षस्य् अक्षकयोस् तथा ।
विमोक्षे भग्न-संधीनां विधिम् एवं समाचरेत् ॥ २९ ॥

२७.२९bv वक्षस्य् अंशकयोस् तथा २७.२९bv वक्त्रस्याक्षकयोस् तथा २७.२९dv विधिम् एनं समाचरेत् संधींश् चिर-विमुक्तांस् तु स्निग्ध-स्विन्नान् मृदू-कृतान् ।
उक्तैर् विधानैर् बुद्ध्या च यथा-स्वं स्थानम् आनयेत् ॥ ३० ॥

२७.३०av संधींश् चिर-विमुक्तांश् च २७.३०cv उक्तैर् विधानैर् युक्त्या च २७.३०cv उक्तैर् विधानैर् युक्त्या वा अ-संधि-भग्ने रूढे तु विषमोल्बण-साधिते ।
आपोथ्य भङ्गं यमयेत् ततो भग्न-वद् आचरेत् ॥ ३१ ॥

२७.३१av अ-संधि-भग्ने रूढे च २७.३१bv विषमोल्बण-साधनैः भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् ।
पक्व-मांस-सिरा-स्नायुः संधिः श्लेषं न गच्छति ॥ ३२ ॥

२७.३२av भङ्गो नैति यथा पाकं वात-व्याधि-विनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत् ।
चतुष्-प्रयोगान् बल्यांश् च वस्ति-कर्म च शीलयेत् ॥ ३३ ॥

शाल्य्-आज्य-रस-दुग्धाद्यैः पौष्टिकैर् अ-विदाहिभिः ।
मात्रयोपचरेद् भग्नं संधि-संश्लेष-कारिभिः ॥ ३४ ॥

ग्लानिर् न शस्यते तस्य संधि-विश्लेष-कृद् धि सा ॥ ३५अब् ॥
लवणं कटुकं क्षारम् अम्लं मैथुनम् आतपम् ॥ ३५च्द् ॥
व्यायामं च न सेवेत भग्नो रूक्षं च भोजनम् ॥ ३५एf ॥
कृष्णांस् तिलान् वि-रजसो दृढ-वस्त्र-बद्धान् सप्त क्षपा वहति वारिणि वासयेत् ।
संशोषयेद् अनु-दिनं प्रविसार्य चैतान् क्षीरे तथैव मधुक-क्वथिते च तोये ॥ ३६ ॥

२७.३६cv संशोषयेद् अनु-दिनं प्रतिसार्य चैतान् २७.३६cv संशोषयेद् अनु-दिनं प्रविभाव्य चैतान् पुनर् अपि पीत-पयस्कांस् तान् पूर्व-वद् एव शोषितान् बाढम् ।
विगत-तुषान् अ-रजस्कान् संचूर्ण्य सु-चूर्णितैर् युञ्ज्यात् ॥ ३७ ॥

२७.३७dv संचूर्ण्य विचूर्णितैर् युञ्ज्यात् नलद-वालक-लोहितयष्टिका-नख-मिशि-प्लव-कुष्ठ-बला-त्रयैः ।
अगुरु-कुङ्कुम-चन्दन-शारिवा-सरल-सर्ज-रसामरदारुभिः ॥ ३८ ॥

पद्मकादि-गणोपेतैस् तिल-पिष्टं ततश् च तत् ।
समस्त-गन्ध-भैषज्य-सिद्ध-दुग्धेन पीडयेत् ॥ ३९ ॥

२७.३९bv तिल-पिष्टं ततश् च तम् शैलेय-रास्नांशुमती-कसेरु-कालानुसारी-नत-पत्त्र-लोध्रैः ।
स-क्षीरशुक्लैः स-पयः स-दूर्वैस् तैलं पचेत् तन् नलदादिभिश् च ॥ ४० ॥

२७.४०cv त्वक्-क्षीर-युक्तैः पयसा स-दूर्वैस् २७.४०cv स-क्षीर-युक्तैस् पयसा स-दूर्वैस् २७.४०cv स-क्षीर-युक्तैस् स-पयः स-दूर्वैस् गन्ध-तैलम् इदम् उत्तमम् अस्थि-स्थैर्य-कृज् जयति चाशु विकारान् ।
वात-पित्त-जनितान् अति-वीर्यान् व्यापिनो ऽपि विविधैर् उपयोगैः ॥ ४१ ॥

२७.४१cv वात-पित्त-जनितान् अति-वीर्यं २७.४१cv वात-पित्त-जनितान् अति-वीर्य- २७.४१dv -व्यापिनो ऽपि विविधैर् उपयोगैः

अध्याय 28[सम्पाद्यताम्]

हस्त्य्-अश्व-पृष्ठ-गमन-कठिनोत्कटकासनैः ।
अर्शो-निदानाभिहितैर् अपरैश् च निषेवितैः ॥ १ ॥

२८.१bv -कठिनोत्कटुकासनैः अन्-इष्टा-दृष्ट-पाकेन सद्यो वा साधु-गर्हणैः ।
प्रायेण पिटिका-पूर्वो यो ऽङ्गुले द्व्य्-अङ्गुले ऽपि वा ॥ २ ॥

२८.२av अन्-इष्ट-दिष्ट-पाकेन पायोर् व्रणो ऽन्तर् बाह्यो वा दुष्टासृङ्-मांस-गो भवेत् ।
वस्ति-मूत्राशयाभ्यास-गत-त्वात् स्यन्दनात्मकः ॥ ३ ॥

२८.३av पायौ व्रणो ऽन्तर् बाह्यो वा भगन्दरः स सर्वांश् च दारयत्य् अ-क्रिया-वतः ।
भग-वस्ति-गुदांस् तेषु दीर्यमाणेषु भूरिभिः ॥ ४ ॥

२८.४av भगन्दरः स सर्वश् च २८.४av भगन्दरः स सर्वस्य वात-मूत्र-शकृच्-छुक्रं खैः सूक्ष्मैर् वमति क्रमात् ।
दोषैः पृथग् युतैः सर्वैर् आगन्तुः सो ऽष्टमः स्मृतः ॥ ५ ॥

२८.५dv आगन्तुश् चाष्टमः स्मृतः अ-पक्वं पिटिकां आहुः पाक-प्राप्तं भगन्दरम् ।
गूढ-मूलां स-संरम्भां रुग्-आढ्यां रूढ-कोपिनीम् ॥ ६ ॥

भगन्दर-करीं विद्यात् पिटिकां न त्व् अतो ऽन्य-था ।
तत्र श्यावारुणा तोद-भेद-स्फुरण-रुक्-करी ॥ ७ ॥

पिटिका मारुतात् पित्ताद् उष्ट्र-ग्रीवा-वद् उच्छ्रिता ।
रागिणी तनुर् ऊष्माढ्या ज्वर-धूमायनान्विता ॥ ८ ॥

२८.८cv रागिणी तनु-सूक्ष्मा च स्थिरा स्निग्धा महा-मूला पाण्डुः कण्डू-मती कफात् ।
श्यावा ताम्रा स-दाहोषा घोर-रुग् वात-पित्त-जा ॥ ९ ॥

२८.९cv श्याव-ताम्रा स-दाहोषा पाण्डुरा किञ्-चिद्-आ-श्यावा कृच्छ्र-पाका कफानिलात् ।
पादाङ्गुष्ठ-समा सर्वैर् दोषैर् नाना-विध-व्यथा ॥ १० ॥

शूला-रोचक-तृड्-दाह-ज्वर-च्छर्दिर्-उपद्रुता ।
व्रण-तां यान्ति ताः पक्वाः प्रमादात् तत्र वात-जा ॥ ११ ॥

चीयते ऽणु-मुखैश् छिद्रैः शत-पोनक-वत् क्रमात् ।
अच्छं स्रवद्भिर् आस्रावम् अजस्रं फेन-संयुतम् ॥ १२ ॥

२८.१२av दीर्यते ऽणु-मुखैश् छिद्रैः २८.१२bv शत-पोनक-वक्त्र-वत् शत-पोनक-संज्ञो ऽयम् उष्ट्र-ग्रीवस् तु पित्त-जः ।
बहु-पिच्छा-परिस्रावी परिस्रावी कफोद्भवः ॥ १३ ॥

वात-पित्ताज् परिक्षेपी परिक्षिप्य गुदं गतिः ।
जायते परितस् तत्र प्राकारं परिखेव च ॥ १४ ॥

२८.१४dv प्राकार-परिखेव च ऋजुर् वात-कफाद् ऋज्व्या गुदो गत्यात्र दीर्यते ।
कफ-पित्ते तु पूर्वोत्थं दुर्-नामाश्रित्य कुप्यतः ॥ १५ ॥

२८.१५bv गुदो गत्या तु दीर्यते २८.१५bv गुदो गत्या नु दीर्यते २८.१५cv कफ-पित्ते तु पूर्वोक्तं अर्शो-मूले ततः शोफः कण्डू-दाहादि-मान् भवेत् ।
स शीघ्रं पक्व-भिन्नो ऽस्य क्लेदयन् मूलम् अर्शसः ॥ १६ ॥

स्रवत्य् अजस्रं गतिभिर् अयम् अर्शो-भगन्दरः ।
सर्व-जः शम्बुकावर्तः शम्बूकावर्त-संनिभः ॥ १७ ॥

गतयो दारयन्त्य् अस्मिन् रुग्-वेगैर् दारुणैर् गुदम् ।
अस्थि-लेशो ऽभ्यवहृतो मांस-गृद्ध्या यदा गुदम् ॥ १८ ॥

क्षिणोति तिर्यङ् निर्गच्छन्न् उन्-मार्गं क्षततो गतिः ।
स्यात् ततः पूय-दीर्णायां मांस-कोथेन तत्र च ॥ १९ ॥

२८.१९av क्षणोति तिर्यङ् निर्गच्छन् २८.१९cv स्यात् तदा पूय-दीर्णायां जायन्ते कृमयस् तस्य खादन्तः परितो गुदम् ।
विदारयन्ति न चिराद् उन्-मार्गी क्षत-जश् च सः ॥ २० ॥

२८.२०av जायन्ते कृमयस् तेभ्यः २८.२०dv उन्-मार्गी क्षत-जस् तु सः तेषु रुग्-दाह-कण्ड्व्-आदीन् विद्याद् व्रण-निषेधतः ।
षट् कृच्छ्र-साधनास् तेषां निचय-क्षत-जौ त्यजेत् ॥ २१ ॥

२८.२१bv विद्याद् व्रण-विभक्तितः प्रवाहिणीं वलीं प्राप्तं सेवनीं वा समाश्रितम् ।
अथास्य पिटिकाम् एव तथा यत्नाद् उपाचरेत् ॥ २२ ॥

शुद्ध्य्-असृक्-स्रुति-सेकाद्यैर् यथा पाकं न गच्छति ।
पाके पुनर् उपस्निग्धं स्वेदितं चावगाहतः ॥ २३ ॥

यन्त्रयित्वार्शसम् इव पश्येत् सम्यग् भगन्दरम् ।
अर्वाचीनं पराचीनम् अन्तर्-मुख-बहिर्-मुखम् ॥ २४ ॥

२८.२४cv अवाचीनं पराचीनम् अथान्तर्-मुखम् एषित्वा सम्यक् शस्त्रेण पाटयेत् ।
बहिर्-मुखं च निःशेषं ततः क्षारेण साधयेत् ॥ २५ ॥

अग्निना वा भिषक् साधु क्षारेणैवोष्ट्र-कन्धरम् ।
नाडीर् एकान्तराः कृत्वा पाटयेच् छत-पोनकम् ॥ २६ ॥

२८.२६cv नाडीम् एकान्तरं कृत्वा २८.२६dv पाटयेच् छत-पोनके तासु रूढासु शेषाश् च मृत्युर् दीर्णे गुदे ऽन्य-था ।
परिक्षेपिणि चाप्य् एवं नाड्य्-उक्तैः क्षार-सूत्रकैः ॥ २७ ॥

अर्शो-भगन्दरे पूर्वम् अर्शांसि प्रतिसाधयेत् ।
त्यक्त्वोपचर्यः क्षत-जः शल्यं शल्य-वतस् ततः ॥ २८ ॥

२८.२८bv अर्शांसि प्रतिसारयेत् आहरेच् च तथा दद्यात् कृमि-घ्नं लेप-भोजनम् ।
पिण्ड-नाड्य्-आदयः स्वेदाः सु-स्निग्धा रुजि पूजिताः ॥ २९ ॥

२८.२९av आहरेत तथा दद्यात् २८.२९av आहरेत् तत् तथा दद्यात् २८.२९av आहरेत् तु तथा दद्यात् सर्व-त्र च बहु-च्छिद्रे छेदान् आलोच्य योजयेत् ।
गो-तीर्थ-सर्वतो-भद्र-दल-लाङ्गल-लाङ्गलान् ॥ ३० ॥

२८.३०av सर्व-त्रापि बहु-च्छिद्रे पार्श्वं गतेन शस्त्रेण च्छेदो गो-तीर्थको मतः ।
सर्वतः सर्वतो-भद्रः पार्श्व-च्छेदो ऽर्ध-लाङ्गलः ॥ ३१ ॥

२८.३१av पार्श्व-गतेन शस्त्रेण २८.३१av पार्श्वागतेन शस्त्रेण पार्श्व-द्वये लाङ्गलकः समस्तांश् चाग्निना दहेत् ।
आस्राव-मार्गान् निःशेषं नैवं विकुरुते पुनः ॥ ३२ ॥

२८.३२cv आस्राव-मार्गान् निःशेषान् यतेत कोष्ठ-शुद्धौ च भिषक् तस्यान्तरान्तरा ।
लेपो व्रणे बिडालास्थि त्रि-फला-रस-कल्कितम् ॥ ३३ ॥

२८.३३av यतेत कोष्ठ-शुद्ध्यै च २८.३३av यतेत कोष्ठ-संशुद्धौ २८.३३dv त्रि-फला-रस-कल्कितः ज्योतिष्मती-मलयु-लाङ्गलि-शेलु-पाठा-कुम्भाग्नि-सर्ज-करवीर-वचा-सुधार्कैः ।
अभ्यञ्जनाय विपचेत भगन्दराणां तैलं वदन्ति परमं हितम् एतद् एषाम् ॥ ३४ ॥

२८.३४bv -कुम्भाग्नि-सर्जि-करवीर-वचा-सुधार्कैः २८.३४dv तैलं वदन्ति परमं हितम् एतद् एव मधुक-लोध्र-कणा-त्रुटि-रेणुका-द्वि-रजनी-फलिनी-पटु-शारिवाः ।
कमल-केसर-पद्मक-धातकी-मदन-सर्ज-रसामय-रोदिकाः ॥ ३५ ॥

२८.३५dv -मदन-सर्ज-रसामय-लोध्रकाः स-बीजपूर-च्छदनैर् एभिस् तैलं विपाचितम् ।
भगन्दरापची-कुष्ठ-मधु-मेह-व्रणापहम् ॥ ३६ ॥

मधु-तैल-युता विडङ्ग-सार-त्रि-फला-मागधिका-कणाश् च लीढाः ।
कृमि-कुष्ठ-भगन्दर-प्रमेह-क्षत-नाडी-व्रण-रोपणा भवन्ति ॥ ३७ ॥

२८.३७bv -त्रि-फला-मागधिकोषणाश् च लीढाः २८.३७dv -क्षत-नाडी-व्रण-रोहणा भवन्ति अमृता-त्रुटि-वेल्ल-वत्सकं कलि-पथ्यामलकानि गुग्गुलुः ।
क्रम-वृद्धम् इदं मधु-द्रुतं पिटिका-स्थौल्य-भगन्दराञ् जयेत् ॥ ३८ ॥

२८.३८cv क्रम-वृद्धम् इदं मधु-प्लुतं मागधिकाग्नि-कलिङ्ग-विडङ्गैर् बिल्व-घृतैः स-वरा-पल-षट्कैः ।
गुग्गुलुना सदृशेन समेतैः क्षौद्र-युतैः सकलामय-नाशः ॥ ३९ ॥

२८.३९av मागधिकाग्नि-कलिङ्ग-विडङ्गैस् २८.३९bv तुल्य-घृतैः स-वरा-पल-षट्कैः गुग्गुलु-पञ्च-पलं पलिकांशा मागधिका त्रि-फला च पृथक् स्यात् ।
त्वक्-त्रुटि-कर्ष-युतं मधु-लीढं कुष्ठ-भगन्दर-गुल्म-गति-घ्नम् ॥ ४० ॥

शृङ्गवेर-रजो-युक्तं तद् एव च सु-भावितम् ।
क्वाथेन दश-मूलस्य विशेषाद् वात-रोग-जित् ॥ ४१ ॥

उत्तमा-खदिर-सार-जं रजः शीलयन्न् असन-वारि-भावितम् ।
हन्ति तुल्य-महिषाक्ष-माक्षिकं कुष्ठ-मेह-पिटिका-भगन्दरान् ॥ ४२ ॥

२८.४२bv शीलयेद् अनल-वारि-भावितम् २८.४२bv शीलयेद् असन-वारि-भावितम् २८.४२cv हन्ति तुल्य-महिषाख्य-माक्षिकं भगन्दरेष्व् एष विशेष उक्तः शेषाणि तु व्यञ्जन-साधनानि ।
व्रणाधिकारात् परिशीलनाच् च सम्यग् विदित्वौपयिकं विदध्यात् ॥ ४३ ॥

२८.४३dv सम्यग् विदित्वौषधिकं विदध्यात् अश्व-पृष्ठ-गमनं चल-रोधं मद्य-मैथुनम् अ-जीर्णम् अ-सात्म्यम् ।
साहसानि विविधानि च रूढे वत्सरं परिहरेद् अधिकं वा ॥ ४४ ॥

२८.४४dv वत्सरं परिहरेद् अधिकं च

अध्याय 29[सम्पाद्यताम्]

कफ-प्रधानाः कुर्वन्ति मेदो-मांसास्र-गा मलाः ।
वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर् ग्रथनात् स्मृतः ॥ १ ॥

२९.१dv स ग्रन्थिर् ग्रन्थनात् स्मृतः दोषास्र-मांस-मेदो-ऽस्थि-सिरा-व्रण-भवा नव ।
ते तत्र वाताद् आयाम-तोद-भेदान्वितो ऽसितः ॥ २ ॥

स्थानात् स्थानान्तर-गतिर् अ-कस्माद् धानि-वृद्धि-मान् ।
मृदुर् वस्तिर् इवानद्धो विभिन्नो ऽच्छं स्रवत्य् असृक् ॥ ३ ॥

पित्तात् स-दाहः पीताभो रक्तो वा पच्यते द्रुतम् ।
भिन्नो ऽस्रम् उष्णं स्रवति श्लेष्मणा नी-रुजो घनः ॥ ४ ॥

शीतः स-वर्णः कण्डू-मान् पक्वः पूयं स्रवेद् घनम् ।
दोषैर् दुष्टे ऽसृजि ग्रन्थिर् भवेन् मूर्छत्सु जन्तुषु ॥ ५ ॥

सिरा-मांसं च संश्रित्य स-स्वापः पित्त-लक्षणः ।
मांसलैर् दूषितं मांसम् आहारैर् ग्रन्थिम् आवहेत् ॥ ६ ॥

स्निग्धं महान्तं कठिनं सिरा-नद्धं कफाकृतिम् ।
प्रवृद्धं मेदुरैर् मेदो नीतं मांसे ऽथ-वा त्वचि ॥ ७ ॥

वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम् ।
श्लेष्म-तुल्याकृतिं देह-क्षय-वृद्धि-क्षयोदयम् ॥ ८ ॥

स विभिन्नो घनं मेदस् ताम्रासित-सितं स्रवेत् ।
अस्थि-भङ्गाभिघाताभ्याम् उन्नतावनतं तु यत् ॥ ९ ॥

२९.९av स विभिन्नो घनं मेदः २९.९bv पूयं ताम्रासितं स्रवेत् २९.९cv अस्थि-भग्नाभिघाताभ्याम् सो ऽस्थि-ग्रन्थिः पदातेस् तु सहसाम्भो-ऽवगाहनात् ।
व्यायामाद् वा प्रतान्तस्य सिरा-जालं स-शोणितम् ॥ १० ॥

वायुः संपीड्य संकोच्य वक्री-कृत्य विशोष्य च ।
निः-स्फुरं नी-रुजं ग्रन्थिं कुरुते स सिराह्वयः ॥ ११ ॥

२९.११av वायुः प्रपीड्य संकोच्य अ-रूढे रूढ-मात्रे वा व्रणे सर्व-रसाशिनः ।
सार्द्रे वा बन्ध-रहिते गात्रे ऽश्माभिहते ऽथ-वा ॥ १२ ॥

वातो ऽस्रम् अ-स्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् ।
कुर्यात् स-दाहः कण्डू-मान् व्रण-ग्रन्थिर् अयं स्मृतः ॥ १३ ॥

२९.१३av वायुः प्रकुपितः क्षिप्रं २९.१३bv प्राप्य मर्माश्रितं व्रणम् साध्या दोषास्र-मेदो-जा न तु स्थूल-खराश् चलाः ।
मर्म-कण्ठोदर-स्थाश् च महत् तु ग्रन्थितो ऽर्बुदम् ॥ १४ ॥

२९.१४bv न तु स्थूलाः खराश् चलाः २९.१४dv महांस् तु ग्रन्थितो ऽर्बुदम् तल्-लक्षणं च मेदो-ऽन्तैः षो-ढा दोषादिभिस् तु तत् ।
प्रायो मेदः-कफाढ्य-त्वात् स्थिर-त्वाच् च न पच्यते ॥ १५ ॥

सिरा-स्थं शोणितं दोषः संकोच्यान्तः प्रपीड्य च ।
पाचयेत तद् आनद्धं सास्रावं मांस-पिण्डितम् ॥ १६ ॥

२९.१६bv संकोच्यानु प्रपीड्य च २९.१६bv संकोच्यानु प्रपीड्य वा २९.१६bv संकोच्यान्तः प्रपीड्य वा २९.१६dv स-स्रावं मांस-पिण्ड-ताम् मांसाङ्कुरैश् चितं याति वृद्धिं चाशु स्रवेत् ततः ।
अजस्रं दुष्ट-रुधिरं भूरि तच् छोणितार्बुदम् ॥ १७ ॥

२९.१७bv वृद्धं चाशु स्रवेत् ततः तेष्व् असृङ्-मांस-जे वर्ज्ये चत्वार्य् अन्यानि साधयेत् ।
प्रस्थिता वङ्क्षणोर्व्-आदिम् अधः-कायं कफोल्बणाः ॥ १८ ॥

दोषा मांसास्र-गाः पादौ कालेनाश्रित्य कुर्वते ।
शनैः शनैर् घनं शोफं श्लीपदं तत् प्रचक्षते ॥ १९ ॥

२९.१९dv श्लीपदं तत् प्रचक्ष्यते परिपोट-युतं कृष्णम् अ-निमित्त-रुजं खरम् ।
रूक्षं च वातात् पित्तात् तु पीतं दाह-ज्वरान्वितम् ॥ २० ॥

२९.२०cv रूक्षं च वातात् पित्ताच् च २९.२०cv रूक्षं च श्लीपदं वातात् २९.२०dv पित्ताद् दाह-ज्वरान्वितम् कफाद् गुरु स्निग्धम् अ-रुक् चितं मांसाङ्कुरैर् बृहत् ।
तत् त्यजेद् वत्सरातीतं सु-महत् सु-परिस्रुति ॥ २१ ॥

२९.२१bv चितं मांसाङ्कुरैर् महत् पाणि-नासौष्ठ-कर्णेषु वदन्त्य् एके तु पाद-वत् ।
श्लीपदं जायते तच् च देशे ऽनूपे भृशं भृशम् ॥ २२ ॥

२९.२२bv वदन्त्य् अन्ये तु पाद-वत् मेद-स्थाः कण्ठ-मन्याक्ष-कक्षा-वङ्क्षण-गा मलाः ।
स-वर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन् ॥ २३ ॥

२९.२३av मेद-स्थाः कण्ठ-मन्याक्षि- अवगाढान् बहून् गण्डांश् चिर-पाकांश् च कुर्वते ।
पच्यन्ते ऽल्प-रुजस् ते ऽन्ये स्रवन्त्य् अन्ये ऽति-कण्डुराः ॥ २४ ॥

२९.२४cv पच्यन्ते ऽल्प-रुजस् त्व् अन्ये २९.२४dv स्रवन्त्य् अन्ये ऽति-कण्डुलाः नश्यन्त्य् अन्ये भवन्त्य् अन्ये दीर्घ-कालानुबन्धिनः ।
गण्ड-मालापची चेयं दूर्वेव क्षय-वृद्धि-भाक् ॥ २५ ॥

तां त्यजेत् स-ज्वर-च्छर्दि-पार्श्व-रुक्-कास-पीनसाम् ।
अ-भेदात् पक्व-शोफस्य व्रणे चा-पथ्य-सेविनः ॥ २६ ॥

२९.२६bv -पार्श्व-रुक्-श्वास-पीनसाम् २९.२६dv व्रणे वा-पथ्य-सेविनः अनुप्रविश्य मांसादीन् दूरं पूयो ऽभिधावति ।
गतिः सा दूर-गमनान् नाडी नाडीव संस्रुतेः ॥ २७ ॥

नाड्य् एकान्-ऋजुर् अन्येषां सैवानेक-गतिर् गतिः ।
सा दोषैः पृथग् एक-स्थैः शल्य-हेतुश् च पञ्चमी ॥ २८ ॥

२९.२८cv दोषैः पृथक् समस्तैश् च वातात् स-रुक् सूक्ष्म-मुखी वि-वर्णा फेनिलोद्वमा ।
स्रवत्य् अभ्यधिकं रात्रौ पित्तात् तृड्-ज्वर-दाह-कृत् ॥ २९ ॥

पीतोष्ण-पूति-पूय-स्रुद् दिवा चाति निषिञ्चति ।
घन-पिच्छिल-संस्रावा कण्डूला कठिना कफात् ॥ ३० ॥

२९.३०av पीतोष्ण-पूति-पूयं तु २९.३०av पीतोष्ण-पूति-पूयाश्रु २९.३०av पीतोष्ण-पूति-पूयास्रुर् निशि चाभ्यधिक-क्लेदा सर्वैः सर्वाकृतिं त्यजेत् ॥ ३१अब् ॥
२९.३१bv सर्वैः सर्वाकृतिस् त्यजेत् अन्तः-स्थितं शल्यम् अन्-आहृतं तु करोति नाडीं वहते च सास्य ॥ ३१च्द् ॥
२९.३१dv करोति नाडीं वहते च सास्यात् फेनानुविद्धं तनुम् अल्पम् उष्णं सास्रं च पूयं स-रुजं च नित्यम् ॥ ३१एf ॥
२९.३१एव् फेनानुविद्धं तनुम् अच्छम् उष्णं

अध्याय 30[सम्पाद्यताम्]

ग्रन्थिष्व् आमेषु कर्तव्या यथा-स्वं शोफ-वत् क्रिया ।
बृहती-चित्रक-व्याघ्री-कणा-सिद्धेन सर्पिषा ॥ १ ॥

स्नेहयेच् छुद्धि-कामं च तीक्ष्णैः शुद्धस्य लेपनम् ।
संस्वेद्य बहु-शो ग्रन्थिं विमृद्नीयात् पुनः पुनः ॥ २ ॥

एष वाते विशेषेण क्रमः पित्तास्र-जे पुनः ।
जलौकसो हिमं सर्वं कफ-जे वातिको विधिः ॥ ३ ॥

तथाप्य् अ-पक्वं छित्त्वैनं स्थिते रक्ते ऽग्निना दहेत् ।
साध्व् अ-शेषं स-शेषो हि पुनर् आप्यायते ध्रुवम् ॥ ४ ॥

३०.४dv पुनर् आनह्यते द्रुतम् मांस-व्रणोद्भवौ ग्रन्थी यापयेद् एवम् एव च ।
कार्यं मेदो-भवे ऽप्य् एतत् तप्तैः फलादिभिश् च तम् ॥ ५ ॥

३०.५bv पाटयेद् एवम् एव च प्रमृद्यात् तिल-दिग्धेन च्छन्नं द्वि-गुण-वाससा ।
शस्त्रेण पाटयित्वा वा दहेन् मेदसि सूद्धृते ॥ ६ ॥

३०.६av प्रमृज्यात् तिल-दिग्धेन ३०.६dv दहेन् मेदसि तूद्धृते सिरा-ग्रन्थौ नवे पेयं तैलं साहचरं तथा ।
उपनाहो ऽनिल-हरैर् वस्ति-कर्म सिरा-व्यधः ॥ ७ ॥

अर्बुदे ग्रन्थि-वत् कुर्यात् यथा-स्वं सु-तरां हितम् ।
श्लीपदे ऽनिल-जे विध्येत् स्निग्ध-स्विन्नोपनाहिते ॥ ८ ॥

अजा-शकृच्-छिग्रु-मूल-लाक्षा-सुरस-काञ्जिकैः ॥ ८.१+(१)अब् ॥
३०.८.१+(१)ब्व् -लाक्षा-रस-स-काञ्जिकैः ३०.८.१+(१)ब्व् -लवण-क्षार-काञ्जिकैः उपोदका-पत्त्र-पिण्ड्या छदैर् आच्छादितं घनम् ।
निवेश्य पट्टं बध्नीयाच् छाम्यत्य् एवं नवार्बुदम् ॥ ८.१+(२) ॥
३०.८.१+(२)अव् उपोदकार्क-पिण्याक- ३०.८.१+(२)ब्व् -च्छदैर् आच्छादितं घनम् जीर्णे चार्क-च्छद-सुधा-सामुद्र-गुड-काञ्जिकैः ।
प्रच्छाने पिण्डिका बद्धा ग्रन्थ्य्-अर्बुद-विलायनी ॥ ८.१+(३) ॥
३०.८.१+(३)अव् जीर्णार्द्रार्क-च्छद-सुधा- ३०.८.१+(३)ब्व् -सामुद्रं तुल्यकाम्बुभिः ३०.८.१+(३)च्व् प्रच्छन्ने पिटिकां बद्ध्वा ३०.८.१+(३)च्व् प्रच्छानैर् पिण्डिकां बद्ध्वा ३०.८.१+(३)द्व् ग्रन्थ्य्-अर्बुद-विलायनम् सिराम् उपरि गुल्फस्य द्व्य्-अङ्गुले पाययेच् च तम् ।
मासम् एरण्ड-जं तैलं गो-मूत्रेण समन्वितम् ॥ ९ ॥

जीर्णे जीर्णान्नम् अश्नीयाच् छुण्ठी-शृत-पयो-ऽन्वितम् ।
त्रैवृतं वा पिबेद् एवम् अ-शान्ताव् अग्निना दहेत् ॥ १० ॥

गुल्फस्याधः सिरा-मोक्षः पैत्ते सर्वं च पित्त-जित् ।
सिराम् अङ्गुष्ठके विद्ध्वा कफ-जे शीलयेद् यवान् ॥ ११ ॥

स-क्षौद्राणि कषायाणि वर्धमानास् तथाभयाः ।
लिम्पेत् सर्षप-वार्ताकी-मूलाभ्यां धन्वयाथ-वा ॥ १२ ॥

३०.१२dv -मूलाभ्यां धान्ययाथ-वा ऊर्ध्वाधः-शोधनं पेयम् अपच्यां साधितं घृतम् ।
दन्ती-द्रवन्ती-त्रिवृता-जालिनी-देवदालिभिः ॥ १३ ॥

शीलयेत् कफ-मेदो-घ्नं धूम-गण्डूष-नावनम् ।
सिरयापहरेद् रक्तं पिबेन् मूत्रेण तार्क्ष्य-जम् ॥ १४ ॥

पलम् अर्ध-पलं वापि कर्षं वाप्य् उष्ण-वारिणा ।
काञ्चनार-त्वचं पीत्वा गण्ड-मालां व्यपोहति ॥ १४+(१) ॥
३०.१४+(१)ब्व् कर्षं वोष्णेन वारिणा ग्रन्थीन् अ-पक्वान् आलिम्पेन् नाकुली-पटु-नागरैः ।
स्विन्नान् लवण-पोटल्या कठिनान् अनु मर्दयेत् ॥ १५ ॥

शमी-मूलक-शिग्रूणां बीजैः स-यव-सर्षपैः ।
लेपः पिष्टो ण्म्ल-तक्रेण ग्रन्थि-गण्ड-विलायनः ॥ १६ ॥

३०.१६av शमी-मूलक-शिग्रूत्थ- ३०.१६av शमी-मूलक-शिग्रूमा- ३०.१६bv -बीजः स-यव-सर्षपैः ३०.१६bv -बीजैः स-यव-सर्षपैः क्षुण्णानि निम्ब-पत्त्राणि कॢप्तैर् भल्लातकैः सह ।
शराव-संपुटे दग्ध्वा सार्धं सिद्धार्थकैः समैः ॥ १६+(१) ॥
३०.१६+(१)अव् जीर्णानि निम्ब-पत्त्राणि ३०.१६+(१)ब्व् क्लिन्नैर् भल्लातकैः सह ३०.१६+(१)ब्व् क्षिप्रैर् भल्लातकैः सह एतच् छागाम्बुना पिष्टं गण्ड-माला-प्रलेपनम् ॥ १६+(२)अब् ॥
३०.१६+(२)ब्व् गण्ड-माला-विलेपनम् पाकोन्-मुखान् स्रुतास्रस्य पित्त-श्लेष्म-हरैर् जयेत् ।
अ-पक्वान् एवो वोद्धृत्य क्षाराग्निभ्याम् उपाचरेत् ॥ १७ ॥

काकादनी-लाङ्गलिका-नहिकोत्तुण्डिकी-फलैः ।
जीमूत-बीज-कर्कोटी-विशाला-कृतवेधनैः ॥ १८ ॥

३०.१८bv -नलिकोत्तुण्डिकी-फलैः ३०.१८bv -नलिकोत्तुण्डकी-फलैः ३०.१८bv -नहिकोत्तैण्डुकी-फलैः पाठान्वितैः पलार्धांशैर् विष-कर्ष-युतैः पचेत् ।
प्रस्थं करञ्ज-तैलस्य निर्गुण्डी-स्व-रसाढके ॥ १९ ॥

३०.१९av पथ्यान्वितैः पलार्धांशैर् अनेन माला गण्डानां चिर-जा पूय-वाहिनी ।
सिध्यत्य् अ-साध्य-कल्पापि पानाभ्यञ्जन-नावनैः ॥ २० ॥

तैलं लाङ्गलिकी-कन्द-कल्क-पादं चतुर्-गुणे ।
निर्गुण्डी-स्व-रसे पक्वं नस्याद्यैर् अपची-प्रणुत् ॥ २१ ॥

३०.२१bv -कल्क-पादे चतुर्-गुणे भद्रश्री-दारु-मरिच-द्वि-हरिद्रा-त्रिवृद्-घनैः ।
मनःशिलाल-नलद-विशाला-करवीरकैः ॥ २२ ॥

३०.२२अच् भद्र-श्रीदारु-मरिच- ३०.२२cv मनःशिलाल-मदन- गो-मूत्र-पिष्टैः पलिकैर् विषस्यार्ध-पलेन च ।
ब्राह्मी-रसार्क-ज-क्षीर-गो-शकृद्-रस-संयुतम् ॥ २३ ॥

प्रस्थं सर्षप-तैलस्य सिद्धम् आशु व्यपोहति ।
पानाद्यैः शीलितं कुष्ठ-दुष्ट-नाडी-व्रणापचीः ॥ २४ ॥

३०.२४cv पानाद्यैः शीलितं कुष्ठं ३०.२४dv दुष्ट-नाडी-व्रणापचीः वचा-हरीतकी-लाक्षा-कटु-रोहिणि-चन्दनैः ।
तैलं प्रसाधितं पीतं स-मूलाम् अपचीं जयेत् ॥ २५ ॥

शरपुङ्खोद्भवं मूलं पिष्टं तण्डुल-वारिणा ।
नस्याल् लेपाच् च दुष्टारुर्-अपची-विष-जन्तु-जित् ॥ २६ ॥

मूलैर् उत्तमकारण्याः पीलुपर्ण्याः सहाचरात् ।
स-लोध्राभय-यष्ट्य्-आह्व-शताह्वा-द्वीपि-दारुभिः ॥ २७ ॥

३०.२७av मूलैर् उत्तमवारुण्याः ३०.२७av मूलैर् उत्तरवारुण्याः ३०.२७av मूलैर् उत्तरवारिण्याः तैलं क्षीर-समं सिद्धं नस्ये ऽभ्यङ्गे च पूजितम् ।
गो-ऽव्य्-अजाश्व-खुरा दग्धाः कटु-तैलेन लेपनम् ॥ २८ ॥

३०.२८cv गो-गजाश्व-खुरा दग्धाः ऐङ्गुदेन तु कृष्णाहिर् वायसो वा स्वयं मृतः ।
इत्य् अ-शान्तौ गदस्यान्य-पार्श्व-जङ्घा-समाश्रितम् ॥ २९ ॥

३०.२९cv इत्य् अ-शान्तौ गदे चान्य- ३०.२९dv -पार्श्वे जङ्घा-समाश्रितम् वस्तेर् ऊर्ध्वम् अधस्-ताद् वा मेदो हृत्वाग्निना दहेत् ।
स्थितस्योर्ध्वं पदं मित्वा तन्-मानेन च पार्ष्णितः ॥ ३० ॥

तत ऊर्ध्वं हरेद् ग्रन्थीन् इत्य् आह भग-वान् निमिः ॥ ३१अब् ॥
पार्ष्णिं प्रति द्वा-दश चाङ्गुलानि मुक्त्वेन्द्र-वस्तिं च गदान्य-पार्श्वे ॥ ३१च्द् ॥
विदार्य मत्स्याण्ड-निभानि मध्याज् जालानि कर्षेद् इति सुश्रुतोक्तिः ॥ ३१एf ॥
आ-गुल्फ-कर्णात् सु-मितस्य जन्तोस् तस्याष्ट-भागं खुडकाद् विभज्य ।
घ्राणार्जवे ऽधः सुर-राज-वस्तेर् भित्त्वाक्ष-मात्रं त्व् अपरे वदन्ति ॥ ३२ ॥

३०.३२cv घोणार्जवे ऽधः सुर-राज-वस्तेर् ३०.३२dv भित्त्वाक्ष-मात्राम् अपरे वदन्ति उपनाह्यानिलान् नाडीं पाटितां साधु लेपयेत् ।
प्रत्यक्पुष्पी-फल-युतैस् तैलैः पिष्टैः स-सैन्धवैः ॥ ३३ ॥

पैत्तीं तु तिल-मञ्जिष्ठा-नागदन्ती-निशा-द्वयैः ।
श्लैष्मिकीं तिल-सौराष्ट्री-निकुम्भारिष्ट-सैन्धवैः ॥ ३४ ॥

शल्य-जां तिल-मध्व्-आज्यैर् लेपयेच् छिन्न-शोधिताम् ।
अ-शस्त्र-कृत्याम् एषिण्या भित्त्वान्ते सम्यग्-एषिताम् ॥ ३५ ॥

क्षार-पीतेन सूत्रेण बहु-शो दारयेद् गतिम् ।
व्रणेषु दुष्ट-सूक्ष्मास्य-गम्भीरादिषु साधनम् ॥ ३६ ॥

३०.३६bv बहु-शो पूरयेद् गतिम् या वर्त्यो यानि तैलानि तन् नाडीष्व् अपि शस्यते ।
पिष्टं चञ्चु-फलं लेपान् नाडी-व्रण-हरं परम् ॥ ३७ ॥

घोण्टा-फल-त्वक् लवणं स-लाक्षं बूकस्य पत्त्रं वनिता-पयश् च ।
स्नुग्-अर्क-दुग्धान्वित एष कल्को वर्ती-कृतो हन्त्य् अ-चिरेण नाडीम् ॥ ३८ ॥

३०.३८bv चुक्रस्य पत्त्रं वनिता-पयश् च ३०.३८bv वृषस्य पत्त्रं वनिता-पयश् च सामुद्र-सौवर्चल-सिन्धु-जन्म-सु-पक्व-घोण्टा-फल-वेश्म-धूमाः ।
आम्रात-गायत्रि-ज-पल्लवाश् च कटङ्कटेर्याव् अथ चेतकी च ॥ ३९ ॥

३०.३९dv कटङ्कटेर्याव् अथ केतकी च ३०.३९dv कटङ्कटेर्याव् अथ दीनिका च कल्के ऽभ्यङ्गे चूर्णे वर्त्यां चैतेषु शील्यमानेषु ।
अ-गतिर् इव नश्यति गतिश् चपला चपलेषु भूतिर् इव ॥ ४० ॥

३०.४०bv वर्त्यां चैतेषु सेव्यमानेषु

अध्याय 31[सम्पाद्यताम्]

स्निग्धा स-वर्णा ग्रथिता नी-रुजा मुद्ग-संनिभा ।
पिटिका कफ-वाताभ्यां बालानाम् अजगल्लिका ॥ १ ॥

३१.१av स्निग्धाः स-वर्णा ग्रथिता ३१.१cv पिटिकाः कफ-वाताभ्यां ३१.१dv नी-रुजा मुद्ग-संमिता ३१.१dv नी-रुजा मुद्ग-संनिभाः यव-प्रख्या यव-प्रख्या ताभ्यां मांसाश्रिता घना ।
अ-वक्त्रा चालजी वृत्ता स्तोक-पूया घनोन्नता ॥ २ ॥

३१.२av यव-प्रख्या यवाकारा ३१.२cv अ-वक्त्राश् चालजी-वृत्ताः ३१.२dv स्तोक-पूया घनोन्नताः ग्रन्थयः पञ्च वा षड् वा कच्छपी कच्छपोन्नताः ।
कर्णस्योर्ध्वं समन्ताद् वा पिटिका कठिनोग्र-रुक् ॥ ३ ॥

३१.३bv कच्छपी कच्छपोन्नता शालूकाभा पनसिका शोफस् त्व् अल्प-रुजः स्थिरः ।
हनु-संधि-समुद्भूतस् ताभ्यां पाषाण-गर्दभः ॥ ४ ॥

शाल्मली-कण्टकाकाराः पिटिकाः स-रुजो घनाः ।
मेदो-गर्भा मुखे यूनां ताभ्यां च मुख-दूषिकाः ॥ ५ ॥

३१.५dv ताभ्यां च मुख-दूषकाः ते पद्म-कण्टका ज्ञेया यैः पद्मम् इव कण्टकैः ।
चीयते नी-रुजैः श्वेतैः शरीरं कफ-वात-जैः ॥ ६ ॥

पित्तेन पिटिका वृत्ता पक्वोदुम्बर-संनिभा ।
महा-दाह-ज्वर-करी विवृता विवृतानना ॥ ७ ॥

गात्रेष्व् अन्तश् च वक्त्रस्य दाह-ज्वर-रुजान्विताः ।
मसूर-मात्रास् तद्-वर्णास् तत्-संज्ञाः पिटिका घनाः ॥ ८ ॥

ततः कष्ट-तराः स्फोटा विस्फोटाख्या महा-रुजाः ।
या पद्म-कर्णिकाकारा पिटिका पिटिकाचिता ॥ ९ ॥

सा विद्धा वात-पित्ताभ्यां ताभ्याम् एव च गर्दभी ।
मण्डला विपुलोत्सन्ना स-राग-पिटिकाचिता ॥ १० ॥

कक्षेति कक्षासन्नेषु प्रायो देशेषु सानिलात् ।
पित्ताद् भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः ॥ ११ ॥

३१.११dv सूक्ष्मा जालोपमा घनाः तादृशी महती त्व् एका गन्ध-नामेति कीर्तिता ।
घर्म-स्वेद-परीते ऽङ्गे पिटिकाः स-रुजो घनाः ॥ १२ ॥

राजीका-वर्ण-संस्थान-प्रमाणा राजिकाह्वयाः ।
दोषैः पित्तोल्बणैर् मन्दैर् विसर्पति विसर्प-वत् ॥ १३ ॥

शोफो ऽ-पाकस् तनुस् ताम्रो ज्वर-कृज् जाल-गर्दभः ।
मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांस-दारणाः ॥ १४ ॥

३१.१४dv ज्वरिणो मांस-दारुणाः ३१.१४dv ज्वरिणो मांस-दारिणः कक्षा-भागेषु जायन्ते ये ऽग्न्य्-आभाः साग्नि-रोहिणी ।
पञ्चाहात् सप्त-रात्राद् वा पक्षाद् वा हन्ति जीवितम् ॥ १५ ॥

त्रि-लिङ्गा पिटिका वृत्ता जत्रूर्ध्वम् इरिवेल्लिका ।
विदारी-कन्द-कठिना विदारी कक्ष-वङ्क्षणे ॥ १६ ॥

मेदो-ऽनिल-कफैर् ग्रन्थिः स्नायु-मांस-सिराश्रयैः ।
भिन्नो वसाज्य-मध्व्-आभं स्रवेत् तत्रोल्बणो ऽनिलः ॥ १७ ॥

मांसं विशोष्य ग्रथितां शर्करां उपपादयेत् ।
दुर्-गन्धं रुधिरं क्लिन्नं नाना-वर्णं ततो मलाः ॥ १८ ॥

३१.१८cv दुर्-गन्धि रुधिरं क्लिन्नं तां स्रावयन्ति निचितां विद्यात् तच् छर्करार्बुदम् ।
पाणि-पाद-तले संधौ जत्रूर्ध्वं वोपचीयते ॥ १९ ॥

३१.१९av तां स्रावयन्ति निचिता ३१.१९dv जत्रूर्ध्वं चोपचीयते वल्मीक-वच् छनैर् ग्रन्थिस् तद्-वद् बह्व्-अणुभिर् मुखैः ।
रुग्-दाह-कण्डू-क्लेदाढ्यैर् वल्मीको ऽसौ समस्त-जः ॥ २० ॥

३१.२०cv रुग्-दाह-कण्डू-क्लेदाढ्यो शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः ।
ग्रन्थिः कील-वद् उत्सन्नो जायते कदरं तु तत् ॥ २१ ॥

वेग-संधारणाद् वायुर् अपानो ऽपान-संश्रयम् ।
अणू-करोति बाह्यान्तर्-मार्गम् अस्य ततः शकृत् ॥ २२ ॥

३१.२२bv अपानो ऽपान-संश्रयः कृच्छ्रान् निर्गच्छति व्याधिर् अयं रुद्ध-गुदो मतः ।
कुर्यात् पित्तानिलं पाकं नख-मांसे स-रुग्-ज्वरम् ॥ २३ ॥

चिप्यम् अ-क्षत-रोगं च विद्याद् उप-नखं च तम् ।
कृष्णो ऽभिघाताद् रूक्षश् च खरश् च कु-नखो नखः ॥ २४ ॥

३१.२४bv विद्याद् उप-नखं च तत् दुष्ट-कर्दम-संस्पर्शात् कण्डू-क्लेदान्वितान्तराः ।
अङ्गुल्यो ऽलसम् इत्य् आहुस् तिलाभांस् तिल-कालकान् ॥ २५ ॥

कृष्णान् अ-वेदनांस् त्वक्-स्थान् माषांस् तान् एव चोन्नतान् ।
मषेभ्यस् तून्नत-तरांश् चर्म-कीलान् सितासितान् ॥ २६ ॥

तथा-विधो जतु-मणिः सह-जो लोहितस् तु सः ।
कृष्णं सितं वा सह-जं मण्डलं लाञ्छनं समम् ॥ २७ ॥

३१.२७bv स-रुजो लोहितस् तु सः शोक-क्रोधादि-कुपिताद् वात-पित्तान् मुखे तनु ।
श्यामलं मण्डलं व्यङ्गं वक्त्राद् अन्य-त्र नीलिका ॥ २८ ॥

परुषं परुष-स्पर्शं व्यङ्गं श्यावं च मारुतात् ।
पित्तात् ताम्रान्तम् आ-नीलं श्वेतान्तं कण्डु-मत् कफात् ॥ २९ ॥

३१.२९cv पित्तात् ताम्रं तथा नीलं ३१.२९dv श्वेताभं कण्डु-मत् कफात् रक्ताद् रक्तान्तम् आ-ताम्रं सौषं चिमिचिमायते ।
वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति ॥ ३० ॥

३१.३०bv मुखं चिमिचिमायते ततस् त्वग् जायते पाण्दुः क्रमेण च वि-चेतना ।
अल्प-कण्डूर् अ-विक्लेदा सा प्रसुप्तिः प्रसुप्तितः ॥ ३१ ॥

३१.३१cv अल्प-कण्डूर् अप-क्लेदा अ-सम्यग्-वमनोदीर्ण-पित्त-श्लेष्मान्न-निग्रहैः ।
मण्डलान्य् अति-कण्डूनि राग-वन्ति बहूनि च ॥ ३२ ॥

उत्कोठः सो ऽनुबद्धस् तु कोठ इत्य् अभिधीयते ।
प्रोक्ताः षट्-त्रिंशद् इत्य् एते क्षुद्र-रोगा विभाग-शः ॥ ३३ ॥

३१.३३av उत्कोठः सो ऽनुबन्धस् तु यान् अ-विज्ञाय मुह्येत चिकित्सायां चिकित्सकः ॥ ३३+(१)अब् ॥

अध्याय 32[सम्पाद्यताम्]

विस्रावयेज् जलौकोभिर् अ-पक्वाम् अजगल्लिकाम् ।
स्वेदयित्वा यव-प्रख्यां विलयाय प्रलेपयेत् ॥ १ ॥

दारु-कुष्ठ-मनोह्वालैर् इत्य् आ-पाषाण-गर्दभात् ।
विधिस् तांश् चाचरेत् पक्वान् व्रण-वत् साजगल्लिकान् ॥ २ ॥

लोध्र-कुस्तुम्बुरु-वचाः प्रलेपो मुख-दूषिके ।
वट-पल्लव-युक्ता वा नारिकेलोत्थ-शुक्तयः ॥ ३ ॥

३२.३av लोध्र-कुस्तुम्बुरु-वचा- ३२.३bv -प्रलेपो मुख-दूषिके अ-शान्तौ वमनं नस्यं ललाटे च सिरा-व्यधः ।
निम्बाम्बु-वान्तो निम्बाम्बु-साधितं पद्म-कण्टके ॥ ४ ॥

पिबेत् क्षौद्रान्वितं सर्पिर् निम्बारग्वध-लेपनम् ॥ ५अब् ॥
३२.५bv निम्बारग्वध-लेपनः विवृतादींस् तु जालान्तांश् चिकित्सेत् सेरिवेल्लिकान् ॥ ५च्द् ॥
३२.५dv चिकित्सेद् इरिवेल्लिकाम् पित्त-विसर्प-वत् तद्-वत् प्रत्याख्यायाग्नि-रोहिणीम् ॥ ५एf ॥
विलङ्घनं रक्त-विमोक्षणं च विरूक्षणं काय-विशोधनं च ।
धात्री-प्रयोगाञ् छिशिर-प्रदेहान् कुर्यात् सदा जालक-गर्दभस्य ॥ ६ ॥

३२.६bv विरूक्षणं काय-विरेचनं च ३२.६cv धात्री-प्रदेहाञ् छिशिर-प्रयोगान् विदारिकां हृते रक्ते श्लेष्म-ग्रन्थि-वद् आचरेत् ।
मेदो-ऽर्बुद-क्रियां कुर्यात् सु-तरां शर्करार्बुदे ॥ ७ ॥

प्रवृद्धं सु-बहु-च्छिद्रं स-शोफं मर्मणि स्थितम् ।
वल्मीकं हस्त-पादे च वर्जयेद् इतरत् पुनः ॥ ८ ॥

३२.८dv वर्जयेद् इतरं पुनः शुद्धस्यास्रे हृते लिम्पेत् स-पट्व्-आरेवतामृतैः ।
श्यामा-कुलत्थिका-मूल-दन्ती-पलल-सक्तुभिः ॥ ९ ॥

३२.९bv स-पट्व्-आरग्वधामृतैः पक्वे तु दुष्ट-मांसानि गतीः सर्वाश् च शोधयेत् ।
शस्त्रेण सम्यग् अनु च क्षारेण ज्वलनेन वा ॥ १० ॥

शस्त्रेणोत्कृत्य निः-शेषं स्नेहेन कदरं दहेत् ।
निरुद्ध-मणि-वत् कार्यं रुद्ध-पायोश् चिकित्सितम् ॥ ११ ॥

३२.११av शस्त्रेणोद्धृत्य निः-शेषं चिप्यं शुद्ध्या जितोष्माणं साधयेच् छस्त्र-कर्मणा ।
दुष्टं कु-नखम् अप्य् एवं चरणाव् अलसे पुनः ॥ १२ ॥

धान्याम्ल-सिक्तौ कासीस-पटोली-रोचना-तिलैः ।
स-निम्ब-पत्त्रैर् आलिम्पेद् दहेत् तु तिल-कालकान् ॥ १३ ॥

मषांश् च सूर्य-कान्तेन क्षारेण यदि वाग्निना ।
तद्-वद् उत्कृत्य शस्त्रेण चर्म-कील-जतू-मणी ॥ १४ ॥

लाञ्छनादि-त्रये कुर्याद् यथासन्नं सिरा-व्यधम् ।
लेपयेत् क्षीर-पिष्टैश् च क्षीरि-वृक्ष-त्वग्-अङ्कुरैः ॥ १५ ॥

३२.१५av न्यच्छादि-त्रितये कुर्याद् व्यङ्गेषु चार्जुन-त्वग् वा मञ्जिष्ठा वा स-माक्षिका ।
लेपः स-नव-नीता वा श्वेताश्व-खुर-जा मषी ॥ १६ ॥

३२.१६av व्यङ्गेषु वार्जुन-त्वग् वा रक्त-चन्दन-मञ्जिष्ठा-कुष्ठ-लोध्र-प्रियङ्गवः ।
वटाङ्कुरा मसूराश् च व्यङ्ग-घ्ना मुख-कान्ति-दाः ॥ १७ ॥

द्वे जीरके कृष्ण-तिलाः सर्षपाः पयसा सह ।
पिष्टाः कुर्वन्ति वक्त्रेन्दुम् अपास्त-व्यङ्ग-लाञ्छनम् ॥ १८ ॥

क्षीर-पिष्टा घृत-क्षौद्र-युक्ता वा भृष्ट-निस्-तुषाः ।
मसूराः क्षीर-पिष्टा वा तीक्ष्णाः शाल्मलि-कण्टकाः ॥ १९ ॥

स-गुडः कोल-मज्जा वा शशासृक्-क्षौद्र-कल्कितः ।
सप्ताहं मातुलुङ्ग-स्थं कुष्ठं वा मधुनान्वितम् ॥ २० ॥

३२.२०dv कुष्ठं वा मधुकान्वितम् पिष्टा वा छाग-पयसा स-क्षौद्रा मौसली जटा ।
गोर् अस्थि मुसली-मूल-युक्तं वा साज्य-माक्षिकम् ॥ २१ ॥

जम्ब्व्-आम्र-पल्लवा मस्तु हरिद्रे द्वे नवो गुडः ।
लेपः स-वर्ण-कृत् पिष्टं स्व-रसेन च तिन्दुकम् ॥ २२ ॥

उत्पलम् उत्पल-कुष्ठं प्रियङ्गु-कालीयकं बदर-मज्जा ।
इदम् उद्वर्तनम् आस्यं करोति शतपत्त्र-संकाशम् ॥ २३ ॥

३२.२३av उत्पल-पत्त्रं तगरं ३२.२३dv करोति शतपत्त्रकाकारम् एभिर् एवौषधैः पिष्टैर् मुखाभ्यङ्गाय साधयेत् ।
यथा-दोषर्तुकान् स्नेहान् मधुक-क्वाथ-संयुतैः ॥ २४ ॥

यवान् सर्ज-रसं लोध्रम् उशीरं मदनं मधु ।
घृतं गुडं च गो-मूत्रे पचेद् आ-दर्वि-लेपनात् ॥ २५ ॥

३२.२५bv उशीरं चन्दनं मधु तद् अभ्यङ्गान् निहन्त्य् आशु नीलिका-व्यङ्ग-दूषिकान् ।
मुखं करोति पद्माभं पादौ पद्म-दलोपमौ ॥ २६ ॥

३२.२६bv नीलिका-व्यङ्ग-दूषकान् कुङ्कुमोशीर-कालीय-लाक्षा-यष्ट्य्-आह्व-चन्दनम् ।
न्यग्रोध-पादांस् तरुणान् पद्मकं पद्म-केसरम् ॥ २७ ॥

स-नीलोत्पल-मञ्जिष्ठं पालिकं सलिलाढके ।
पक्त्वा पादावशेषेण तेन पिष्टैश् च कार्षिकैः ॥ २८ ॥

लाक्षा-पत्तङ्ग-मञ्जिष्ठा-यष्टीमधुक-कुङ्कुमैः ।
अजा-क्षीरं द्वि-गुणितं तैलस्य कुडवं पचेत् ॥ २९ ॥

३२.२९cv अजा-क्षीर-द्वि-गुणितं नीलिका-पलित-व्यङ्ग-वली-तिलक-दूषिकान् ।
हन्ति तन् नस्यम् अभ्यस्तं मुखोपचय-वर्ण-कृत् ॥ ३० ॥

मञ्जिष्ठा शबरोद्भवस् तुबरिका लाक्षा हरिद्रा-द्वयं ॥ ३१अ ॥
नेपाली हरिताल-कुङ्कुम-गदा गो-रोचना गैरिकम् ॥ ३१ब् ॥
३२.३१bv नेपाली हरिताल-कुङ्कुम-गदं गो-रोचना गैरिकम् पत्त्रं पाण्डु वटस्य चन्दन-युगं कालीयकं पारदं ॥ ३१च् ॥
पत्तङ्गं कनक-त्वचं कमल-जं बीजं तथा केसरम् ॥ ३१द् ॥
सिक्थं तुत्थं पद्मकाद्यो वसाज्यं मज्जा क्षीरं क्षीरि-वृक्षाम्बु चाग्नौ ।
सिद्धं सिद्धं व्यङ्ग-नील्य्-आदि-नाशे वक्त्रे छायाम् ऐन्दवीं चाशु धत्ते ॥ ३२ ॥

मार्कव-स्व-रस-क्षीर-तोयानीष्टानि नावने ।
प्रसुप्तौ वात-कुष्ठोक्तं कुर्याद् दाहं च वह्निना ॥ ३३ ॥

३२.३३bv -तोय-पिष्टानि नावने उत्कोठे कफ-पित्तोक्तं कोठे सर्वं च कौष्ठिकम् ॥ ३३ऊ̆अब् ॥

अध्याय 33[सम्पाद्यताम्]

स्त्री-व्यवाय-निवृत्तस्य सहसा भजतो ऽथ-वा ।
दोषाध्युषित-संकीर्ण-मलिनाणु-रजः-पथाम् ॥ १ ॥

३३.१av स्त्रीं व्यवाय-निवृत्तस्य अन्य-योनिम् अन्-इच्छन्तीम् अ-गम्यां नव-सूतिकाम् ।
दूषितं स्पृशतस् तोयं रतान्तेष्व् अपि नैव वा ॥ २ ॥

विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः ।
मुष्टि-दन्त-नखोत्पीडा-विष-वच्-छूक-पातनैः ॥ ३ ॥

३३.३dv -विष-वल्-लूक-पातनैः वेग-निग्रह-दीर्घाति-खर-स्पर्श-विघट्टनैः ।
दोषा दुष्टा गता गुह्यं त्रयो-विंशतिम् आमयान् ॥ ४ ॥

३३.४bv -खर-स्पर्शादि-घट्टनैः ३३.४bv -खर-शष्पादि-घट्टनैः जनयन्त्य् उपदंशादीन् उपदंशो ऽत्र पञ्च-धा ।
पृथग् दोषैः स-रुधिरैः समस्तैश् चात्र मारुतात् ॥ ५ ॥

३३.५av जनयन्त्य् अवदंशादीन् ३३.५bv अवदंशो ऽत्र पञ्च-धा मेढ्रे शोफो रुजश् चित्राः स्तम्भस् त्वक्-परिपोटनम् ।
पक्वोदुम्बर-संकाशः पित्तेन श्वयथुर् ज्वरः ॥ ६ ॥

३३.६av मेढ्र-शोफो रुजश् चित्राः श्लेष्मणा कठिनः स्निग्धः कण्डू-माञ् छीतलो गुरुः ।
शोणितेनासित-स्फोट-संभवो ऽस्र-स्रुतिर् ज्वरः ॥ ७ ॥

सर्व-जे सर्व-लिङ्ग-त्वं श्वयथुर् मुष्कयोर् अपि ।
तीव्रा रुग् आशु-पचनं दरणं कृमि-संभवः ॥ ८ ॥

३३.८dv दारणं कृमि-संभवः याप्यो रक्तोद्भवस् तेषां मृत्यवे संनिपात-जः ।
जायन्ते कुपितैर् दोषैर् गुह्यासृक्-पिशिताश्रयैः ॥ ९ ॥

अन्तर् बहिर् वा मेढ्रस्य कण्डूला मांस-कीलकाः ।
पिच्छिलास्र-स्रवा योनौ तद्-वच् च च्छत्त्र-संनिभाः ॥ १० ॥

ते ऽर्शांस्य् उपेक्षया घ्नन्ति मेढ्र-पुंस्-त्वं भगार्तवं ।
गुह्यस्य बहिर् अन्तर् वा पिटिकाः कफ-रक्त-जाः ॥ ११ ॥

३३.११bv मेढ्र-पुंस्-त्व-भगार्तवं ३३.११bv मेढ्रं पुंसो भगार्तवं सर्षपा-मान-संस्थाना घनाः सर्षपिकाः स्मृताः ।
पिटिका बहवो दीर्घा दीर्यन्ते मध्यतश् च याः ॥ १२ ॥

सो ऽवमन्थः कफासृग्भ्यां वेदना-रोम-हर्ष-वान् ।
कुम्भीका रक्त-पित्तोत्था जाम्बवास्थि-निभाशु-जा ॥ १३ ॥

३३.१३dv जाम्बवास्थि-निभा-शुभा अलजीं मेह-वद् विद्याद् उत्तमां पित्त-रक्त-जाम् ।
पिटिकां माष-मुद्गाभां पिटिका पिटिकाचिता ॥ १४ ॥

३३.१४bv उत्तमां रक्त-पित्त-जाम् कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा ।
पाणिभ्यां भृश-संव्यूढे संव्यूढ-पिटिका भवेत् ॥ १५ ॥

मृदितं मृदितं वस्त्र-संरब्धं वात-कोपतः ।
विषमा कठिना भुग्ना वायुनाष्ठीलिका स्मृता ॥ १६ ॥

३३.१६av मृदितं मृदितं यत् तु ३३.१६av मृदितं मृदितं वस्तु ३३.१६bv संरब्धं वात-कोपतः विमर्दनादि-दुष्टेन वायुना चर्म मेढ्र-जम् ।
निवर्तते स-रुग्-दाहं क्व-चित् पाकं च गच्छति ॥ १७ ॥

३३.१७dv क्व-चित् पाकं न गच्छति पिण्डितं ग्रन्थितं चर्म तत् प्रलम्बम् अधो मणेः ।
निवृत्त-संज्ञं स-कफं कण्डू-काठिन्य-वत् तु तत् ॥ १८ ॥

३३.१८av पिण्डितं ग्रन्थितं तच् च ३३.१८bv विप्रलम्बम् अधो मणेः ३३.१८bv प्रविलम्बम् अधो मणेः दुर्-ऊढं स्फुटितं चर्म निर्दिष्टम् अवपाटिका ।
वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत् ॥ १९ ॥

३३.१९av दुः-सहं स्फुटितं चर्म ३३.१९bv मणौ सक्तं रुणद्धि तत् स्रोतो मूत्रं ततो ऽभ्येति मन्द-धारम् अ-वेदनम् ।
मणेर् विकाश-रोधश् च स निरुद्ध-मणिर् गदः ॥ २० ॥

लिङ्गं शूकैर् इवापूर्णं ग्रथिताख्यं कफोद्भवम् ।
शूक-दूषित-रक्तोत्था स्पर्श-हानिस् तद्-आह्वया ॥ २१ ॥

छिद्रैर् अणु-मुखैर् यत् तु मेहनं सर्वतश् चितम् ।
वात-शोणित-कोपेन तं विद्याच् छत-पोनकम् ॥ २२ ॥

पित्तासृग्भ्यां त्वचः पाकस् त्वक्-पाको ज्वर-दाह-वान् ।
मांस्-पाकः सर्व-जः सर्व-वेदनो मांस-शातनः ॥ २३ ॥

स-रागैर् असितैः स्फोटैः पिटिकाभिश् च पीडितम् ।
मेहनं वेदना चोग्रा तं विद्याद् असृग्-अर्बुदम् ॥ २४ ॥

मांसार्बुदं प्राग् उदितं विद्रधिश् च त्रि-दोष-जः ।
कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः ॥ २५ ॥

पक्वानि संनिपातेन तान् विद्यात् तिल-कालकान् ।
मांसोत्थम् अर्बुदं पाकं विद्रधिं तिल-कालकान् ॥ २६ ॥

चतुरो वर्जयेद् एषां शेषाञ् छीघ्रम् उपाचरेत् ।
विंशतिर् व्यापदो योनेर् जायन्ते दुष्ट-भोजनात् ॥ २७ ॥

विषम-स्थाङ्ग-शयन-भृश-मैथुन-सेवनैः ।
दुष्टार्तवाद् अपद्रवैर् बीज-दोषेण दैवतः ॥ २८ ॥

३३.२८cv दुष्टार्तवाद् उपद्रवैर् योनौ क्रुद्धो ऽनिलः कुर्याद् रुक्-तोदायाम-सुप्त-ताः ।
पिपीलिका-सृप्तिम् इव स्तम्भं कर्कश-तां स्वनम् ॥ २९ ॥

३३.२९cv पिपीलिका-गतिम् इव फेनिलारुण-कृष्णाल्प-तनु-रूक्षार्तव-स्रुतिम् ।
स्रंसं वङ्क्षण-पार्श्वादौ व्यथां गुल्मं क्रमेण च ॥ ३० ॥

३३.३०cv ऊरु-वङ्क्षण-पार्श्वादौ ३३.३०cv भृशं वङ्क्षण-पार्श्वादौ तांस् तांश् च स्वान् गदान् व्यापद् वातिकी नाम सा स्मृता ।
सैवाति-चरणा शोफ-संयुक्ताति-व्यवायतः ॥ ३१ ॥

३३.३१av तांस् तांश् च स्व-गदान् व्यापद् ३३.३१av तांस् तान् स्वांस् स्वान् गदान् व्यापद् मैथुनाद् अति-बालायाः पृष्ठ-जङ्घोरु-वङ्क्षणम् ।
रुजन् संदूषयेद् योनिं वायुः प्राक्-चरणेति सा ॥ ३२ ॥

वेगोदावर्तनाद् योनिं प्रपीडयति मारुतः ।
सा फेनिलं रजः कृच्छ्राद् उदावृत्तं विमुञ्चति ॥ ३३ ॥

३३.३३av वेगेनावर्तनाद् योनिं ३३.३३dv उदावर्तं विमुञ्चति ३३.३३dv उदावर्त्य विमुञ्चति इयं व्यापद् उदावृत्ता जात-घ्नी तु यदानिलः ।
जातं जातं सुतं हन्ति रौक्ष्याद् दुष्टार्तवोद्भवम् ॥ ३४ ॥

३३.३४av इयं व्यापद् उदावर्ता अत्य्-आशिताया विषमं स्थितायाः सु-रते मरुत् ।
अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत् ॥ ३५ ॥

सास्थि-मांसं मुखं तीव्र-रुजम् अन्तर्-मुखीति सा ।
वातलाहार-सेविन्यां जनन्यां कुपितो ऽनिलः ॥ ३६ ॥

३३.३६bv -रुजं वक्र-मुखीति सा स्त्रियो योनिम् अणु-द्वारां कुर्यात् सूची-मुखीति सा ।
वेग-रोधाद् ऋतौ वायुर् दुष्टो विण्-मूत्र-संग्रहम् ॥ ३७ ॥

करोति योनेः शोषं च शुष्काख्या साति-वेदना ।
षड्-अहात् सप्त-रात्राद् वा शुक्रं गर्भाशयान् मरुत् ॥ ३८ ॥

वमेत् स-रुङ् नी-रुजो वा यस्याः सा वामिनी मता ।
योनौ वातोपतप्तायां स्त्री-गर्भे बीज-दोषतः ॥ ३९ ॥

३३.३९av वमेत् स-रुङ् नी-रुजो वा ह्य् ३३.३९bv यस्यां सा वामिनी मता ३३.३९bv अस्यां सा वामिनी मता नृ-द्वेषिण्य् अ-स्तनी च स्यात् षण्ढ-संज्ञान्-उपक्रमा ।
दुष्टो विष्टभ्य योन्य्-आस्यं गर्भ-कोष्ठं च मारुतः ॥ ४० ॥

कुरुते विवृतां स्रस्तां वातिकीम् इव दुःखिताम् ।
उत्सन्न-मांसां ताम् आहुर् महा-योनिं महा-रुजाम् ॥ ४१ ॥

यथा-स्वैर् दूषणैर् दुष्टं पित्तं योनिम् उपाश्रितम् ।
करोति दाह-पाकोषा-पूति-गन्धि-ज्वरान्विताम् ॥ ४२ ॥

३३.४२dv -पूति-गन्ध-ज्वरान्विताम् ३३.४२dv -पूति-गन्धां ज्वरान्विताम् भृशोष्ण-भूरि-कुणप-नील-पीतासितार्तवाम् ।
सा व्यापत् पैत्तिकी रक्त-योन्य्-आख्यासृग्-अति-स्रुतेः ॥ ४३ ॥

कफो ऽभिष्यन्दिभिः क्रुद्धः कुर्याद् योनिम् अ-वेदनाम् ।
शीतलां कण्डुलां पाण्डु-पिच्छिलां तद्-विध-स्रुतिम् ॥ ४४ ॥

सा व्यापच् छ्लैष्मिकी वात-पित्ताभ्यां क्षीयते रजः ।
स-दाह-कार्श्य-वैवर्ण्यं यस्याः सा लोहित-क्षया ॥ ४५ ॥

३३.४५dv यस्यां सा लोहित-क्षया पित्तलाया नृ-संवासे क्षवथूद्गार-धारणात् ।
पित्त-युक्तेन मरुता योनिर् भवति दूषिता ॥ ४६ ॥

शूना स्पर्शा-सहा सार्तिर् नील-पीतास्र-वाहिनी ।
वस्ति-कुक्षि-गुरु-त्वातीसारा-रोचक-कारिणी ॥ ४७ ॥

श्रोणि-वङ्क्षण-रुक्-तोद-ज्वर-कृत् सा परिप्लुता ।
वात-श्लेष्मामय-व्याप्ता श्वेत-पिच्छिल-वाहिनी ॥ ४८ ॥

उपप्लुता स्मृता योनिर् विप्लुताख्या त्व् अ-धावनात् ।
संजात-जन्तुः कण्डूला कण्ड्वा चाति-रति-प्रिया ॥ ४९ ॥

अ-काल-वाहनाद् वायुः श्लेष्म-रक्त-विमूर्छितः ।
कर्णिकां जनयेद् योनौ रजो-मार्ग-निरोधिनीम् ॥ ५० ॥

सा कर्णिनी त्रिभिर् दोषैर् योनि-गर्भाशयाश्रितैः ।
यथा-स्वोपद्रव-करैर् व्यापत् सा सांनिपातिकी ॥ ५१ ॥

इति योनि-गदा नारी यैः शुक्रं न प्रतीच्छति ।
ततो गर्भं न गृह्णाति रोगांश् चाप्नोति दारुणान् ॥ ५२ ॥

असृग्-दरार्शो-गुल्मादीन् आबाधांश् चानिलादिभिः ॥ ५२ऊ̆अब् ॥
३३.५२ऊ̆ब्व् आबाधाश् चानिलादिभिः

अध्याय 34[सम्पाद्यताम्]

मेढ्र-मध्ये सिरां विध्येद् उपदंशे नवोत्थिते ।
शीतां कुर्यात् क्रियां शुद्धिं विरेकेण विशेषतः ॥ १ ॥

३४.१bv अवदंशे नवोत्थिते तिल-कल्क-घृत-क्षौद्रैर् लेपः पक्वे तु पाटिते ।
जम्ब्व्-आम्र-सुमनो-नीप-श्वेत-काम्बोजिकाङ्कुरान् ॥ २ ॥

शल्लकी-बदरी-बिल्व-पलाश-तिनिशोद्भवाः ।
त्वचः क्षीरि-द्रुमाणां च त्रि-फलां च पचेज् जले ॥ ३ ॥

स क्वाथः क्षालनं तेन पक्वं तैलं च रोपणम् ।
तुत्थ-गैरिक-लोध्रैला-मनोह्वाल-रसाञ्जनैः ॥ ४ ॥

३४.४av स क्वाथः क्षालने तेन हरेणु-पुष्प-कासीस-सौराष्ट्री-लवणोत्तमैः ।
लेपः क्षौद्र-द्रुतैः सूक्ष्मैर् उपदंश-व्रणापहः ॥ ५ ॥

३४.५dv अवदंश-व्रणापहः कपाले त्रि-फला दग्धा स-घृता रोपणं परम् ।
सामान्यं साधनम् इदं प्रति-दोषं तु शोफ-वत् ॥ ६ ॥

न च याति यथा पाकं प्रयतेत तथा भृशम् ।
पक्वैः स्नायु-सिरा-मांसैः प्रायो नश्यति हि ध्वजः ॥ ७ ॥

अर्शसां छिन्न-दग्धानां क्रिया कार्योपदंश-वत् ।
सर्षपा लिखिताः सूक्ष्मैः कषायैर् अवचूर्णयेत् ॥ ८ ॥

३४.८bv क्रिया कार्यावदंश-वत् ३४.८cv सर्षपां लिखितां सूक्ष्मैः तैर् एवाभ्यञ्जनं तैलं साधयेद् व्रण-रोपणम् ।
क्रियेयम् अवमन्थे ऽपि रक्तं स्राव्यं तथोभयोः ॥ ९ ॥

कुम्भीकायां हरेद् रक्तं पक्वायां शोधिते व्रणे ।
तिन्दुक-त्रि-फला-लोध्रैर् लेपस् तैलं च रोपणम् ॥ १० ॥

अलज्यां स्रुत-रक्तायाम् अयम् एव क्रिया-क्रमः ।
उत्तमाख्यां तु पिटिकां संछिद्य बडिशोद्धृताम् ॥ ११ ॥

कल्कैश् चूर्णैः कषायाणां क्षौद्र-युक्तैर् उपाचरेत् ।
क्रमः पित्त-विसर्पोक्तः पुष्कर-व्यूढयोर् हितः ॥ १२ ॥

त्वक्-पाके स्पर्श-हान्यां च सेचयेद् मृदितं पुनः ।
बला-तैलेन कोष्णेन मधुरैश् चोपनाहयेत् ॥ १३ ॥

३४.१३av त्वक्-पाके स्पर्श-हान्यौ वा अष्ठीलिकां हृते रक्ते श्लेष्म-ग्रन्थि-वद् आचरेत् ।
निवृत्तं सर्पिषाभ्यज्य स्वेदयित्वोपनाहयेत् ॥ १४ ॥

त्रि-रात्रं पञ्च-रात्रं वा सु-स्निग्धैः शाल्वणादिभिः ।
स्वेदयित्वा ततो भूयः स्निग्धं चर्म समानयेत् ॥ १५ ॥

३४.१५dv स्निग्धं चर्म समाहरेत् मणिं प्रपीड्य शनकैः प्रविष्टे चोपनाहनम् ।
मणौ पुनः पुनः स्निग्धं भोजनं चात्र शस्यते ॥ १६ ॥

अयम् एव प्रयोज्यः स्याद् अवपाट्याम् अपि क्रमः ।
नाडीम् उभयतो-द्वारां निरुद्धे जतुना सृताम् ॥ १७ ॥

३४.१७dv निरुद्धे जतुना शृताम् ३४.१७dv निरुद्धे जतुना कृताम् स्नेहाक्तां स्रोतसि न्यस्य सिञ्चेत् स्नेहैश् चलापहैः ।
त्र्य्-अहात् त्र्य्-अहात् स्थूल-तरां न्यस्य नाडीं विवर्धयेत् ॥ १८ ॥

स्रोतो-द्वारम् अ-सिद्धौ तु विद्वान् शस्त्रेण पाटयेत् ।
सेवनीं वर्जयन् युञ्ज्यात् सद्यः-क्षत-विधिं ततः ॥ १९ ॥

३४.१९av स्रोतो-द्वारम् अ-सिद्धौ वा ग्रन्थितं स्वेदितं नाड्या स्निग्धोष्णैर् उपनाहयेत् ।
लिम्पेत् कषायैः स-क्षौद्रैर् लिखित्वा शत-पोनकम् ॥ २० ॥

रक्त-विद्रधि-वत् कार्या चिकित्सा शोणितार्बुदे ।
व्रणोपचारं सर्वेषु यथावस्थं प्रयोजयेत् ॥ २१ ॥

योनि-व्यापत्सु भूयिष्ठं शस्यते कर्म वात-जित् ।
स्नेहन-स्वेद-वस्त्य्-आदि वात-जासु विशेषतः ॥ २२ ॥

न हि वाताद् ऋते योनिर् वनितानां प्रदुष्यति ।
अतो जित्वा तम् अन्यस्य कुर्याद् दोषस्य भेषजम् ॥ २३ ॥

३४.२३cv अतो ऽ-जित्वा तम् अन्यच् च ३४.२३cv अतो ऽ-जित्वा तम् अन्यस्य ३४.२३dv न कुर्याद् दोष-भेषजम् पाययेत बला-तैलं मिश्रकं सु-कुमारकम् ।
स्निग्ध-स्विन्नां तथा योनिं दुः-स्थितां स्थापयेत् समाम् ॥ २४ ॥

३४.२४av पाययेच् च बला-तैलं ३४.२४av पाययेत् तां बला-तैलं ३४.२४av पाययेद् वा बला-तैलं पाणिना नमयेज् जिह्मां संवृतां व्यधयेत् पुनः ।
प्रवेशयेन् निःसृतां च विवृतां परिवर्तयेत् ॥ २५ ॥

३४.२५av पाणिना नामयेज् जिह्मां ३४.२५av पाणिनोन्नमयेज् जिह्मां ३४.२५bv संवृतां व्यासयेत् पुनः स्थानापवृत्ता योनिर् हि शल्य-भूता स्त्रियो मता ।
कर्मभिर् वमनाद्यैश् च मृदुभिर् योजयेत् स्त्रियम् ॥ २६ ॥

३४.२६av स्थानापवर्ता योनिर् हि सर्वतः सु-विशुद्धायाः शेषं कर्म विधीयते ।
वस्त्य्-अभ्यङ्ग-परीषेक-प्रलेप-पिचु-धारणम् ॥ २७ ॥

३४.२७av सर्वतस् तु विशुद्धायाः काश्मर्य-त्रि-फला-द्राक्षा-कासमर्द-निशा-द्वयैः ।
गुडूची-सैर्यकाभीरु-शुकनासा-पुनर्नवैः ॥ २८ ॥

३४.२८cv गुडूची-गैरिकाभीरु- परूषकैश् च विपचेत् प्रस्थम् अक्ष-समैर् घृतात् ।
योनि-वात-विकार-घ्नं तत् पीतं गर्भ-दं परम् ॥ २९ ॥

३४.२९av परूषकैश् च विपचेद् ३४.२९bv प्रस्थम् अक्ष-समैर् घृतम् ३४.२९bv अक्षैः प्रस्थ-समं घृतम् वचोपकुञ्चिकाजाजी-कृष्णा-वृषक-सैन्धवम् ।
अजमोदा-यव-क्षार-शर्करा-चित्रकान्वितम् ॥ ३० ॥

पिष्ट्वा प्रसन्नयालोड्य खादेत् तद् घृत-भर्जितम् ।
योनि-पार्श्वार्ति-हृद्-रोग-गुल्मार्शो-विनिवृत्तये ॥ ३१ ॥

३४.३१dv -गुल्मार्शो-ऽर्ति-निवृत्तये वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम् ।
पिबेन् मद्यैः स-लवणैस् तथा कृष्णोपकुञ्चिके ॥ ३२ ॥

३४.३२av वृषस्य मातुलुङ्गस्य ३४.३२dv तथा कृष्णोपकुञ्चिका रास्ना-श्वदंष्ट्रा-वृषकैः शृतं शूल-हरं पयः ।
गुडूची-त्रि-फला-दन्ती-क्वाथैश् च परिषेचनम् ॥ ३३ ॥

नत-वार्ताकिनी-कुष्ठ-सैन्धवामरदारुभिः ।
तैलात् प्रसाधिताद् धार्यः पिचुर् योनौ रुजापहः ॥ ३४ ॥

पित्तलानां तु योनीनां सेकाभ्यङ्ग-पिचु-क्रियाः ।
शीताः पित्त-जितः कार्याः स्नेहनार्थं घृतानि च ॥ ३५ ॥

३४.३५av पित्तलानां च योनीनां शतावरी-मूल-तुला-चतुष्कात् क्षुण्ण-पीडितात् ।
रसेन क्षीर-तुल्येन पाचयेत घृताढकम् ॥ ३६ ॥

जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः ।
पिष्टैः प्रियालैश् चाक्षांशैर् द्वि-बला-मधुकान्वितैः ॥ ३७ ॥

३४.३७dv मधुकर्द्धि-बलान्वितैः सिद्ध-शीते तु मधुनः पिप्पल्याश् च पलाष्टकम् ।
शर्कराया दश-पलं क्षिपेल् लिह्यात् पिचुं ततः ॥ ३८ ॥

योन्य्-असृक्-शुक्र-दोष-घ्नं वृष्यं पुं-सवनं परम् ।
क्षतं क्षयम् असृक्-पित्तं कासं श्वासं हलीमकम् ॥ ३९ ॥

३४.३९cv क्षत-क्षयम् असृक्-पित्तं कामलां वात-रुधिरं विसर्पं हृच्-छिरो-ग्रहम् ।
अपस्मारार्दितायाम-मदोन्मादांश् च नाशयेत् ॥ ४० ॥

३४.४०cv अपस्मारार्दितायामान् ३४.४०dv मदोन्मादांश् च नाशयेत् एवम् एव पयः-सर्पिर् जीवनीयोपसाधितम् ।
गर्भ-दं पित्त-जानां च रोगाणां परमं हितम् ॥ ४१ ॥

बला-द्रोण-द्वय-क्वाथे घृत-तैलाढकं पचेत् ।
क्षीरे चतुर्-गुणे कृष्णा-काकनासा-सितान्वितैः ॥ ४२ ॥

जीवन्ती-क्षीर-काकोली-स्थिरा-वीरर्द्धि-जीवकैः ।
पयस्या-श्रावणी-मुद्ग-पीलु-माषाख्य-पर्णिभिः ॥ ४३ ॥

३४.४३bv -स्थिरा-वीरर्द्धि-जीरकैः ३४.४३bv -स्थिरा-वीरा-द्वि-जीवकैः ३४.४३dv -पीलु-माषाखुकर्णिभिः वात-पित्तामयान् हत्वा पानाद् गर्भं दधाति तत् ।
रक्त-योन्याम् असृग्-वर्णैर् अनुबन्धम् अवेक्ष्य च ॥ ४४ ॥

३४.४४bv पानाद् गर्भं ददाति तत् यथा-दोषोदयं युञ्ज्याद् रक्त-स्थापनम् औषधम् ।
पाठां जम्ब्व्-आम्रयोर् अस्थि शिलोद्भेदं रसाञ्जनम् ॥ ४५ ॥

मञ्जिष्ठागुरु-कट्फल-मुस्त-प्रियङ्गु-मिशि-कुष्ठैः ।
कट्वङ्ग-कुटज-शाबर-ककुभ-त्वङ्-मधुक-पद्मक-मधूकैः ॥ ४५.१+१ ॥

३४.४५.१+१av मञ्जिष्ठा-मधु-कट्फल- कुङ्कुम-बिल्वातिविषा-माक्षीक-रसाञ्जनैः स-किञ्जल्कैः ।
पिष्टैर् घृतं विपक्वं द्वि-गुणाज-क्षीर-संयुक्तम् ॥ ४५.१+२ ॥

स्त्रीणाम् अपत्य-जननं योनि-रुजा-दोष-जित् सदा युञ्ज्यात् ।
उत्तर-वस्तिषु सर्पिर् योज्यं कल्याणकं नाम ॥ ४५.१+३ ॥

अम्बष्ठां शाल्मली-पिच्छां समङ्गां वत्सक-त्वचम् ।
बाह्लीक-बिल्वातिविषा-लोध्र-तोयद-गैरिकम् ॥ ४६ ॥

३४.४६bv समङ्गां वत्सक-त्वचाम् शुण्ठी-मधूक-माचीक-रक्त-चन्दन-कट्फलम् ।
कट्वङ्ग-वत्सकानन्ता-धातकी-मधुकार्जुनम् ॥ ४७ ॥

३४.४७av शुण्ठी-मधुक-माचीक- ३४.४७av शुण्ठी-मधुक-माध्वीक- ३४.४७av शुण्ठी-मधुक-मार्द्वीक- ३४.४७av शुण्ठी-मधुक-मार्द्वीका- ३४.४७av शुण्ठी-मधूक-मृद्वीका- ३४.४७dv -धातकी-मधुकाञ्जनम् पुष्ये गृहीत्वा संचूर्ण्य स-क्षौद्रं तण्डुलाम्भसा ।
पिबेद् अर्शःस्व् अतीसारे रक्तं यश् चोपवेश्यते ॥ ४८ ॥

३४.४८bv स-क्षौद्रं तण्डुलाम्बुना दोषा जन्तु-कृता ये च बालानां तांश् च नाशयेत् ।
योनि-दोषं रजो-दोषं श्याव-श्वेतारुणासितम् ॥ ४९ ॥

३४.४९av दोषा दन्त-कृता ये च चूर्णं पुष्यानुगं नाम हितम् आत्रेय-पूजितम् ।
योन्यां बलास-दुष्टायां सर्वं रूक्षोष्णम् औषधम् ॥ ५० ॥

धातक्य्-आमलकी-पत्त्र-स्रोतो-ज-मधुकोत्पलैः ।
जम्ब्व्-आम्र-सार-कासीस-लोध्र-कट्फल-तिन्दुकैः ॥ ५१ ॥

सौराष्ट्रिका-दाडिम-त्वग्-उदुम्बर-शलाटुभिः ।
अक्ष-मात्रैर् अजा-मूत्रे क्षीरे च द्वि-गुणे पचेत् ॥ ५२ ॥

तैल-प्रस्थं तद् अभ्यङ्ग-पिचु-वस्तिषु योजयेत् ।
तेन शूनोन्नता स्तब्धा पिच्छिला स्राविणी तथा ॥ ५३ ॥

३४.५३cv शूनोत्तानोन्नता स्तब्धा विप्लुतोपप्लुता योनिः सिध्येत् स-स्फोट-शूलिनी ।
यवान्नम् अभयारिष्टं सीधु तैलं च शीलयेत् ॥ ५४ ॥

३४.५४bv सिध्येत स्फोट-शूलिनी पिप्पल्य्-अयो-रजः-पथ्या-प्रयोगांश् च स-माक्षिकान् ।
कासीसं त्रि-फला काङ्क्षी साम्र-जम्ब्व्-अस्थि धातकी ॥ ५५ ॥

३४.५५cv कासीसं त्रि-फला काच्छी पैच्छिल्ये क्षौद्र-संयुक्तश् चूर्णो वैशद्य-कारकः ।
पलाश-धातकी-जम्बू-समङ्गा-मोच-सर्ज-जः ॥ ५६ ॥

दुर्-गन्धे पिच्छिले क्लेदे स्तम्भनश् चूर्ण इष्यते ।
आरग्वधादि-वर्गस्य कषायः परिषेचनम् ॥ ५७ ॥

३४.५७dv कषायः परिषेचने स्तब्धानां कर्कशानां च कार्यं मार्दव-कारकम् ।
धारणं वेसवारस्य कृशरा-पायसस्य च ॥ ५८ ॥

दुर्-गन्धानां कषायः स्यात् तैलं वा कल्क एव वा ।
चूर्णो वा सर्व-गन्धानां पूति-गन्धापकर्षणः ॥ ५९ ॥

३४.५९dv पूति-गन्ध्य्-अपकर्षणः श्लेष्मलानां कटु-प्रायाः स-मूत्रा वस्तयो हिताः ।
पित्ते स-मधुक-क्षीरा वाते तैलाम्ल-संयुताः ॥ ६० ॥

संनिपात-समुत्थायाः कर्म साधारणं हितम् ।
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः ॥ ६१ ॥

३४.६१av संनिपात-समुत्थायां ३४.६१dv गर्भो भवति योषिताम् चन्दनो नतयोशीर-तिक्ता-पद्मेभ-केसरैः ।
कुटज-त्वक्-फलं मुस्तं जम्ब्व्-आम्रास्थि रसाञ्जनम् ॥ ६१.१+१ ॥

३४.६१.१+१bv -तिक्ता-पद्मेभ-केसरम् पद्मकोत्पल-बिल्वाब्द-कट्फलैः साधिता निशा ।
धातक्य्-अतिविषा-मांसी-पाठा-मोच-रसोदकम् ॥ ६१.१+२ ॥

मधूकं मधुकानन्ता-शारिवा-दाडिम-[त्व]चम् ।
मृल्-लोध्रार्जुन-शैलेय-समङ्गा नागराः समाः ॥ ६१.१+३ ॥

चूर्णं श्रेष्ठाम्बुना पीतं हन्ति लोहित-मेहिनम् ।
मूर्छा-तृष्णा-ज्वरार्ताय रक्तातीसार-मेहिनाम् ॥ ६१.१+४ ॥

स्त्रीणाम् असृग्-दरं याति गर्भ-संस्थापनं परम् ॥ ६१.१+५अब् ॥
अ-दुष्टे प्राकृते बीजे जीवोपक्रमणे सति ।
पञ्च-कर्म-विशुद्धस्य पुरुषस्यापि चेन्द्रियम् ॥ ६२ ॥

परीक्ष्य वर्णैर् दोषाणां दुष्टं तद्-घ्नैर् उपाचरेत् ।
मञ्जिष्ठा-कुष्ठ-तगर-त्रि-फला-शर्करा-वचाः ॥ ६३ ॥

रसं शिरीष-पत्त्राणां कल्कं च षड्-अहः पिबेत् ।
क्षीरोपनाशिना योषिद् ऋतु-स्नाता सुतार्थिनी ॥ ६३.१+१ ॥

द्वे निशे मधुकं मेदां दीप्यकं कटु-रोहिणीम् ।
पयस्या-हिङ्गु-काकोली-वाजिगन्धा-शतावरीः ॥ ६४ ॥

३४.६४av द्वे निशे मधुकं मेदा ३४.६४bv दीप्यकः कटु-रोहिणी ३४.६४cv पयस्या हिङ्गु काकोली ३४.६४dv वाजिगन्धा शतावरी पिष्ट्वाक्षांशा घृत-प्रस्थं पचेत् क्षीर-चतुर्-गुणम् ।
योनि-शुक्र-प्रदोषेषु तत् सर्वेषु प्रशस्यते ॥ ६५ ॥

३४.६५av पिष्ट्वाक्षांशैर् घृत-प्रस्थं ३४.६५bv पचेत् क्षीरं चतुर्-गुणम् ३४.६५bv पचेत् क्षीरे चतुर्-गुणे ३४.६५dv तत् सर्वेषु च शस्यते आयुष्यं पौष्टिकं मेध्यं धन्यं पुं-सवनं परम् ।
फल-सर्पिर् इति ख्यातं पुष्पे पीतं फलाय यत् ॥ ६६ ॥

म्रियमाण-प्रजानां च गर्भिणीनां च पूजितम् ।
एतत् परं च बालानां ग्रह-घ्नं देह-वर्धनम् ॥ ६७ ॥


अध्याय 35[सम्पाद्यताम्]

मथ्यमाने जल-निधाव् अमृतार्थं सुरासुरैः ।
जातः प्राग् अमृतोत्पत्तेः पुरुषो घोर-दर्शनः ॥ १ ॥

दीप्त-तेजाश् चतुर्-दंष्ट्रो हरि-केशो ऽनलेक्षणः ।
जगद् विषण्णं तं दृष्ट्वा तेनासौ विष-संज्ञितः ॥ २ ॥

३५.२bv हरित्-केशो ऽनलेक्षणः ३५.२dv तेनासौ विष-संज्ञकः हुङ्-कृतो ब्रह्मणा मूर्ती ततः स्थावर-जङ्गमे ।
सो ऽध्यतिष्ठन् निजं रूपम् उज्झित्वा वञ्चनात्मकम् ॥ ३ ॥

३५.३av हुङ्-कृतो ब्रह्मणा मूर्तस् ३५.३av हुङ्-कृतो ब्रह्मणा मूर्तीस् ३५.३bv ततः स्थावर-जङ्गमम् ३५.३bv ततः स्थावर-जङ्गमम् ३५.३bv ततः स्थावर-जङ्गमात् ३५.३bv ततः स्थावर-जङ्गमाः ३५.३dv उज्झित्वा वञ्चनात्मकः स्थिरम् इत्य् उल्बणं वीर्ये यत् कन्देषु प्रतिष्ठितम् ।
कालकूटेन्द्रवत्साख्य-शृङ्गी-हालाहलादिकम् ॥ ४ ॥

सर्प-लूतादि-दंष्ट्रासु दारुणं जङ्गमं विषम् ।
स्थावरं जङ्गमं चेति विषं प्रोक्तम् अ-कृत्रिमम् ॥ ५ ॥

कृत्रिमं गर-संज्ञं तु क्रियते विविधौषधैः ।
हन्ति योग-वशेनाशु चिराच् चिर-तराच् च तत् ॥ ६ ॥

शोफ-पाण्डूदरोन्माद-दुर्-नामादीन् करोति वा ।
तीक्ष्णोष्ण-रूक्ष-विशदं व्यवाय्य् आशु-करं लघु ॥ ७ ॥

३५.७bv -दुर्-नामादीन् करोति च विकाषि सूक्ष्मम् अ-व्यक्त-रसं विषम-पाकि च ।
ओजसो विपरीतं तत् तीक्ष्णाद्यैर् अन्वितं गुणैः ॥ ८ ॥

३५.८av विकाशि सूक्ष्मम् अ-व्यक्त- ३५.८av विकासि सूक्ष्मम् अ-व्यक्त- ३५.८bv -रसैर् युक्तम् अ-पाकि च ३५.८cv ओजसो विपरीतं तु वात-पित्तोत्तरं नॄणां सद्यो हरति जीवितम् ।
विषं हि देहं संप्राप्य प्राग् दूषयति शोणितम् ॥ ९ ॥

कफ-पित्तानिलांश् चानु समं दोषान् सहाशयान् ।
ततो हृदयम् आस्थाय देहोच्छेदाय कल्पते ॥ १० ॥

३५.१०bv सम-दोषं सहाशयान् ३५.१०bv समं दोषान् सहाय-वत् ३५.१०bv सम-दोषं सहाय-वत् ३५.१०bv सम-दोषं सहाश्रयम् ३५.१०dv देह-च्छेदाय कल्पते स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते ।
जिह्वायाः श्याव-ता स्तम्भो मूर्छा त्रासः क्लमो वमिः ॥ ११ ॥

३५.११bv वेगः पूर्वं प्रजायते ३५.११bv वेगे पूर्वे च जायते द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना ।
विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम् ॥ १२ ॥

तालु-शोषस् तृतीये तु शूलं चामाशये भृशम् ।
दुर्-बले हरिते शूने जायेते चास्य लोचने ॥ १३ ॥

३५.१३cv दुर्-वर्णे हरिते शूने ३५.१३cv दुर्-वर्णे हरिते शून्ये पक्वाशय-गते तोद-हिध्मा-कासान्त्र-कूजनम् ।
चतुर्थे जायते वेगे शिरसश् चाति-गौरवम् ॥ १४ ॥

३५.१४av पक्वाशय-गते तोदो ३५.१४bv हिध्मा कासान्त्र-कूजनम् कफ-प्रसेको वैवर्ण्यं पर्व-भेदश् च पञ्चमे ।
सर्व-दोष-प्रकोपश् च पक्वाधाने च वेदना ॥ १५ ॥

षष्ठे संज्ञा-प्रणाशश् च सु-भृशं चातिसार्यते ।
स्कन्ध-पृष्ठ-कटी-भङ्गो भवेन् मृत्युश् च सप्तमे ॥ १६ ॥

प्रथमे विष-वेगे तु वान्तं शीताम्बु-सेचिनम् ।
सर्पिर्-मधुभ्यां संयुक्तम् अ-गदं पाययेद् द्रुतम् ॥ १७ ॥

३५.१७av प्रथमे विष-वेगे ऽथ द्वितीये पूर्व-वद् वान्तं विरिक्तं चानुपाययेत् ।
तृतीये ऽ-गद-पानं तु हितं नस्यं तथाञ्जनम् ॥ १८ ॥

चतुर्थे स्नेह-संयुक्तम् अ-गदं प्रतियोजयेत् ।
पञ्चमे मधुक-क्वाथ-माक्षिकाभ्यां युतं हितम् ॥ १९ ॥

षष्ठे ऽतीसार-वद् सिद्धिर् अवपीडश् तु सप्तमे ।
मूर्ध्नि काक-पदं कृत्वा सासृग् वा पिशितं क्षिपेत् ॥ २० ॥

३५.२०bv अवपीडश् च सप्तमे कोशातक्य् अग्निकः पाठा सूर्यवल्ल्य्-अमृताभयाः ।
शेलुः शिरीषः किणिही हरिद्रे क्षौद्र-साह्वया ॥ २१ ॥

३५.२१bv सूर्यवल्ल्य् अमृताभया ३५.२१dv हरिद्रे क्षौद्र-साह्वयम् पुनर्नवे त्रि-कटुकं बृहत्यौ शारिवे बला ।
एषां यवागूं निर्यूहे शीतां स-घृत-माक्षिकाम् ॥ २२ ॥

३५.२२av पुनर्नवा त्रि-कटुकं ३५.२२bv बृहत्यौ शारिवे बले युञ्ज्याद् वेगान्तरे सर्व-विष-घ्नीं कृत-कर्मणः ।
तद्-वन् मधूक-मधुक-पद्म-केसर-चन्दनैः ॥ २३ ॥

अञ्जनं तगरं कुष्ठं हरितालं मनःशिला ।
फलिनी त्रि-कटु स्पृक्का नागपुष्पं स-केसरम् ॥ २४ ॥

हरेणुर् मधुकं मांसी रोचना काकमालिका ।
श्रीवेष्टकं सर्ज-रसः शताह्वा कुङ्कुमं बला ॥ २५ ॥

३५.२५bv रोचना कालमालिका ३५.२५bv रोचना कालमञ्जिका तमाल-पत्त्र-तालीश-भूर्जोशीर-निशा-द्वयम् ।
कन्योपवासिनी स्नाता शुक्ल-वासा मधु-द्रुतैः ॥ २६ ॥

३५.२६av तमाल-पत्त्रं तालीशं ३५.२६bv भूर्जोशीरं निशा-द्वयम् ३५.२६dv शुक्ल-वासा मधु-प्लुतैः द्वि-जान् अभ्यर्च्य तैः पुष्ये कल्पयेद् अ-गदोत्तमम् ।
वैद्यश् चात्र तदा मन्त्रं प्रयतात्मा पठेद् इमम् ॥ २७ ॥

३५.२७av द्वि-जान् अभ्यर्च्य पुष्यर्क्षे ३५.२७cv वैद्यश् चाशु तदा मन्त्रं नमः पुरुष-सिंहाय नमो नारायणाय च ।
यथासौ नाभिजानाति रणे कृष्ण-पराजयम् ॥ २८ ॥

३५.२८dv रणे कृष्णः पराजयम् एतेन सत्य-वाक्येन अ-गदो मे प्रसिध्यतु ।
नमो वैडूर्यमाते हुलु हुलु रक्ष मां सर्व-विषेभ्यः ॥ २९ ॥

३५.२९dv हुलु कुलु रक्ष मां सर्व-विषेभ्यः गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा पिष्टे च द्वितीयो मन्त्रः ॥ ३०अब् ॥
३५.३०av गौरि गान्धारि चण्डालि मातङ्गि स्वाहा हरिमायि स्वाहा ॥ ३०च् ॥
३५.३०cv हारितमायि स्वाहा अ-शेष-विष-वेताल-ग्रह-कार्मण-पाप्मसु ।
मरक-व्याधि-दुर्-भिक्ष-युद्धाशनि-भयेषु च ॥ ३१ ॥

पान-नस्याञ्जनालेप-मणि-बन्धादि-योजितः ।
एष चन्द्रोदयो नाम शान्ति-स्वस्त्य्-अयनं परम् ॥ ३२ ॥

३५.३२dv शान्तिः स्वस्त्य्-अयनं परम् वासवो वृत्रम् अवधीत् समालिप्तः किलामुना ॥ ३२+(१)अब् ॥
३५.३२+(१)ब्व् समालिप्तो ऽमुना किल जीर्णं विष-घ्नौषधिभिर् हतं वा दावाग्नि-वातातप-शोषितं वा ।
स्व-भावतो वा न गुणैः सु-युक्तं दूषी-विषाख्यां विषम् अभ्युपैति ॥ ३३ ॥

३५.३३cv स्व-भावतो वा सु-गुणैर् न युक्तं ३५.३३cv स्व-भावतो वा स्व-गुणैर् न युक्तं ३५.३३dv दूषी-विषाख्यं विषम् अभ्युपैति वीर्याल्प-भावाद् अ-विभाव्यम् एतत् कफावृतं वर्ष-गणानुबन्धि ।
तेनार्दितो भिन्न-पुरीष-वर्णो दुष्टास्र-रोगी तृड्-अ-रोचकार्तः ॥ ३४ ॥

मूर्छन् वमन् गद्गद-वाग् विमुह्यन् भवेच् च दूष्योदर-लिङ्ग-जुष्टः ।
आमाशय-स्थे कफ-वात-रोगी पक्वाशय-स्थे ऽनिल-पित्त-रोगी ॥ ३५ ॥

भवेन् नरो ध्वस्त-शिरो-रुहाङ्गो विलून-पक्षः स यथा विहङ्गः ।
स्थितं रसादिष्व् अथ-वा विचित्रान् करोति धातु-प्रभवान् विकारान् ॥ ३६ ॥

प्राग्-वाता-जीर्ण-शीताभ्र-दिवा-स्वप्ना-हिताशनैः ।
दुष्टं दूषयते धातून् अतो दूषी-विषं स्मृतम् ॥ ३७ ॥

३५.३७cv दुष्टं दूषयते धातुं ३५.३७dv ततो दूषी-विषं स्मृतम् दूषी-विषार्तं सु-स्विन्नम् ऊर्ध्वं चाधश् च शोधितम् ।
दूषी-विषारिम् अ-गदं लेहयेन् मधुनाप्लुतम् ॥ ३८ ॥

पिप्पल्यो ध्यामकं मांसी लोध्रम् एला सुवर्चिका ।
कुटन्नटं नतं कुष्ठं यष्टी चन्दन-गैरिकम् ॥ ३९ ॥

दूषी-विषारिर् नाम्नायं न चान्य-त्रापि वार्यते ।
विष-दिग्धेन विद्धस् तु प्रताम्यति मुहुर् मुहुः ॥ ४० ॥

वि-वर्ण-भावं भजते विषादं चाशु गच्छति ।
कीटैर् इवावृतं चास्य गात्रं चिमिचिमायते ॥ ४१ ॥

श्रोणि-पृष्ठ-शिरः-स्कन्ध-संधयः स्युः स-वेदनाः ।
कृष्ण-दुष्टास्र-विस्रावी तृण्-मूर्छा-ज्वर-दाह-वान् ॥ ४२ ॥

दृष्टि-कालुष्य-वमथु-श्वास-कास-करः क्षणात् ।
आ-रक्त-पीत-पर्य्-अन्तः श्याव-मध्यो ऽति-रुग् व्रणः ॥ ४३ ॥

शूयते पच्यते सद्यो गत्वा मांसं च कृष्ण-ताम् ।
प्रक्लिन्नं शीर्यते ऽभीक्ष्णं स-पिच्छिल-परिस्रवम् ॥ ४४ ॥

कुर्याद् अ-मर्म-विद्धस्य हृदयावरणं द्रुतम् ।
शल्यम् आकृष्य तप्तेन लोहेनानु दहेद् व्रणम् ॥ ४५ ॥

अथ-वा मुष्कक-श्वेता-सोम-त्वक्-ताम्रवल्लितः ।
शिरीषाद् गृध्रनख्याश् च क्षारेण प्रतिसारयेत् ॥ ४६ ॥

शुकनासा-प्रतिविषा-व्याघ्री-मूलैश् च लेपयेत् ।
कीट-दष्ट-चिकित्सां च कुर्यात् तस्य यथार्हतः ॥ ४७ ॥

व्रणे तु पूति-पिशिते क्रिया पित्त-विसर्प-वत् ।
सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वा-रति-चोदिताः ॥ ४८ ॥

३५.४८dv राज्ञे चा-रति-चोदिताः गरम् आहार-संपृक्तं यच्छन्त्य् आसन्न-वर्तिनः ।
नाना-प्राण्य्-अङ्ग-शमल-विरुद्धौषधि-भस्मनाम् ॥ ४९ ॥

३५.४९cv नाना-प्राण्य्-अङ्ग-स-मल- विषाणां चाल्प-वीर्याणां योगो गर इति स्मृतः ।
तेन पाण्दुः कृशो ऽल्पाग्निः कास-श्वास-ज्वरार्दितः ॥ ५० ॥

३५.५०av विषाणां मन्द-वीर्याणां वायुना प्रतिलोमेन स्वप्न-चिन्ता-परायणः ।
महोदर-यकृत्-प्लीही दीन-वाग् दुर्-बलो ऽलसः ॥ ५१ ॥

३५.५१cv मेहोदर-यकृत्-प्लीही ३५.५१dv हीन-वाग् दुर्-बलो ऽलसः शोफ-वान् सतताध्मातः शुष्क-पाद-करः क्षयी ।
स्वप्ने गोमायु-मार्जार-नकुल-व्याल-वानरान् ॥ ५२ ॥

प्रायः पश्यति शुष्कांश् च वनस्पति-जलाशयान् ।
मन्यते कृष्णम् आत्मानं गौरो गौरं च कालकः ॥ ५३ ॥

वि-कर्ण-नासा-नयनं पश्येत् तद्-विहतेन्द्रियः ।
एतैर् अन्यैश् च बहुभिः क्लिष्टो घोरैर् उपद्रवैः ॥ ५४ ॥

३५.५४bv पश्येत् तु विहतेन्द्रियः गरार्तो नाशम् आप्नोति कश्-चित् सद्यो ऽ-चिकित्सितः ।
गरार्तो वान्त-वान् भुक्त्वा तत् पथ्यं पान-भोजनम् ॥ ५५ ॥

शुद्ध-हृच् छीलयेद् धेम सूत्र-स्थान-विधेः स्मरन् ।
शर्करा-क्षौद्र-संयुक्तं चूर्णं ताप्य-सुवर्णयोः ॥ ५६ ॥

३५.५६bv सूत्र-स्थान-विधिं स्मरन् लेहः प्रशमयन्त्य् उग्रं सर्व-योग-कृतं विषम् ।
मूर्वामृता-नत-कणा-पटोली-चव्य-चित्रकान् ॥ ५७ ॥

वचा-मुस्त-विडङ्गानि तक्र-कोष्णाम्बु-मस्तुभिः ।
पिबेद् रसेन वाम्लेन गरोपहत-पावकः ॥ ५८ ॥

३५.५८cv पिबेद् रसेन चाम्लेन पारावतामिष-शठी-पुष्कराह्व-शृतं हिमम् ।
गर-तृष्णा-रुजा-कास-श्वास-हिध्मा-ज्वरापहम् ॥ ५९ ॥

३५.५९bv -पुष्कराह्वं शृतं हिमम् त्र्य्-ऊषणं पञ्च-लवणं मञ्जिष्ठां रजनी-द्वयम् ।
सूक्ष्मैलां त्रिवृतां पत्त्रं विडङ्गानीन्द्रवारुणीम् ॥ ५९+१ ॥

मधुकं चेति स-क्षौद्रं गो-विषाणे निधापयेत् ।
तस्माद् उष्णाम्बुना मात्रां प्राग्-भक्तं योजयेत् तथा ॥ ५९+२ ॥

विषं भुक्तं जरां याति निर्-विषे ऽपि न दोष-कृत् ।
लाक्षा-प्रियङ्गु-मञ्जिष्ठाः स-मृणाल-हरेणुकाः ॥ ५९+३ ॥

स-यष्ट्य्-आह्वा मधु-युता बस्त-पित्तेन कल्पिताः ।
निखनेद् गो-विषाण-स्थाः सप्त-रात्रं मही-तले ॥ ५९+४ ॥

तत्र कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ।
संस्पृष्टं स-विषं तेन सद्यो भवति निर्-विषम् ॥ ५९+५ ॥

विष-प्रकृति-कालान्न-दोष-दूष्यादि-संगमे ।
विष-संकटम् उद्दिष्टं शतस्यैको ऽत्र जीवति ॥ ६० ॥

क्षुत्-तृष्णा-घर्म-दौर्बल्य-क्रोध-शोक-भय-श्रमैः ।
अ-जीर्ण-वर्चो-द्रव-ता-पित्त-मारुत-वृद्धिभिः ॥ ६१ ॥

तिल-पुष्प-फलाघ्राण-भू-बाष्प-घन-गर्जितैः ।
हस्ति-मूषिक-वादित्र-निःस्वनैर् विष-संकटैः ॥ ६२ ॥

३५.६२bv -भू-बाष्प-घन-गर्जनैः पुरो-वातोत्पलामोद-मदनैर् वर्धते विषम् ।
वर्षासु चाम्बु-योनि-त्वात् संक्लेदं गुड-वद् गतम् ॥ ६३ ॥

३५.६३cv वर्षासु वाम्बु-योनि-त्वात् विसर्पति घनापाये तद् अगस्त्यो हिनस्ति च ।
प्रयाति मन्द-वीर्य-त्वं विषं तस्माद् घनात्यये ॥ ६४ ॥

इति प्रकृति-सात्म्यर्तु-स्थान-वेग-बला-बलम् ।
आलोच्य निपुणं बुद्ध्या कर्मान्-अन्तरम् आचरेत् ॥ ६५ ॥

श्लैष्मिकं वमनैर् उष्ण-रूक्ष-तीक्ष्णैः प्रलेपनैः ।
कषाय-कटु-तिक्तैश् च भोजनैः शमयेद् विषम् ॥ ६६ ॥

पैत्तिकं स्रंसनैः सेक-प्रदेहैर् भृश-शीतलैः ।
कषाय-तिक्त-मधुरैर् घृत-युक्तैश् च भोजनैः ॥ ६७ ॥

वातात्मकं जयेत् स्वादु-स्निग्धाम्ल-लवणान्वितैः ।
स-घृतैर् भोजनैर् लेपैस् तथैव पिशिताशनैः ॥ ६८ ॥

३५.६८bv -स्निग्धाम्ल-लवणायुतैः ना-घृतं स्रंसनं शस्तं प्रलेपो भोज्यम् औषधम् ।
सर्वेषु सर्वावस्थासु विषेषु न घृतोपमम् ॥ ६९ ॥

विद्यते भेषजं किञ्-चिद् विशेषात् प्रबले ऽनिले ।
अ-यत्नाच् छ्लेष्म-गं साध्यं यत्नात् पित्ताशयाश्रयम् ॥ ७० ॥

३५.७०av अ-यत्नाच् छ्लैष्मिकं साध्यं ३५.७०cv अ-यत्नाच् छ्लेष्मकं साध्यं ३५.७०dv यत्नात् पित्ताशयाश्रितम् सु-दुः-साध्यम् अ-साध्यं वा वाताशय-गतं विषम् ॥ ७०ऊ̆अब् ॥
जतु-सर्ज-रसोशीर-सर्षपा-पत्त्र-वालकैः ।
स-वैल्लारुष्कर-पुरैः कुसुमैर् अर्जुनस्य च ॥ ७०ऊ̆+१ ॥

३५.७०ऊ̆+१cv स-वैल्ल-पुष्कर-पुरैः धूपो वास-गृहे हन्ति विषं स्थावर-जङ्गमम् ।
न तत्र कीटाः स-विषा नोन्दुरा न सरीसृपाः ॥ ७०ऊ̆+२ ॥

न कृत्याः कार्मणाद्याश् च धूपो ऽयं यत्र दह्यते ॥ ७०ऊ̆+३अब् ॥

अध्याय 36[सम्पाद्यताम्]

दर्वी-करा मण्डलिनो राजी-मन्तश् च पन्नगाः ।
त्रि-धा समासतो भौमा भिद्यन्ते ते त्व् अनेक-धा ॥ १ ॥

व्यासतो योनि-भेदेन नोच्यन्ते ऽन्-उपयोगिनः ।
विशेषाद् रूक्ष-कटुकम् अम्लोष्णं स्वादु-शीतलम् ॥ २ ॥

३६.२bv नोच्यन्ते ऽन्-उपयोगतः विषं दर्वी-करादीनां क्रमाद् वातादि-कोपनम् ।
तारुण्य-मध्य-वृद्ध-त्वे वृष्टि-शीतातपेषु च ॥ ३ ॥

विषोल्बणा भवन्त्य् एते व्यन्तरा ऋतु-संधिषु ।
रथाङ्ग-लाङ्गल-च्छत्त्र-स्वस्तिकाङ्कुश-धारिणः ॥ ४ ॥

फणिनः शीघ्र-गतयः सर्पा दर्वी-कराः स्मृताः ।
ज्ञेया मण्डलिनो ऽ-भोगा मण्डलैर् विविधैश् चिताः ॥ ५ ॥

३६.५bv सर्पा दर्वी-करा मताः प्रांशवो मन्द-गमना राजी-मन्तस् तु राजिभिः ।
स्निग्धा विचित्र-वर्णाभिस् तिर्यग् ऊर्ध्वं च चित्रिताः ॥ ६ ॥

३६.६bv राजी-मन्तश् च राजिभिः ३६.६cv स्निग्धाभिर् बहु-वर्णाभिस् गोधा-सुतस् तु गौधेरो विषे दर्वी-करैः समः ।
चतुष्-पाद् व्यन्तरान् विद्याद् एतेषाम् एव संकरात् ॥ ७ ॥

३६.७av गोधा-सुतस् तु गौधेयो व्यामिश्र-लक्षणास् ते हि संनिपात-प्रकोपणाः ।
आहारार्थं भयात् पाद-स्पर्शाद् अति-विषात् क्रुधः ॥ ८ ॥

पाप-वृत्ति-तया वैराद् देवर्षि-यम-चोदनात् ।
दशन्ति सर्पास् तेषूक्तं विषाधिक्यं यथोत्तरम् ॥ ९ ॥

३६.९av पाप-वृत्त-तया वैराद् ३६.९bv देवर्षि-यम-नोदनात् आदिष्टात् कारणं ज्ञात्वा प्रतिकुर्याद् यथा-यथम् ।
व्यन्तरः पाप-शील-त्वान् मार्गम् आश्रित्य तिष्ठति ॥ १० ॥

३६.१०av आविष्टात् कारणं ज्ञात्वा ३६.१०dv मार्गम् आवृत्य तिष्ठति यत्र लाला-परिक्लेद-मात्रं गात्रे प्रदृश्यते ।
न तु दंष्ट्रा-कृतं दंशं तत् तुण्डाहतम् आदिशेत् ॥ ११ ॥

३६.११bv -मात्रं गात्रेषु दृश्यते ३६.११cv न तु दंष्ट्रा-क्षतं दंशं ३६.११cv न तु दंष्ट्रा-क्षतं दंशे ३६.११dv तं तुण्डाहतं आदिशेत् एकं दंष्ट्रा-पदं द्वे वा व्यालीढाख्यम् अ-शोणितम् ।
दंष्ट्रा-पदे स-रक्ते द्वे व्यालुप्तं त्रीणि तानि तु ॥ १२ ॥

३६.१२dv व्यालुप्तं त्रीणि तानि च मांस-च्छेदाद् अ-विच्छिन्न-रक्त-वाहीनि दष्टकम् ।
दंष्ट्रा-पदानि चत्वारि तद्-वद् दष्ट-निपीडितम् ॥ १३ ॥

निर्-विषं द्वयम् अत्राद्यम् अ-साध्यं पश्चिमं वदेत् ।
विषं नाहेयम् अ-प्राप्य रक्तं दूषयते वपुः ॥ १४ ॥

रक्तम् अण्व् अपि तु प्राप्तं वर्धते तैलम् अम्बु-वत् ।
भीरोस् तु सर्प-संस्पर्शाद् भयेन कुपितो ऽनिलः ॥ १५ ॥

३६.१५av रक्तम् अण्व् अपि तत् प्राप्तं ३६.१५bv वर्धते तैल-बिन्दु-वत् कदा-चित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत् ।
दुर्-गान्ध-कारे विद्धस्य केन-चिद् दष्ट-शङ्कया ॥ १६ ॥

३६.१६cv दुर्-गे ऽन्धकारे विद्धस्य विषोद्वेगो ज्वरश् छर्दिर् मूर्छा दाहो ऽपि वा भवेत् ।
ग्लानिर् मोहो ऽतिसारो वा तच् छङ्का-विषम् उच्यते ॥ १७ ॥

३६.१७av विष-वेगाज् ज्वरश् छर्दिर् ३६.१७av विषोद्रेको ज्वरश् छर्दिर् ३६.१७av विषोद्वेगाज् ज्वरश् छर्दिर् तुद्यते स-विषो दंशः कण्डू-शोफ-रुजान्वितः ।
दह्यते ग्रथितः किञ्-चिद् विपरीतस् तु निर्-विषः ॥ १८ ॥

३६.१८av तुद्यते विष-जो दंशः पूर्वे दर्वी-कृतां वेगे दुष्टं श्यावी-भवत्य् असृक् ।
श्याव-ता तेन वक्त्रादौ सर्पन्तीव च कीटकाः ॥ १९ ॥

३६.१९bv दुष्टं श्यावं भवत्य् असृक् ३६.१९cv श्याव-ता नेत्र-वक्त्रादौ द्वितीये ग्रन्थयो वेगे तृतीये मूर्ध्नि गौरवम् ।
दृग्-रोधो दंश-विक्लेदश् चतुर्थे ष्ठीवनं वमिः ॥ २० ॥

३६.२०bv तृतीये मूर्ध-गौरवम् ३६.२०cv दृग्-बाधा दंश-विक्लेदश् ३६.२०dv चतुर्थे ष्ठेवनं वमिः संधि-विश्लेषणं तन्द्रा पञ्चमे पर्व-भेदनम् ।
दाहो हिध्मा च षष्ठे तु हृत्-पीडा गात्र-गौरवम् ॥ २१ ॥

३६.२१cv दाहो हिध्मा च षष्ठे च मूर्छा-विपाको ऽतीसारः प्राप्य शुक्रं तु सप्तमे ।
स्कन्ध-पृष्ठ-कटी-भङ्गः सर्व-चेष्टा-निवर्तनम् ॥ २२ ॥

३६.२२bv प्राप्य शुक्रं च सप्तमे अथ मण्डलि-दष्टस्य दुष्टं पीती-भवत्य् असृक् ।
तेन पीताङ्ग-ता दाहो द्वितीये श्वयथूद्भवः ॥ २३ ॥

३६.२३bv दुष्टं पीतं भवत्य् असृक् तृतीये दंश-विक्लेदः स्वेदस् तृष्णा च जायते ।
चतुर्थे ज्वर्यते दाहः पञ्चमे सर्व-गात्र-गः ॥ २४ ॥

३६.२४bv स्वेदस् तृष्णा प्रजायते दष्टस्य राजिलैर् दुष्टं पाण्डु-तां याति शोणितम् ।
पाण्डु-ता तेन गात्राणां द्वितीये गुरु-ताति च ॥ २५ ॥

तृतीये दंश-विक्लेदो नासिकाक्षि-मुख-स्रवाः ।
चतुर्थे गरिमा मूर्ध्नो मन्या-स्तम्भश् च पञ्चमे ॥ २६ ॥

गात्र-भङ्गो ज्वरः शीतः शेषयोः पूर्व-वद् वदेत् ।
कुर्यात् पञ्चसु वेगेषु चिकित्सां न ततः परम् ॥ २७ ॥

३६.२७bv शेषयोः पूर्व-वद् भवेत् जलाप्लुता रति-क्षीणा भीता नकुल-निर्जिताः ।
शीत-वातातप-व्याधि-क्षुत्-तृष्णा-श्रम-पीडिताः ॥ २८ ॥

तूर्णं देशान्तरायाता विमुक्त-विष-कञ्चुकाः ।
कुशौषधि-कण्टक-वद् ये चरन्ति च काननम् ॥ २९ ॥

देशं च दिव्याध्युषितं सर्पास् ते ऽल्प-विषा मताः ।
श्मशान-चिति-चैत्यादौ पञ्चमी-पक्ष-संधिषु ॥ ३० ॥

३६.३०av देशं च विद्याध्युषितं अष्टमी-नवमी-संध्या-मध्य-रात्रि-दिनेषु च ।
याम्याग्नेय-मघाश्लेषा-विशाखा-पूर्व-नैरृते ॥ ३१ ॥

नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत् ।
दष्ट-मात्रः सितास्याक्षः शीर्यमाण-शिरो-रुहः ॥ ३२ ॥

३६.३२cv दष्ट-मात्रस् तु ताम्राक्षः स्तब्ध-जिह्वो मुहुर् मूर्छन् शीतोच्छ्वासो न जीवति ।
हिध्मा श्वासो वमिः कासो दष्ट-मात्रस्य देहिनः ॥ ३३ ॥

३६.३३bv शीतोच्छ्वासी न जीवति जायन्ते युग-पद् यस्य स हृच्-छूली न जीवति ।
फेनं वमति निः-संज्ञः श्याव-पाद-कराननः ॥ ३४ ॥

नासावसादो भङ्गो ऽङ्गे विड्-भेदः श्लथ-संधि-ता ।
विष-पीतस्य दष्टस्य दिग्धेनाभिहतस्य च ॥ ३५ ॥

३६.३५av नासावसादो रुक् वाङ्गे भवन्त्य् एतानि रूपाणि संप्राप्ते जीवित-क्षये ।
न नस्यैश् चेतना तीक्ष्णैर् न क्षतात् क्षत-जागमः ॥ ३६ ॥

३६.३६bv प्राप्ते जीवित-संक्षये दण्डाहतस्य नो राजी प्रयातस्य यमान्तिकम् ।
अतो ऽन्य-था तु त्वरया प्रदीप्तागार-वद् भिषक् ॥ ३७ ॥

३६.३७bv प्रयाति स यमान्तिकम् रक्षन् कण्ठ-गतान् प्राणान् विषम् आशु शमं नयेत् ।
मात्रा-शतं विषं स्थित्वा दंशे दष्टस्य देहिनः ॥ ३८ ॥

देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयन् ।
एतस्मिन्न् अन्तरे कर्म दंशस्योत्कर्तनादिकम् ॥ ३९ ॥

३६.३९bv रुधिरादीन् प्रदूषयेत् कुर्यच् छीघ्रं यथा देहे विष-वल्ली न रोहति ।
दष्ट-मात्रो दशेद् आशु तम् एव पवनाशिनम् ॥ ४० ॥

३६.४०dv तम् एव पवनाशनम् लोष्टं महीं वा दशनैश् छित्त्वा चानु स-संभ्रमम् ।
निष्ठीवेन समालिम्पेद् दंशं कर्ण-मलेन वा ॥ ४१ ॥

३६.४१bv छित्त्वा चाशु स-संभ्रमम् दंशस्योपरि बध्नीयाद् अरिष्टां चतुर्-अङ्गुले ।
क्षौमादिभिर् वेणिकया सिद्धैर् मन्त्रैश् च मन्त्र-वित् ॥ ४२ ॥

अम्बु-वत् सेतु-बन्धेन बन्धेन स्तभ्यते विषम् ।
न वहन्ति सिराश् चास्य विषं बन्धाभिपीडिताः ॥ ४३ ॥

३६.४३cv न वहन्ति सिरास् तस्य ३६.४३dv विषं बन्धन-पीडिताः निष्पीड्यानूद्धरेद् दंशं मर्म-संध्य्-अ-गतं तथा ।
न जायते विषाद् वेगो बीज-नाशाद् इवाङ्कुरः ॥ ४४ ॥

३६.४४av निष्पीड्य चोद्धरेद् दंशं ३६.४४cv न जायते विषावेगो दंशं मण्डलिनां मुक्त्वा पित्तल-त्वाद् अथापरम् ।
प्रतप्तैर् हेम-लोहाद्यैर् दहेद् आशूल्मुकेन वा ॥ ४५ ॥

करोति भस्म-सात् सद्यो वह्निः किं नाम तु क्षतम् ।
आचूषेत् पूर्ण-वक्त्रो वा मृद्-भस्मा-गद-गो-मयैः ॥ ४६ ॥

३६.४६bv वह्निः किं नाम न क्षणात् ३६.४६bv वह्निः किं नाम न क्षणम् प्रच्छायान्तर् अरिष्टायां मांसलं तु विशेषतः ।
अङ्गं सहैव दंशेन लेपयेद् अ-गदैर् मुहुः ॥ ४७ ॥

चन्दनोशीर-युक्तेन सलिलेन च सेचयेत् ।
विषे प्रविसृते विध्येत् सिरां सा परमा क्रिया ॥ ४८ ॥

रक्ते निर्ह्रियमाणे हि कृत्स्नं निर्ह्रियते विषम् ।
दुर्-गन्धं स-विषं रक्तम् अग्नौ चटचटायते ॥ ४९ ॥

३६.४९cv दुर्-गन्धि स-विषं रक्तम् यथा-दोषं विशुद्धं च पूर्व-वल् लक्षयेद् असृक् ।
सिरास्व् अ-दृश्यमानासु योज्याः शृङ्ग-जलौकसः ॥ ५० ॥

शोणितं स्रुत-शेषं च प्रविलीनं विषोष्मणा ।
लेप-सेकैः सु-बहु-शः स्तम्भयेद् भृश-शीतलैः ॥ ५१ ॥

अ-स्कन्ने विष-वेगाद् धि मूर्छाय-मद-हृद्-द्रवाः ।
भवन्ति तान् जयेच् छीतैर् वीजेच् चा-रोम-हर्षतः ॥ ५२ ॥

३६.५२dv वीजयेद् रोम-हर्षतः स्कन्ने तु रुधिरे सद्यो विष-वेगः प्रशाम्यति ।
विषं कर्षति तीक्ष्ण-त्वाद् धृदयं तस्य गुप्तये ॥ ५३ ॥

पिबेद् घृतं घृत-क्षौद्रम् अ-गदं वा घृताप्लुतम् ।
हृदयावरणे चास्य श्लेष्मा हृद्य् उपचीयते ॥ ५४ ॥

३६.५४cv हृदयावरणेनास्य प्रवृत्त-गौरवोत्क्लेश-हृल्-लासं वामयेत् ततः ।
द्रवैः काञ्जिक-कौलत्थ-तैल-मद्यादि-वर्जितैः ॥ ५५ ॥

वमनैर् विष-हृद्भिश् च नैवं व्याप्नोति तद् वपुः ।
भुजङ्ग-दोष-प्रकृति-स्थान-वेग-विशेषतः ॥ ५६ ॥

सु-सूक्ष्मं सम्यग् आलोच्य विशिष्टां चाचरेत् क्रियाम् ।
सिन्धुवारित-मूलानि श्वेता च गिरिकर्णिका ॥ ५७ ॥

३६.५७bv विशिष्टां वाचरेत् क्रियाम् पानं दर्वी-करैर् दष्टे नस्यं मधु स-पाकलम् ।
कृष्ण-सर्पेण दष्टस्य लिम्पेद् दंशं हृते ऽसृजि ॥ ५८ ॥

३६.५८bv नस्यं स-मधु पाकलम् ३६.५८bv नस्यं स-मधु वालकम् ३६.५८bv नस्यं मधु स-वालकम् चारटी-नाकुलीभ्यां वा तीक्ष्ण-मूल-विषेण वा ।
पानं च क्षौद्र-मञ्जिष्ठा-गृह-धूम-युतं घृतम् ॥ ५९ ॥

३६.५९cv पाने च क्षौद्र-मञ्जिष्ठा- तण्डुलीयक-काश्मर्य-किणिही-गिरिकर्णिकाः ।
मातुलुङ्गी सिता शेलुः पान-नस्याञ्जनैर् हितः ॥ ६० ॥

३६.६०cv मातुलुङ्गैः शिफा शेलुः अ-गदः फणिनां घोरे विषे राजी-मताम् अपि ।
समाः सुगन्धा-मृद्वीका-श्वेताख्या-गजदन्तिकाः ॥ ६१ ॥

३६.६१cv समाः सुगन्धा मृद्वीका ३६.६१dv श्वेताख्या गजमृत्तिका ३६.६१dv श्वेताख्या गजवृत्तिका अर्धांशं सौरसं पत्त्रं कपित्थं बिल्व-दाडिमम् ।
स-क्षौद्रो मण्डलि-विषे विशेषाद् अ-गदो हितः ॥ ६२ ॥

पञ्च-वल्क-वरा-यष्टी-नागपुष्पैलवालुकम् ।
जीवकर्षभकौ शीतं सिता पद्मकम् उत्पलम् ॥ ६३ ॥

३६.६३av पञ्च-वल्क-बला-यष्टी- ३६.६३av पञ्च-वल्क-वचा-यष्टी- ३६.६३cv जीवकर्षभकोशीरं स-क्षौद्रो हिमवान् नाम हन्ति मण्डलिनां विषम् ।
लेपाच् छ्वयथु-वीसर्प-विस्फोट-ज्वर-दाह-हा ॥ ६४ ॥

काश्मर्यं वट-शुङ्गानि जीवकर्षभकौ सिता ।
मञ्जिष्ठा मधुकं चेति दष्टो मण्डलिना पिबेत् ॥ ६५ ॥

३६.६५av काश्मर्यं वट-शृङ्गानि वंश-त्वग्-बीज-कटुका-पाटली-बीज-नागरम् ।
शिरीष-बीजातिविषे मूलं गावेधुकं वचा ॥ ६६ ॥

३६.६६bv -पाटला-बीज-नागरम् ३६.६६dv मूलं गावेधुकं वचाम् ३६.६६dv मूलं श्रीवेष्टकं वचाम् पिष्टो गो-वारिणाष्टाङ्गो हन्ति गोनस-जं विषम् ।
कटुकातिविषा-कुष्ठ-गृह-धूम-हरेणुकाः ॥ ६७ ॥

स-क्षौद्र-व्योष-तगरा घ्नन्ति राजी-मतां विषम् ।
निखनेत् काण्ड-चित्राया दंशं याम-द्वयं भुवि ॥ ६८ ॥

उद्धृत्य प्रच्छितं सर्पिर्-धान्य-मृद्भ्यां प्रलेपयेत् ।
पिबेत् पुराणं च घृतं वरा-चूर्णावचूर्णितम् ॥ ६९ ॥

३६.६९av उद्धृत्य प्रस्थितं सर्पिर्- ३६.६९dv वरा-चूर्ण-विचूर्णितम् जीर्णे विरिक्तो भुञ्जीत यवान्नं सूप-संस्कृतम् ।
करवीरार्क-कुसुम-मूल-लाङ्गलिका-कणाः ॥ ७० ॥

३६.७०av जीर्णे विरिक्ते भुञ्जीत ३६.७०dv -मूलं लाङ्गलिका कणा कल्कयेद् आरनालेन पाठा-मरिच-संयुताः ।
एष व्यन्तर-दष्टानाम् अ-गदः सार्वकार्मिकः ॥ ७१ ॥

शिरीष-पुष्प-स्व-रसे सप्ताह्वं मरिचं सितम् ।
भावितं सर्प-दष्टानां पान-नस्याञ्जने हितम् ॥ ७२ ॥

३६.७२dv पान-नस्याञ्जनैर् हितम् ३६.७२dv पाने नस्ये ऽञ्जने हितम् द्वि-पलं नत-कुष्ठाभ्यां घृत-क्षौद्रं चतुः-पलम् ।
अपि तक्षक-दष्टानां पानम् एतत् सुख-प्रदम् ॥ ७३ ॥

३६.७३bv घृत-क्षौद्र-चतुः-पलम् ३६.७३cv अपि तार्क्षक-दष्टानां अथ दर्वी-कृतां वेगे पूर्वे विस्राव्य शोणितम् ।
अ-गदं मधु-सर्पिर्भ्यां संयुक्तं त्वरितं पिबेत् ॥ ७४ ॥

द्वितीये वमनं कृत्वा तद्-वद् एवा-गदं पिबेत् ।
विषापहे प्रयुञ्जीत तृतीये ऽञ्जन-नावने ॥ ७५ ॥

३६.७५cv विषापहैः प्रयुञ्जीत पिबेच् चतुर्थे पूर्वोक्तां यवागूं वमने कृते ।
षष्ठ-पञ्चमयोः शीतैर् दिग्धं सिक्तम् अभीक्ष्ण-शः ॥ ७६ ॥

पाययेद् वमनं तीक्ष्णं यवागूं च विषापहैः ।
अ-गदं सप्तमे तीक्ष्णं युञ्ज्याद् अञ्जन-नस्ययोः ॥ ७७ ॥

कृत्वावगाढं शस्त्रेण मूर्ध्नि काक-पदं ततः ।
मांसं स-रुधिरं तस्य चर्म वा तत्र निक्षिपेत् ॥ ७८ ॥

तृतीये वमितः पेयां वेगे मण्डलिनां पिबेत् ।
अ-तीक्ष्णम् अ-गदं षष्ठे गणं वा पद्मकादिकम् ॥ ७९ ॥

३६.७९av तृतीये वामितः पेयां आद्ये ऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः ।
अलाबुना हरेद् रक्तं पूर्व-वच् चा-गदं पिबेत् ॥ ८० ॥

षष्ठे ऽञ्जनं तीक्ष्ण-तमम् अवपीडं च योजयेत् ।
अन्-उक्तेषु च वेगेषु क्रियां दर्वी-करोदिताम् ॥ ८१ ॥

गर्भिणी-बाल-वृद्धेषु मृदुं विध्येत् सिरां न च ।
त्वङ् मनोह्वा निशे वक्रं रसः शार्दूल-जो नखः ॥ ८२ ॥

३६.८२av गुर्विणी-बाल-वृद्धेषु ३६.८२bv मृदु विध्येत् सिरां न च ३६.८२cv त्वङ् मनोह्वा निशे वक्त्रं तमालः केसरं शीतं पीतं तण्डुल-वारिणा ।
हन्ति सर्व-विषाण्य् एतद् वज्रं वज्रम् इवासुरान् ॥ ८३ ॥

३६.८३cv हन्ति सर्व-विषाण्य् एतच् ३६.८३dv छक्र-वज्रम् इवासुरान् ३६.८३dv वज्रि-वज्रम् इवासुरान् बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम् ।
फल-त्रिकं व्योष-निशा-द्वयं च बस्तस्य मूत्रेण सु-सूक्ष्म-पिष्टम् ॥ ८४ ॥

३६.८४cv फल-त्रयं व्योष-निशा-द्वयं च भुजङ्ग-लूतोन्दुर-वृश्चिकाद्यैर् विषूचिका-जीर्ण-गर-ज्वरैश् च ।
आर्तान् नरान् भूत-विधर्षितांश् च स्वस्थी-करोत्य् अञ्जन-पान-नस्यैः ॥ ८५ ॥

३६.८५cv आर्तान् नरान् भूत-विमर्दितांश् च प्रलेपाद्यैश् च निःशेषं दंशाद् अप्य् उद्धरेद् विषम् ।
भूयो वेगाय जायेत शेषं दूषी-विषाय वा ॥ ८६ ॥

३६.८६dv शेषं दूषी-विषं यथा ३६.८६dv शेषं दूषी-विषाय च विषापाये ऽनिलं क्रुद्धं स्नेहादिभिर् उपाचरेत् ।
तैल-मद्य-कुलत्थाम्ल-वर्ज्यैः पवन-नाशनैः ॥ ८७ ॥

पित्तं पित्त-ज्वर-हरैः कषाय-स्नेह-वस्तिभिः ।
स-माक्षिकेण वर्गेण कफम् आरग्वधादिना ॥ ८८ ॥

सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु ।
पानं स-मन्त्र-पूताम्बु प्रोक्षणं सान्त्व-हर्षणम् ॥ ८९ ॥

३६.८९av सिता वैगन्धको द्राक्षा सर्पाङ्गाभिहते युञ्ज्यात् तथा शङ्का-विषार्दिते ।
कर्केतनं मरकतं वज्रं वारण-मौक्तिकम् ॥ ९० ॥

वैडूर्यं गर्दभ-मणिं पिचुकं विष-मूषिकाम् ।
हिमवद्-गिरि-संभूतां सोमराजीं पुनर्नवाम् ॥ ९१ ॥

३६.९१av वैडूर्य-गर्दभ-मणिं ३६.९१bv पिचुकं विष-दूषिकाम् तथा द्रोणां महा-द्रोणां मानसीं सर्प-जं मणिम् ।
विषाणि विष-शान्त्य्-अर्थं वीर्य-वन्ति च धारयेत् ॥ ९२ ॥

३६.९२av तथा द्रोणं महा-द्रोणं छत्त्री झर्झर-पाणिश् च चरेद् रात्रौ विशेषतः ।
तच्-छाया-शब्द-वित्रस्ताः प्रणश्यन्ति भुजङ्गमाः ॥ ९३ ॥

३६.९३av छत्त्री जर्जर-पाणिश् च ३६.९३av छत्त्री जर्झर-पाणिश् च ३६.९३av छत्त्री झर्जर-पाणिश् च ३६.९३bv चरेद् रात्रौ च सर्व-दा ३६.९३dv विद्रवन्ति भुजङ्गमाः वारि-गुञ्जा-फलोशीरं नेत्रयोर् विष-दुष्टयोः ।
अञ्जनं वारिणा पिष्टं गारुडं गरुडोपमम् ॥ ९३+१ ॥


अध्याय 37[सम्पाद्यताम्]

सर्पाणाम् एव विण्-मूत्र-शुक्राण्ड-शव-कोथ-जाः ।
दोषैर् व्यस्तैः समस्तैश् च युक्ताः कीटाश् चतुर्-विधाः ॥ १ ॥

दष्टस्य कीटैर् वायव्यैर् दंशस् तोद-रुजोल्बणः ।
आग्नेयैर् अल्प-संस्रावो दाह-राग-विसर्प-वान् ॥ २ ॥

पक्व-पीलु-फल-प्रख्यः खर्जूर-सदृशो ऽथ-वा ।
कफाधिकैर् मन्द-रुजः पक्वोदुम्बर-संनिभः ॥ ३ ॥

स्रावाढ्यः सर्व-लिङ्गस् तु विवर्ज्यः सांनिपातिकैः ।
वेगाश् च सर्प-वच् छोफो वर्धिष्णुर् विस्र-रक्त-ता ॥ ४ ॥

३७.४bv विवर्ज्यः सांनिपातिकः शिरो-ऽक्षि-गौरवं मूर्छा भ्रमः श्वासो ऽति-वेदना ।
सर्वेषां कर्णिका शोफो ज्वरः कण्डूर् अ-रोचकः ॥ ५ ॥

३७.५bv भ्रमः श्वासो ऽति-वेदनाः वृश्चिकस्य विषं तीक्ष्णम् आदौ दहति वह्नि-वत् ।
ऊर्ध्वम् आरोहति क्षिप्रं दंशे पश्चात् तु तिष्ठति ॥ ६ ॥

३७.६द्च् दंशे पश्चाच् च तिष्ठति दंशः सद्यो ऽति-रुक् श्यावस् तुद्यते स्फुटतीव च ।
ते गवादि-शकृत्-कोथाद् दिग्ध-दष्टादि-कोथतः ॥ ७ ॥

सर्प-कोथाच् च संभूता मन्द-मध्य-महा-विषाः ।
मन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुर-मेचकाः ॥ ८ ॥

३७.८dv रूक्ष-कर्बुर-मेचकाः रोमशा बहु-पर्वाणो लोहिताः पाण्डुरोदराः ।
धूम्रोदरास् त्रि-पर्वाणो मध्यास् तु कपिलारुणाः ॥ ९ ॥

पिशङ्गाः शबराश् चित्राः शोणिताभा महा-विषाः ।
अग्न्य्-आभा द्व्य्-एक-पर्वाणो रक्तासित-सितोदराः ॥ १० ॥

तैर् दष्टः शून-रसनः स्तब्ध-गात्रो ज्वरार्दितः ।
खैर् वमञ् छोणितं कृष्णम् इन्द्रियार्थान् अ-संविदन् ॥ ११ ॥

स्विद्यन् मूर्छन् विशुष्कास्यो विह्वलो वेदनातुरः ।
विशीर्यमाण-मांसश् च प्राय-शो विजहात्य् असून् ॥ १२ ॥

उच्चिटिङ्गस् तु वक्त्रेण दशत्य् अभ्यधिक-व्यथः ।
साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्ट-रोम-ताम् ॥ १३ ॥

३७.१३av उच्चिटङ्गस् तु वक्त्रेण ३७.१३cv सो ऽधमो वृश्चिकात् स्तम्भं करोति सेकम् अङ्गानां दंशः शीताम्बुनेव च ।
उष्ट्र-धूमः स एवोक्तो रात्रि-चाराच् च रात्रिकः ॥ १४ ॥

३७.१४bv दंशे शीताम्बुनेव च वात-पित्तोत्तराः कीटाः श्लैष्मिकाः कणभोन्दुराः ।
प्रायो वातोल्बण-विषा वृश्चिकाः सोष्ट्र-धूमकाः ॥ १५ ॥

यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत् ।
तस्य तस्यौषधैः कुर्याद् विपरीत-गुणैः क्रियाम् ॥ १६ ॥

३७.१६bv लिङ्गाधिक्यं प्रवर्तयेत् हृत्-पीडोर्ध्वानिल-स्तम्भः सिरायामो ऽस्थि-पर्व-रुक् ।
घूर्णनोद्वेष्टनं गात्र-श्याव-ता वातिके विषे ॥ १७ ॥

संज्ञा-नाशोष्ण-निश्वासौ हृद्-दाहः कटुकास्य-ता ।
मांसावदरणं शोफो रक्त-पीतश् च पैत्तिके ॥ १८ ॥

३७.१८dv रक्तः पीतश् च पैत्तिके छर्द्य्-अ-रोचक-हृल्-लास-प्रसेकोत्क्लेश-पीनसैः ।
स-शैत्य-मुख-माधुर्यैर् विद्याच् छ्लेष्माधिकं विषम् ॥ १९ ॥

पिण्याकेन व्रणालेपस् तैलाभ्यङ्गश् च वातिके ।
स्वेदो नाडी-पुलाकाद्यैर् बृंहणश् च विधिर् हितः ॥ २० ॥

पैत्तिकं स्तम्भयेत् सेकैः प्रदेहैश् चाति-शीतलैः ।
लेखन-च्छेदन-स्वेद-वमनैः श्लैष्मिकं जयेत् ॥ २१ ॥

कीटानां त्रि-प्रकाराणां त्रैविध्येन क्रिया हिता ।
स्वेदालेपन-सेकांस् तु कोष्णान् प्रायो ऽवचारयेत् ॥ २२ ॥

३७.२२bv त्रैविध्येन क्रिया हिताः ३७.२२dv कवोष्णान् प्रविचारयेत् अन्य-त्र मूर्छिताद् दंश-पाकतः कोथतो ऽथ-वा ।
नृ-केशाः सर्षपाः पीता गुडो जीर्णश् च धूपनम् ॥ २३ ॥

विष-दंशस्य सर्वस्य काश्यपः परम् अब्रवीत् ।
विष-घ्नं च विधिं सर्वं कुर्यात् संशोधनानि च ॥ २४ ॥

३७.२४bv कश्यपः परम् अब्रवीत् साधयेत् सर्प-वद् दष्टान् विषोग्रैः कीट-वृश्चिकैः ।
तण्डुलीयक-तुल्यांशां त्रिवृतां सर्पिषा पिबेत् ॥ २५ ॥

याति कीट-विषैः कम्पं न कैलास इवानिलैः ।
क्षीरि-वृक्ष-त्वग्-आलेपः शुद्धे कीट-विषापहः ॥ २६ ॥

मुक्ता-लेपो वरः शोफ-तोद-दाह-ज्वर-प्रणुत् ।
वचा-हिङ्गु-विडङ्गानि सैन्धवं गज-पिप्पली ॥ २७ ॥

पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम् ।
दशाङ्गम् अ-गदं पीत्वा सर्व-कीट-विषं जयेत् ॥ २८ ॥

सद्यो वृश्चिक-जं दंशं चक्र-तैलेन सेचयेत् ।
विदारिगन्धा-सिद्धेन कवोष्णेनेतरेण वा ॥ २९ ॥

लवणोत्तम-युक्तेन सर्पिषा वा पुनः पुनः ।
सिञ्चेत् कोष्णारनालेन स-क्षीर-लवणेन वा ॥ ३० ॥

३७.३०dv स-क्षार-लवणेन वा उपनाहो घृते भृष्टः कल्को ऽजाज्याः स-सैन्धवः ।
आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत् ॥ ३१ ॥

३७.३१av उपनाहे घृत-भृष्टः ३७.३१av उपनाहो घृत-भृष्टः रजनी-सैन्धव-व्योष-शिरीष-फल-पुष्प-जैः ।
मातुलुङ्गाम्ल-गो-मूत्र-पिष्टं च सुरसाग्र-जम् ॥ ३२ ॥

३७.३२cv मातुलुङ्गं तु गो-मूत्र- ३७.३२dv -पिष्टः स-सुरसार्जकः लेपः सुखोष्णश् च हितः पिण्याको गो-मयो ऽपि वा ।
पाने सर्पिर् मधु-युतं क्षीरं वा भूरि-शर्करम् ॥ ३३ ॥

३७.३३bv पिण्याको गो-मयेन वा पारावत-शकृत् पथ्या तगरं विश्व-भेषजम् ।
बीजपूर-रसोन्मिश्रः परमो वृश्चिका-गदः ॥ ३४ ॥

३७.३४dv परमो वृश्चिके ऽ-गदः ३७.३४dv परमो वृश्चिको ऽ-गदः स-शैवलोष्ट्र-दंष्ट्रा च हन्ति वृश्चिक-जं विषम् ।
हिङ्गुना हरितालेन मातुलुङ्ग-रसेन च ॥ ३५ ॥

३७.३५av स-सैन्धवोष्ट्र-दंष्ट्रा च ३७.३५dv मातुलुङ्ग-रसेन वा लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा ।
करञ्जार्जुन-शेलूनां कटभ्यां कुटजस्य च ॥ ३६ ॥

शिरीषस्य च पुष्पाणि मस्तुना दंश-लेपनम् ।
यो मुह्यति प्रश्वसिति प्रलपत्य् उग्र-वेदनः ॥ ३७ ॥

तस्य पथ्या-निशा-कृष्णा-मञ्जिष्ठातिविषोषणम् ।
सालाबु-वृन्तं वार्ताक-रस-पिष्टं प्रलेपनम् ॥ ३८ ॥

३७.३८cv शलाटु-वृन्तं वार्ताक- सर्व-त्र चोग्रालि-विषे पाययेद् दधि-सर्पिषी ॥ ३९अब् ॥
विध्येत् सिरां विदध्याच् च वमनाञ्जन-नावनम् ॥ ३९च्द् ॥
उष्ण-स्निग्धाम्ल-मधुरं भोजनं चानिलापहम् ॥ ३९एf ॥
नागरं गृह-कपोत-पुरीषं बीजपूरक-रसो हरितालम् ।
सैन्धवं च विनिहन्त्य् अ-गदो ऽयं लेपतो ऽलि-कुल-जं विषम् आशु ॥ ४० ॥

अन्ते वृश्चिक-दष्टानां समुदीर्णे भृशं विषे ।
विषेणालेपयेद् दंशम् उच्चिटिङ्गे ऽप्य् अयं विधिः ॥ ४१ ॥

नाग-पुरीष-च्छत्त्रं रोहिष-मूलं च शेलु-तोयेन ।
कुर्याद् गुटिकां लेपाद् इयम् अलि-विष-नाशनी श्रेष्ठा ॥ ४२ ॥

अर्कस्य दुग्धेन शिरीष-बीजं त्रिर् भावितं पिप्पलि-चूर्ण-मिश्रम् ।
एषो ऽ-गदो हन्ति विषाणि कीट-भुजङ्ग-लूतोन्दुर-वृश्चिकानाम् ॥ ४३ ॥

शिरीष-पुष्पं स-करञ्ज-बीजं काश्मीर-जं कुष्ठ-मनःशिले च ।
एषो ऽ-गदो रात्रिक-वृश्चिकानां संक्रान्ति-कारी कथितो जिनेन ॥ ४४ ॥

३७.४४av शिरीष-बीजं स-करञ्ज-बीजं कीटेभ्यो दारुण-तरा लूटाः षो-डश ता जगुः ।
अष्टा-विंशतिर् इत्य् एके ततो ऽप्य् अन्ये तु भूयसीः ॥ ४५ ॥

सहस्र-रश्म्य्-अनुचरा वदन्त्य् अन्ये सहस्र-शः ।
बहूपद्रव-रूपा तु लूतैकैव विषात्मिका ॥ ४६ ॥

रूपाणि नामतस् तस्या दुर्-ज्ञेयान्य् अति-संकरात् ।
नास्ति स्थान-व्यवस्था च दोषतो ऽतः प्रचक्षते ॥ ४७ ॥

कृच्छ्र-साध्या पृथग्-दोषैर् अ-साध्या निचयेन सा ।
तद्-दंशः पैत्तिको दाह-तृट्-स्फोट-ज्वर-मोह-वान् ॥ ४८ ॥

भृशोष्ंा रक्त-पीताभः क्लेदी द्राक्षा-फलोपमः ।
श्लैष्मिकः कठिनः पाण्डुः परूषक-फलाकृतिः ॥ ४९ ॥

३७.४९av भृशोष्ं-रक्त-पीताभः निद्रां शीत-ज्वरं कासं कण्डूं च कुरुते भृशम् ।
वातिकः परुषः श्यावः पर्व-भेद-ज्वर-प्रदः ॥ ५० ॥

तद्-विभागं यथा-स्वं च दोष-लिङ्गैर् विभावयेत् ।
अ-साध्यायां तु हृन्-मोह-श्वास-हिध्मा-शिरो-ग्रहाः ॥ ५१ ॥

३७.५१dv -श्वास-हिध्मा-शिरो-रुजाः श्वेत-पीतासिता-रक्ताः पिटिकाः श्वयथूद्भवः ।
वेपथुर् वमथुर् दाहस् तृड् आन्ध्यं वक्र-नास-ता ॥ ५२ ॥

३७.५२av श्वेत-पीतासिता-रक्त- ३७.५२bv -पिटिका-श्वयथूद्भवः ३७.५२dv तृड् आन्ध्यं वक्र-नासिका श्यावौष्ठ-वक्त्र-दन्त-त्वं पृष्ठ-ग्रीवावभञ्जनम् ।
पक्व-जम्बू-स-वर्णं च दंशात् स्रवति शोणितम् ॥ ५३ ॥

सर्वापि सर्व-जा प्रायो व्यपदेशस् तु भूयसा ।
तीक्ष्ण-मध्यावर-त्वेन सा त्रि-धा हन्त्य् उपेक्षिता ॥ ५४ ॥

३७.५४dv सा त्रि-धा हन्त्य् उपेक्षया सप्ताहेन दशाहेन पक्षेण च परं क्रमात् ।
लूता-दंशश् च सर्वो ऽपि दद्रू-मण्डल-संनिभः ॥ ५५ ॥

३७.५५cv लूता-दंशस् तु सर्वो ऽपि सितो ऽसितो ऽरुणः पीतः श्यावो वा मृदुर् उन्नतः ।
मध्ये कृष्णो ऽथ-वा श्यावः पर्य्-अन्ते जालकावृतः ॥ ५६ ॥

३७.५६av सितासितो ऽरुणः पीतः विसर्प-वांश् छोफ-युतस् तप्यते बहु-वेदनः ।
ज्वराशु-पाक-विक्लेद-कोथावदरणान्वितः ॥ ५७ ॥

क्लेदेन यत् स्पृशत्य् अङ्गं तत्रापि कुरुते व्रणम् ।
श्वास-दंष्ट्रा-शकृन्-मूत्र-शुक्र-लाला-नखार्तवैः ॥ ५८ ॥

अष्टाभिर् उद्वमत्य् एषा विषं वक्त्राद् विशेषतः ।
लूता नाभेर् दशत्य् ऊर्ध्वम् ऊर्ध्वं चाधश् च कीटकाः ॥ ५९ ॥

३७.५९av अष्टाभिर् उद्वमन्त्य् एता ३७.५९bv विषं वक्त्रैर् विशेषतः ३७.५९cv लूता नाभेर् दशन्त्य् ऊर्ध्वम् ३७.५९dv ऊर्ध्वं वाधश् च कीटकाः ३७.५९dv ऊर्ध्वं चाधश् च कीटकः ३७.५९dv अधश् च विष-कीटकाः तद्-दूषितं च वस्त्रादि देहे पृक्तं विकार-कृत् ।
दिनार्धं लक्ष्यते नैव दंशो लूता-विषोद्भवः ॥ ६० ॥

सूची-व्यध-वद् आभाति ततो ऽसौ प्रथमे ऽहनि ।
अ-व्यक्त-वर्णः प्रचलः किञ्-चित्-कण्डू-रुजान्वितः ॥ ६१ ॥

३७.६१av सूची-विद्ध-वद् आभाति द्वितीये ऽभ्युन्नतो ऽन्तेषु पिटिकैर् इव वाचितः ।
व्यक्त-वर्णो नतो मध्ये कण्डू-मान् ग्रन्थि-संनिभः ॥ ६२ ॥

३७.६२av द्वितीये ऽत्य्-उन्नतो ऽन्तेषु ३७.६२bv पिटिकैर् इव चाचितः तृतीये स-ज्वरो रोम-हर्ष-कृद् रक्त-मण्डलः ।
शराव-रूपस् तोदाढ्यो रोम-कूपेषु सास्रवः ॥ ६३ ॥

३७.६३dv रोम-कूपेषु स-स्रवः महांश् चतुर्थे श्वयथुस् ताप-श्वास-भ्रम-प्रदः ।
विकारान् कुरुते तांस् तान् पञ्चमे विष-कोप-जान् ॥ ६४ ॥

षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम् ।
इति तीक्ष्णं विषं मध्यं हीनं च विभजेद् अतः ॥ ६५ ॥

३७.६५av षष्ठे प्राप्नोति मर्माणि एक-विंशति-रात्रेण विषं शाम्यति सर्व-था ।
अथाशु लूता-दष्टस्य शस्त्रेणादंशम् उद्धरेत् ॥ ६६ ॥

३७.६६dv दंशं शस्त्रेण चोद्धरेत् दहेच् च जाम्बवौष्ठाद्यैर् न तु पित्तोत्तरं दहेत् ।
कर्कशं भिन्न-रोमाणं मर्म-संध्य्-आदि-संश्रितम् ॥ ६७ ॥

प्रसृतं सर्वतो दंशं न च्छिन्दीत दहेन् न च ।
लेपयेद् दग्धम् अ-गदैर् मधु-सैन्धव-संयुतैः ॥ ६८ ॥

३७.६८bv न च्छिन्दीत दहेन् न वा सु-शीतैः सेचयेच् चानु कषायैः क्षीरि-वृक्ष-जैः ।
सर्वतो ऽपहरेद् रक्तं शृङ्गाद्यैः सिरयापि वा ॥ ६९ ॥

सेक-लेपास् ततः शीता बोधि-श्लेष्मातकाक्षकैः ।
फलिनी-द्वि-निशा-क्षौद्र-सर्पिर्भिः पद्मकाह्वयः ॥ ७० ॥

३७.७०av सेकालेपास् ततः शीता ३७.७०bv बोधि-श्लेष्मातकाक्षिकैः ३७.७०bv बोधि-श्लेष्मातकाक्ष-जैः ३७.७०cv फलिनी-द्वि-निशा-श्रेष्ठा- अ-शेष-लूता-कीटानाम् अ-गदः सार्वकार्मिकः ।
हरिद्रा-द्वय-पत्तङ्ग-मञ्जिष्ठा-नत-केसरैः ॥ ७१ ॥

स-क्षौद्र-सर्पिः पूर्वस्माद् अधिकश् चम्पकाह्वयः ।
तद्-वद् गो-मय-निष्पीड-शर्करा-घृत-माक्षिकैः ॥ ७२ ॥

३७.७२cv तद्-वद् गो-मय-निष्पीडा- अपामार्ग-मनोऽह्वाल-दार्वी-ध्यामक-गैरिकैः ।
नतैला-कुष्ठ-मरिच-यष्ट्य्-आह्व-घृत-माक्षिकैः ॥ ७३ ॥

अ-गदो मन्दरो नाम तथान्यो गन्ध-मादनः ।
नत-लोध्र-वचा-कट्वी-पाठैला-पत्त्र-कुङ्कुमैः ॥ ७४ ॥

मञ्जिष्ठा-श्लेष्मातक-रजनी-सुवहा-शिरीष-पालिन्द्यः ।
स-सिन्धुवारा विषं घ्नन्ति सैला-चन्दन-कनकाः ॥ ७४+१ ॥

विष-घ्नं बहु-दोषेषु प्रयुञ्जीत विशोधनम् ।
यष्ट्य्-आह्व-मदनाङ्कोल्ल-जालिनी-सिन्धुवारिकाः ॥ ७५ ॥

३७.७५av विष-घ्नैर् बहु-दोषेषु ३७.७५dv -जालिनी-सिन्धुवारितान् ३७.७५dv -जालिनी-सिन्धुवारितम् कफे ज्येष्ठाम्बुना पीत्वा विषम् आशु समुद्वमेत् ।
शिरीष-पत्त्र-त्वङ्-मूल-फलं वाङ्कोल्ल-मूल-वत् ॥ ७६ ॥

३७.७६dv -फलं चाङ्कोल्ल-मूल-वत् विरेचयेच् च त्रि-फला-नीलिनी-त्रिवृतादिभिः ।
निवृत्ते दाह-शोफादौ कर्णिकां पातयेद् व्रणात् ॥ ७७ ॥

३७.७७bv -फलिनी-त्रिवृतादिभिः कुसुम्भ-पुष्पं गो-दन्तः स्वर्णक्षीरी कपोत-विट् ।
त्रिवृता सैन्धवं दन्ती कर्णिका-पातनं तथा ॥ ७८ ॥

३७.७८av कुसुम्भ-पुष्प-गो-दन्त- ३७.७८bv -स्वर्णक्षीरी-कपोत-विट् ३७.७८dv कर्णिका-पातनं परम् मूलम् उत्तरवारुण्या वंश-निर्लेख-संयुतम् ।
तद्-वच् च सैन्धवं कुष्ठं दन्ती कटुक-दौग्धिकम् ॥ ७९ ॥

राज-कोशातकी-मूलं किण्वो वा मथितोद्भवः ।
कर्णिका-पात-समये बृंहयेच् च विषापहैः ॥ ८० ॥

३७.८०bv किट्टो वा मथितोद्भवः ३७.८०bv किणो वा मथितोद्भवः ३७.८०dv बृंहयेत विषापहैः स्नेह-कार्यम् अ-शेषं च सर्पिषैव समाचरेत् ।
विषस्य वृद्धये तैलम् अग्नेर् इव तृणोलुपम् ॥ ८१ ॥

३७.८१cv विषम् आवर्धयेत् तैलम् ३७.८१dv अग्नेर् इव तृणोलपम् ह्रीवेर-वैकङ्कत-गोपकन्या-मुस्ता-शमी-चन्दन-टुण्टुकानि ।
शैवाल-नीलोत्पल-वक्र-यष्टी-त्वङ्-नाकुली-पद्मक-राठ-मध्यम् ॥ ८२ ॥

३७.८२bv -मुस्ता-शमी-चन्दन-तिन्दुकानि रजनी-घन-सर्पलोचना-कण-शुण्ठी-कण-मूल-चित्रकाः ।
वरुणागुरु-बिल्व-पाटली-पिचुमन्दामय-शेलु-केसरम् ॥ ८३ ॥

३७.८३cv वरुणागुरु-बिल्व-पाटला- बिल्व-चन्दन-नतोत्पल-शुण्ठी-पिप्पली-निचुल-वेतस-कुष्ठम् ।
शुक्ति-शाक-वर-पाटलि-भार्गी-सिन्धुवार-करघाट-वराङ्गम् ॥ ८४ ॥

३७.८४cv शुक्ति-शाबरक-पाटलि-भार्गी- ३७.८४dv -सिन्धुवार-करहाट-वराङ्गम् पित्त-कफानिल-लूताः पानाञ्जन-नस्य-लेप-सेकेन ।
अ-गद-वरा वृत्त-स्थाः कु-गतीर् इव वारयन्त्य् एते ॥ ८५ ॥

३७.८५dv कु-गतीर् इव दारयन्त्य् एते ३७.८५dv कु-मतीर् इव दारयन्त्य् एते ३७.८५dv कु-मतीर् इव वारयन्त्य् एते लोध्रं सेव्यं पद्मकं पद्म-रेणुः कालीयाख्यं चन्दनं यच् च रक्तम् ।
कान्ता-पुष्पं दुग्धिनीका मृणालं लूताः सर्वा घ्नन्ति सर्व-क्रियाभिः ॥ ८६ ॥


अध्याय 38[सम्पाद्यताम्]

लालनश् चपलः पुत्रो हसिरश् चिक्किरो ऽजिरः ।
कषाय-दन्तः कुलकः कोकिलः कपिलो ऽसितः ॥ १ ॥

३८.१bv हसिरश् चिक्रिरो ऽजनः ३८.१bv हसिरश् चिक्किरो ऽजरः ३८.१bv हसिरश् चिकिलो ऽजिरः अरुणः शबरः श्वेतः कपोतः पलितोन्दुरः ।
छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः ॥ २ ॥

३८.२bv कपोतः पलितोन्दुरुः ३८.२cv छुच्छुन्दरो बलासाख्यो ३८.२cv छुच्छुन्दरो रसालाक्षो ३८.२dv दश चाष्टौ च मूषिकाः शुक्रं पतति यत्रैषां शुक्र-दिग्धैः स्पृशन्ति वा ।
यद् अङ्गम् अङ्गैस् तत्रास्रे दूषिते पाण्डु-तां गते ॥ ३ ॥

ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमो ऽ-रुचिः ।
शीत-ज्वरो ऽति-रुक् सादो वेपथुः पर्व-भेदनम् ॥ ४ ॥

३८.४av ग्रन्थयः श्वयथुः कोथो रोम-हर्षः स्रुतिर् मूर्छा दीर्घ-कालानुबन्धनम् ।
श्लेष्मानुबद्ध-बह्व्-आखु-पोतक-च्छर्दनं स-तृट् ॥ ५ ॥

३८.५cv श्लेष्मानुबन्ध-बह्व्-आखु- ३८.५cv श्लेष्मानुविद्ध-बह्व्-आखु- ३८.५dv -पोतक-च्छर्दनं सकृत् व्यवाय्य् आखु-विषं कृच्छ्रं भूयो भूयश् च कुप्यति ।
मूर्छाङ्ग-शोफ-वैवर्ण्य-क्लेद-शब्दा-श्रुति-ज्वराः ॥ ६ ॥

शिरो-गुरु-त्वं लालासृक्-छर्दिश् चा-साध्य-लक्षणम् ।
शून-वस्तिं वि-वर्णौष्ठम् आख्व्-आभैर् ग्रन्थिभिश् चितम् ॥ ७ ॥

छुच्छुन्दर-स-गन्धं च वर्जयेद् आखु-दूषितम् ।
शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञा-वहाश्रिताः ॥ ८ ॥

मुष्णन्तः कुर्वते क्षोभं धातूनाम् अति-दारुणम् ।
लाला-वान् अन्ध-बधिरः सर्वतः सो ऽभिधावति ॥ ९ ॥

स्रस्त-पुच्छ-हनु-स्कन्धः शिरो-दुःखी नताननः ।
दंशस् तेन विदष्टस्य सुप्तं कृष्णं क्षरत्य् असृक् ॥ १० ॥

हृच्-छिरो-रुग्-ज्वर-स्तम्भ-तृष्णा-मूर्छोद्भवो ऽनु च ।
अनेनान्ये ऽपि बोद्धव्या व्याला दंष्ट्रा-प्रहारिणः ॥ ११ ॥

३८.११av हृच्-छिरो-रुग्-ज्वर-स्तम्भस् ३८.११av हृच्-छिरो-रुग् ज्वरः स्तम्भस् ३८.११bv तृष्णा-मूर्छोद्भवो ऽनु च ३८.११bv तृष्णा मूर्छोद्भवो ऽनु च ३८.११cv व्याल-दंष्ट्रा-प्रहारिणः शृगालाश्वतराश्वर्क्ष-द्वीपि-व्याघ्र-वृकादयः ।
कण्डू-निस्तोद-वैवर्ण्य-सुप्ति-क्लेद-ज्वर-भ्रमाः ॥ १२ ॥

विदाह-राग-रुक्-पाक-शोफ-ग्रन्थि-विकुञ्चनम् ।
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च ॥ १३ ॥

सर्व-त्र स-विषे लिङ्गं विपरीतं तु निर्-विषे ।
दष्टो येन तु तच्-चेष्टा-रुतं कुर्वन् विनश्यति ॥ १४ ॥

पश्यंस् तम् एव चा-कस्माद् आदर्श-सलिलादिषु ।
यो ऽद्भ्यस् त्रस्येद् अ-दष्टो ऽपि शब्द-संस्पर्श-दर्शनैः ॥ १५ ॥

३८.१५dv शब्द-स्पर्श-निदर्शनैः जल-संत्रास-नामानं दष्टं तम् अपि वर्जयेत् ।
आखुना दष्ट-मात्रस्य दंशं काण्डेन दाहयेत् ॥ १६ ॥

दर्पणेनाथ-वा तीव्र-रुजा स्यात् कर्णिकान्य-था ।
दग्धं विस्रावयेद् दंशं प्रच्छितं च प्रलेपयेत् ॥ १७ ॥

३८.१७cv दग्ध्वा विस्रावयेद् दंशं ३८.१७dv प्रच्छिन्नं च प्रलेपयेत् शिरीष-रजनी-वक्र-कुङ्कुमामृतवल्लिभिः ।
अगार-धूम-मञ्जिष्ठा-रजनी-लवणोत्तमैः ॥ १८ ॥

लेपो जयत्य् आखु-विषं कर्णिकायाश् च पातनः ।
ततो ऽम्लैः क्षालयित्वानु तोयैर् अनु च लेपयेत् ॥ १९ ॥

३८.१९dv पिष्टैर् अनु च लेपयेत् पालिन्दी-श्वेत-कटभी-बिल्व-मूल-गुडूचिभिः ।
अन्यैश् च विष-शोफ-घ्नैः सिरां वा मोक्षयेद् द्रुतम् ॥ २० ॥

३८.२०dv सिरां वा मोचयेद् द्रुतम् छर्दनं नीलिनी-क्वाथैः शुकाख्याङ्कोल्लयोर् अपि ।
कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च ॥ २१ ॥

३८.२१cv कोशवत्याः शुकाख्यायाः मदनस्य च संचूर्ण्य दध्ना पीत्वा विषं वमेत् ।
वचा-मदन-जीमूत-कुष्ठं वा मूत्र-पेषितम् ॥ २२ ॥

पूर्व-कल्पेन पातव्यं सर्वोन्दुर-विषापहम् ।
विरेचनं त्रिवृन्-नीली-त्रि-फला-कल्क इष्यते ॥ २३ ॥

३८.२३cv विरेचने त्रिवृन्-नीली- शिरो-विरेचने सारः शिरीषस्य फलानि च ।
अञ्जनं गो-मय-रसो व्योष-सूक्ष्म-रजो-ऽन्वितः ॥ २४ ॥

३८.२४cv अञ्जने गो-मय-रसो ३८.२४dv व्योष-सूक्ष्म-रजो-ऽन्वितः कपित्थ-गो-मय-रसो मधु-मान् अवलेहनम् ।
तण्डुलीयक-मूलेन सिद्धं पाने हितं घृतम् ॥ २५ ॥

३८.२५bv मधु-मान् अवलेहने द्वि-निशा-कटभी-रक्ता-यष्ट्य्-आह्वैर् वामृतान्वितैः ।
आस्फोत-मूल-सिद्धं वा पञ्च-कापित्थम् एव वा ॥ २६ ॥

सिन्धुवारं नतं शिग्रु-बिल्व-मूलं पुनर्नवा ।
वचा-श्वदंष्ट्रा-जीमूतम् एषां क्वाथं स-माक्षिकम् ॥ २७ ॥

३८.२७av सिन्धुवार-नतं शिग्रु- ३८.२७bv -बिल्व-मूलं पुनर्नवम् पिबेच् छाल्य्-ओदनं दध्ना भुञ्जानो मूषिकार्दितः ।
तक्रेण शरपुङ्खाया बीजं संचूर्ण्य वा पिबेत् ॥ २८ ॥

अङ्कोल्ल-मूल-कल्को वा बस्त-मूत्रेण कल्कितः ।
पानालेपनयोर् युक्तः सर्वाखु-विष-नाशनः ॥ २९ ॥

३८.२९cv पान-लेपनयोर् युक्तः कपित्थ-मध्य-तिलक-तिलाङ्कोल्ल-जटाः पिबेत् ।
गवां मूत्रेण पयसा मञ्जरीं तिलकस्य वा ॥ ३० ॥

३८.३०av कपित्थ-मध्य-तिलकं ३८.३०av कपित्थ-मध्यं तिलकं ३८.३०bv -तिलाङ्कोल्ल-जटां पिबेत् ३८.३०bv तिलाङ्कोल्ल-जटाः पिबेत् ३८.३०dv मञ्जरीस् तिलकस्य वा अथ-वा सैर्यकान् मूलं स-क्षौद्रं तण्डुलाम्बुना ।
कटुकालाबु-विन्यस्तं पीतं वाम्बु निशोषितम् ॥ ३१ ॥

३८.३१dv पिबेद् वाम्बु निशोषितम् ३८.३१dv पिबेच् चाम्बु निशोषितम् सिन्धुवारस्य मूलानि बिडालास्थि विषं नतम् ।
जल-पिष्टो ऽ-गदो हन्ति नस्याद्यैर् आखु-जं विषम् ॥ ३२ ॥

स-शेषं मूषिक-विषं प्रकुप्यत्य् अभ्र-दर्शने ।
यथा-यथं वा कालेषु दोषाणां वृद्धि-हेतुषु ॥ ३३ ॥

३८.३३अच् स-शेषं मूषक-विषं तत्र सर्वे यथावस्थं प्रयोज्याः स्युर् उपक्रमाः ।
यथा-स्वं ये च निर्दिष्टास् तथा दूषी-विषापहाः ॥ ३४ ॥

दंशं त्व् अलर्क-दष्टस्य दग्धम् उष्णेन सर्पिषा ।
प्रदिह्याद् अ-गदैस् तैस् तैः पुराणं च घृतं पिबेत् ॥ ३५ ॥

अर्क-क्षीर-युतं चास्य योज्यम् आशु विरेचनम् ।
अङ्कोल्लोत्तर-मूलाम्बु त्रि-पलं स-हविः-पलम् ॥ ३६ ॥

३८.३६अच् अर्क-क्षीर-युतं वास्य पिबेत् स-धत्तूर-फलां श्वेतां वापि पुनर्नवाम् ।
ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः ॥ ३७ ॥

३८.३७bv श्वेतां चापि पुनर्नवाम् ३८.३७dv रूयिकायाः पयो गुडः ३८.३७dv रूषिकायाः पयो गुडः भिनत्ति विषम् आलर्कं घन-वृन्दम् इवानिलः ।
स-मन्त्रं सौषधी-रत्नं स्नपनं च प्रयोजयेत् ॥ ३८ ॥

चतुष्-पाद्भिर् द्वि-पाद्भिर् वा नख-दन्त-परिक्षतम् ।
शूयते पच्यते राग-ज्वर-स्राव-रुजान्वितम् ॥ ३९ ॥

३८.३९dv -ज्वरास्राव-रुजान्वितम् सोमवल्को ऽश्वकर्णश् च गोजिह्वा हंसपादिका ।
रजन्यौ गैरिकं लेपो नख-दन्त-विषापहः ॥ ४० ॥


अध्याय 39[सम्पाद्यताम्]

दीर्घम् आयुः स्मृतिं मेधाम् आरोग्यं तरुणं वयः ।
प्रभा-वर्ण-स्वरौदार्यं देहेन्द्रिय-बलोदयम् ॥ १ ॥

वाक्-सिद्धिं वृष-तां कान्तिम् अवाप्नोति रसायनात् ।
लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥ २ ॥

३९.२cv लाभोपायो हि सप्तानां पूर्वे वयसि मध्ये वा तत् प्रयोज्यं जितात्मनः ।
स्निग्धस्य स्रुत-रक्तस्य विशुद्धस्य च सर्व-था ॥ ३ ॥

अ-विशुद्धे शरीरे हि युक्तो रासायनो विधिः ।
वाजी-करो वा मलिने वस्त्रे रङ्ग इवा-फलः ॥ ४ ॥

३९.४dv वस्त्रे राग इवा-फलः रसायनानां द्वि-विधं प्रयोगम् ऋषयो विदुः ।
कुटी-प्रावेशिकं मुख्यं वातातपिकम् अन्य-था ॥ ५ ॥

पुरे प्राप्योपकरणे हर्म्य-निर्-वात-निर्-भये ।
दिश्य् उदीच्यां शुभे देशे त्रि-गर्भां सूक्ष्म-लोचनाम् ॥ ६ ॥

३९.६av निर्-वाते निर्-भये धर्म्ये ३९.६av निर्-वाते निर्-भये हर्म्ये ३९.६bv प्राप्योपकरणे पुरे ३९.६cv दिश्य् ऐशान्यां शुभे देशे धूमातप-रजो-व्याल-स्त्री-मूर्खाद्य-विलङ्घिताम् ।
सज्ज-वैद्योपकरणां सु-मृष्टां कारयेत् कुटीम् ॥ ७ ॥

अथ पुण्ये ऽह्नि संपूज्य पूज्यांस् तां प्रविशेच् छुचिः ।
तत्र संशोधनैः शुद्धः सुखी जात-बलः पुनः ॥ ८ ॥

ब्रह्म-चारी धृति-युतः श्रद्-दधानो जितेन्द्रियः ।
दान-शील-दया-सत्य-व्रत-धर्म-परायणः ॥ ९ ॥

देवतानुस्मृतौ युक्तो युक्त-स्वप्न-प्रजागरः ।
प्रियौषधः पेशल-वाग् आरभेत रसायनम् ॥ १० ॥

३९.१०cv प्रियौषधः पेशल-वाक् ३९.१०dv प्रारभेत रसायनम् हरीतकीम् आमलकं सैन्धवं नागरं वचाम् ।
हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत् ॥ ११ ॥

स्निग्ध-स्विन्नो नरः पूर्वं तेन साधु विरिच्यते ।
ततः शुद्ध-शरीराय कृत-संसर्जनाय च ॥ १२ ॥

३९.१२av स्निग्धः स्विन्नो नरः पूर्वं ३९.१२bv तेन साधु विशुध्यति त्रि-रात्रं पञ्च-रात्रं वा सप्ताहं वा घृतान्वितम् ।
दद्याद् यावकम् आ-शुद्धेः पुराण-शकृतो ऽथ-वा ॥ १३ ॥

इत्थं संस्कृत-कोष्ठस्य रसायनम् उपाहरेत् ।
यस्य यद् यौगिकं पश्येत् सर्वम् आलोच्य सात्म्य-वित् ॥ १४ ॥

पथ्या-सहस्रं त्रि-गुण-धात्री-फल-समन्वितम् ।
पञ्चानां पञ्च-मूलानां सार्धं पल-शत-द्वयम् ॥ १५ ॥

जले दश-गुणे पक्त्वा दश-भाग-स्थिते रसे ।
आपोथ्य कृत्वा व्य्-अस्थीनि विजयामलकान्य् अथ ॥ १६ ॥

विनीय तस्मिन् निर्यूहे योजयेत् कुडवांशकम् ।
त्वग्-एला-मुस्त-रजनी-पिप्पल्य्-अगुरु-चन्दनम् ॥ १७ ॥

मण्डूकपर्णी-कनक-शङ्खपुष्पी-वचा-प्लवम् ।
यष्ट्य्-आह्वयं विडङ्गं च चूर्णितं तुलयाधिकम् ॥ १८ ॥

सितोपलार्ध-भारं च पात्राणि त्रीणि सर्पिषः ।
द्वे च तैलात् पचेत् सर्वं तद् अग्नौ लेह-तां गतम् ॥ १९ ॥

अवतीर्णं हिमं युञ्ज्याद् विंशैः क्षौद्र-शतैस् त्रिभिः ।
ततः खजेन मथितं निदध्याद् घृत-भाजने ॥ २० ॥

या नोपरुन्ध्याद् आहारम् एकं मात्रास्य सा स्मृता ।
षष्टिकः पयसा चात्र जीर्णे भोजनम् इष्यते ॥ २१ ॥

३९.२१bv एका मात्रास्य सा स्मृता वैखानसा बालखिल्यास् तथा चान्ये तपो-धनाः ।
ब्रह्मणा विहितं धन्यम् इदं प्राश्य रसायनम् ॥ २२ ॥

३९.२२av वैखानसा बालिखिल्यास् तन्द्रा-श्रम-क्लम-वली-पलितामय-वर्जिताः ।
मेधा-स्मृति-बलोपेता बभूवुर् अ-मितायुषः ॥ २३ ॥

अभयामलक-सहस्रं निर्-आमयं पिप्पली-सहस्र-युतम् ।
तरुण-पलाश-क्षार-द्रवी-कृतं स्थापयेद् भाण्डे ॥ २४ ॥

उपयुक्ते च क्षारे छाया-संशुष्क-चूर्णितं योज्यम् ।
पादांशेन सितायाश् चतुर्-गुणाभ्यां मधु-घृताभ्याम् ॥ २५ ॥

३९.२५av उपयुक्ते च क्वाथे तद् घृत-कुम्भे भूमौ निधाय षण्-मास-संस्थम् उद्धृत्य ।
प्राह्णे प्राश्य यथानलम् उचिताहारो भवेत् सततम् ॥ २६ ॥

३९.२६bv निखाय षण्-मास-संस्थम् उद्धृत्य ३९.२६cv प्राह्णे प्राश्य यथा-बलम् इत्य् उपयुञ्ज्या-शेषं वर्ष-शतम् अन्-आमयो जरा-रहितः ।
जीवति बल-पुष्टि-वपुः-स्मृति-मेधाद्य्-अन्वितो विशेषेण ॥ २७ ॥

३९.२७av इत्य् उपयोज्या-शेषं नी-रुजार्द्र-पलाशस्य च्छिन्ने शिरसि तत् क्षतम् ।
अन्तर् द्वि-हस्तं गम्भीरं पूर्यम् आमलकैर् नवैः ॥ २८ ॥

३९.२८bv च्छिन्ने शिरसि तक्षितम् आ-मूलं वेष्टितं दर्भैः पद्मिनी-पङ्क-लेपितम् ।
आदीप्य गो-मयैर् वन्यैर् निर्-वाते स्वेदयेत् ततः ॥ २९ ॥

स्विन्नानि तान्य् आमलकानि तृप्त्या खादेन् नरः क्षौद्र-घृतान्वितानि ।
क्षीरं शृतं चानु पिबेत् प्र-कामं तेनैव वर्तेत च मासम् एकम् ॥ ३० ॥

वर्ज्यानि वर्ज्यानि च तत्र यत्नात् स्पृश्यं च शीताम्बु न पाणिनापि ।
एका-दशाहे ऽस्य ततो व्यतीते पतन्ति केशा दशना नखाश् च ॥ ३१ ॥

३९.३१bv स्पृशेन् न शीताम्बु च पाणिनापि अथाल्पकैर् एव दिनैः सु-रूपः स्त्रीष्व् अ-क्षयः कुञ्जर-तुल्य-वीर्यः ।
विशिष्ट-मेधा-बल-बुद्धि-सत्-त्वो भवत्य् असौ वर्ष-सहस्र-जीवी ॥ ३२ ॥

दश-मूल-बला-मुस्त-जीवकर्षभकोत्पलम् ।
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटी ॥ ३३ ॥

जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी ।
पुनर्नवर्द्धि-काकोली-काकनासामृता-द्वयम् ॥ ३४ ॥

३९.३४cv पुनर्नवा-द्वि-काकोली- ३९.३४dv -काकनासामृताह्वयाः विदारी वृष-मूलं च तद् ऐकध्यं पलोन्मितम् ।
जल-द्रोणे पचेत् पञ्च धात्री-फल-शतानि च ॥ ३५ ॥

पाद-शेषं रसं तस्माद् व्य्-अस्थीन्य् आमलकानि च ।
गृहीत्वा भर्जयेत् तैल-घृताद् द्वा-दशभिः पलैः ॥ ३६ ॥

३९.३६av पाद-शेषे रसे तस्मिन् मत्स्यण्डिका-तुलार्धेन युक्तं तल् लेह-वत् पचेत् ।
स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश् चतुः-पलम् ॥ ३७ ॥

३९.३७cv स्नेहार्धं मधुनः शीते पिप्पल्या द्वि-पलं दद्याच् चतुर्-जातं कणार्धितम् ।
अतो ऽवलेहयेन् मात्रां कुटी-स्थः पथ्य-भोजनः ॥ ३८ ॥

३९.३८bv चतुर्-जातं कणार्धिकम् ३९.३८bv चतुर्-जातं कणार्धकम् ३९.३८dv कुटी-स्थं पथ्य-भोजिनम् इत्य् एष च्यवन-प्राशो यं प्राश्य च्यवनो मुनिः ।
जरा-जर्जरितो ऽप्य् आसीन् नारी-नयन-नन्दनः ॥ ३९ ॥

कासं श्वासं ज्वरं शोषं हृद्-रोगं वात-शोणितम् ।
मूत्र-शुक्राश्रयान् दोषान् वैस्वर्यं च व्यपोहति ॥ ४० ॥

बाल-वृद्ध-क्षत-क्षीण-कृशानाम् अङ्ग-वर्धनः ॥ ४१अब् ॥
मेधां स्मृतिं कान्तिम् अन्-आमय-त्वम् आयुः-प्रकर्षं पवनानुलोम्यम् ॥ ४१च्द् ॥
स्त्रीषु प्रहर्षं बलम् इन्द्रियाणाम् अग्नेश् च कुर्याद् विधिनोपयुक्तः ॥ ४१एf ॥
मधुकेन तवक्षीर्या पिप्पल्या सिन्धु-जन्मना ।
पृथग् लोहैः सुवर्णेन वचया मधु-सर्पिषा ॥ ४२ ॥

सितया वा समा युक्ता समायुक्ता रसायनम् ।
त्रि-फला सर्व-रोग-घ्नी मेधायुः-स्मृति-बुद्धि-दा ॥ ४३ ॥

३९.४३av सितयाथ समायुक्ता ३९.४३bv रौप्य-युक्ता रसायनी मण्डूकपर्ण्याः स्व-रसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम् ।
रसं गुडूच्यास् सह-मूल-पुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः ॥ ४४ ॥

आयुः-प्रदान्य् आमय-नाशनानि बलाग्नि-वर्ण-स्वर-वर्धनानि ।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी ॥ ४५ ॥

३९.४५dv मेध्या विशेषेण च शङ्खपुष्पी नलदं कटु-रोहिणी पयस्या मधुकं चन्दन-शारिवोग्रगन्धाः ।
त्रि-फला कटुक-त्रयं हरिद्रे स-पटोलं लवणं च तैः सु-पिष्टैः ॥ ४६ ॥

त्रि-गुणेन रसेन शङ्खपुष्प्याः स-पयस्कं घृत-नल्वणं विपक्वम् ।
उपयुज्य भवेज् जडो ऽपि वाङ्मी श्रुत-धारी प्रतिभान-वान् अ-रोगः ॥ ४७ ॥

३९.४७dv श्रुति-धारी प्रतिभान-वान् अ-रोगः ३९.४७dv श्रुति-धारी प्रतिभान-वान् अ-रोगी पेष्यैर् मृणाल-बिस-केसर-पत्त्र-बीजैः सिद्धं स-हेम-शकलं पयसा च सर्पिः ।
पञ्चारविन्दम् इति तत् प्रथितं पृथिव्यां प्रभ्रष्ट-पौरुष-बल-प्रतिभैर् निषेव्यम् ॥
४८ ॥

३९.४८cv पञ्चारविन्दम् इति सर्पिर् उदार-वीर्यं यन् नाल-कन्द-दल-केसर-वद् विपक्वं नीलोत्पलस्य तद् अपि प्रथितं द्वितीयम् ।
सर्पिश् चतुष्-कुवलयं स-हिरण्य-पत्त्रं मेध्यं गवाम् अपि भवेत् किम् उ मानुषाणाम् ॥ ४९ ॥

ब्राह्मी-वचा-सैन्धव-शङ्खपुष्पी-मत्स्याक्षक-ब्रह्मसुवर्चलैन्द्र्यः ।
वैदेहिका च त्रि-यवाः पृथक् स्युर् यवौ सुवर्णस्य तिलो विषस्य ॥ ५० ॥

सर्पिषश् च पलम् एकत एतद् योजयेत् परिणते च घृताढ्यम् ।
भोजनं स-मधु वत्सरम् एवं शीलयन्न् अधिक-धी-स्मृति-मेधः ॥ ५१ ॥

३९.५१dv शीलयन्न् अधिक-धी-स्मृति-वेषः अतिक्रान्त-जरा-व्याधि-तन्द्रालस्य-श्रम-क्लमः ।
जीवत्य् अब्द-शतं पूर्णं श्री-तेजः-कान्ति-दीप्ति-मान् ॥ ५२ ॥

३९.५२dv श्री-तेजः-कान्ति-मूर्ति-मान् विशेषतः कुष्ठ-किलास-गुल्म-विष-ज्वरोन्माद-गरोदराणि ।
अथर्व-मन्त्रादि-कृताश् च कृत्याः शाम्यन्त्य् अनेनाति-बलाश् च वाताः ॥ ५३ ॥

शरन्-मुखे नागबलां पुष्य-योगे समुद्धरेत् ।
अक्ष-मात्रं ततो मूलाच् चूर्णितात् पयसा पिबेत् ॥ ५४ ॥

३९.५४cv अक्ष-मात्रं ततो मूलं ३९.५४dv चूर्णितं पयसा पिबेत् लिह्यान् मधु-घृताभ्यां वा क्षीर-वृत्तिर् अन्-अन्न-भुक् ।
एवं वर्ष-प्रयोगेन जीवेद् वर्ष-शतं बली ॥ ५५ ॥

फलोन्-मुखो गोक्षुरकः स-मूलश् छाया-विशुष्कः सु-विचूर्णिताङ्गः ।
सु-भावितः स्वेन रसेन तस्मान् मात्रां परां प्रासृतिकीं पिबेद् यः ॥ ५६ ॥

३९.५६dv मात्रां परं प्रासृतिकीं पिबेद् यः क्षीरेण तेनैव च शालिम् अश्नन् जीर्णे भवेत् स द्वि-तुलोपयोगात् ।
शक्तः सु-रूपः सु-भगः शतायुः कामी ककुद्-मान् इव गो-कुल-स्थः ॥ ५७ ॥

वाराही-कन्दम् आर्द्रार्द्रं क्षीरेण क्षीर-पः पिबेत् ।
मासं निर्-अन्नो मासं च क्षीरान्नादो जरां जयेत् ॥ ५८ ॥

तत्-कन्द-श्लक्ष्ण-चूर्णं वा स्व-रसेन सु-भावितम् ।
घृत-क्षौद्र-प्लुतं लिह्यात् तत्-पक्वं वा घृतं पिबेत् ॥ ५९ ॥

३९.५९cv घृत-क्षौद्र-युतं लिह्यात् तद्-वद् विदार्य्-अतिबला-बला-मधुक-वायसीः ।
श्रेयसी-श्रेयसी-युक्ता-पथ्या-धात्री-स्थिरामृताः ॥ ६० ॥

३९.६०cv जीवन्ती-श्रेयसी-युक्ता- मण्डूकी-शङ्खकुसुमा-वाजिगन्धा-शतावरीः ।
उपयुञ्जीत मेधा-धी-वयः-स्थैर्य-बल-प्रदाः ॥ ६१ ॥

३९.६१cv उपयुञ्जीत धी-मेधा- ३९.६१cv उपयुञ्जीत मेधावी ३९.६१dv वयः-स्थैर्य-बल-प्रदाः यथा-स्वं चित्रकः पुष्पैर् ज्ञेयः पीत-सितासितैः ।
यथोत्तरं स गुण-वान् विधिना च रसायनम् ॥ ६२ ॥

छाया-शुष्कं ततो मूलं मासं चूर्णी-कृतं लिहन् ।
सर्पिषा मधु-सर्पिर्भ्यां पिबन् वा पयसा यतिः ॥ ६३ ॥

अम्भसा वा हितान्नाशी शतं जीवति नी-रुजः ।
मेधावी बल-वान् कान्तो वपुष्-मान् दीप्त-पावकः ॥ ६४ ॥

तैलेन लीढो मासेन वातान् हन्ति सु-दुस्-तरान् ।
मूत्रेण श्वित्र-कुष्ठानि पीतस् तक्रेण पायु-जान् ॥ ६५ ॥

३९.६५bv वातान् हन्ति सु-दारुणान् भल्लातकानि पुष्टानि धान्य-राशौ निधापयेत् ।
ग्रीष्मे संगृह्य हेमन्ते स्वादु-स्निग्ध-हिमैर् वपुः ॥ ६६ ॥

३९.६६dv स्वादु-स्निग्ध-हिमैः पुनः संस्कृत्य तान्य् अष्ट-गुणे सलिले ऽष्टौ विपाचयेत् ।
अष्टांश-शिष्टं तत्-क्वाथं स-क्षीरं शीतलं पिबेत् ॥ ६७ ॥

३९.६७cv अष्टांश-शिष्टं तं क्वाथं वर्धयेत् प्रत्य्-अहं चानु तत्रैकैकम् अरुष्करम् ।
सप्त-रात्र-त्रयं यावत् त्रीणि त्रीणि ततः परम् ॥ ६८ ॥

आ-चत्वारिंशतस् तानि ह्रासयेद् वृद्धि-वत् ततः ।
सहस्रम् उपयुञ्जीत सप्ताहैर् इति सप्तभिः ॥ ६९ ॥

३९.६९dv सप्ताहैर् अपि सप्तभिः यन्त्रितात्मा घृत-क्षीर-शालि-षष्टिक-भोजनः ।
तद्-वत् त्रि-गुणितं कालं प्रयोगान्ते ऽपि चाचरेत् ॥ ७० ॥

३९.७०dv प्रयोगान्ते ऽप्य् उपाचरेत् आशिषो लभते ऽ-पूर्वा वह्नेर् दीप्तिं विशेषतः ।
प्रमेह-कृमि-कुष्ठार्शो-मेदो-दोष-विवर्जितः ॥ ७१ ॥

३९.७१av आशिषो लभते पूर्वा पिष्ट-स्वेदनम् अ-रुजैः पूर्णं भल्लातकैर् विजर्जरितैः ।
भूमि-निखाते कुम्भे प्रतिष्ठितं कृष्ण-मृल्-लिप्तम् ॥ ७२ ॥

३९.७२bv पूर्णं भल्लातकैः सु-जर्जरितैः परिवारितं समन्तात् पचेत् ततो गो-मयाग्निना मृदुना ।
तत्-स्व-रसो यश् च्यवते गृह्णीयात् तं दिने ऽन्यस्मिन् ॥ ७३ ॥

३९.७३bv पचेत् तद् गो-मयाग्निना मृदुना अमुम् उपयुज्य स्व-रसं मध्व्-अष्टम-भागिकं द्वि-गुण-सर्पिः ।
पूर्व-विधि-यन्त्रितात्मा प्राप्नोति गुणान् स तान् एव ॥ ७४ ॥

३९.७४av अमुम् उपयुञ्ज्यात् स्व-रसं पुष्टानि पाकेन परिच्युतानि भल्लातकान्य् आढक-संमितानि ।
घृष्ट्वेष्टिका-चूर्ण-कणैर् जलेन प्रक्षाल्य संशोष्य च मारुतेन ॥ ७५ ॥

जर्जराणि विपचेज् जल-कुम्भे पाद-शेष-घृत-गालित-शीतम् ।
तद्-रसं पुनर् अपि श्रपयेत क्षीर-कुम्भ-सहितं चरण-स्थे ॥ ७६ ॥

३९.७६bv पाद-शेष-घृत-गालित-शेषम् ३९.७६bv पाद-शेष-घृत-गालित-शीते ३९.७६bv पाद-शेषम् अवतारित-शीतम् ३९.७६cv तं रसं पुनर् अपि श्रपयेत ३९.७६dv क्षीर-कुम्भ-सहितं चरण-स्थम् सर्पिः पक्वं तत्र तुल्य-प्रमाणं युञ्ज्यात् स्वेच्छं शर्करया रजोभिः ।
एकी-भूतं तत् खज-क्षोभणेन स्थाप्यं धान्ये सप्त-रात्रं सु-गुप्तम् ॥ ७७ ॥

३९.७७av सर्पिः पक्वं तेन तुल्य-प्रमाणं ३९.७७bv युञ्ज्यात् प्रस्थं शर्करया रजोभिः ३९.७७bv युञ्ज्यात् स्वच्छं शर्करया रजोभिः ३९.७७cv एकी-भूतं तं खज-क्षोभणेन तम् अमृत-रस-पाकं यः प्रगे प्राशम् अश्नन्न् अनुपिबति यथेष्टं वारि दुग्धं रसं वा ।
स्मृति-मति-बल-मेधा-सत्-त्व-सारैर् उपेतः कनक-निचय-गौरः सो ऽश्नुते दीर्घम् आयुः ॥ ७८ ॥

द्रोणे ऽम्भसो व्रणकृतां त्रि-शताद् विपक्वात् क्वाथाढके पल-समैस् तिल-तैल-पात्रम् ।
तिक्ता-विषा-द्वय-वरा-गिरिजन्म-तार्क्ष्यैः सिद्धं परं निखिल-कुष्ठ-निबर्हणाय ॥
७९ ॥

३९.७९av द्रोणे ऽम्भसो व्रणकृतां त्रि-शतानि पक्त्वा ३९.७९cv तिक्ता-निशा-द्वय-वचा-गिरिजन्म-तार्क्ष्यैः ३९.७९cv तिक्ता-निशा-द्वय-वरा-गिरिजन्म-तार्क्ष्यैः ३९.७९cv तिक्ता-विषा-द्वय-वचा-गिरिजन्म-तार्क्ष्यैः ३९.७९cv तिक्ता-विषा-द्वय-वरा-गिरिजात-तार्क्ष्यैः सहामलक-शुक्तिभिर् दधि-सरेण तैलेन वा ॥ ८०अ ॥
गुडेन पयसा घृतेन यव-सक्तुभिर् वा सह ॥ ८०ब् ॥
तिलेन सह माक्षिकेण पललेन सूपेन वा ॥ ८०च् ॥
वपुष्-करम् अरुष्करं परम-मेध्यम् आयुष्-करम् ॥ ८०द् ॥
भल्लातकानि तीक्ष्णानि पाकीन्य् अग्नि-समानि च ।
भवन्त्य् अमृत-कल्पानि प्रयुक्तानि यथा-विधि ॥ ८१ ॥

३९.८१dv कल्पितानि यथा-विधि कफ-जो न स रोगो ऽस्ति न विबन्धो ऽस्ति कश्-च-न ।
यं न भल्लातकं हन्याच् छीघ्रम् अग्नि-बल-प्रदम् ॥ ८२ ॥

३९.८२dv छीघ्रं वह्नि-बल-प्रदम् वातातप-विधाने ऽपि विशेषेण विवर्जयेत् ।
कुलत्थ-दधि-शुक्तानि तैलाभ्यङ्गाग्नि-सेवनम् ॥ ८३ ॥

वृक्षास् तुबरका नाम पश्चिमार्णव-तीर-जाः ।
वीची-तरङ्ग-विक्षोभ-मारुतोद्धूत-पल्लवाः ॥ ८४ ॥

तेभ्यः फलान्य् आददीत सु-पक्वान्य् अम्बु-दागमे ।
मज्ज्ञः फलेभ्यश् चादाय शोषयित्वावचूर्ण्य च ॥ ८५ ॥

३९.८५cv मज्जां फलेभ्यश् चादाय ३९.८५cv मज्जाः फलेभ्यश् चादाय ३९.८५dv शोषयित्वा विचूर्ण्य च तिल-वत् पीडयेद् द्रोण्यां क्वाथयेद् वा कुसुम्भ-वत् ।
तत्-तैलं संभृतं भूयः पचेद् आ-सलिल-क्षयात् ॥ ८६ ॥

३९.८६cv तत्-तैलं स-घृतं भूयः ३९.८६cv तत्-तैलं संसृतं भूयः ३९.८६cv तत्-तैलं संहृतं भूयः अवतार्य करीषे च पक्ष-मात्रं निधापयेत् ।
स्निग्ध-स्विन्नो हृत-मलः पक्षाद् उद्धृत्य तत् ततः ॥ ८७ ॥

३९.८७dv पक्षाद् उद्धृत्य यत्न-वान् चतुर्थ-भक्तान्तरितः प्रातः पाणि-तलं पिबेत् ।
मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे ॥ ८८ ॥

मज्ज-सार महा-वीर्य सर्वान् धातून् विशोधय ।
शङ्ख-चक्र-गदा-पाणिस् त्वाम् आज्ञापयते ऽ-च्युतः ॥ ८९ ॥

३९.८९av मज्जा-सार महा-वीर्य ३९.८९dv त्वाम् आज्ञापयते ऽ-च्युत तेनास्योर्ध्वम् अधस्-ताच् च दोषा यान्त्य् अ-सकृत् ततः ।
सायम् अ-स्नेह-लवणां यवागूं शीतलां पिबेत् ॥ ९० ॥

३९.९०bv दोषा यान्त्य् अ-सकृत्-सकृत् पञ्चाहानि पिबेत् तैलम् इत्थं वर्ज्यान् विवर्जयन् ।
पक्षं मुद्ग-रसान्नाशी सर्व-कुष्ठैर् विमुच्यते ॥ ९१ ॥

३९.९१bv इत्थं वर्ज्यानि वर्जयेत् तद् एव खदिर-क्वाथे त्रि-गुणे साधु साधितम् ।
निहितं पूर्व-वत् पक्षं पिबेन् मासं सु-यन्त्रितः ॥ ९२ ॥

तेनाभ्यक्त-शरीरश् च कुर्वन्न् आहारम् ईरितम् ।
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ॥ ९३ ॥

भिन्न-स्वरं रक्त-नेत्रं शीर्णाङ्गं कृमि-भक्षितम् ॥ ९३.१+(१)अब् ॥
३९.९३.१+(१)अव् भग्न-स्वरं रक्त-नेत्रं ३९.९३.१+(१)ब्व् शीर्णाङ्गं कृमिभिश् चितम् सर्पिर्-मधु-युतं पीतं तद् एव खदिराद् विना ।
पक्षं मांस-रसाहारं करोति द्वि-शतायुषम् ॥ ९४ ॥

३९.९४cv पक्व-मांस-रसाहारं ३९.९४cv पक्वं मांस-रसाहारं तद् एव नस्ये पञ्चाशद् दिवसान् उपयोजितम् ।
वपुष्-मतं श्रुत-धरं करोति त्रि-शतायुषम् ॥ ९५ ॥

३९.९५cv वपुष्-मतं श्रुति-धरं वली-पलित-निर्मुक्तं स्थिर-स्मृति-कच-द्वि-जम् ॥ ९५.१+(१)अब् ॥
पञ्चाष्टौ सप्त दश वा पिप्पलीर् मधु-सर्पिषा ।
रसायन-गुणान्वेषी समाम् एकां प्रयोजयेत् ॥ ९६ ॥

३९.९६dv मासम् एकं प्रयोजयेत् तिस्रस् तिस्रस् तु पूर्वाह्णे भुक्त्वाग्रे भोजनस्य च ।
पिप्पल्यः किंशुक-क्षार-भाविता घृत-भर्जिताः ॥ ९७ ॥

३९.९७bv भुक्त्वाग्रे भोजनस्य तु प्रयोज्या मधु-संमिश्रा रसायन-गुणैषिणा ।
क्रम-वृद्ध्या दशाहानि दश-पैप्पलिकं दिनम् ॥ ९८ ॥

३९.९८cv दश-वृद्ध्या दशाहानि ३९.९८dv दश-पिप्पलिकं दिनम् वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः ।
जीर्णौषधश् च भुञ्जीत षष्टिकं क्षीर-सर्पिषा ॥ ९९ ॥

पिप्पलीनां सहस्रस्य प्रयोगो ऽयं रसायनम् ।
पिष्टास् ता बलिभिः पेयाः शृता मध्य-बलैर् नरैः ॥ १०० ॥

शीती-कृता हीन-बलैर् वीक्ष्य दोषामयान् प्रति ॥ १००+(१)अब् ॥
३९.१००+(१)अव् शीती-कृता क्षीण-बलैर् ३९.१००+(१)ब्व् वीक्ष्य दोषान् प्रयोजयेत् तद्-वच् च च्छाग-दुग्धेन द्वे सहस्रे प्रयोजयेत् ।
एभिः प्रयोगैः पिप्पल्यः कास-श्वास-गल-ग्रहान् ॥ १०१ ॥

यक्ष्म-मेह-ग्रहण्य्-अर्शः-पाण्डु-त्व-विषम-ज्वरान् ।
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वात-शोणितम् ॥ १०२ ॥

बिल्वार्ध-मात्रेण च पिप्पलीनां पात्रं प्रलिम्पेद् अयसो निशायाम् ।
प्रातः पिबेत् तत् सलिलाञ्जलिभ्यां वर्षं यथेष्टाशन-पान-चेष्टः ॥ १०३ ॥

शुण्ठी-विडङ्ग-त्रि-फला-गुडूची- यष्टी-हरिद्रातिबला-बलाश् च ।
मुस्ता-सुराह्वागुरु-चित्रकाश् च सौगन्धिकं पङ्क-जम् उत्पलानि ॥ १०४ ॥

३९.१०४cv मुस्ता-शताह्वागुरु-चित्रकाश् च धवाश्वकर्णासन-बालपत्त्र-सारास् तथा पिप्पलि-वत् प्रयोज्याः ।
लोहोपलिप्ताः पृथग् एव जीवेत् समाः शतं व्याधि-जरा-विमुक्तः ॥ १०५ ॥

३९.१०५bv -सारास् तथा पिप्पलि-वत् प्रयुञ्ज्याः ३९.१०५cv लोह-प्रलेपात् पृथग् एव जीवेत् ३९.१०५cv लोहोपलेपात् पृथग् एव जीवेत् क्षीराञ्जलिभ्यां च रसायनानि युक्तान्य् अमून्य् आयस-लेपनानि ।
कुर्वन्ति पूर्वोक्त-गुण-प्रकर्षम् आयुः-प्रकर्षं द्वि-गुणं ततश् च ॥ १०६ ॥

असन-खदिर-यूषैर् भावितां सोमराजीं मधु-घृत-शिखि-पथ्या-लोह-चूर्णैर् उपेताम् ।
शरदम् अवलिहानः पारिणामान् विकारांस् त्यजति मित-हिताशी तद्-वद् आहार-जातान् ॥ १०७ ॥

३९.१०७bv मधु-घृत-गद-पथ्या-लोह-चूर्णैर् उपेताम् तीव्रेण कुष्ठेन परीत-मूर्तिर् यः सोमराजीं नियमेन खादेत् ।
संवत्सरं कृष्ण-तिल-द्वितीयां स सोमराजीं वपुषातिशेते ॥ १०८ ॥

ये सोमराज्या वि-तुषी-कृतायाश् चूर्णैर् उपेतात् पयसः सु-जातात् ।
उद्धृत्य सारं मधुना लिहन्ति तक्रं तद् एवानुपिबन्ति चान्ते ॥ १०९ ॥

कुष्ठिनः शीर्यमाणाङ्गास् ते जाताङ्गुलि-नासिकाः ।
भान्ति वृक्षा इव पुनः प्ररूढ-नव-पल्लवाः ॥ ११० ॥

३९.११०av कुष्ठिनः कुथ्यमानाङ्गास् शीत-वात-हिम-दग्ध-तनूनां स्तब्ध-भग्न-कुटिल-व्यथितास्थ्नाम् ।
भेषजस्य पवनोपहतानां वक्ष्यते विधिर् अतो लशुनस्य ॥ ११०+(१) ॥
३९.११०+(१)अव् शीत-वात-परिदग्ध-तनूनां ३९.११०+(१)ब्व् स्तब्ध-भुग्न-कुटिल-व्यथितास्थ्नाम् ३९.११०+(१)च्व् भेषजं च पवनोपहतानां राहोर् अमृत-चौर्येण लूनाद् ये पतिता गलात् ।
अमृतस्य कणा भूमौ ते लशुन-त्वम् आगताः ॥ १११ ॥

३९.१११av राहोर् अच्युत-चक्रेण द्वि-जा नाश्नन्ति तम् अतो दैत्य-देह-समुद्भवम् ।
साक्षाद् अमृत-संभूतेर् ग्रामणीः स रसायनम् ॥ ११२ ॥

शीलयेल् लशुनं शीते वसन्ते ऽपि कफोल्बणः ।
घनोदये ऽपि वातार्तः सदा वा ग्रीष्म-लीलया ॥ ११३ ॥

३९.११३bv वसन्ते च कफोल्बणः स्निग्ध-शुद्ध-तनुः शीत-मधुरोपस्कृताशयः ।
तद्-उत्तंसावतंसाभ्यां चर्चितानुचराजिरः ॥ ११४ ॥

तस्य कन्दान् वसन्तान्ते हिमवच्-छक-देश-जान् ।
अपनीत-त्वचो रात्रौ तिमयेन् मदिरादिभिः ॥ ११५ ॥

३९.११५cv अपनीय त्वचो रात्रौ ३९.११५dv तीमयेन् मदिरादिभिः ३९.११५dv पेषयेन् मदिरादिभिः तत्-कल्क-स्व-रसं प्रातः शुचि-तान्तव-पीडितम् ।
मदिरायाः सु-रूढायास् त्रि-भागेन समन्वितम् ॥ ११६ ॥

मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा ।
तत्-काल एव वा युक्तं युक्तम् आलोच्य मात्रया ॥ ११७ ॥

३९.११७av मद्यस्यान्यस्य तैलस्य तैल-सर्पिर्-वसा-मज्ज-क्षीर-मांस-रसैः पृथक् ।
क्वाथेन वा यथा-व्याधि रसं केवलम् एव वा ॥ ११८ ॥

३९.११८bv क्षीर-सर्पिर्-वसा-मज्ज- ३९.११८bv -धन्व-मांस-रसैः पृथक् ३९.११८bv -धन्व-मांसैः पृथक् पृथक् पिबेद् गण्डूष-मात्रं प्राक् कण्ठ-नाली-विशुद्धये ।
प्रततं स्वेदनं चानु वेदनायां प्रशस्यते ॥ ११९ ॥

३९.११९cv प्रततं स्वेदनं चात्र शीताम्बु-सेकः सहसा वमि-मूर्छाययोर् मुखे ।
शेषं पिबेत् क्लमापाये स्थिर-तां गत ओजसि ॥ १२० ॥

विदाह-परिहाराय परं शीतानुलेपनः ।
धारयेत् साम्बु-कणिका मुक्ता-कर्पूर-मालिकाः ॥ १२१ ॥

३९.१२१cv धारयेत् साम्बु-कणिकां ३९.१२१dv मुक्तां कर्पूर-मालिकाम् ३९.१२१dv मुक्ता-कर्पूर-मालिकाम् कुडवो ऽस्य परा मात्रा तद्-अर्धं केवलस्य तु ।
पलं पिष्टस्य तन्-मज्ज्ञः स-भक्तं प्राक् च शीलयेत् ॥ १२२ ॥

जीर्ण-शाल्य्-ओदनं जीर्णे शङ्ख-कुन्देन्दु-पाण्डुरम् ।
भुञ्जीत यूषैर् पयसा रसैर् वा धन्व-चारिणाम् ॥ १२३ ॥

मद्यम् एकं पिबेत् तत्र तृट्-प्रबन्धे जलान्वितम् ।
अ-मद्य-पस् त्व् आरनालं फलाम्बु परिसिक्थकाम् ॥ १२४ ॥

३९.१२४av मद्यम् एकं पिबेत् त्व् अत्र ३९.१२४bv तृट्-[प्र]वृद्धे जलान्वितम् ३९.१२४bv तृड्-विबन्धे जलान्वितम् ३९.१२४dv फलाम्बु परिसिक्थिकाम् ३९.१२४dv फलाम्बु परिसित्थिकाम् ३९.१२४dv फलाम्बु परिसिक्थिकम् ३९.१२४dv फलाम्बु-परिषेचितम् तत्-कल्कं वा सम-घृतं घृत-पात्रे खजाहतम् ।
स्थितं दशाहाद् अश्नीयात् तद्-वद् वा वसया समम् ॥ १२५ ॥

३९.१२५dv तद्-वद् वा पयसा समम् वि-कञ्चुक-प्राज्य-रसोन-गर्भान् स-शूल्य-मांसान् विविधोपदंशान् ।
निमर्दकान् वा घृत-शुक्त-युक्तान् प्र-कामम् अद्याल् लघु तुच्छम् अश्नन् ॥ १२६ ॥

३९.१२६cv विमर्दकान् वा घृत-शुक्त-युक्तान् ३९.१२६dv प्र-कामम् अद्याल् लघु तुत्थम् अश्नन् पित्त-रक्त-विनिर्मुक्त-समस्तावरणावृते ।
शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात् परम् ॥ १२७ ॥

३९.१२७av पित्त-रक्त-विनिर्मुक्ते ३९.१२७bv समस्तावरणावृते प्रियाम्बु-गुड-दुग्धस्य मांस-मद्याम्ल-विद्विषः ।
अ-तितिक्षोर् अ-जीर्णं च लशुनो व्यापदे ध्रुवम् ॥ १२८ ॥

३९.१२८bv मांस-मद्यादि-विद्विषः ३९.१२८cv अ-तित्यक्षोर् अ-जीर्णम् च ३९.१२८cv अति-रूक्षैर् अ-जीर्णे च पित्त-कोप-भयाद् अन्ते युञ्ज्यान् मृदु विरेचनम् ।
रसायन-गुणान् एवं परिपूर्णान् समश्नुते ॥ १२९ ॥

ग्रीष्मे ऽर्क-तप्ता गिरयो जतु-तुल्यं वमन्ति यत् ।
हेमादि-षड्-धातु-रसं प्रोच्यते तच् छिला-जतु ॥ १३० ॥

सर्वं च तिक्त-कटुकं नात्य्-उष्णं कटु पाकतः ।
छेदनं च विशेषेण लौहं तत्र प्रशस्यते ॥ १३१ ॥

गो-मूत्र-गन्धि कृष्णं गुग्गुल्व्-आभं वि-शर्करं मृत्स्नम् ।
स्निग्धम् अन्-अम्ल-कषायं मृदु गुरु च शिला-जतु श्रेष्ठम् ॥ १३२ ॥

व्याधि-व्याधित-सात्म्यं समनुस्मरन् भावयेद् अयः-पात्रे ।
प्राक् केवल-जल-धौतं शुष्कं क्वाथैस् ततो भाव्यम् ॥ १३३ ॥

सम-गिरिजम् अष्ट-गुणिते निःक्वाथ्यं भावनौषधं तोये ।
तन्-निर्यूहे ऽष्टांशे पूतोष्णे प्रक्षिपेद् गिरिजम् ॥ १३४ ॥

तत् सम-रस-तां यातं संशुष्कं प्रक्षिपेद् रसे भूयः ।
स्वैः स्वैर् एवं क्वाथैर् भाव्यं वारान् भवेत् सप्त ॥ १३५ ॥

अथ स्निग्धस्य शुद्धस्य घृतं तिक्तक-साधितम् ।
त्र्य्-अहं युञ्जीत गिरिजम् एकैकेन तथा त्र्य्-अहम् ॥ १३६ ॥

३९.१३६av अथ स्निग्ध-विशुद्धस्य फल-त्रयस्य यूषेण पटोल्या मधुकस्य च ।
योगं योग्यं ततस् तस्य कालापेक्षं प्रयोजयेत् ॥ १३७ ॥

३९.१३७cv योग-योग्यं ततस् तस्य ३९.१३७cv योगे योज्यं ततस् तस्य ३९.१३७dv कालापेक्षं तु योजयेत् शिला-जम् एवं देहस्य भवत्य् अत्य्-उपकारकम् ।
गुणान् समग्रान् कुरुते सहसा व्यापदं न च ॥ १३८ ॥

एक-त्रि-सप्त-सप्ताहं कर्षम् अर्ध-पलं पलम् ।
हीन-मध्योत्तमो योगः शिला-जस्य क्रमान् मतः ॥ १३९ ॥

संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम् ।
युक्तं व्यस्तैः समस्तैर् वा ताम्रायो-रूप्य-हेमभिः ॥ १४० ॥

क्षीरेणालोडितं कुर्याच् छीघ्रं रासायनं फलम् ।
कुलत्थान् काकमाचीं च कपोतांश् च सदा त्यजेत् ॥ १४१ ॥

न सो ऽस्ति रोगो भुवि साध्य-रूपो जत्व् अश्म-जं यं न जयेत् प्रसह्य ।
तत्-काल-योगैर् विधि-वत् प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति ॥ १४२ ॥

३९.१४२bv जत्व् अश्म-जं यं न हरेत् प्रसह्य ३९.१४२dv स्वस्थस्य चोर्जां विपुलां ददाति कुटी-प्रवेशः क्षणिनां परिच्छद-वतां हितः ।
अतो ऽन्य-था तु ये तेषां सौर्य-मारुतिको विधिः ॥ १४३ ॥

३९.१४३av कुटी-प्रवेशः क्षमिणां ३९.१४३av कुटी-प्रवेशः क्षीणानां ३९.१४३dv सूर्य-मारुतिको विधिः वातातप-सहा योगा वक्ष्यन्ते ऽतो विशेषतः ।
सुखोपचारा भ्रंशे ऽपि ये न देहस्य बाधकाः ॥ १४४ ॥

शीतोदकं पयः क्षौद्रं घृतम् एकैक-शो द्वि-शः ।
त्रि-शः समस्तम् अथ-वा प्राक् पीतं स्थापयेद् वयः ॥ १४५ ॥

गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा ।
द्वे द्वे खादन् सदा पथ्ये जीवेद् वर्ष-शतं सुखी ॥ १४६ ॥

हरीतकीं सर्पिषि संप्रताप्य समश्नतस् तत् पिबतो घृतं च ।
भवेच् चिर-स्थायि बलं शरीरे सकृत् कृतं साधु यथा कृत-ज्ञे ॥ १४७ ॥

३९.१४७bv समश्नुते चेत् पिबतो घृतं च ३९.१४७cv भवेच् चिर-स्थायि-बलं शरीरं ३९.१४७dv सकृत् कृतं साधु यथा कृत-ज्ञाः धात्री-रस-क्षौद्र-सिता-घृतानि हिताशनानां लिहतां नराणाम् ।
प्रणाशम् आयान्ति जरा-विकारा ग्रन्था विशाला इव दुर्-गृहीताः ॥ १४८ ॥

३९.१४८bv हिताशिनां वै लिहतां नराणाम् धात्री-कृमिघ्नासन-सार-चूर्णं स-तैल-सर्पिर्-मधु-लोह-रेणु ।
निषेवमाणस्य भवेन् नरस्य तारुण्य-लावण्यम् अ-विप्रणष्टम् ॥ १४९ ॥

३९.१४९dv तारुण्य-लावण्यम् अति-प्रतिष्ठम् ३९.१४९dv तारुण्य-लावण्यम् अपि प्रणष्टम् लौहं रजो वेल्ल-भवं च सर्पिः-क्षौद्र-द्रुतं स्थापितम् अब्द-मात्रम् ।
समुद्गके बीजक-सार-कॢप्ते लिहन् बली जीवति कृष्ण-केशः ॥ १५० ॥

३९.१५०av लोहं रजो वेल्ल-भवं च सर्पिः- ३९.१५०av लोहाद् रजो वेल्ल-भवं च सर्पिः- ३९.१५०cv समुद्गके बीजक-सार-लिप्ते ३९.१५०cv सामुद्गके बीजक-क्षार-कॢप्ते विडङ्ग-भल्लातक-नागराणि ये ऽश्नन्ति सर्पिर्-मधु-संयुतानि ।
जरा-नदीं रोग-तरङ्गिणीं ते लावण्य-युक्ताः पुरुषास् तरन्ति ॥ १५१ ॥

खदिरासन-यूष-भावितायास् त्रि-फलाया घृत-माक्षिक-प्लुतायाः ।
नियमेन नरा निषेवितारो यदि जीवन्त्य् अ-रुजः किम् अत्र चित्रम् ॥ १५२ ॥

३९.१५२bv त्रि-फलाया घृत-माक्षिकान्वितायाः ३९.१५२dv यदि जीवन्त्य् अ-जराः किम् अत्र चित्रम् बीजकस्य रसम् अङ्गुलि-हार्यं शर्करां मधु घृतं त्रि-फलां च ।
शीलयत्सु पुरुषेषु जरत्-ता स्व्-आगतापि विनिवर्तत एव ॥ १५३ ॥

३९.१५३bv शर्करा-मधु-घृतं त्रि-फलां च ३९.१५३bv शर्करा-मधु-युतं त्रि-फलां च पुनर्नवस्यार्ध-पलं नवस्य पिष्टं पिबेद् यः पयसार्ध-मासम् ।
मास-द्वयं तत्-त्रि-गुणं समां वा जीर्णो ऽपि भूयः स पुनर्-नवः स्यात् ॥ १५४ ॥

मूर्वा-बृहत्य्-अंशुमती-बलानाम् उशीर-पाठासन-शारिवाणाम् ।
कालानुसार्यागुरु-चन्दनानां वदन्ति पौनर्नवम् एव कल्पम् ॥ १५५ ॥

शतावरी-कल्क-कषाय-सिद्धं ये सर्पिर् अश्नन्ति सिता-द्वितीयम् ।
ताञ् जीविताध्वानम् अभिप्रपन्नान् न विप्रलुम्पन्ति विकार-चौराः ॥ १५६ ॥

पीताश्वगन्धा पयसार्ध-मासं घृतेन तैलेन सुखाम्बुना वा ।
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सु-वृष्टिः ॥ १५७ ॥

३९.१५७bv घृतेन तैलेन सु-सूक्ष्म-पिष्टा ३९.१५७dv बालस्य वृक्षस्य यथाम्बु-वृष्टिः दिने दिने कृष्ण-तिल-प्रकुञ्चं समश्नतां शीत-जलानु-पानम् ।
पोषः शरीरस्य भवत्य् अन्-अल्पो दृढी-भवन्त्य् आ-मरणाच् च दन्ताः ॥ १५८ ॥

३९.१५८bv समश्नतः शीत-जलानु-पानम् चूर्णं श्वदंष्ट्रामलकामृतानां लिहन् स-सर्पिर् मधु-भाग-मिश्रम् ।
वृषः स्थिरः शान्त-विकार-दुःखः समाः शतं जीवति कृष्ण-केशः ॥ १५९ ॥

३९.१५९bv लिहन् स-सर्पिर् मधुना प्रयुक्तम् ३९.१५९bv लिहन् स-सर्पिर् मधु-भाग-युक्तम् सार्धं तिलैर् आमलकानि कृष्णैर् अक्षाणि संक्षुद्य हरीतकीर् वा ।
ये ऽद्युर् मयूरा इव ते मनुष्या रम्यं परीणामम् अवाप्नुवन्ति ॥ १६० ॥

शिला-जतु-क्षौद्र-विडङ्ग-सर्पिर्-लोहाभया-पारद-ताप्य-भक्षः ।
आपूर्यते दुर्-बल-देह-धातुस् त्रि-पञ्च-रात्रेण यथा शशाङ्कः ॥ १६१ ॥

ये मासम् एकं स्व-रसं पिबन्ति दिने दिने भृङ्गरजः-समुत्थम् ।
क्षीराशिनस् ते बल-वीर्य-युक्ताः समाः शतं जीवितम् आप्नुवन्ति ॥ १६२ ॥

३९.१६२dv समा-शतं जीवितम् आप्नुवन्ति मासं वचाम् अप्य् उपसेवमानाः क्षीरेण तैलेन घृतेन वापि ।
भवन्ति रक्षोभिर् अ-धृष्य-रूपा मेधाविनो निर्-मल-मृष्ट-वाक्याः ॥ १६३ ॥

मण्डूकपर्णीम् अपि भक्षयन्तो भृष्टां घृते मासम् अन्-अन्न-भक्षाः ।
जीवन्ति कालं विपुलं प्रगल्भास् तारुण्य-लावण्य-गुणोदय-स्थाः ॥ १६४ ॥

३९.१६४av मण्डूकपर्णीं परिभक्षयन्तो ३९.१६४bv भृष्टां घृते मासम् अन्-अन्न-भक्ष्याः लाङ्गली-त्रि-फला-लोह-पल-पञ्चाशता कृतम् ।
मार्कव-स्व-रसे षष्ट्या गुटिकानां शत-त्रयम् ॥ १६५ ॥

३९.१६५bv -पल-पञ्चाशतः कृतात् ३९.१६५bv -पल-पञ्चाशती-कृतम् ३९.१६५cv मार्कव-स्व-रसे पिष्टाद् ३९.१६५cv मार्कव-स्व-रसे पिष्ट्वा ३९.१६५dv गुटिकानां शत-त्रयात् छाया-विशुष्कं गुटिकार्धम् अद्यात् पूर्वं समस्ताम् अपि तां क्रमेण ।
भजेद् विरिक्तः क्रम-शश् च मण्डं पेयां विलेपीं रसकौदनं च ॥ १६६ ॥

३९.१६६av छाया-विशुष्काद् गुटिकार्धम् अद्यात् सर्पिः-स्निग्धं मासम् एकं यतात्मा मासाद् ऊर्ध्वं सर्व-था स्वैर-वृत्तिः ।
वर्ज्यं यत्नात् सर्व-कालं त्व् अ-जीर्णं वर्षेणैवं योगम् एवोपयुञ्ज्यात् ॥ १६७ ॥

३९.१६७bv मासाद् ऊर्ध्वं सर्व-शः स्वैर-वृत्तिः ३९.१६७dv वर्षेणैवं योगम् एवोपयुञ्ज्य भवति विगत-रोगो यो ऽप्य् अ-साध्यामयार्तः प्रबल-पुरुष-कारः शोभते यो ऽपि वृद्धः । उपचित-पृथु-गात्र-श्रोत्र-नेत्रादि-युक्तस् तरुण इव समानां पञ्च जीवेच् छतानि ॥ १६८ ॥

गायत्री-शिखि-शिंशिपासन-शिवा-वेल्लाक्षकारुष्करान् ॥ १६९अ ॥
३९.१६९av गायत्री-शिखि-शिंशिपासन-शिवा-वेल्लाक्षकारुष्करं पिष्ट्वाष्टा-दश-संगुणे ऽम्भसि धृतान् खण्डैः सहायो-मयैः ॥ १६९ब् ॥
३९.१६९bv पिष्ट्वाष्टा-दश-संगुणे ऽम्भसि धृतान् खण्डैः सहायो-मलैः ३९.१६९bv पिष्ट्वाष्टा-दश-संगुणे ऽम्भसि धृतं खण्डैः सहायो-मयैः ३९.१६९bv पिष्ट्वाष्टौ दश-षड्-गुणे ऽम्भसि धृतं खण्डैः सहायो-मयैः पात्रे लोह-मये त्र्य्-अहं रवि-करैर् आलोडयन् पाचयेद् ॥ १६९च् ॥
३९.१६९cv पात्रे लोह-कृते त्र्य्-अहं रवि-करैर् आलोडयन् पाचयेद् अग्नौ चानु मृदौ स-लोह-शकलं पाद-स्थितं तत् पचेत् ॥ १६९द् ॥
पूतस्यांशः क्षीरतो ऽंशस् तथांशौ भार्गान् निर्यासाद् द्वौ वरायास् त्रयो ऽंशाः ।
अंशाश् चत्वारश् चेह हैयङ्गवीनाद् एकी-कृत्यैतत् साधयेत् कृष्ण-लौहे ॥ १७० ॥

३९.१७०bv भार्गी-निर्यासाद् द्वौ वरायास् त्रयो ऽंशाः ३९.१७०cv अंशाश् चत्वारश् चैव हैयङ्गवीनाद् वि-मल-खण्ड-सिता-मधुभिः पृथग् युतम् अ-युक्तम् इदं यदि वा घृतम् ।
स्व-रुचि-भोजन-पान-विचेष्टितो भवति ना पल-शः परिशीलयन् ॥ १७१ ॥

३९.१७१av वि-मलया सितया मधुनाथ-वा ३९.१७१dv भवति ना पल-शः परिशीलयेत् श्री-मान् निर्धूत-पाप्मा वन-महिष-बलो वाजि-वेगः स्थिराङ्गः ॥ १७२अ ॥
केशैर् भृङ्गाङ्ग-नीलैर् मधु-सुरभि-मुखो नैक-योषिन्-निषेवी ॥ १७२ब् ॥
३९.१७२bv केशैर् भृङ्गाति-नीलैर् मधु-सुरभि-मुखो नैक-योषिन्-निषेवी वाङ्-मेधा-धी-समृद्धः सु-पटु-हुत-वहो मास-मात्रोपयोगाद् ॥ १७२च् ॥
३९.१७२cv वाङ्-मेधावी समृद्धः सु-पटु-हुत-वहो मास-मात्रोपयोगाद् धत्ते ऽसौ नारसिंहं वपुर् अनल-शिखा-तप्त-चामीकराभम् ॥ १७२द् ॥
अत्तारं नारसिंहस्य व्याधयो न स्पृशन्त्य् अपि ।
चक्रोज्ज्वल-भुजं भीता नारसिंहम् इवासुराः ॥ १७३ ॥

३९.१७३cv चक्रोज्ज्वल-भुजा भीता भृङ्ग-प्रवालान् अमुनैव भृष्टान् घृतेन यः खादति यन्त्रितात्मा ।
विशुद्ध-कोष्ठो ऽसन-सार-सिद्ध-दुग्धानुपस् तत्-कृत-भोजनार्थः ॥ १७४ ॥

मासोपयोगात् स सुखी जीवत्य् अब्द-शत-त्रयम् ।
गृह्णाति सकृद् अप्य् उक्तम् अ-विलुप्त-स्मृतीन्द्रियः ॥ १७५ ॥

३९.१७५bv जीवत्य् अब्द-शत-द्वयम् अनेनैव च कल्पेन यस् तैलम् उपयोजयेत् ।
तान् एवाप्नोति स गुणान् कृष्ण-केशश् च जायते ॥ १७६ ॥

उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि ।
महानुशंसान्य् अपि चापराणि प्राप्त्य्-आदि-कष्टानि न कीर्तितानि ॥ १७७ ॥

३९.१७७cv महानुभावान्य् अपि चापराणि ३९.१७७cv महानुशंस्यान्य् अपि चापराणि रसायन-विधि-भ्रंशाज् जायेरन् व्याधयो यदि ।
यथा-स्वम् औषधं तेषां कार्यं मुक्त्वा रसायनम् ॥ १७८ ॥

सत्य-वादिनम् अ-क्रोधम् अध्य्-आत्म-प्रवणेन्द्रियम् ।
शान्तं सद्-वृत्त-निरतं विद्यान् नित्य-रसायनम् ॥ १७९ ॥

गुणैर् एभिः समुदितः सेवते यो रसायनम् ।
स निवृत्तात्मा दीर्घायुः पर-त्रेह च मोदते ॥ १८० ॥

३९.१८०av गुणैर् एतैः समुदितैः ३९.१८०cv स निर्वृतात्मा दीर्घायुः शास्त्रानुसारिणी चर्या चित्त-ज्ञाः पार्श्व-वर्तिनः ।
बुद्धिर् अ-स्खलितार्थेषु परिपूर्णं रसायनम् ॥ १८१ ॥


अध्याय 40[सम्पाद्यताम्]

वाजी-करणम् अन्विच्छेत् सततं विषयी पुमान् ।
तुष्टिः पुष्टिर् अपत्यं च गुण-वत् तत्र संश्रितम् ॥ १ ॥

अपत्य-संतान-करं यत् सद्यः संप्रहर्षणम् ।
वाजीवाति-बलो येन यात्य् अ-प्रतिहतो ऽङ्गनाः ॥ २ ॥

भवत्य् अति-प्रियः स्त्रीणां येन येनोपचीयते ।
तद् वाजी-करणं तद् धि देहस्योर्जस्-करं परम् ॥ ३ ॥

४०.३dv देहस्यौजस्-करं परम् धर्म्यं यशस्यम् आयुष्यं लोक-द्वय-रसायनम् ।
अनुमोदामहे ब्रह्म-चर्यम् एकान्त-निर्मलम् ॥ ४ ॥

४०.४av धन्यं यशस्यम् आयुष्यं ४०.४bv लोक-द्वय-सुखावहम् ४०.४bv लोक-द्वय-हितावहम् अल्प-सत्-त्वस्य तु क्लेशैर् बाध्यमानस्य रागिणः ।
शरीर-क्षय-रक्षार्थं वाजी-करणम् उच्यते ॥ ५ ॥

४०.५av अल्प-सत्-त्वस्य च क्लेशैर् ४०.५av अल्प-सत्-त्वस्य चोत्क्लेशैर् ४०.५bv बाध्यमानस्य रोगिणः कल्यस्योदग्र-वयसो वाजी-करण-सेविनः ।
सर्वेष्व् ऋतुष्व् अहर् अहर् व्यवायो न निवार्यते ॥ ६ ॥

४०.६av कल्पस्योदग्र-वयसो अथ स्निग्ध-विशुद्धानां निरूहान् सानुवासनान् ।
घृत-तैल-रस-क्षीर-शर्करा-क्षौद्र-संयुतान् ॥ ७ ॥

योग-विद् योजयेत् पूर्वं क्षीर-मांस-रसाशिनाम् ।
ततो वाजी-करान् योगान् शुक्रापत्य-बल-प्रदान् ॥ ८ ॥

४०.८dv शुक्रापत्य-विवर्धनान् अ-च्छायः पूति-कुसुमः फलेन रहितो द्रुमः ।
यथैकश् चैक-शाखश् च निर्-अपत्यस् तथा नरः ॥ ९ ॥

स्खलद्-गमनम् अ-व्यक्त-वचनं धूलि-धूसरम् ।
अपि लालाविल-मुखं हृदयाह्लाद-कारकम् ॥ १० ॥

४०.१०dv हृदयाह्लाद-कारिणम् अपत्यं तुल्य-तां केन दर्शन-स्पर्शनादिषु ।
किं पुनर् यद् यशो-धर्म-मान-श्री-कुल-वर्धनम् ॥ ११ ॥

४०.११av अपत्यं तुल्य-ता केन ४०.११cv किं पुनर् यो यशो-धर्म- ४०.११dv -मान-श्री-कुल-वर्धनः ४०.११dv -मान-श्री-कुल-वर्धनात् शुद्ध-काये यथा-शक्ति वृष्य-योगान् प्रयोजयेत् ।
शरेक्षु-कुश-काशानां विदार्या वीरणस्य च ॥ १२ ॥

४०.१२av शुद्धे काये यथा-शक्ति मूलानि कण्टकार्याश् च जीवकर्षभकौ बलाम् ।
मेदे द्वे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम् ॥ १३ ॥

अश्वगन्धाम् अतिबलां आत्मगुप्तां पुनर्नवाम् ।
वीरां पयस्यां जीवन्तीम् ऋद्धिं रास्नां त्रिकण्टकम् ॥ १४ ॥

मधुकं शालिपर्णीं च भागांस् त्रि-पलिकान् पृथक् ।
माषाणाम् आढकं चैतद् द्वि-द्रोणे साधयेद् अपाम् ॥ १५ ॥

रसेनाढक-शेषेण पचेत् तेन घृताढकम् ।
दत्त्वा विदारी-धात्रीक्षु-रसानाम् आढकाढकम् ॥ १६ ॥

घृताच् चतुर्-गुणं क्षीरं पेष्याणीमानि चावपेत् ।
वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गूनि पिप्पलीम् ॥ १७ ॥

४०.१७dv यष्टिकं गज-पिप्पलीम् द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम् ।
तत् सिद्ध-पूतं चूर्णस्य पृथक् प्रस्थेन योजयेत् ॥ १८ ॥

शर्करायास् तुगायाश् च पिप्पल्याः कुडवेन च ।
मरिचस्य प्रकुञ्चेन पृथग् अर्ध-पलोन्मितैः ॥ १९ ॥

त्वग्-एला-केसरैः श्लक्ष्णैः क्षौद्र-द्वि-कुडवेन च ।
पल-मात्रं ततः खादेत् प्रत्य्-अहं रस-दुग्ध-भुक् ॥ २० ॥

४०.२०bv क्षौद्राद् द्वि-कुडवेन च ४०.२०dv प्रत्य्-अहं मधु-दुग्ध-भुक् तेनारोहति वाजीव कुलिङ्ग इव हृष्यति ।
विदारी-पिप्पली-शालि-प्रियालेक्षुरकाद् रजः ॥ २१ ॥

पृथक् स्वगुप्ता-मूलाच् च कुडवांशं तथा मधु ।
तुलार्धं शर्करा-चूर्णात् प्रस्थार्धं नव-सर्पिषः ॥ २२ ॥

सो ऽक्ष-मात्रम् अतः खादेत् यस्य रामा-शतं गृहे ।
सात्मगुप्ता-फलान् क्षीरे गोधूमान् साधितान् हिमान् ॥ २३ ॥

४०.२३bv यस्य कान्ता-शतं गृहे माषान् वा स-घृत-क्षौद्रान् खादन् गृष्टि-पयो-ऽनुपः ।
जागर्ति रात्रिं सकलाम् अ-खिन्नः खेदयन् स्त्रियः ॥ २४ ॥

बस्ताण्ड-सिद्धे पयसि भावितान् अ-सकृत् तिलान् ।
यः खादेत् स-सितान् गच्छेत् स स्त्री-शतम् अ-पूर्व-वत् ॥ २५ ॥

४०.२५bv भावितान् बहु-शस् तिलान् चूर्णं विदार्या बहु-शः स्व-रसेनैव भावितम् ।
क्षौद्र-सर्पिर्-युतं लीढ्वा प्रमदा-शतम् ऋच्छति ॥ २६ ॥

४०.२६dv प्रमदा दश गच्छति कृष्णा-धात्री-फल-रजः स्व-रसेन सु-भावितम् ।
शर्करा-मधु-सर्पिर्भिर् लीढ्वा यो ऽनु पयः पिबेत् ॥ २७ ॥

४०.२७av कृष्ण-धात्री-फल-रजः स नरो ऽशीति-वर्षो ऽपि युवेव परिहृष्यति ।
कर्षं मधुक-चूर्णस्य घृत-क्षौद्र-समन्वितम् ॥ २८ ॥

४०.२८dv घृत-क्षौद्र-समांशकम् पयो-ऽनु-पानं यो लिह्यान् नित्य-वेगः स ना भवेत् ।
कुलीरशृङ्ग्या यः कल्कम् आलोड्य पयसा पिबेत् ॥ २९ ॥

सिता-घृत-पयो-ऽन्नाशी स नारीषु वृषायते ।
यः पयस्यां पयः-सिद्धां खादेन् मधु-घृतान्विताम् ॥ ३० ॥

पिबेद् बाष्कयणं चानु क्षीरं न क्षयम् एति सः ।
स्वयङ्गुप्तेक्षुरकयोर् बीज-चूर्णं स-शर्करम् ॥ ३१ ॥

४०.३१av पिबेद् बाष्कयिणं चानु धारोष्णेन नरः पीत्वा पयसा रासभायते ।
उच्चटा-चूर्णम् अप्य् एवं शतावर्याश् च योजयेत् ॥ ३२ ॥

चन्द्र-शुभ्रं दधि-सरं स-सिता-षष्टिकौदनम् ।
पटे सु-मार्जितं भुक्त्वा वृद्धो ऽपि तरुणायते ॥ ३३ ॥

४०.३३च्च् पटे सु-भावितं भुक्त्वा श्वदंष्ट्रेक्षुर-माषात्मगुप्ता-बीज-शतावरीः ।
पिबन् क्षीरेण जीर्णो ऽपि गच्छति प्रमदा-शतम् ॥ ३४ ॥

४०.३४cv पिबेत् क्षीरेण जीर्णो ऽपि यत् किञ्-चिन् मधुरं स्निग्धं बृंहणं बल-वर्धनम् ।
मनसो हर्षणं यच् च तत् सर्वं वृष्यम् उच्यते ॥ ३५ ॥

द्रव्यैर् एवं-विधैस् तस्माद् दर्पितः प्रमदां व्रजेत् ।
आत्म-वेगेन चोदीर्णः स्त्री-गुणैश् च प्रहर्षितः ॥ ३६ ॥

४०.३६bv भावितः प्रमदां व्रजेत् सेव्याः सर्वेन्द्रिय-सुखा धर्म-कल्प-द्रुमाङ्कुराः ।
विषयातिशयाः पञ्च शराः कुसुम-धन्वनः ॥ ३७ ॥

४०.३७dv शराः कुसुम-धन्विनः इष्टा ह्य् एकैक-शो ऽप्य् अर्था हर्ष-प्रीति-कराः परम् ।
किं पुनः स्त्री-शरीरे ये संघातेन प्रतिष्ठिताः ॥ ३८ ॥

४०.३८cv किं पुनः स्त्री-शरीरेषु नामापि यस्या हृदयोत्सवाय यां पश्यतां तृप्तिर् अन्-आप्त-पूर्वा ।
सर्वेन्द्रियाकर्षण-पाश-भूता कान्तानुवृत्ति-व्रत-दीक्षिता या ॥ ३९ ॥

४०.३९bv यां पश्यतस् तृप्तिर् अन्-आप्त-पूर्वा कला-विलासाङ्ग-वयो-विभूषा शुचिः स-लज्जा रहसि प्रगल्भा ।
प्रियं-वदा तुल्य-मनः-शया या सा स्त्री वृष्य-त्वाय परं नरस्य ॥ ४० ॥

४०.४०cv प्रियं-वदा तुल्य-मनः-स्व-भावा आचरेच् च सकलां रति-चर्यां काम-सूत्र-विहिताम् अन्-अ-वद्याम् ।
देश-काल-बल-शक्त्य्-अनुरोधाद् वैद्य-तन्त्र-समयोक्त्य्-अ-विरुद्धाम् ॥ ४१ ॥

४०.४१bv काम-शास्त्र-विहिताम् अन्-अ-वद्याम् अभ्यञ्जनोद्वर्तन-सेक-गन्ध-स्रक्-चित्र-वस्त्राभरण-प्रकाराः ।
गान्धर्व-काव्यादि-कथा-प्रवीणाः सम-स्व-भावा वश-गा वयस्याः ॥ ४२ ॥

४०.४२bv -स्रग्-अन्न-वस्त्राभरण-प्रकाराः ४०.४२cv गन्धर्व-कन्यादि-कथा-प्रवीणाः दीर्घिका स्व-भवनान्त-निविष्टा पद्म-रेणु-मधु-मत्त-विहङ्गा ।
नील-सानु-गिरि-कूट-नितम्बे काननानि पुर-कण्ठ-गतानि ॥ ४३ ॥

४०.४३av दीर्घिकाः स्व-भवनान्त-निविष्टाः ४०.४३bv पद्म-रेणु-मधु-मत्त-विहङ्गाः ४०.४३cv नील-सानु-गिरि-कूट-नितम्बाः दृष्टि-सुखा विविधा तरु-जातिः श्रोत्र-सुखः कल-कोकिल-नादः ।
अङ्ग-सुखर्तु-वशेन विभूषा चित्त-सुखः सकलः परिवारः ॥ ४४ ॥

४०.४४bv श्रोत्र-सुखाः कल-कोकिल-नादाः ४०.४४cv अङ्ग-सुखर्तु विशेष-विभूषा ताम्बूलम् अच्छ-मदिरा कान्ता कान्ता निशा शशाङ्काङ्का ।
यद् यच् च किञ्-चिद् इष्टं मनसो वाजी-करं तत् तत् ॥ ४५ ॥

४०.४५bv कान्ताः कान्ता निशाः शशाङ्काङ्काः ४०.४५dv मनसो वाजी-करं हि तत् मधु मुखम् इव सोत्पलं प्रियायाः कल-रणना परिवादिनी प्रियेव ।
कुसुम-चय-मनो-रमा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा ॥ ४६ ॥

४०.४६bv कल-रणना प्रिय-वादिनी प्रियेव ४०.४६cv कुसुम-चय-मनो-हरा च शय्या देशे शरीरे च न का-चिद् अर्तिर् अर्थेषु नाल्पो ऽपि मनो-विधानः ।
वाजी-कराः संनिहिताश् च योगाः कामस्य कामं परिपूरयन्ति ॥ ४७ ॥

४०.४७av देशे शरीरे न कदा-चिद् अर्तिर् ४०.४७bv अर्थेषु नाल्पो ऽपि मनो-ऽभिघातः मुस्ता पर्पटकं ज्वरे तृषि जलं मृद्-भृष्ट-लोष्टोद्भवं ॥ ४८अ ॥
लाजाश् छर्दिषु वस्ति-जेषु गिरिजं मेहेषु धात्री-निशे ॥ ४८ब् ॥
पाण्डौ श्रेष्ठम् अयो ऽभयानिल-कफे प्लीहामये पिप्पली ॥ ४८च् ॥
संधाने कृमिजा विषे शुकतरुर् मेदो-ऽनिले गुग्गुलुः ॥ ४८द् ॥
वृषो ऽस्र-पित्ते कुटजो ऽतिसारे भल्लातको ऽर्शःसु गरेषु हेम ।
स्थूलेषु तार्क्ष्यं कृमिषु कृमिघ्नं शोषे सुरा छाग-पयो ऽथ मांसम् ॥ ४९ ॥

४०.४९bv भल्लातम् अर्शःसु गरेषु हेम अक्ष्य्-आमयेषु त्रि-फला गुडूची वातास्र-रोगे मथितं ग्रहण्याम् ।
कुष्ठेषु सेव्यः खदिरस्य सारः सर्वेषु रोगेषु शिलाह्वयं च ॥ ५० ॥

उन्मादं घृतम् अ-नवं शोकं मद्यं व्यपस्मृतिं ब्राह्मी ।
निद्रा-नाशं क्षीरं जयति रसाला प्रतिश्यायम् ॥ ५१ ॥

४०.५१bv शोकं मद्यं विसंस्मृतिं ब्राह्मी मांसं कार्श्यं लशुनः प्रभञ्जनं स्तब्ध-गात्र-तां स्वेदः ।
गुडमञ्जर्याः खपुरो नस्यात् स्कन्धांस-बाहु-रुजम् ॥ ५२ ॥

४०.५२dv नस्यं स्कन्धांस-बाहु-रुजम् नव-नीत-खण्ड-मर्दितम् औष्ट्रं मूत्रं पयश् च हन्त्य् उदरम् ।
नस्यं मूर्ध-विकारान् विद्रधिम् अ-चिरोत्थितम् अस्र-विस्रावः ॥ ५३ ॥

४०.५३bv औष्ट्री-मूत्रं पयश् च हन्त्य् उदरम् ४०.५३cv नस्यं चोर्ध्व-विकारान् ४०.५३cv नस्यं मूर्ध्नि विकारान् नस्यं कवडो मुख-जान् नस्याञ्जन-तर्पणानि नेत्र-रुजः ।
वृद्धस्य क्षीर-घृते मूर्छां शीताम्बु-मारुत-च्छायाः ॥ ५४ ॥

४०.५४av नस्यं कवडं मुख-गदान् ४०.५४av नस्यं केवलं मुख-गदान् ४०.५४av नस्यं कवडं मुख-जान् सम-शुक्तार्द्रक-मात्रा मन्दे वह्नौ श्रमे सुरा स्नानम् ।
दुःख-सह-त्वे स्थैर्ये व्यायामो गोक्षुरुर् हितः कृच्छ्रे ॥ ५५ ॥

४०.५५av सम-शुष्कार्द्रक-मात्रा ४०.५५bv मन्दे वह्नौ श्रमे सुरा-पानम् ४०.५५cv दुःख-सह-त्वं स्थैर्ये ४०.५५cv दुःख-सह-त्वं स्थौल्ये कासे निदिग्धिका पार्श्व-शूले पुष्कर-जा जटा ।
वयसः स्थापने धात्री त्रि-फला गुग्गुलुर् व्रणे ॥ ५६ ॥

४०.५६av कासे निदिग्धिका-पानं ४०.५६bv पार्श्व-शूले च पौष्करम् ४०.५६cv वयः-संस्थापने धात्री वस्तिर् वात-विकारान् पैत्तान् रेकः कफोद्भवान् वमनम् ।
क्षौद्रं जयति बलासं सर्पिः पित्तं समीरणं तैलम् ॥ ५७ ॥

इत्य् अग्र्यं यत् प्रोक्तं रोगाणाम् औषधं शमायालम् ।
तद् देश-काल-बलतो विकल्पनीयं यथा-योगम् ॥ ५८ ॥

इत्य् आत्रेयाद् आगमय्यार्थ-सूत्रं तत्-सूक्तानां पेशलानाम् अ-तृप्तः ।
भेडादीनां संमतो भक्ति-नम्रः पप्रच्छेदं संशयानो ऽग्निवेशः ॥ ५९ ॥

४०.५९av इत्य् आत्रेयाद् आगमाद् आर्थ-सूक्ष्मं ४०.५९av इत्य् आत्रेयाद् आगमय्यार्थ-सूक्ष्मं ४०.५९bv तत्-सूक्तीनां पेशलानाम् अ-तृप्तः दृश्यन्ते भग-वन् के-चिद् आत्म-वन्तो ऽपि रोगिणः ।
द्रव्योपस्थातृ-संपन्ना वृद्ध-वैद्य-मतानुगाः ॥ ६० ॥

क्षीयमाणामय-प्राणा विपरीतास् तथा ऽपरे ।
हिता-हित-विभागस्य फलं तस्माद् अ-निश्चितम् ॥ ६१ ॥

किं शास्ति शास्त्रम् अस्मिन् इति कल्पयतो ऽग्निवेश-मुख्यस्य ।
शिष्य-गणस्य पुनर्वसुर् आचख्यौ कार्त्स्न्यतस् तत्-त्वम् ॥ ६२ ॥

४०.६२dv आचक्षे कार्त्स्न्यतस् तत्-त्वम् न चिकित्सा-चिकित्सा च तुल्या भवितुम् अर्हति ।
विनापि क्रियया स्वास्थ्यं गच्छतां षो-डशांशया ॥ ६३ ॥

आतङ्क-पङ्क-मग्नानां हस्तालम्बो भिषग्-जितम् ।
जीवितं म्रियमाणानां सर्वेषाम् एव नौषधात् ॥ ६४ ॥

४०.६४dv सर्वेषाम् एव नौषधम् न ह्य् उपायम् अपेक्षन्ते सर्वे रोगा न चान्य-था ।
उपाय-साध्याः सिध्यन्ति ना-हेतुर् हेतु-मान् यतः ॥ ६५ ॥

४०.६५dv नो ऽ-हेतुर् हेतु-मांस् ततः यद् उक्तं सर्व-संपत्ति-युक्तयापि चिकित्सया ।
मृत्युर् भवति तन् नैवं नोपाये ऽस्त्य् अन्-उपाय-ता ॥ ६६ ॥

४०.६६dv नोपायेष्व् अन्-उपाय-ता अपि चोपाय-युक्तस्य धी-मतो जातु चित् क्रिया ।
न सिध्येद् दैव-वैगुण्यान् न त्व् इयं षो-डशात्मिका ॥ ६७ ॥

४०.६७av अप्य् एवोपाय-युक्तस्य ४०.६७cv न सिद्धिर् दैव-वैगुण्यान् ४०.६७dv न न्व् इयं षो-डशात्मिका कस्या-सिद्धो ऽग्नि-तोयादिः स्वेद-स्तम्भादि-कर्मणि ।
न प्रीणनं कर्षणं वा कस्य क्षीरं गवेधुकम् ॥ ६८ ॥

४०.६८cv न प्रीणनं कर्शनं वा ४०.६८dv कस्य क्षीर-गवेधुकम् कस्य माषात्मगुप्तादौ वृष्य-त्वे नास्ति निश्चयः ।
विण्-मूत्र-करणाक्षेपौ कस्य संशयितौ यवे ॥ ६९ ॥

४०.६९av कस्य माषात्मगुप्ताद्यैर् ४०.६९bv वृष-त्वे नास्ति निश्चयः विषं कस्य जरां याति मन्त्र-तन्त्र-विवर्जितम् ।
कः प्राप्तः कल्य-तां पथ्याद् ऋते रोहिणिकादिषु ॥ ७० ॥

४०.७०cv कः प्राप्तः कल्प-तां पथ्याद् अपि चा-काल-मरणं सर्व-सिद्धान्त-निश्चितम् ।
महतापि प्रयत्नेन वार्यतां कथम् अन्य-था ॥ ७१ ॥

चन्दनाद्य् अपि दाहादौ रूढम् आगम-पूर्वकम् ।
शास्त्राद् एव गतं सिद्धिं ज्वरे लङ्घन-बृंहणम् ॥ ७२ ॥

चतुष्-पाद्-गुण-संपन्ने सम्यग् आलोच्य योजिते ।
मा कृथा व्याधि-निर्घातं विचिकित्सां चिकित्सिते ॥ ७३ ॥

४०.७३av चतुष्-पाद्-गुण-संपूर्णे ४०.७३cv मा कृथा व्याधि-निर्घाते एतद् धि मृत्यु-पाशानाम् अ-काण्डे छेदनं दृढम् ।
रोगोत्त्रासित-भीतानां रक्षा-सूत्रम् अ-सूत्रकम् ॥ ७४ ॥

एतत् तद् अमृतं साक्षाज् जगद्-आयास-वर्जितम् ।
याति हालाहल-त्वं तु सद्यो दुर्-भाजन-स्थितम् ॥ ७५ ॥

४०.७५av एतद् वेदामृतं साक्षाज् ४०.७५bv जगत्य् आयास-वर्जितम् ४०.७५cv याति हालाहल-त्वं च अ-ज्ञात-शास्त्र-सद्-भावाञ् छास्त्र-मात्र-परायणान् ।
त्यजेद् दूराद् भिषक्-पाशान् पाशान् वैवस्वतान् इव ॥ ७६ ॥

४०.७६cv विवर्जयेद् भिषक्-पाशान् भिषजां साधु-वृत्तानां भद्रम् आगम-शालिनाम् ।
अभ्यस्त-कर्मणां भद्रं भद्रं भद्राभिलाषिणाम् ॥ ७७ ॥

४०.७७bv बहु-धागम-शालिनाम् ४०.७७bv भद्रम् आगम-शीलिनाम् ४०.७७cv अभ्यस्त-कर्मणां सिद्धिर् इति तन्त्र-गुणैर् युक्तं तन्त्र-दोषैर् विवर्जितम् ।
चिकित्सा-शास्त्रम् अ-खिलं व्याप्य यत् परितः स्थितम् ॥ ७८ ॥

४०.७८bv तन्त्र-दोष-विवर्जितम् ४०.७८dv व्यापठ्य परितः स्थितम् विपुला-मल-विज्ञान-महा-मुनि-मतानुगम् ।
महा-सागर-गम्भीर-संग्रहार्थोपलक्षणम् ॥ ७९ ॥

४०.७९av विपुला-मल-विज्ञानं ४०.७९cv महा-सागर-गम्भीरं ४०.७९cv महा-मुनि-मतानुगम् ४०.७९dv संग्रहार्थोपलक्षणम् ४०.७९dv संग्रहार्थोपलक्षकम् अष्टाङ्ग-वैद्यक-महोदधि-मन्थनेन यो ऽष्टाङ्ग-संग्रह-महामृत-राशिर् आप्तः ।
तस्माद् अन्-अल्प-फलम् अल्प-समुद्यमानां प्रीत्य्-अर्थम् एतद् उदितं पृथग् एव तन्त्रम् ॥ ८० ॥

४०.८०bv यो ऽष्टाङ्ग-संग्रह-महामृत-सार-तुल्यः ४०.८०dv प्रीत्य्-अर्थम् एवम् उदितं पृथग् एव तन्त्रम् इदम् आगम-सिद्ध-त्वात् प्रत्यक्ष-फल-दर्शनात् ।
मन्त्र-वत् संप्रयोक्तव्यं न मीमांस्यं कथञ्-च-न ॥ ८१ ॥

४०.८१av इदम् आगम-शुद्ध-त्वात् ४०.८१dv न मीमांस्यं कदा-च-न दीर्घ-जीवितम् आरोग्यं धर्मम् अर्थं सुखं यशः ।
पाठावबोधानुष्ठानैर् अधिगच्छत्य् अतो ध्रुवम् ॥ ८२ ॥

४०.८२av दीर्घं जीवितम् आरोग्यं एतत् पठन् संग्रह-बोध-शक्तः स्व्-अभ्यस्त-कर्मा भिषग् अ-प्रकम्प्यः ।
आकम्पयत्य् अन्य-विशाल-तन्त्र-कृताभियोगान् यदि तन् न चित्रम् ॥ ८३ ॥

४०.८३cv यः कम्पयत्य् अन्य-विशाल-तन्त्र- यदि चरकम् अधीते तद् ध्रुवं सुश्रुतादि-प्रणिगदित-गदानां नाम-मात्रे ऽपि बाह्यः ।
अथ चरक-विहीनः प्रक्रियायाम् अ-क्लिन्नः किम् इव खलु करोतु व्याधितानां वराकः ॥
८४ ॥

४०.८४bv -प्रणिगदित-गदानां नाम-मात्रेण बाह्यः ४०.८४bv -प्रतिगदित-गदानां नाम-मात्रे ऽपि बाह्यः ४०.८४dv किम् इह खलु करोतु व्याधितानां वराकः अभिनिवेश-वशाद् अभियुज्यते सु-भणिते ऽपि न यो दृढ-मूढकः ।
पठतु यत्न-परः पुरुषायुषं स खलु वैद्यकम् आद्यम् अ-निर्विदः ॥ ८५ ॥

वाते पित्ते श्लेष्म-शान्तौ च पथ्यं तैलं सर्पिर् माक्षिकं च क्रमेण ।
एतद् ब्रह्मा भाषतां ब्रह्म-जो वा का निर्-मन्त्रे वक्तृ-भेदोक्ति-शक्तिः ॥ ८६ ॥

४०.८६cv एतद् ब्रह्मा भाषते ब्रह्म-जो वा अभिधातृ-वशात् किं वा द्रव्य-शक्तिर् विशिष्यते ।
अतो मत्सरम् उत्सृज्य माध्यस्थ्यम् अवलम्ब्यताम् ॥ ८७ ॥

४०.८७av अभिधातुर् वशात् किञ्-चिद् ऋषि-प्रणीते प्रीतिश् चेन् मुक्त्वा चरक-सुश्रुतौ ।
भेडाद्याः किं न पठ्यन्ते तस्माद् ग्राह्यं सु-भाषितम् ॥ ८८ ॥

हृदयम् इव हृदयम् एतत् सर्वायुर्-वेद-वाङ्-मय-पयो-धेः ।
कृत्वा यच् छुभम् आप्तं शुभम् अस्तु परं ततो जगतः ॥ ८९ ॥

वाह्य सूत्र[सम्पाद्यताम्]