अलङ्कारसङ्ग्रहः/परिच्छेदः २

विकिस्रोतः तः
Jump to navigation Jump to search
← परिच्छेदः १ अलङ्कारसङ्ग्रहः
परिच्छेदः २
अमृतानन्दयोगीन्द्र:
परिच्छेदः ३ →

एवं वर्णगणव्याप्तिविचारणविचक्षणः।
कवित्वकारकस्तोमसम्पन्नः कविरुच्यते ।। १ ।।

रौचिको वाचिकस्त्वार्थः शिल्पको मार्दवानुगः।
विवेकी भूषणार्थी च कवयः सप्त कीर्तिताः ।। २ ।।

आवापोद्धारकृद्यान्मनसो रुचुरात्मनः।
रौचिको वाचिकः शद्धवागाडम्बरकारकः ।। ३ ।।

आर्थोऽभिधेयचित्रार्थी शिल्पको द्वयचित्रकृत्।
शब्दार्थमार्दवापेक्षी कविः स्यान्मार्दवानुगः ।। ४ ।।

शब्दार्थगुणदोषज्ञो महाकविमतानुगः।
शास्त्रालङ्कारसंस्कारी विवेकी कविपुङ्गवः ।। ५ ।।

अलङ्कारैकनिष्ठो यो भूषणार्थी बुधैर्मतः।
शक्तिर्निदानं काव्यस्य कथ्यते काव्यवेदिभिः ।। ६ ।।

शब्दच्छन्दोऽभिधानादिशास्त्रलोकावलोकनात्।
नैपुण्यं कविशिक्षा च त्रितयं काव्यकारणम् ।। ७ ।।

न जातु जायते काव्यं यां विना कारणैरपि।
शब्दच्छन्दोऽभिधानाद्यैः सा शक्तिरभिधीयते ।। ८ ।।

जातमप्यपहासाय कल्पते कविसन्ततेः।
शब्दच्छन्दोऽभिधानानां न विधिः सङ्ग्रहादिह ।। ९ ।।

तेषां स्वरूपमन्यत्र बोद्धव्यं बुद्धिशालिभिः।
वाक्यानां कविक्लृप्तानामर्थाः प्रोक्ताश्चतुर्विधाः ।। १० ।।

मुख्यो लक्ष्यस्तथा गौणो व्यङ्ग्यश्चेतीह कथ्यते।
स मुख्यः कथितः साक्षात्सङ्केतेनाभिधीयते ।। ११ ।।

जातिक्रियागुणद्रव्यभेदात्सोऽपि चतुर्विधः।
गौश्चलो धवलो डित्थ इत्युदाहरणं मतम् ।। १२।।

वाच्यार्थानुपपत्तौ यस्तत्सम्बन्धी प्रतीयते।
प्रयोजनवशादन्यो लक्ष्योऽर्थो लक्षणा त्रिधा ।। १३ ।।

वाच्यार्थस्य परित्यागादन्योऽर्थो यत्र लक्ष्यते।
सा जहल्लक्षणा ज्ञेया गङ्गायां घोष इत्यसौ ।। १४ ।।

वाच्यार्थस्यापरित्यागादन्योऽर्थो यत्र लक्ष्यते।
अजहल्लक्षणा कुन्ताः प्रविशन्तीति सा मता ।। १५ ।।

जहती चाप्यजहती स्वार्थं या तूभयात्मिका ।
सा छत्रिणो व्रजन्तीति तत्रोदाहरणं मतम् ।। १६ ।।

एकेण छत्रिणाऽन्येषां छत्रित्वमिह लक्ष्यते।
स गौणो गुणसादृश्यादन्योऽर्थो यः प्रतीयते ।। १७ ।।

उदाहरणमेतस्य सिंहो माणवको यथा।
मुख्यार्थबाधे तद्योगाद्व्यङ्ग्यो लक्ष्यस्य यत्फलम् ।। १८ ।।

नायं मुख्यो न वा लक्ष्यो लक्षणायाः फलं यतः।
गङ्गा मुख्यस्तटं लक्ष्यो व्यङ्ग्यः शीतलतादिकम् ।। १९ ।।

अनेकवाचकः शब्दो यत्र वाक्ये व्यनक्ति तत्।
व्यञ्जनं त्वभिधामूलं संयोगादिभिरुच्यते ।। २० ।।

संयोगो विप्रयोगश्च साहचर्यं विरोधिता।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ।। २१ ।।

सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ।। २२ ।।

सवज्रो हरिरित्यस्त्रयोगादिन्द्रः प्रतीयते।
अवज्रो हरिरित्यस्त्रवियोगादपि वासवः ।। २३ ।।

साहचर्याद्दाशरथी रामलक्ष्मणयोरिति।
रामोऽर्जुनविरोधीति विरोधाद्भार्गवो मतः ।। २४ ।।

स्थाणुं भज जगद्वन्द्यमित्यर्थे न शिवो मतः।
युष्मदर्थे प्रकरणाद्देवो जानाति मामिति ।। २५ ।।

कन्तुर्मीनध्वज इति लिङ्गात्कामः प्रतीयते।
देवः पुरारिरित्यत्र शब्दसन्निधितः शिवे ।। २६ ।।

मत्तः पिको ध्वनत्यत्र सामर्थ्यात्सुरभावृतौ।
औचित्यात्पातु वः शम्भुरिति साम्मुख्यमिष्यते ।। २७ ।।

अत्र देवो राजतीति देशाद्राजाऽवगम्यते।
चित्रभानुर्विभातीति कालेनार्थोऽवसीयते ।। २८ ।।

रात्रौ चेदनलो ज्ञेयो दिवा चेत्तिग्मदीधितिः।
मित्रं विभाति तु सुहृन्मित्रो भातीति भास्करः ।। २९ ।।

पुंनपुंसकयोर्व्यक्त्या व्यज्येते तौ यथाक्रमम् ।।

स्वरेण व्यक्तिरर्थस्य वेदे काव्येषु न क्वचित् ।। ३० ।।

एतावन्मात्रनेत्रे ते चेष्टयाऽर्थो विभाव्यते।
अर्थाश्च व्यञ्जकास्तत्र सहकारितया मताः ।। ३१ ।।

निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः।
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ।। ३२ ।।

वक्ताऽत्र यजमानश्चेत्कालो होमस्य गम्यते।
विटश्चेदत्र बोद्धव्यो वेश्याभिगमनोद्यमे ।। ३३ ।।

चपले लोचने नालं मनश्चालयितुं मम।
इत्यर्थव्यक्तिरेतस्मिन् काक्वा वाक्येऽवसीयते ।। ३४ ।।

इत्यादि तेषां विस्तारः सङ्ग्रहादिह नोच्यते।
दिङ्मात्रं दर्शितं प्राज्ञैरनुक्तमवगम्यताम् ।। ३५ ।।

विविधविहितवाक्यवृत्तिभेदैः कविवरकल्पितनव्यकाव्यबन्धैः।
प्रभवतु भवतः प्रतापभानुः परमनिरङ्कुशनूत्नसाहसाङ्क ।। ३६ ।।

इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे शब्दार्थनिर्णयो नाम द्वितीयः परिच्छेदः ।।