सामग्री पर जाएँ

अलङ्कारसङ्ग्रहः/परिच्छेदः १

विकिस्रोतः तः
अलङ्कारसङ्ग्रहः
परिच्छेदः १
अमृतानन्दयोगीन्द्र:
परिच्छेदः २ →

जगद्वैचित्र्यजननजागरूकपदद्वयम्।
अवियोगरसाभिज्ञमाद्यं मिथुनमाश्रये ।। १ ।।

समुल्लासरसाकारां तत्त्वकैरवकौमुदीम्।
नमामि शारदां देवीं नामरूपाधिदेवताम् ।। २ ।।

उद्दामफलदामुर्वीं गुर्वीमुदधिमेखलाम्।
भक्तिभूमिपतिः शास्ति शिवपादाब्जषट्पदः ।। ३ ।।

तस्य पुत्रस्यागमहासमुद्रबिरुदाङ्कितः।
सोमसूर्यकुलोत्तंसो महितो मन्मभूपतिः ।। ४ ।।

स कदाचित्सभामध्ये काव्यालापकथान्तरे।
अपृच्छदमृतानन्दमादरेण कवीश्वरम् ।। ५ ।।

वर्णशुद्धिं काव्यवृत्तिं रसान् भावाननन्तरम्।
नेतृभेदानलङ्कारान् दोषानपि च तद्गुणान् ।। ६ ।।

नाट्यधर्मान् रूपकोपरूपकाणां भिदा अपि।
चाटुप्रबन्धभेदांश्च विक्षिप्तांस्तत्र तत्र तु ।। ७ ।।

सञ्चित्यैकत्र कथय सौकर्याय सतामिति।
मया तत्प्रार्थितेनेत्थममृतानन्दयोगिना ।। ८ ।।

तन्त्रान्तरोदितानर्थान् वाक्यान्येव क्वचित्क्वचित्।
सञ्चित्य क्रियते सम्यक् सर्वालङ्कारसङ्ग्रहः ।। ९ ।।

अकारादिक्षकारान्ता वर्णाः स्युः पदतां गताः।
पदानि द्विविधानि स्युः सुप्तिङन्तविभेदतः ।। १० ।।

सञ्चयांस्तिङ्सुबन्तानां वाक्यान्याहुर्विपश्चितः।
तान्येव कविक्लृप्तानि सार्थानि सरसानि च ।। ११ ।।

सालङ्काराणि निर्दोषाण्याहुः काव्यं विपश्चितः।
पद्यं गद्यं च मिश्रं च त्रिविधं काव्यमुच्यते ।। १२ ।।

पद्यं तु छन्दसा बद्धं गद्यं वाक्यकदम्बकम्।
पद्यगद्यात्मिकं मिश्रं नाटकादिकमुच्यते ।। १३ ।।

सर्गबन्धं संस्कृतेन साश्वासं प्राकृतेन तु।
तद्वयं च महाकाव्यं सेतुरामायणादिकम् ।। १४ ।।

गद्यं तु गदितं द्वेधा कथा चाख्यायिकेति च।
कथा कल्पितवृत्तान्ता सत्यार्थाख्यायिका मता ।। १५ ।।

उच्छ्वासलम्बकाध्यायं गद्यते गद्ययोर्द्वयोः।
मिश्रमङ्काद्युपेतं स्याद्भाषाभिर्बहुभिर्युतम् ।। १६ ।।

आशीर्नमस्क्रियावस्तुनिर्देशो वाऽपि तन्मुखम्।
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः ।। १७ ।।

उद्यानसलिलक्रीडामधुपानरतोत्सवैः।
विप्रलंभैर्विवाहैश्च कुमारोदयवर्णनैः ।। १८ ।।

मन्त्रद्यूतप्रयाणाजिनायकाभ्युदयैरपि।
अलङ्कृतमसङ्क्षिप्तं रसभावनिरन्तरम् ।। १९ ।।

चतुर्वर्गफलायत्तं चतुरोदात्तनायकम्।
काव्यं कल्पान्तरस्थायि कल्प्यतेऽनल्पभूतये ।। २० ।।

छन्दो यरतमैर्व्याप्तं तथा भजसनैरपि।
गुरुणा लघुना व्याप्ता गणास्तल्लक्षणं यथा ।। २१ ।।

आदिमध्यावसानेषु यरता यान्ति लाघवम्।
भजसा गौरवं यान्ति मनौ तु गुरुलाघवौ ।। २२ ।।

वर्णं गणं च काव्यस्य मुखे कुर्यात्सुशोभनम्।
कर्तृनायकयोस्तेन कल्याणमुपजायते ।। २३ ।।

अन्यथानिष्टसम्पत्तिरनयोरेव संभवेत्।
तद्वर्णानां गणानां च शुद्धिर्ज्ञेया क्रमाद्यथा ।। २४ ।।

आभ्यां भवति सम्प्रीतिर्मुदीभ्यां धनमुद्वयात्।
ॠभ्यां लूभ्यामपख्यातिरेचः सुखकरा मताः ।। २५ ।।

बिन्दुसर्गङञाः सन्ति पदादौ न कदाचन।
चतुर्भ्यः कादिवर्णेभ्यो लक्ष्मीरपयशस्तु चात् ।। २६।
प्रीतिः सौख्यं च छान्मित्रलाभो जाद्भयमृत्युकृत्।
झष्टठाभ्यां खेददुःखे शोभाशोभकरौ डढौ ।। २७ ।।

भ्रमणं णात्सुखं तात्तु थाद्युद्धं सुखदौ दधौ।
नः प्रतापी भयासौख्यमरणक्लेशदाहकृत् ।। २८ ।।

पवर्गो यस्तु लक्ष्मीदो रो दाही व्यसनं लवौ।
शः सुखं तनुते षस्तु खेदं सः सुखदायकः ।। २९ ।।

हो दाहकृद्व्यसनदो ळः क्षः सर्वसमृद्धिदः।
एवं प्रत्येकतः प्रोक्तं वर्णानां वास्तवं फलम् ।। ३० ।।

संयोगः सर्वथा त्याज्यो वर्णानां क्षं विना मुखे।
शुद्धमप्यन्यसंयुक्तमशुद्धमुपजायते ।। ३१ ।।

यथा मधु घृतोन्मिश्रं विषतामेति वीर्यतः।
गणानां तु फलं ज्ञेयं प्रत्येकं प्रोच्यते यथा ।। ३२ ।।

यो वारिरूपो धनकृत् रोऽग्निर्दाहभयंकरः।
ऐश्वर्यदो नाभसस्तो भः सौम्यः सुखदायकः ।। ३३ ।।

जः सूर्यो रोगदः प्रोक्तः सो वायव्यः सुखप्रदः।
शुभदो मो भूमिमयो नो गौर्धनकरो मतः ।। ३४ ।।

देवतावाचकाः शब्दा ये च भद्रादिवाचकाः।
ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा ।। ३५ ।।

एवं वर्णगणव्याप्तिः समाना गद्यपद्ययोः।
संस्कृते प्राकृतादौ च विज्ञेया विबुधोत्तमैः ।। ३६ ।।

एवं विनिश्चितविनिर्मलवर्णवाक्यैर्हृद्यानवद्यरचितैर्नवगद्यपद्यैः।
स्पूर्तिं प्रयातु भवतो भुवनेषु कीर्तिः कौतूहलेन विदुषां कोमराङ्कभीम ।।

इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे वर्णगणविचारो नाम प्रथमः परिच्छेदः ।।