अलङ्कारमणिहारः (भागः ४)/सङ्करालङ्कारः (१२१)

विकिस्रोतः तः
Jump to navigation Jump to search

अथ संकरसरः (१२१)


यत्रान्योन्यमलंकाराः क्षीरनीरनयादमी ।
संकीर्येरन् संकरोऽयमिति काव्यविदो विदुः ॥

क्षीरनीरन्यायेनास्फुटभेदालंकारमेळने संकर इत्यर्थः ॥

सोऽयमङ्गाङ्गिभावेन समप्रधान्यतस्तथा ।
संदेहेन तथा चैकवाचकानुप्रवेशतः ॥
चतुर्था संकरः प्रोक्तश्श्रीमदप्पयदीक्षितैः ।
एवं नृसिंहाकृतयः पञ्चालंकृतयो मताः ॥

एवं संसृष्टिप्रभृतयः पञ्चालंकृतयो नरसिंहाकारा इत्यर्थः ॥

अप्रधानालंक्रियया प्रधानालंक्रिया यदि ।
ऊज्जीव्येत तदाऽङ्गाङ्गिभावसंकर इष्यते ॥

यथा--

 वदनसुषमासुधाम्बुधिनिमग्नकुसुमशरकरिकिशोरेण । शुण्डाग्रमिवोन्नमितं मृगमदतिलकं विभात्यहिनगेन्दोः ॥ २१३६ ॥


 यथावा ममैव प्रपन्नानन्दस्तुतौ--

 वदनरुचिह्रदविहरन्नयनमहामीनराजनिष्ठ्यूतम् । नासाविवरविलग्नं नूनं ध्यायामि मौक्तिकं देव्याः ॥ २१३७ ॥

 अत्रोदाहरणद्वयेऽपि वदनसुषमासुधाम्बुधीत्यादिवदनरुचिह्रदेत्यादि च परंपरितरूपकमुत्प्रेक्षयोरङ्गं, तदुज्जीवकत्वात् रूपकाभावे चेदृशोत्प्रेक्षानुन्मेषात् । अतोऽनयोरङ्गाङ्गिभावलक्षणस्संकरः ॥

 यथावा--

 अविवेकपटलमलिनं सुविवेकाञ्जनशलाकया नयनम् । नोन्मीलयति जनो यो जन्मान्धो भवति कोनु तत्तोऽन्यः ॥ २१३८ ॥

 अविवेकानां अज्ञानानां पटलमेव पटलं नयनेन्द्रियाच्छादकरोगविशेषः तेन मलिनम् नयनम् । सुविवेकः तत्त्वत्रययाथात्म्यविवेचनम् । स्पष्टमन्यत् । अत्राविवेकपटलेत्यादिरूपकेण जन्मान्धतानिर्धारणस्य समर्थितत्वात्काव्यलिङ्गमित्यनयोरङ्गाङ्गिभावसंकरः ॥

 यथावा--

 बर्हमयो यदुनन्दन शिरसि वतंसस्त्वया नवो विहितः । व्रजतरुणीहरिणीनां प्रसभं ग्रहणे वितंसतामैषीत् ॥ २१३९ ॥

 नवः नव्यः रम्यो वा वतंसः उत्तंसः विहितः न्यस्तः । वितंसतां मृगबन्धनोपकरणताम् । पक्षे वतंस इति शब्दः नवः

वकाररहितः । नशब्दपूर्वको बहुव्रीहिः । विहितः विः विकारः हितः वकारस्थान एव निहितः यस्य स तथोक्तस्सन् वितंसतां वितंसशब्दतां ऐषीदित्यर्थः । अत्र व्रजतरुणीहरिणीनामिति रूपकं वितंसतामिति पदार्थवृत्तिनिदर्शनाया अङ्गम् ॥

 यथावा--

 त्वय्यात्मशिखान्तस्थे विद्युदिवान्तस्थनीलजलदाऽस्तु । अन्तस्थनीलतोयदविद्युदसि त्वं कथं नु परमात्मन् ॥ २१४० ॥

 हे परमात्मन्! अनेन ‘तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः' इति श्रुतपरमात्मशब्दः प्रत्यभिज्ञाप्यते । आत्मशिखा ‘तस्य मध्ये वह्निशिखा’ इत्युक्ता प्रत्यगात्मरूपा ज्वाला ‘वह्निशिखा वह्नश्शिखा आत्मज्वाला’ इत्युपनिषद्भाष्यम् । त्वयि नीलतोयदश्यामलदिव्यविग्रहे इति भावः । अन्तस्थे सति ‘तस्याश्शिखायाः' इत्युक्तरीत्या अन्तर्विद्यमाने अन्तस्थः नीलजलदः यस्यास्सा तथोक्ता विद्युदिवास्तु ‘नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा’ इति श्रुतेः "नीलतोयदश्यामलभगवद्विग्रहाश्रयत्वान्मध्यस्थनीलतोयदविद्युन्निभेतत्यर्थः । मध्यस्थेति नीलतोयदविशेषणस्य पूर्वनिपाताभावश्छान्दसः" इत्युपनिषद्भाष्यकारैरभांषि । अभूतोपमेयम् । त्वं अन्तस्थनीलतोयदविद्युत् कथं नु असि । आत्मशिखामध्ये नीलतोयदनिभस्य भवतोऽवस्थानात्सा अन्तस्थनीलतोयदविद्युदिव प्रकाशतां नाम तव तथा प्रकाशः कारणाभावाद्विस्मयावह इति भावः । वस्तुतस्तु अन्तस्थः नीलतोयदशब्दः यस्य सः विद्युत् विद्युच्छब्दः विद्युदिति वर्णमध्ये नोलतोयदशब्दनिवेशे विनीलतो

यदद्युत् इति निष्पद्यते शब्दः तद्वाच्य इति यावत् । विनीलजलद इव द्योतत इति तथोक्त इति परिहारः । अत्र पूर्वार्धोदीरिता उपमा उत्तरार्धोदीरितविभावानाया अङ्गं श्लेषोपस्कृतम् ॥

 यथावा--

 भवतोऽम्बुजाक्ष भवता भवन्ति ये तारिता न जात्वापि ते । विन्दन्ति विपर्यासात्प्रकृतिविकारं पुनस्तदपि तन्ताः ॥ २१४१ ॥

 हे अम्बुजाक्ष! ये जनाः भवता भवतः संसारात् तारिताः मोचिता इत्यर्थः । ते जनाः जात्वपि कदाऽपि विपर्यासात् वैपरीत्यात् पुनरावृत्तेर्हेतोरिति यावत् । प्रकृतिविकारं प्राकृतलोकं न विन्दन्ति ‘एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते' इत्यादिश्रवणात् ‘मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते’ इति स्मरणात् ‘अनावृत्तिश्शब्दात्' इति सूत्राच्चेति भावः । पक्षे तारिता इति शब्दः जात्वपि विपर्यासात् प्रातिलोम्यात् प्रकृतेः तारिता इति प्रकृत्यंशस्य विकारं अन्यधाभावं न विन्दति । यथापूर्वमेवावस्थानादिति भावः । तथाऽपि एवं प्रकृतिसम्बन्धात्तारितत्वेऽपि पुनः पूर्ववदिति भावः तान्ताः अशनायापिपासादिप्रयुक्तग्लानिशालिन इति विरोधः । तारिता इति शब्दो वैपरीत्येऽपि पूर्ववत्तारिता इत्येव निष्पत्तेस्तकारान्त एवेति परिहारः । अत्र श्लेषोपस्कृतं काव्यलिङ्गं तथाविधस्य पुनरपि तान्ता इति पूर्वावस्थानुवृत्तिरूपपूर्वरूपस्याङ्गम् ॥

 यथावा--

 त्वत्तेजोविजिगीषुस्तेन परास्तोऽक्षमः प्रती

कारे । विषमश्नन्मग्नोऽब्धावौर्वोऽच्युत बाडबस्य गतिरियती ॥ २१४२ ॥

 हे अच्युत! और्वः बडबामुखाग्निः विषमश्नन् क्ष्वेळं जलं च पिबन् । बाडबस्य ब्राह्मणस्य और्वाग्नेश्च गतिः स्थितिः इयती एतावती यत्स्वावधीरयितुर्वैरनिर्यातनाक्षमतया विषाशनेनाब्धौ पतनमिति । पक्षे यज्जलशोषणेन जलधौ निवास इति । शिष्टं स्पष्टम् । अत्र श्लेषावलीढयोर्विषमार्थान्तरन्यासयोरङ्गाङ्गिभावः ॥

 यथावा--

 अधिगतकृशानुभावो महानुभावं महस्तुलयितुं ते । नूनमपर्याप्तोऽग्निर्भगवन्ननलं ततो वदन्त्येनम् ॥ २१४३ ॥

 अधिगतः प्राप्तः कृशः अनुभावः प्रभावः येन कृशानुभावः कृशानुत्वं च येन स तथोक्तः अग्निः महानुभावं महाप्रभावं ‘अनुभावः प्रभावे च' इत्यमरः । प्रभावः प्रतापः ते धाम तेजः प्रतापमित्यर्थः । तुलयितुं अपर्याप्तः नूनं । ततः एनं अग्निं अनलं अपर्याप्तं असमर्थमिति यावत् । अनलशब्दाभिलषनीयमिति तत्त्वम् । वदन्ति । अत्र कृशानुभावशब्दप्रतिपाद्यार्थद्वयश्लेषभित्तिकाभेदाध्यवसानाङ्गकं तुलनाऽपर्याप्तत्वसमर्थनरूपकाव्यलिङ्गमनलमिति निरुक्तेरङ्गमिति विशेषः ॥

 केचत्तु—- एवंरूपस्संकरो न केवलमर्थालंकारयोः किंतु शब्दालंकारयोरप्यस्तीत्युक्त्वा यमकानुलोमप्रतिलोमयोश्शब्दालंकार

योस्संकरमाहुः । तदेदमुदाहरणम्--

 देवे नानावेदे प्रथिते नित्यं स्थिता नतानवितुम् । देवेनानाऽवेदेवैषा मामपि रमा क्षमाजलधिः ॥

 नानावेदे नानाविधश्रुतौ, जात्येकवचनम् । प्रतिथे प्रसिद्धे सर्वेश्वरत्वेन सर्वेवेदप्रतिपाद्ये इत्यर्थः । देवे भगवति श्रीनिवासे नतान् शरणागतान् अवितुं त्रातुं नित्यं स्थिता क्षणमप्येतदवस्थानविरहे विनतजनापराधदर्शनजनितक्रोधोष्मलतया नैतद्रक्षणाभिमुख्यं भगवान् भजेतेति भावः । देवेनाना आनयति प्राणयतीत्याना पचाद्यच् देवानां इनाः प्रभवः इन्द्रादयो लोकपालाः तेषां आना प्राणयित्री क्षमाजलधिः मादृशापराधमर्षणनिपुणेति यावत् । एषां रमा मामपि अनवरतबहुविधापराधपरंपराकरणधुरीणमपीति भावः । अवेदेव रक्षेदेवेति संभवोक्तिः ॥

 यथावा--

 साऽवतु वृषगिरिभूषा सारसनाभा नदीनभाना सरसा । तद्भूषा साऽपिच या सारसनाभा नदीनभानासरसा ॥ २१४५ ॥

 सारसनाभा पद्मनाभा 'अच् प्रत्यंन्वव’ इत्यत्र अजिति योगविभागादच् । पृषोदरादित्वाद्वा अकारान्तत्वं निर्वोढव्यम् । नदीनभाना नदीनां इनः प्रभुः उदन्वान् तस्य भानमिव भानं

प्रकाशो यस्यास्सा जलनिधिश्यामलमूर्तिरित्यर्थः । सरसा सानुरागा सानन्दा वा भूसहिता वा । सा वृषगिरिभूषा श्रीनिवास इति यावत् । अवतु इति पूर्वार्धार्थः । तद्भूषा तस्य श्रीनिवासस्यापि भूषा आभरणप्राया साऽपिच श्रीरपीति भावः । अव

त्वित्येतदत्राप्यनुषज्यते । सारसनाभा सारसनेन काञ्चीदाम्ना आभातीति तथोक्ता या श्रीः नदीनभाः दीना स्वल्पा भाः दीप्तिः यस्यास्सा तथोक्ता न भवति । सरसा न भवतीत्यसरसा च न भवति सरसैव भवतीत्युत्तरार्धस्यार्थः ॥

 अत्राद्ये पद्ये प्रथमतृतीययोः द्वितीये द्वितीयतुरीययोश्चरणयोश्च यमकानुलोमप्रतिलोमयोश्शब्दालंकारयोः परस्परापेक्षत्वेनाङ्गाङ्गिभावसंकरः । सर्वस्वकारस्तु—- ‘ईदृशस्थले शब्दालंकारयोरन्योन्यमुपकार्योपकारकभावाभावेनाङ्गाङ्गिभावसंकरो न युक्तः । किंतु शब्दालंकारद्वयसंसृष्टिरेव । यद्वा अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टम्’ इत्यभाणीत् । काव्यदर्पणकारस्तु-- 'द्वयोश्शब्दालंकारयोः परस्परापेक्षया वैचित्र्यातिशयाधायकत्वात्संकर एवेदृशस्थले न तु संसृष्टिः, अङ्गाङ्गिभावाभावेऽपि मिथो वैचित्र्यातिशयहेतुत्वस्याक्षतत्वात् । अङ्गाङ्गिभावेऽपि मिथो वैचित्र्यातिशयहेतुत्वस्यैव पार्थक्येन प्रयोजकत्वात्’ इत्यवादीत् ॥

अन्यालंकारगर्भैवोन्नह्यते काऽप्यलंकृतिः ।
अन्यया तुल्यकालं चेत्समप्राधान्यसंकरः ॥

 यथा--

 शिरसा स्वं लालयतां प्रथयन्तं नित्यमेव साम्राज्यम् । फणिभूभृतः किरीटं काञ्चनलक्ष्मीं दधानमीडीय ॥ २१४६ ॥

 स्वं आत्मानं शिरसा लालयतां दधानानां नमस्कुर्वतां च नित्यमेव शाश्वतमेव साम्राज्यं ‘येनेष्टं राजसूयेन मण्डलस्ये

श्वरश्च यः । शास्ति यश्चाज्ञया राज्ञस्स सम्राट्’ इत्युक्तलक्षणं सम्राट्त्वं, अन्यत्र ‘स स्वराड्भवति’ इत्युक्तं मुक्तैश्वर्यं प्रथयन्तं प्रख्यापयन्तं ईदृशकीरीटधारणविरहे सम्राट्त्वप्रसिद्धेरयोगादिति भावः । पक्षे विपुलयन्तं असंकुचितं वितन्वन्तमित्यर्थः । काञ्चनलक्ष्मीं सुवर्णस्य समृद्धिं शोभां वा पक्षे काञ्चन अनिर्वचनीयवैभवां लक्ष्मीं भगवतीं श्रियं दधानं फणिभूभृत् शेषाद्रिरेव भूभृत् राजा तस्य किरीटं किरीटत्वेनाध्यवसितं श्रीनिवासं ईडीय स्तुयाम् । 'ईड स्तुतौ’ लिङुत्तमैकवचनम् । अत्र शिरसा स्वं लालयतामित्यादिश्लेषमूलातिशयोक्त्या अङ्गभूतया उन्नह्यमानैव भगवति श्रीनिवासे किरीटत्वाध्यवसानरूपरूपकातिशयोक्तिः फणिभूभृति महाराजव्यवहारारोपश्लिष्टरूपकगर्भैवोन्नह्यते, उक्तश्लेषमूलातिशयोक्तेरुभयोपकारकत्वात् । अत उक्तरूपकातिशयोक्तिरूपकयोरेकः कालः परस्परापेक्षया सौन्दर्योन्मेषश्चोभयोस्तुल्य इति विनिगमनाविरहात्समप्राधान्यम् ॥

 यथावा--

 हन्त सरागालापा त्वत्पाणिस्पर्शविवशिता मुरळी । अतिमधुरं त्वदधररसमनितरसुलभं किलापिबति शौरे ॥ २१४७ ॥

 हे शौरे! मुरळी वंशनाळी त्वत्पाणिस्पर्शेन एकत्र रागालापार्थेन अन्यत्र परिरम्भाद्यर्थेन विवशिता परवशीकृता एकत्र तदायत्ततया अन्यत्र स्तम्भप्रलयादिसात्त्विकभावोदयेन, सरागः सानुरागः आलापः मिथोभाषणं यस्यास्सा तथोक्ता । अन्यत्र रागाणां शंकराभरणादीनां गान्धर्ववेदोक्तानां रागाणां आलापेन

सह वर्तत इति तथोक्ता । अनितरसुलभं अतिमधुरं च त्वदधररसं आपिबति किल हन्तेत्येतादृशभाग्यलाभपरिचिन्तनजनिते हर्षे । अत्र सरागालापेत्यादिश्लेषभित्तिकाभेदातिशयोक्त्या अङ्गभूतया परिपोष्यमाणैव मुरळ्याः भगवदधररसास्वादोत्प्रेक्षा मुरळ्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिगर्भैव परिपोष्यते, सरागादिशब्दश्लेषस्योभयोज्जीवकत्वात् । तस्मादुपपादितोत्प्रेक्षासमासोक्त्योरैककालिकत्वात्समासोक्तिगर्भतां विना अधररसास्वादनोत्प्रेक्षाया निरवलम्बनत्वाच्चात्रापि समप्राधान्यम् ॥

 यथावा--

 मुग्धाऽतिललितलोला स्निग्धा श्रीनाथहृदयपरिरब्धा । गळदंशुकाऽनवरतोल्लासं किल याति हारयष्टिरियम् ॥ २१४८ ॥

 मुग्धा रम्या उदयद्यौवना च अतिललितं यथातथा लोला चञ्चला । अन्यत्र अत्यन्तं ललितेषु विलासविशेषेषु लोला आसक्ता स्निग्धा थाळथळ्यवती स्नेहवती च । इयं हारयष्टिः स्त्रीलिङ्गान्नायिकेति च प्रतीयते । श्रीनाथहृदयेन परिरब्धा सती गळन्तः प्रसृमराः अंशवो यस्यास्सा गळदंशुका 'शेषाद्विभाषा' इति कप् । अन्यत्र अतएव गळत् स्रंसमानं अंशुकं वसनं यस्यास्सा तथोक्ता । अनवरतं सततं उल्लासं प्रकाशं, इतरत्र नवरते अभिनवसंभोगे उल्लासं कुतूहलं याति किलेत्युत्प्रेक्षा ॥

 अत्र मुग्धेत्यादिश्लेषमूलाभेदाध्यवसायातिशयोक्त्या अङ्गतामापन्नया उत्तभ्यमानैव गळदंशुकेत्यादिश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यवलम्बिनी श्रीनिवासोरस्स्थलपरिरम्भहेतु

कनवरतोल्लासप्राप्तिरूपोत्प्रेक्षा हारयष्ट्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिगर्भैवोत्तभ्यते । अनयोश्च श्लेषोत्तम्भितत्वतौल्यादैककालिकत्वादन्योन्यापेक्षचारुतातिशयत्वाच्च पूर्ववत्समप्रधानता ॥

 यथावा--

 कल्याणगुणामुक्तः पयोधराग्रेसरातिशायिश्रीः । त्रय्यास्तरळो मणिरिव जीयाद्देवो वृषाचलनिकाय्यः ॥ २१४९ ॥

 कल्याणैः मङ्गळरूपैः गुणैः सौशील्यादिभिः अमुक्तः नित्ययुक्तः । आमुक्त इति वा संबद्ध इत्यर्थः । पक्षे कल्याणगुणैः सुवर्णतन्तुभिः आमुक्तः बद्धः यद्वा कल्याणगुणः आ समन्तात् मुक्ताः मौक्तिकानि यस्येत्यामुक्तः । विशेषणोभयपदकर्मधारयः । ‘कल्याणं मङ्गळे स्वर्गे’ इति रत्नमाला । पयोधराग्रेसरः घनाघनश्रेष्ठः तं अतिशेते अतिवर्तत इत्यतिशायिनी श्रीः दिव्यविग्रहशोभा यस्य स तथोक्तः । इतरत्र पयोधराग्रे इति व्यस्तम् । स्तनयोरुपरिसरेषु हारेषु अतिशयितशोभ इत्यर्थः । त्रय्याः श्रुतेः तरळः हारमध्यगमणिरिव स्थितः । अन्यत्सुगमम् । अत्र कल्याणगुणादिशब्दश्लेषातिशयोक्त्युज्जीव्यमानैव भगवति तरळमणित्वोत्प्रेक्षा त्रय्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिमन्तर्भाव्यैवोज्जीव्यते । श्लेषोत्तम्भितत्वादिकमुभयोस्तुल्यमेवेति समप्राधान्यम् ॥

 यथावा--

 देवर्षिपितॄणेभ्यो विनतान्नूनं मुमोचयिषसि हरे ।

उद्धारभरं वहसे वृद्धिं वितरन्कुतोऽन्यथाऽमीषाम् ॥ २१५० ॥

 हे हरे! इदं इह विवक्षितार्थोपस्कारकम् । देवर्षिपितॄणां ऋणेभ्यः पितॄणेत्यत्र ‘अकस्सवर्णे' इति सवर्णदीर्घः । विनतान् शरणागतान् मुमोचयिषसि नूनं मोचयितुमिच्छसीति सम्भावये । अन्यधा अमीषां विनतानां संबन्धिनीं एतत्प्रदेयामिति यावत् । वृद्धिं उत्तमर्णेन मूलातिरिक्तं ग्राह्यं द्रव्यं वृद्धिः । तां । पक्षे वृद्धिं अभ्युदयं मुक्तैश्वर्यरूपां समृद्धिं वा ‘वृद्धिस्तु वर्धने योगेऽप्यष्टवर्गौषधान्तरे । कालान्तरे चाभ्युदये समृद्धावपि योषिति' इति मेदिनी । वितरन् नियमेन प्रतिपादयन् । भगवत्पक्षे-- 'लक्षणहेत्वोः' इति शता, हेतुरिह फलं । वितरीतुमित्यर्थः । उद्धारस्य ऋणस्य भरं अतिशयं ‘स्यादृणं पर्युदञ्चनम् । उद्धारः' इत्यमरः । पक्षे ‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात्’ इत्युक्तरीत्या संसृतिसिन्धोरुद्धृतिभारं वहसे । अत्र वृद्धिदानपूर्वकोद्धारभारवहनान्यथानुपपत्त्या भगवतः ऋणविमोचनेच्छा कल्प्यते ।

देवर्षिभूतात्मनृणां पितॄणां न किंकरो नायमृणी च राजन् ।
सर्वात्मना यश्शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ॥

 इति श्लोकार्थोऽत्रानुसंहितः । अत्र वृद्ध्युद्धारशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्या उन्नह्यमानैव उक्तार्थापत्तिः भगवति प्रतिभूव्यवहारारोपलक्षणसमासोक्तिसहकृतैवोन्नह्यते । उक्तश्लेषोपकृतत्वपरस्परापेक्षचारुतोन्मीलनैककालिकत्वान्यनयोस्तुल्यानीति समप्राधान्यम् ॥

 ऐककालिकताभावेऽप्यलंकारद्वयं यदि।

 एकेनोन्नह्यते सोऽपि समप्राधान्यसंकरः ॥

 यथावा--

 त्वत्कीर्तिसुमसमुदयं ग्रथ्नातीव त्रयी त्वदीयगुणैः । गृह्णन्तस्तं सुधियः प्रसाधयन्ते दिशां ध्रुवं कबरीः ॥ २१५१ ॥

 अत्रोत्प्रेक्षयोः कालभेदेऽपि समप्राधान्यं, इतरेतरनिरपेक्षवाक्यद्वितयप्रतिपादितत्वात् । तं गृह्णन्त इति कीर्तिकुसुमसमुदयरूपरूपकमात्रोपजीवनेन पूर्वोत्प्रेक्षानपेक्षणात् । नचैवं 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इतिवदुत्प्रेक्षाद्वितयस्य संसृष्टिरेवेयमिति वाच्यं, लौकिकसिद्धग्रथनप्रसाधनपौर्वापर्यच्छायानुकारेणोत्प्रेक्षाद्वयपौर्वापर्येण सौन्दर्योत्कर्षसमुन्मीलनतस्संसृष्टिवैषम्यात् । तस्माद्दर्शादिवदेकफलसाधनतया समप्रधानमिदमुत्प्रेक्षाद्वयम् । अयं च संकरो दीक्षितोपज्ञमेव । "प्राञ्चस्तु अस्मिन् समप्राधान्यसंकरे प्राथमिकोऽङ्गाङ्गिभावेन, द्वितीयस्संसृष्ट्या च गतार्थ इत्याशयेन इमं भेदं न मेनिरे" इति रसिकरञ्जनीकारः । तद्विस्तरस्तत्रैव द्रष्टव्यः ॥

साधकं बाधकं वाऽपि यत्रान्यतरसंग्रहे ।
प्रमाणं नैव दृश्येत स्यात्स सन्देहसंकरः ॥

 यत्र विरुद्धयोरलंकारयोरेकत्र स्फूर्तौ तयोरन्यतरस्य परिग्रहे साधकं बाधकं वा प्रमाणं न दृश्येत तत्रानिश्चयात्संदेहसंकरः ॥

 यथा--

 त्वद्वरदानाविच्युतमाङ्गल्यां सर्वमङ्गळां शौरे ।

कात्यायनीं वदन्तः कोशकृतो हन्त कोशकृत एव ॥

 त्वद्वरदानेन अविच्युतं माङ्गल्यं यस्यास्तां तथोक्तां नित्यसौमङ्गल्यशालिनीमित्यर्थः । बाणासुराहवे भगवता महादेवे पराभूते भीतया भवान्याऽभ्यर्थितेन तेनैव भगवता नित्यसौमङ्गल्यलक्षणवरोऽस्यै व्यतारीति पद्मपुराणकथाऽत्रानुसंहिता । अतएव सर्वमङ्गळां सर्वप्रकारमाङ्गल्यशालिनीत्वेन तन्नामाभिलपनीयां देवीं भवानीं कात्यायनीं 'कात्यायनीत्युमा । या चार्धवृद्धा काषायवसना गतभर्तृका । कात्यायन्यर्धवृद्धा या काषायवसनाऽधवा' इत्यभिहिताभिधानां वदन्तः कोशकृतः रत्नमालानामलिङ्गानुशासनादिग्रन्थकृतः कोशकृत एव । हन्तेतीदृशजुगुप्सितनामकथनचिन्तनप्रयुक्ते खेदे । अत्र कोशकृतां कोशकृत्त्वविधानमनुपयुक्तिबाधितं सत्तदविवेचकतां गर्भीकरोतीति विध्यलंकारो वा । कोशकृतः कोशकृत एव कोशकारक्रिमय एव न तु विवेकशालिनो ग्रन्धकृत इत्यारोपपूर्वक आद्योऽपह्नवो वेत्युभयोरन्यतरनिर्धारणे साधकस्य वा बाधकस्य वा प्रमाणस्यादर्शनादनयोस्संदेहसंकरः ॥

 यथावा--

 मुखरुचिजलनिधिविहरन्नयनझषद्वंद्वजातपोतधियम् । उन्मीलयदुरगाचलविलासिमृगनाभितिलकमव्यान्नः ॥ २१५३ ॥

 अत्र धियमिति मतेर्भ्रान्तिरूपत्वविवक्षायां भ्रान्तिमदलंकारे विश्रान्तिः, संभावनात्वविवक्षायां उत्प्रेक्षायामित्यनध्यवसायादनयोस्संदेहसंकरः ॥

 यथावा--

 माधवविदूरसत्वा घनागमोल्लासितास्सुजाति

भवाः । अपि सुमनसश्च्यवन्ते वृथैव कतिचन महाफलाग्रहणात् ॥ २१५४ ॥

 माधवस्य विदूरसत्त्वाः दूरस्थितयः घनानां महतां जनानां आगमेन प्राप्त्या घनैः आगमैः शास्त्रैर्वा उल्लासिताः सुजातिभवाः सत्कुलप्रसूताः सुमनसो मनीषिणोऽपि कतिचन महाफलस्य निश्श्रेयसरूपस्य उत्तमफलस्य अग्रहणात् वृधैव च्यवन्ते भ्रश्यन्ति । अन्यत्र माधवस्य वसन्तस्य विदूरे सत्त्वं स्थितिः यासां ताः घनागमेन प्रावृषा उल्लासिताः विकासिताः शोभनाश्च ताः जातयः मालतीलताः तासु भवाः कतिचन सुमनसोऽपि पुष्पतां प्राप्ता अपि महतः फलस्य अग्रहणात् वृथैव च्यवन्ते । जातीकुसुमानां वसन्तसमये अनुन्मेषात् प्रावृषि विकासात् फलवत्त्वविरहात् वृथैव च्यवनं भवतीति भावः । अत्राप्रस्तुतजातीकुसुमप्रशंसा प्रस्तुतेषु उक्तविधेषु विद्वत्सु पर्यवस्यतीत्यप्रस्तुतप्रशंसा वा, प्रस्तुतविद्वद्वृत्तान्तेनाप्रस्तुतमालतीकुसुमव्यवहारस्फूर्तिरिति समासोक्तिर्वा, प्रकृताप्रकृतश्लेषो वेत्यनध्यवसायादेषां संदेहसंकरः ॥

 यथावा--

 त्वच्चरणसमं किसलयमासेव्याधश्शिराश्चिराद्बस्तः । कान्तस्स्तबकस्स्याद्यदि कमले त्वच्चरणपूजनार्हस्स्यात् ॥ २१५५ ॥

 हे कमले! बस्तः छागः चिरात् बहुकालं अधश्शिराः भक्त्या नम्रशीर्षस्सन् बस्तस्य निसर्गतस्तथात्वादिति हार्दम् । आसेव्य संपूज्य भक्षयित्वेति तु तत्त्वम् । कान्तः सुन्दरः स्तबकः

कुसुमगुच्छश्चेत् त्वच्चरणकिसलयास्वादनफलभूतस्तबकजन्मतां

यायाच्चेदित्यभिप्रायः । तदा त्वच्चरणपूजानार्हस्स्यात् । स्तबकजन्मना विना तदर्हता न स्यादिति भावः । बस्तः बस्तशब्दः अधश्शिराः विपरीतस्सन् स्तब इति निष्पन्नः ततः यदाकदाचित् कान्तश्चेत् कवर्णान्तस्स्याद्यदि स्तबकशब्दो भवितेति वस्तुस्थितिः । अत्र बस्तः स्तबकस्स्याच्चेत्त्वच्चरणार्चनार्हस्स्यादिति संभावना वा । इदं न कदाऽपि सिध्यतीति मिथ्याध्यवसितिर्वेति कविसंरम्भस्य निर्णेतुमशक्यत्वादनयोस्संदेहसंकरः ॥

 यथावा--

 अर्पयसि स्म यदा त्वं कार्पण्यं माधव प्रपित्सोर्मे । मन्ये सर्वाधिक्यात्तदैव कारुण्यमन्तरे व्यतनोः ॥ २१५६ ॥

 हे माधव! प्रपित्सोः त्वत्प्रपदनमिच्छतः मे कार्पण्यं--

अङ्गसामग्ग्रसंपत्तेरशक्तेश्चापि कर्मणाम् ।
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात् ॥
उपाया नैव सिद्ध्यन्ति ह्यपाया बहुलास्तथा ।
इति या गर्वहानिस्तु दैन्यं कार्पण्यमुच्यते ॥

 इति लक्षितं प्रपदनाङ्गं यदा अर्पयसि स्म कार्पण्योपलक्षितमङ्गजातमददाः तदैव अन्तरे मनसि सर्वाधिक्यात् सर्वातिशायितया कारुण्यं मयि कृपां व्यतनोरिति मन्ये । अन्यधा ममेदृशीमङ्गसम्पत्तिं नार्पयेरेवेति भावः । पक्षे यदा कार्पण्यमिति पदं अर्पयसि र्पवर्णरहितं करोषि स्म तदा सः र्वाधिक्यमिति छेदः । सः त्वमिति योजना एवंविधस्त्वं अन्तरे मध्ये र्वाधिक्यात् रुवर्णाधिक्यात् कारुण्यं व्यतनोरिति मन्ये । कार्पण्यशब्दस्य र्पवर्णोत्सारणेन मध्ये तत्रैव रुवर्णन्यासेन च कारुण्यमिति निष्पादना

दिति भावः । अत्र कार्पण्यान्यधानुपपत्त्या भगवतः कारुण्यविधानं कल्पितमित्यार्थापत्तिर्वा । अयं भगवान्मयि सर्वाधिक्येन कृपावान् मम प्रपदनाङ्गजातार्पयितृत्वादित्यनुमानं वेति संदेहः ॥

 यथावा--

 सुदृगिति गर्वात् योऽपरमाह त्वत्तोऽपि कारणं जगताम् । आहुस्तमेव सुदृशश्शौरेऽपरकारणं किमाश्चर्यम् ॥ २३५७ ॥

 हे शौरे! यः पुमान् सुदृक् सुधीरिति चक्षुष्मानिति च गर्वात् त्वत्तोऽपि अपरं अन्यं जगतां कारणं आह ब्रवीति सुदृशः विपश्चितः चक्षुष्मन्तश्च तमेव त्वत्तोऽन्यज्जगत्कारणमस्तीति वदन्तं पुमांसमेव अपरकारणं अपरं त्वदन्यत्कारणं यस्य तं तथोक्तं अपरं अवरं अश्रेष्ठं कारणं यस्य तथोक्तमिति वा आहुः । किमाश्चर्यमिति लोकोक्तिः । यस्त्वत्तोऽप्यपरं कारणमस्तीति ब्रवीति तस्यापरकारणत्वमनाश्चर्यावहं किन्तु युक्तमेवेति भावः । अतएव समालंकारः । यद्वा तं अपरकारणवादिनमेव अपरं च तत् कारणं चेति कर्मधारयः तं अपरकारणं आहुः । किमेतदाश्चर्यं अत्याश्चर्यमिति भावः । अतएव विरोधाभासः । तं पुमांसमेव अपरकारणं अपगतो रः रेफः यस्मात्तं कारणं काणं आहुरिति वस्तुस्थितिः । ‘एको ह वै नारायण आसीत्, सर्वभूतस्थमेकं नारायणं, कारणरूपमकारपरं ब्रह्मोम्' इत्यादिश्रुतिशतकण्ठरवप्रतिपादितभगवत्कारणत्वविरुद्धार्थाभिधायी काण एव न तु चक्षुष्मानिति सुदृशो वदन्ति । ‘श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते । एकेन हीनः काणस्स्यात्’ इत्याद्युक्तेरिति भावः । अत्र समविरोधाभासयोरेकत्रैव

कविसंरंभाविश्रान्तेस्तयोस्सदेहसंकरः ॥

 यथावा--

 दात्रं मन्ये तोत्रं वेत्रं वाऽरिच्छिदा त्वया विधृतम् । कुरुवीररथकुटुम्बिन् दातोवेतस्तु भेद एतेषाम् ॥ २१५८ ॥

 हे कुरुवीररथकुटुम्बिन् अर्जुनसारथे भगवन्! त्वया विधृतं तद्रथ्याश्वचोदनाय पाणौ कृतं तोत्रं तोदनं ‘प्राजनं तोदनं तोत्रम्’ इत्यमरः । वेत्रं वा दात्रं रिपुवंशलवनसाधनं लवित्रं ‘दात्रं लवित्रम्' इत्यमरः । मन्ये संभावये । एतेषां दात्रतोत्रलवित्राणां भेदः दातः छिन्न इति ‘दो अवखण्डने' कर्मणि क्तः । ‘आदेचः' इत्यात्वम् । ‘कृत्तं दातं दितं छितं वृक्णम्' इत्यमरः । अवेतः अवगतः अवपूर्वकादिणः कर्मणि क्तः । एतेषां रिपुकुलभेदनरूपधर्मवत्तायास्साम्यात् भेदभावोज्ञात एवेत्यर्थः । तुशब्दोऽवधारणे । ‘तुः स्याद्भेदेऽवधारणे' इत्यमरः । यद्वा दात्रं मन्ये लवित्रमेवेति निर्धारयामीत्यर्थः । अन्यत्सर्वं पूर्ववदेव । तत्त्वं तु एतेषां दात्रादीनां दातोवेतः क्रमेण दावर्ण तोवर्ण वेवर्णैरेव भेद इत्यर्थः । सार्वविभक्तिकस्तसिः । अथवा तोत्रं वेत्रं वा दात्रं दात्रतुल्यं मन्ये जाने । एतेषां भेदस्तु दातोवेतः उक्तवर्णैरेव न तु सर्वात्मना । शब्दार्थतादात्म्यं न विस्मर्तव्यम् । अत्र तोत्रवेत्रयोर्दात्रतादात्म्यसंभावनाभिसंधौ उत्प्रेक्षा, दात्रत्वनिर्धारणस्योत्तरवाक्यार्थसमर्थितत्वाभिसंधौ काव्यलिङ्गम्, दात्रतोत्रवेत्राणां तुल्यानां स्ववाचकशब्दगतयत्किंचिद्वर्णमात्रभेद इत्यभिप्राये व्यतिरेकः, भगवत्करे धृतं वस्तु दात्रमेव न तु तोत्रं वेत्रं वेत्यभिसंधौ त्वपह्नुतिरित्येतेषामेकत्रैव कविसंरम्भस्य नियन्त्रयितुमशक्यत्वात्संदेहसंकरः ॥

 यथावा--

 तव भक्तैरतिशुचिभिर्नाम्ना शुचिरवमतोऽनलो नूनम् । अहह विषाशनमुपयन् जीवनभङ्गाद्धिशान्ततां यातः ॥ २१५९ ॥

 अतिशुचिभिः--

योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिश्शुचिः ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥

 इत्युक्तप्रकारेण सर्वप्रकारशुद्धिशालिभिः त्वद्भक्तैः बहुभिरिति भावः । नाम्ना शुचिः नाममात्रेणैव शुचिरिति व्यवहार्यः न तु तद्वच्छुचितमः एक इति भावः । अनलः अवमतो नूनम् । अहहेति खेदे अद्भुते वा । विषाशनं विषोपलक्षितमन्नं उपयन् अश्नन्निति यावत् । जीवनभङ्गात् जीवितभ्रंशात् शान्ततां विनिष्टतां यातः । हीत्यवधारणे हेतौ वा ॥

 वस्तुस्थितिस्तु अहेत्यव्ययं अहहेत्येतदनतिरिक्तार्थकम् । हविषा आज्यादिना अशनं अभेदे तृतीया, हाविरभिन्नमशनं

उपयन् जीवनभङ्गात् जलतरङ्गात् शान्ततां निर्वाणतां यात इति । अत्रानलकर्तृकविषाशनादेरुपपादितश्लेषभित्तिकाभेदाध्यवसायनिर्व्यूढस्य भगवद्भक्तावमतत्वं न हेतुरित्यहेतोस्तस्य हेतुत्वेन संभावनायां चेदभिसंधिः तदा उत्प्रेक्षायां पर्यवसानं, उक्तविषाशनाद्यन्यथानुपपत्त्या तस्यावमतत्वकल्पनेचेत् अर्थापत्तौ, विषाशनादिहेतुना अवमतत्वसाधने चेत्तात्पर्यं तदा अनुमानालंकारे इति कविसंरम्भस्य नानामुखप्रसृततया अमीषां संदेहसंकरः ॥

 यथावा--

 सुमहानेकोऽहार्यः क्षोभं गमितोऽपि नैति विकृतिलवम् । गाम्भीर्यं श्रीधाम्नः स्थिराशयस्यास्य को गदितुमीष्टाम् ॥ २१६० ॥

 सुमहान् गिरिपक्षे अतिविशालः भगवत्पक्षे अतिपूज्यः मह्यते पूज्यते इति महान् इति व्युत्पत्तेः । एकः अहार्यः गिरिः । पक्षे इतरैरसंहार्यः ।

ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च ।
प्रसह्य हरते यस्मात्तस्माद्धरिरितीर्यते ॥

 इति भगवत एव सर्वसंहर्तृत्वोक्तेः । क्षोभं गमितोऽपि पुष्पफलशिलादार्वादिवस्तुलिप्सुभिर्जनैः स्वस्वाभीष्टप्रेप्सुभिरर्थिभिश्च क्षोभितोऽपि विकृतिलवं विकारलेशमपि नैति । स्थिरायाः भुवः आशयस्य आधारस्य जलाशय इतिवत् भूधरस्येति यावत् यद्वा स्थिराः आशयाः पनसाः यस्मिन् तस्य 'आशयः स्यादभिप्राये पनसाधारयोरपि' इति मेदिनी । पक्षे स्थिरहृदयस्येत्यर्थः । शरणागतसंग्रहे दोषप्रदर्शकैरन्तरङ्गैरप्यकम्पनीयहृदयस्येति भावः । तथाचाह-- मित्रभावेन संप्राप्तं न त्यजेयं कथंचन' इति । श्रीधाम्नः सरळद्रुमाणां बिल्वानां वा आश्रयस्य 'श्रीर्वेषरचनाशोभासंपत्सरळशाखिषु । वाणीलक्ष्मीलवङ्गेषु विषे बित्वेऽपि’ इति रत्नमाला । ‘श्रीर्वेषरचनाशोभाभारतीसरळद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तिविद्योपकरणेषु च' इति मेदिनी च । पक्षे श्रीनिवासस्येत्यर्थः । अस्य गिरेर्भगवतश्च गाम्भीर्यं दुष्प्रवेशत्वं अक्षोभ्यत्वं वा । भगवत्पक्षे भक्तानुग्रहवदान्यत्वादेरामूलतो दुरवगाहत्वं आश्रितापराधेषु प्रतिग्रहीतृनिकर्षादिषु च

सतोऽपि स्वज्ञानस्य गोपनेन दुर्ग्रहत्वं वा । तदभिप्रायेण हि सर्वज्ञस्याप्यविज्ञातृत्वोक्तिः । गदितुं वर्णयितुं क इष्टां शक्नुयात् ॥

 अत्राप्रस्तुतस्य कस्यचिन्महागिरेः प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे भगवति श्रीनिवासे पर्यवस्यतीत्यभिसन्धौ अप्रस्तुतप्रशंसा, प्रस्तुतवृषाद्रिवृत्तान्ते वर्ण्यमाने विशेषणसाम्यादप्रस्तुतमहाराजवृत्तांतस्य वा तथाविधदुग्धपयोनिधेर्वा वृत्तान्तस्य प्रतीतेस्समासोक्तिर्वा । अस्मिन् प्रकारे वृषगिरिपक्षे सुमहान् शोभिनैर्महैरुत्सवैः अनितीत्यन् अनितेः क्विप् । महराजपक्षे शोभनं महत् राज्यं यस्य तथाभूतः 'वर्तमाने पृषत्' इत्यादिना शतृवद्भावातिदेशादुगित्त्वान्नुम् । ‘महती वल्लकीभेदे राज्ये स्यात्तु नपुंसकम्' इति मेदिनी । ‘महद्राज्यं च' इत्यमरश्च । पयोधिपक्षे अतिमहान् अतिविपुलः क्षोभं गमितोऽपि वृषगिरिपक्षे भगवद्दर्शनलिप्सुभिर्जनैरारोहणचरणघट्टनादिभिस्सम्मर्दितोऽपीत्यर्थः । महाराजपक्षे वैरिजनाधिक्षेपादिभिः कदर्थितोऽपीत्यर्थः । पयोधिपक्षे अमृताद्यर्थिभिस्सुरैर्मथनेन विलोडितोऽपीत्यर्थः । विकृतिलवमपि नैति । स्थिराशयस्य आद्ये स्थिराणां सालपर्णीवृक्षाणां आशयस्य आधारस्य 'स्थिरा भूसालपर्ण्योर्नाशनौ मोक्षबलाद्रिषु' इति मेदिनी । द्वितीये स्थिरा भूः शये करे यस्य तस्य स्वायत्तधरणीकस्येत्यर्थः । तृतीये स्थिरायाः भूमेः आ समन्तात् शेत इति शयः तस्य पचाद्यच् । मेखलावद्भुवं वेष्टितवत इत्यर्थः । श्रीधाम्नः आद्यपक्षे

श्रीपदत्वाच्छ्रियो वासाच्छब्दशक्त्या च योगतः ।
रूढ्या श्रीशैल इत्येवं नाम चास्य गिरेरभूत् ॥

 इति वारोहोक्तरीत्या लक्ष्मीनिवासस्थानभूतस्येत्यर्थः ।द्वितीये त्रिवर्गसंपत्त्याश्रयस्येत्यर्थः । तृतीये श्रीजन्मनिकेतनस्येत्य

र्थः । गाम्भीर्यं दुष्प्रवेश्यत्वं दुराधर्षत्वं निम्नत्वं चेत्यर्थः । अन्यत्पूर्ववत् । यद्वा प्रस्तुतशैलवृत्तान्ते वर्ण्यमाने प्रस्तुतश्रीनिवासवृत्तान्तस्यैव द्योतनात् प्रस्तुताङ्कुरः । अथवा वाच्यस्यैव भगवद्रूपार्थस्य भङ्ग्यन्तरेण वर्णनात्पर्यायोक्तम् । आहोस्वित् एकोहार्य इत्यत्र एकः हा अर्यः आर्य इति वा छेदेन विशेष्यस्यापि श्लिष्टतया अर्यस्य आर्यस्य वा अप्रकृतस्य अहार्यस्य शेषाद्रेः प्रकृतस्य च श्लेषः । उपपादितेष्वेतेष्वेकत्रैव कविसंरम्भस्यावस्थापयितुमशक्यतया एतेषां संदेहसंकरः । अर्यः स्वामी एकोऽधिपतिरित्यर्थः 'अर्यस्स्वामिवैश्ययोः’ इति निपातनात् ‘ऋ गतौ' इत्यस्माद्धातोर्यत् । आर्यः प्राप्यः आचार्य इत्यर्थः उक्तादेव धातोः 'ऋहलोर्ण्यत्’ इति ण्यत् । इदं ‘अर्यस्स्वामि' इत्युक्तसूत्रस्य प्रत्युदाहरणम् । हेत्यव्ययं गांभीर्यचिन्तनप्रयुक्तविस्मये । 'विस्मये च जुगुप्सायां ह, इति शेषः । अर्यपक्षे स्वामिपक्षे उक्त एवार्थोऽनुसंधेयः । आर्यपक्षे तु क्षोभं गमितोऽपि 'इमा रामास्सरथास्सतूर्याः' इत्युक्तदिशा क्षोदिष्ठफलप्रर्दशनादिभिरितरैः प्रलोभितेऽपि विकृतिलवमपि तदासङ्गकृतचित्तविकारलेशमपि नैति । ‘तवैव वाहास्तव नृत्तगीते’ इत्यादिवत्तत्सर्वं प्रत्याख्याय 'वरस्तु मे वरणीयस्सएव’ इत्युक्तरीत्या अस्खलितचित्तवृत्तिरेव भवतीति भावः । श्रीधाम्नः विद्यानिधेः स्थिराशयस्य स्थिरे मोक्षे आशयः अभिप्रायः यस्य तस्य श्रीस्थिरशब्दयोः कोशस्तु प्रागुक्त एव । अस्य अहार्यस्य अर्यस्य आर्यस्य च गाम्भीर्यं गदितुं क इष्टामित्यर्थः ॥

 यथावा--

 मरकतमणिरेकोऽयं स्फुरतितरां सकललोकविभवकृते । भाग्यगरीयांसोऽमुं भोग्यतमं प्राप्नुवन्ति नैवान्ये ॥ २१६१ ॥

 अत्र भगवानेव मरकतमणितयाऽध्यवसीयत इति रूपकातिशयोक्तिः, आहोस्वित् अयमिति विषयं भगवन्तं निर्दिश्य तस्मिन्मरकतमणित्वारोपाद्रूपकं, अथवा भगवतो मरकतमणित्वेन संभावनाद्वस्तूत्प्रेक्षा गम्या, उत अप्रस्तुतमरकतवृत्तान्तेन प्रस्तुतश्रीनिवासवृत्तान्तप्रतीतेरप्रस्तुतप्रशंसा, किंवा मरकतमणित्वेनाध्यवसितस्य श्रीनिवासस्य सकललोकविभवकृते स्फुरतीति लोकसिद्धगारुत्मतापेक्षया विशेषस्य गम्यमानत्वाद्व्यतिरेकः, आहो श्रीनिवासस्यैव भङ्ग्यन्तरेण वर्णनात्पर्यायोक्तमिति भूयसामलंकाराणां संदेहसंकरः ॥

 यथावा--

 त्वदपाङ्गप्रत्यूषे विदळितदुरितौघसंतमसदोषे । उरगगिरिनाथ विसरति परितो विकसति मदन्तरङ्गाब्जम् ॥ २१६२ ॥

 अत्र त्वदपाङ्ग प्रत्यूष इव, अघयूधं संतमसमिव अन्तरङ्गं अब्जमिवेत्युपमाया वा, त्वदपाङ्गं एव प्रत्यूषः । अघयूधमेव संतमसं अन्तरङ्गमेवाब्जमिति रूपकस्य वा साधकबाधकप्रमाणाभावेनानिश्चयात्संदेहेन संकरः । साधकबाधकप्रमाणे न्यायदोषरूपे । यत्र न्यायदोषलक्षणसाधकबाधकप्रमाणयोरन्यतरस्यावतारः तत्रैकतरस्य निश्चयान्न संदेहः । न्यायश्च क्वचिदुपमायास्साधकः । रूपकस्य तु न साधको नाप्यत्यन्तप्रतिकूलः । क्वचित्तु रूपकस्य साधकः । उपमायास्तु न साधको नाप्यन्त्यन्तप्रतिकूल एव, दोषोऽपि क्वचिदुपमाया बाधकः रूपकस्य तु तटस्थः । क्वचित्तु रूपकस्य बाधकः उपमायास्तटस्थः । एवमलंकारान्तरयोरपि न्यायदोषावूहनीयौ ॥

 तत्रोपमायास्साधको रूपकंप्रति तटस्थो न्यायो यथा--

 श्रियमस्माकं तनु तामित्याश्रयतां य अदधीत नु ताम् । गमयन्विपदं तनुतां पदकमलममुष्य संपदं तनुताम् ॥ २१६३ ॥

 अस्माकं तां श्रियं मुक्तिसंपदं तनु कुरु इति आश्रयतां जनानां यः श्रीनिवासः विपदं भवमयीं आपदं तनुतां कृशतां गमयन् सन् तां तत्प्रार्थितां श्रियं आदधीत नु कुर्वीत च । नु इत्येतदव्ययं पूर्वोक्तविपत्तनूकरणसमुच्चये । ‘प्रत्युक्तावुपमाने च विषादोत्प्रेक्षयोरपि । नु पादपूरणे ज्ञेयो जिज्ञासायां समुच्चये’ इति शेषः । अमुष्य भगवतः पदकमलं संपदं सर्वप्रकारां श्रियं तनुतां कुरुताम् । अत्र संपदं तनुतामिति मुख्यतया प्रतिपाद्यमानसर्वप्रकारश्रीप्रदानरूपार्थः भगवत्पद एवानुकूल्यमश्नुत इति पदं कमलमिवेत्युपमायास्साधकः । पदमेव कमलमिति रूपकस्य तु नाञ्जस्येन,कमले विवक्षितसंपत्प्रदानस्य मुख्यतयाऽसवगतेः । ननु तर्हि रूपकबाधिकैव किं न स्यादुपमेति शङ्क्यं, कमलेऽपि सौरभादिरूपमुख्यसंपत्प्रदानसंभवात् । अतो न रूपकबाधकत्वं, किंतु तटस्थतैव ॥

 रूपकसाधक उपमांप्रति तटस्थो यथा--

 साधुगतिप्रतिरोधकमाधुन्वानाऽखिलं तमःप्रसरम् । माधवमुखामृतांशोराधत्तां नयनसंमदं ज्योत्स्ना ॥ २१६४ ॥

 साधु यथास्यात्तथा गतेः संचरणस्य अन्यत्र सन्मार्गगमनस्य अर्चिरादिगतेर्वा प्रतिरोधकम् । अन्यत्सुगमम् । अत्र मुख

मेवामृतांशुरिति रूपके ज्योत्स्नापदं साधकप्रमाणं मुख्यतयाऽवगम्यमानो ज्योत्स्नापदार्थः अमृतांशोरेवानुकूल्यमश्नुत इति मुखामृतांशोरिति रूपकसाधकः । मुखं अमृतांशुरिवेत्युपमायास्तु नाञ्जस्येन साधकः, मुखे मुख्यतया जोत्स्नापदार्थस्य चन्द्रिकारूपस्यानवगमात् । न च तर्हि रूपकमुपमाबाधकमेव किं न स्यादिति वाच्यं, यथा अमृतांशावनुकूलः न तथा मुखे । किंतूपचारेणानुकूल्यस्य कथंचित्संभवान्नोपमाप्रतिकूलता । किंतु ताटस्थ्यमेवेति ध्येयम् ॥

 उपमाबाधकाद्रूपकपरिग्रहो यथा--

 शरदुदितशिशिरकिरणस्फुरणजुषा विशदयन् वृषाद्रिमणिः । कमलाक्षो नस्स्वान्तं कटाक्षसुधया विलिम्पति निशान्तम् ॥ २१६५ ॥

 नः अस्माकं स्वान्तं निशान्तं भवनमिति व्यस्तरूपकम् । विशदयन्निति हेत्वर्थे शता । हेतुरिह फलम् । शरदुदितेत्यादि कटाक्षसुधयेत्यस्य विशेषणम् । अत्र कटाक्षस्सुधेवेत्युपमायां उक्तव्यस्तरूपकमेव न बाधाकं, किंतु शरदुदितेत्यादिसामान्यधर्मप्रयोगोऽपि बाधक एव । न तु तटस्थः ‘उपमितं व्याघ्रादिभिः’ इत्यादिना तदप्रयोग एव समासविधानादिति प्राञ्चः । वयं तु क्वचित्सामान्यधर्मप्रयोगोऽपि नोपमाबाधक इति ब्रूमः ॥

 यथा--

 स्ववशानुचरं रुचिरं सपद्मकं देवकुञ्जरं सुकरम् । नागागमसविहारं योगाद्विन्देय धीरगम्भीरम् ॥

 स्वा स्वकीया या वशा करिणी ‘वशा वन्ध्याऽसुता योषा स्त्रीगवीकरिणीषु च । त्रिष्वायत्ते क्लिबमायात्तत्वे चेच्छाप्रभुत्व

योः' इति मेदिनी । तस्याः अनुचरं सहायम् । पक्षे स्ववशेनैव स्वेच्छयैव अनुचरः । ‘यत्र कामगमो वशी’ इत्युक्तरीत्या सकल लोकचारी स्वतन्त्र इत्यर्थः । तं तथोक्तं, पद्मकेन बिन्दुजालकेन सह वर्तत इति सपद्मकः तम् । पक्षे पद्मया श्रिया सह वर्तमानं, शैषिके कपि 'आपोऽन्यतरस्याम्' इति वैकल्पिको हृस्वः । सुकरं शोभनशुण्डादण्डं रमणीयपाणिं च । नागनां गजानां आगमेन प्राप्त्या सविहारं नागागामे फणिशैले सविहारं च । धीरगम्भीरं देवकुञ्जरं देवः कुञ्जर इवेति विग्रहः देवश्रेष्ठं श्रीनिवासं योगात् युक्तेः सन्नाहादुपायाद्वा पक्षे ध्यानात् विन्देय 'योगस्सन्नहनोपायध्यानसंगतियुक्तिषु' इत्यमरः ॥

 यथावा--

 अतिवृद्धिमदामोदप्रदानतो विवशयन्सदाळिवरान् । दैवतनागः फाणगिरिवनचारी सकलभान्वितो जयतु ॥ २१६७ ॥

 अतिबृद्धिमतः आमोदस्य आनन्दस्य पक्षे अतिशयिता वृद्धिर्यस्य स तथा यो मदामोदः तस्य दानपरिमळस्य प्रदानतः सदाळिवरान् सतां ब्रह्मविदां आळेः पङ्क्तेः ये वराः श्रेष्ठाः तान् । पक्षे सदा अळिवरान् भ्रमरश्रेष्ठान् विवशयन्, सकला संपूर्णा भा दीप्तिः ‘तस्य भासा सर्वमिदं विभाति’ इत्याद्युक्ता तया अन्वितः । पक्षे सः कलभैः त्रिंशद्वर्षगजविशेषैः अन्वितः दैवतनागः देवश्रेष्ठः भगवान् जयतु ।‘स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः' इत्यमरः । अत्र पद्यद्वयेऽपि देवकुञ्जरं दैवतनाग इत्यत्र उपमितसमासाश्रयेण सामान्यधर्मप्रयोगो नोपमाबाधकः । 'बृन्दारककुञ्जरैः पूज्यमानम्’ इति सामान्यधर्म

प्रयोगेऽपि समासविधानात् व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थत्वादस्य वचनस्य । तस्मादिह उपमारूपकयोस्संदेह एव युक्तः ॥

 रूपकबाधकादुपमापरिग्रहो यथा--

 नमदमरमकुटपटलीघटितमणीकिरणपुञ्जपिञ्जरितम् । भव्यं तनोति जगतां दिव्यं फणिशेलनाथपदपद्मम् ॥ २१६८ ॥

 अत्र नमदमरेत्यादि विशेषणं पद्मे कथंचिदप्यसंभवीति पदमेव पद्ममिति रूपकस्य बाधकं न तु तटस्थम् ॥

 एवं--

 वृषभूभृति विबुधानामावासे पारिजात इव लसति । जगदामोदविधात्री जयति श्रीमञ्जरी मुरं द्विषति ॥ २१६९ ॥

 विबुधानां विदुषां देवानां वा आवासे निवासभूते वृषभूभृति शेषाद्रौ । पक्षे वृषा इन्द्रः भूभृत् राजा यस्य तस्मिंस्तथोक्ते । विबुधानामावासे त्रिदशालये पारिजात इव लसति प्रकाशमाने मुरं द्विषति श्रीनिवासे ‘द्विषश्शतुर्वा’ इति द्वितीया । जगतां आमोदस्य आनन्दस्य परिमळस्य च विधात्री । शेषषष्ठ्यास्समासः । श्रीः लक्षीरेव मञ्जरी वल्लरी जयति । अत्र श्रीमञ्जरीत्यत्र रूपकमेवाभ्युपेत्यं, जगदामोदविधात्रीति सामान्यधर्मोपादानात्तस्य चोपमाबाधकत्वात् । न च पारिजात इवेत्युपमोपक्रमानानुरूप्यमिति वाच्यम्, सत्यपि बाधके उपक्रम एवानुरोद्धव्य इतीदं न वेदानुशासनम्, नापि धर्मानुशासनं न वा राजशासनम् । यत्र तु न

बाधकं, यथा अत्रेव पद्ये तृतीयचरणे जगदमोदविधातरि' इति कृते प्रकामं भवतु तत्रोपक्रमानुरोधादुपमितसमास एव ॥

 एवं--

 वृषभूभृति विबुधानामावासे श्रीनिवासकल्पतरौ ! जगदामोदविधातरि जयति श्रीमञ्जरी महोदारे ॥ २१७० ॥

 इति पूर्वोदाहृतपद्यस्यैव प्रकारान्तरेण प्रणयने श्रीमञ्जरीत्यत्र सामान्यधर्माप्रयोगेऽपि नोपमासमासो युक्तः । किंतु श्रीनिवासपारिजात इत्यत्र जगदामोदेत्यादिसामान्यधर्मप्रयोगबलाद्रूपकसमासे स्थिते तदनुरोधस्यैवोचितत्वात् । अन्यथा प्रथममभेदप्रधानतया प्रकृष्टं रूपकमवलम्ब्य पश्चाद्भेदाभेदप्रधानतया ततोऽपकृष्टाया उपमाया अवलम्बने पतत्प्रकर्षदोषोऽपि स्यात् ॥

 यथावा--

 मणिवरपरिरब्धाया वक्षस्स्थल्याः फणीन्द्रशिखरिमणेः । मौक्तिकमाला विलसति ललिता स्वेदोदबिन्दुमालेव ॥ २१७१ ॥

 अत्र स्वेदोदबिन्दुमालेवेत्युत्प्रेक्षा न तूपमा, तथा सति मणिवरपरिरब्धाया इति वक्षस्स्थलीविशेषणस्य नैरर्थिक्यापातात् । मौक्तिकमालायास्स्वेदबिन्दुमालोपमाया उक्तविशेषणनैरपेक्ष्येणैव सिद्धेः । अतो मणिवरेत्यादि वक्षस्स्थलीविशेषणमुपमाबाधकम् ॥

अभिन्नपदबोध्यास्स्युर्नानालंकृतयो यदि ।
तदैकवाचकानुप्रवेशसंकर इष्यते ॥


अर्थयोश्शब्दयोश्शब्दार्थयोर्वाऽप्येकवाचके ।
अनुप्रवेशतस्सोऽयं त्रिविधः परिकीर्तितः ॥

 अभिन्नपदबोध्यनानालंकारत्वमेकवाचकानुप्रवेशसंकरः । तत्र च अर्थालंकारयोश्शब्दालंकारयोर्वा एकस्मिन् वाचके अनुप्रवेशेन त्रैविध्यम् । अर्थालंकारयोरेव एकवाचकानुप्रवेश इति दीक्षिताः । शब्दालंकारयोरपि स इति सर्वस्वकारः । शब्दार्थालंकारयोरेवेति काव्यप्रकाशकारः ॥

 तत्राद्यो यथा-

 त्वदितरदैवतभजनाद्यदि विन्देतामृतं जनो जातु । उदमन्थादपि शौरे नूनं विन्देत स खलु नवनीतम् ॥ २१७२ ॥

 उदकस्य मन्थः 'मन्थौदन’ इत्यादिना उदकशब्दस्य वैकल्पिक उदादेशः । अत्र प्रतिपाद्यमानोऽर्थस्तुल्यवाक्यार्थैक्यारोपलक्षणनिदर्शनारूपः । किञ्चित्तर्कणमन्यत्तर्कणसाधनमित्युक्तसंभावनरूपश्चेत्यनयोरर्थालंकारयोरेकानुपूर्वीबोधितत्वादेकवाचकानुप्रवेशसंकरः ॥

 यथावा--

 सुरपुङ्गवे समस्तस्तत्पुरुषे भजति गौरवं स्वान्ते । धत्ते सुशब्दतामथ योऽनेवंस्यात्कथं नु स सुशब्दः ॥ २१७३ ॥

 सुरपुङ्गवे देवसार्वभौमे । तत्पुरुषे इत्यत्र तदिति भिन्नं पदं गौरवविशेषणम् । पुरुषे श्रीमति नारायणे समस्तः सर्वोऽपि लोकः

स्वान्ते मनसि तत् अनिर्वचनीयं गौरवं भक्तिमिति यावत् । भजति अथ सुशब्दतां शोभनश्शब्दः कीर्तिर्यस्य सः तस्य भावं 'शब्दोऽक्षरयशोगीतव्योमवाक्यध्वनिष्वपि' इति रत्नमाला ॥

दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत्सुशब्दो भवति तावत्स्वर्गे महीयते ॥

 इति भारतप्रयोगश्च । भगवति गौरवभागुत्तमकीर्तिमान् भवतीत्यर्थः। यः पुमान् अनेवंस्यात् भगवति गौरवं न तनुयात् सः कथंनु सुशब्दः सुकीर्तिः भवेत् । भगवदभक्तस्य कथं

सुकीर्तिलाभस्स्यादित्यर्थः । अन्यत्र तत्पुरुषे तत्पुरुषसमासविवक्षायामिति यावत् । सुरपुंगवे सुरपुंगवशब्दे गौः अवं इति छेदः । समस्तः समासं प्राप्तः गौः गोशब्दः स्वान्ते स्वस्य चरमावयवभूते ओकारे अवं अवादेशं भजति । ‘गोरतद्धित लुकि' इति गोऽन्ततत्पुरुषाट्टचि चरमावयवस्य ओकारस्य 'एचोऽयवायावः' इत्यवादेशो भवतीत्यर्थः । अथ एवमवादेशानन्तरमेव सुशब्दतां साधुशब्दत्वं धत्ते । तत्पुरुषे गोशब्दस्य कृतसमासान्तस्यैव साधुत्वात् । यः तत्पुरुषे समस्तः गोशब्दः उत्तरपदभूतः अनेवंस्यात् समासान्तटजभावेन अवादेशं न प्राप्नुयात् सः कथं सुशब्दः साधुशब्दस्स्यात् । उक्तसमासान्तप्रत्ययस्य नित्यतया तदभावे तस्य साधुता कथं स्यादिति भावः । अत्र सौशब्द्यभाक्त्वस्य भगवद्भक्तिभाक्त्वरूपवाक्यार्थहेतुकत्वादेकं काव्यलिङ्गम् । अप्रस्तुतभक्तजनसौशब्द्यभाक्त्वस्वरूपकार्यप्रशंसया तत्कारणभूतभगवद्भक्तिरूपकारणस्य शुभप्रदानोत्कर्षप्रतीतेरेका कार्यनिबन्धनाऽप्रस्तुतप्रशंसा । एवमप्रस्तुतानेवंविधासौशब्द्यभाक्त्वरूपकार्यप्रशंसया तत्कारणभूतभगवदगौरवरूपकारण

स्यानर्थदानोत्कर्षप्रतीतेरन्या चाप्रस्तुतप्रशंसा । प्रकृताप्रकृतश्लेषश्चेत्येतेऽर्थालंकारा एकवाचकानुप्रविष्टतया संकीर्यन्ते ॥

 यथावा--

 हरिगुणमसृणा कृतिरियमनादृता चेत्खलैः किमेतस्याः । लावण्यघना ललना जनुषान्धैर्न्निन्द्यते यदि किमस्याः ॥ २१७४ ॥

 जनुषान्ध इत्यत्र तृतीयाया अलुक् ‘पुंसाऽनुजो जनुषान्ध इति च' इति निपातनात् । अत्र सर्वं पद्यं दृष्टान्तालंकाररूपम् । पूर्वोत्तरार्धे प्रत्येकमन्यदोषेणान्यदोषानुदयलक्षणावज्ञालंकाररूपे । तेन एकावाचकानुप्रवेशसंकीर्णे ॥

 यथावा--

 भगवन् स दैवनिहतप्रकृतिर्द्वेष्टा तवेडितः क्वनु वा । नित्यमुदात्तप्रकृतिस्तवाञ्चिता नेडितः क्व वा दृष्टः ॥ २१७५ ॥

 सः दुष्कृतातिशयस्य दुर्वचत्वात्स इति निर्देशः । तव द्वेष्टा जनः दैवेन निहता नाशिता प्रकृतिः स्वाभाविकभगवच्छेषताद्याकारो यस्य तथोक्तस्सन् क्ववा ईडितः स्तुतः स्यात् सर्वत्र निन्दित एव स्यादिति भावः । नित्यं तव अञ्चिता पूजयिता उदात्तप्रकृतिः श्लाघ्यस्वभावः क्ववा नेडितः सर्वत्र सर्वैस्स्तुत एव स्यादिति भावः । पक्षे द्वेष्टा द्वेष्टेत्याकारकश्शब्दः सदैव नित्यमेव निहता अनुदात्ता प्रकृतिः तृच्प्रकृतिः द्विषधातुरूपा यस्य स तथोक्तः । द्विषधातोरनुदात्तेषु परिगणितत्वादिति भावः । अतएव क्ववा इडितः इडागमेन संबद्धः ‘एकाच उपदेशेऽनुदात्तात्' इतीण्निषे

धादिति भावः । अञ्चिता अञ्चितेत्याकारश्शब्दस्तु नित्यं उदात्तप्रकृतिः उदात्तभूता अञ्चधातुरूपा प्रकृतिर्यस्य स तथा अतएव क्ववा इडितो न इडागमविशिष्टो न स्यात् उदात्तत्वात् 'आर्धधातुकस्येड्वलादेः' इतीडागमं प्राप्त एव भवेदिति भावः । अत्र विशिष्टो वाक्यार्थस्समासोक्तिरूपः काव्यलिङ्गरूपाभ्यां वाक्यार्थाभ्यामेकवाचकानुप्रवेशसंकीर्णः ॥

 यथावा--

 शेषगिरीश्वर भवतो वशगौ खगभुजगतल्लजौ यस्मात् । भजतो नित्यसमासं मन्ये तदविग्रहावेतौ ॥ २१७६ ॥

 हे शेषगिरीश्वर श्रीनिवास ! पक्षे शेषगिरि व्याकरणे ईश्वर समर्थेति कस्यचिद्विदुषस्संबोधनम् । ‘स्वामीश्वर' इत्यादिना सप्तमी । प्रशस्तौ खगभुजगौ खगभुजगतल्लजौ ‘प्रशंसावचनैश्च' इति समासः । तार्क्ष्यशेषावित्यर्थः । पक्षे खगतल्लजः भुजगतल्लज इत्येतौ शब्दावित्यर्थः । यस्माद्धेतोः नित्यसमासं आस उपवेशने’ भावे घञ् । समश्चासावासश्चेति विग्रहः । तुल्यावस्थानं सहावस्थितिमित्यर्थः । पक्षे नित्यं समस्ततां भजतः । कृष्णसर्पवाप्यश्वादिवदेते नित्यसमासाः' इति ‘मतल्लिका मचर्चिका’ इत्यत्र सुधाकारादयः । तत् तस्मात् एतौ खगतल्लजभुजगतल्लजशब्दौ अविग्रहौ वृत्त्यर्थावबोधकवाक्यविरहितौ । यद्वा अस्वपदविग्रहौ मन्ये । अन्यथा नित्यसमासं न प्राप्नुत इति भावः । ‘अविग्रहो नित्यसमासः अस्वपदविग्रहो वा । वृत्त्यर्थावबोधकवाक्यं विग्रहः’ इति शाब्दिकाः । अत्र श्लेषानुमानयोरेकवाचकानुप्रवेशः ॥

 यथावा--

 नक्षत्रपथोल्लङ्घी नवघनराज्याभिषेकमभिगमि

तः । उत्तुङ्गशृङ्गसंगत उचितं भूभृद्वरोऽयमहिशैलः ॥ २१७७ ॥

 नक्षत्रपथं अन्तरिक्षं उल्लङ्घत इति तथोक्तः । अन्यत्र क्षत्रधर्मानतिवर्तीत्यर्थः । नवया घनराज्या जलदश्रेण्या अभिषेकं अभिगमितः । अन्यत्र नवं प्रत्यग्रं घनं सान्द्रं यत् राज्यं तस्मिन् अभिषेकं अभिगमितः । उत्तुङ्गैः शृङ्गैः शिखरैः सानुभिर्वा उत्तुङ्गेन शृङ्गेण प्राधान्येन प्रभुत्वेन वा संगतः संबन्द्धः । ‘शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोः' इति मेदिनी । ‘शृङ्गं प्राधान्यसान्वोश्च' इत्यमरश्च । भूभृद्वरः राजवरेण्यः गिरिश्रेष्ठश्च । अत्र काव्यलिङ्गसमालंकारयोश्श्लेषानुप्राणितयोरेकवाचकानुप्रवेशः ॥

 यथावा--

 स्वनयनजयिभिर्हरिधृतवैदूर्यैर्निर्जितोऽथ मार्जारः । मारो यदि जातु स्यात्तदाऽपि हरिनीलविग्रहजितस्स्यात् ॥ २१७८ ॥

 मार्जारः बिडालः मार्जारशब्दश्च स्वनयनजयिभिः निजलोचनरुचिविजित्वरैरिति यावत् हरिधृतैः भगवता भूषणतया विधृतैः वैदूर्येः वालवायजमणिभिः । विदूरात्प्रभवन्ति वैदूर्याणीति विग्रहः । ‘प्रभवति’ इत्यधिकारे ‘विदूराञ्ञ्यः’ इति ञ्यः ।

‘वैदूर्यं वालवायजम्' इति विश्वः । अत्र विदूरशब्दो वालवायस्यादेशः पर्यायो वा तत्रोपचरितो वा । तेन वालवायाद्गिरेरसौ प्रभवति न विदूरान्नगरात् तत्र तु संस्क्रियत इत्याक्षेपः प्रत्युक्तः । यदुक्तं-

वालवायो विदूरं च प्रकृत्यन्तरमेव वा ।
न वै तत्रेति चेद्ब्रूयाज्जित्वरीवदुपाचरेत् ॥

 इति । वक्तव्यान्तरं तु लक्ष्मीसहस्रसौन्दर्यस्तबकव्याख्यायां 'वैदूर्यवीक्षाभयोद्गच्छत्' इत्यत्र प्रपञ्चितमस्माभिः । निर्जितः पराकृतः स्वनयनरुचिपराभूत्या स्वयमपि पराभूत इति भावः ॥ शब्दपक्षे निर्जितः अत्र नि इत्युपसर्ग इदन्तः न तु रेफान्तः । निगतः र्जा इत्याकारको वर्णो यस्य सः निर्जाः । निर्जाशब्दात्तत्करोतीति णिजन्तात्कर्मणि क्तः । शब्दार्थयोस्तादात्म्यसाम्राज्यान्मार्जारशब्दस्य वैदूर्यनिर्जितत्वमिति ध्येयम् । अथ यदि जातु मारस्स्यात् विद्वेषिमारकोऽपि स्यात् विक्रान्तशिरोमणिर्वैरनिर्यातनपटुरपि स्यादिति भावः । कामोऽपि यदि स्यादित्यप्यर्थः । मार्जारशब्दे र्जावर्णोत्सारणे मार इति स निष्पद्येतेति शब्दपक्षेऽर्थः । ‘जातुयदोर्लिङ्, यदायद्योरुपसंख्यानम्' इति जातु यदिशब्दयोगे अनवक्लृप्तौ द्योत्यायां लिङ् । अनवक्लृप्तिरसंभावना । असंभावनीयमेवैतदिति भावः । तदाऽपि हरिनीलैः भगवद्धृतेन्द्रनीलैः विग्रहे युद्धे जितस्स्यात् । पूर्वं वैदूर्त्यैर्विजितस्य रूपान्तरपरिग्रहेऽपीन्द्रनीलैर्जितत्वं स्यादित्युभयधाऽपि हरिधृतरत्नपराभूततैव संभवेदिति भावः । मारस्य श्यामलत्वेन हरिनीलविग्रहजितत्वमिति बोध्यम् । भगवद्दिव्यमूर्तिजित इति तदर्थः । अत्र संभावनविषमयोरेकवाचकानुप्रवेशः । श्लेषोत्तम्भितत्वं च पूर्ववदेव ॥

 यथावा--

 चिदचिद्वरावुभावपि भवतो जगतीश्वरौ न संदेहः । स्त्रीपुंसरूपमात्रे भिन्नौ ननु दिव्यदंपती किंतु ॥ २१७९ ॥

दिव्यदंपती लक्ष्मीनारायणौ उभौ द्वावपि युवामिति भावः । चिदचिद्वरौ स्वभावान्यधाभावस्वरूपान्यधाभावलक्षणविकारविरहेण चेतनाचेतनापेक्षया श्रेष्ठौ तद्विलक्षणाविति यावत् । अत एव जगत्याः जगतः ईश्वरौ । न संदेहः उभयाधिष्ठानत्वादैश्वर्यस्य नात्र संदेग्धव्यमिति भावः । एवमुभयोस्तौल्यमुक्तम् । वैलक्षण्यमाह-- किंतु स्त्रीपुंसरूपमात्रे स्त्रीपुरुषरूपमात्रे भिन्नौ ननु तावन्मात्र एव भिदुरौ न तु जगदीश्वरत्वे इति भावः । अत्र--

त्वं यादृशोऽसि कमलामपि तादृशीं ते
दारान्वदन्ति युवयोर्न तु भेदगन्धः ।
मायाविभक्तयुवतीतनुमेकमेव
त्वां मातरं च पितरं च युवानमाहुः ॥

इति श्रीविष्णुवैभवाधिकारैरुक्तमनुसंधेयम् ।

 अन्यत्र ननु दिव्यदंपती हे लक्ष्मीनारायणाविति संबोधनम् । जगति लोके ईश्वरौ ईश्वरशब्दौ चिदचिद्वरौ चित् चकारेत्कः अचित् चकारेत्कभिन्नः टकारेत्क इति यावत् । चिदचितौ वरौ वरप्रत्ययौ ययोस्तौ 'ईश ऐश्वर्ये' इत्यस्माद्धातोः 'स्थेशभासे' इत्यादिना वरच्प्रत्ययेन ‘अशू व्याप्तौ' इति धातोः अश्नोतेराशुकर्मणि वरट् च' इति वरट्प्रत्ययेन च निष्पन्नाविति भावः । किंतु स्त्रीपुंसरूपमात्रे स्त्रीलिङ्गपुल्लिङ्गरूपमात्रे भिन्नौ । स्त्रीलिङ्गत्वे वरचा निष्पन्नस्य ईश्वरशब्दस्य टापि ईश्वरेति वरटा निष्पन्नस्य तु ‘टिढ्ढ’ इति ङीपि ईश्वरीति रूपम् । पुल्लिङ्गत्वे तु उभयथाऽपीश्वर इत्येव रूपमिति तयोर्भेद इति भावः । अत्र प्रकृताप्रकृतश्लेषव्यतिरेकयोरेकवाचकानुप्रवेशसंकरः ॥

 यथावा--

 राजीव ननु रमाक्ष्णा निराकृतो जीवमात्रशिष्टोऽसि । ज्याश्लिष्टोऽवाग्रस्त्वं स्वल्पप्राणात्मनस्स्थितिस्त्वियती ॥ २१८० ॥

 ननु राजीव हे मत्स्य हे हरिणेति वा । पक्षे हे राजीवेति शब्दस्यैव संबोधनम् । 'राजीवं नलिने ना तु भेदे हरिणमीनयोः' इति मेदिनी । त्वं रमायाः अक्ष्णा निराकृतः तिरस्कृतः मत्स्यहरिणयोर्ललनानयनोपमानतायाः कविसमयसम्मतत्वेन निराकृतत्वोक्तिः । यथोक्तमलंकारशेखरे त्रयोदशमरीच्यां--

मृगतन्नेत्रपाथोजतत्पत्रझषखञ्जनैः ।
नेत्रं चकोरतन्नेत्रकेतकाळिस्मराशुगैः ॥

इति सदृशत्वेन कविभिर्वर्णनीयमित्यर्थः । प्रयोगश्च-- ‘सदृशे वनवृद्धानां कमलानां त्वदीक्षणे, इति । तत्रैव पञ्चदशमरीच्यां—

भृतकाद्यैश्च भृत्याद्यैर्न्यक्कारार्थक्रियापदैः ।
संदेहतत्तद्वाक्याद्यैस्सादृश्यं प्रतिपाद्यते ॥

 इति च संदेहतः ‘किमिन्दुः किं पद्मं’ इत्याद्यैः तत्तद्वाक्याद्यैः ‘तस्य पुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति’ इत्याद्यैः सादृश्यं प्रतिपाद्यत इति तदर्थः ।

 शब्दपक्षे निराकृतः नीत्येष इदन्त उपसर्गः निवर्तितः रा इत्याकारको वर्णो यस्य स तथोक्तः कृतः । रा इत्यस्य स्त्रीप्रत्ययान्तत्वाभावान्नोपसर्जनहृस्वः । जीवमात्रं प्राणधारणमात्रं शिष्टं यस्य स तथोक्तः । ‘जीवोऽसुधारणम्' इत्यमरः । अप्राप्ते विधिनियमिते समये दुर्मोचत्वात्प्राणानां तद्धारणमात्रं कुर्वन्निति भावः । पक्षे रावर्णोद्वासने राजीवशब्दो जीवेति परिशिष्ट इत्यर्थः । अतएव

अवाग्रः अवनतः ‘अवाग्रेऽवनतानतम्' इत्यमरः । अवाङ्मुख इति यावत् । ज्या भूमिः श्लिष्टा आलिङ्गिता येन स तथोक्तः असि । भूमाववाङ्मुखतया निपतितस्तत उत्थातुमक्षम इति भावः । पक्षे जी इत्याकारकवर्णेन आश्लिष्टः युक्त इत्यर्थः वाग्र इति छेदः । वेत्याकारकं वर्णं अग्रे यस्य स तथोक्तः । जीवेति वर्णद्वयमात्रपरिशिष्टस्य ताद्विध्यादिति भावः । निराकृतोऽयं राजीवः कुतस्तत्प्रतीकारक्षमो नाभूदित्यत्राह-- स्वल्पेति स्वल्पप्राणः अल्पशक्तिः आत्मा देहो यस्य स तथोक्तः तस्य । पक्षे राजीवेति शब्दोऽल्पप्राणवर्णात्मक इत्यर्थः । तस्य ‘वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः’ इत्युक्तेः । स्थितिस्तु इयती एतावती अल्पप्राणस्य वैरिभिर्निराकृतत्वेऽपि प्रतीकाराक्षमतया तूष्णीं भूमाववाङ्मुखतया शयनमित्येतावत्येवावस्थितिरिति भावः । अन्यत्र राजीवेत्यस्याल्पप्राणात्मकस्य शब्दस्य स्थितिरेतावतीत्यर्थः । अत्राप्रस्तुतस्य राजीवस्य निराकरणादिकार्यवर्णनेन तत्कारणस्य प्रस्तुतस्य रमानयनस्य लोकोत्तरथाळथळ्यचाञ्चल्यादिप्रतीतेः कार्यनिबन्धनाप्रस्तुतप्रशंसा । मीनहरिणयोः राजीवशब्दस्य चाप्रकृतानां श्लेषः । निराकृतत्वस्य जीवमात्रपरिशिष्टतां प्रति तस्याश्च ज्याश्लिष्टतादिं प्रति हेतुत्वात्काव्यलिङ्गं सामान्येन विशेषसमर्थनरूपार्थान्तरन्यासश्चेत्येतानि एकवाचकानुप्रविष्टानि ॥

 यथावा--

 जेतुं त्वद्वक्षोजावरिभावात्के विभिन्नमपि नालम् । आस्ताम्ब नारिकेलं क्लीबाल्पप्राणमयगतिस्त्वियती ॥ २१८१ ॥

 हे अम्ब ! नारिकेलं नारिकेलफलम् । क्लीबनिर्देशो निष्पौरुष

त्वद्योतनाय । ‘द्विहीनं प्रसवे सर्वम्’ इति क्लीबता । अरिभावात् शत्रुभावात् के शिरसि विभिन्नमपि विदीर्णशीर्षमपीति लोकोक्तिः । त्वद्वक्षोजौ जेतुं नालं असमर्थं आस्त । वक्षोजाविति पुल्लिङ्गद्विवचननिर्देशेन तयोर्वीरपुरुषद्वयत्वं प्रतीयते । एकेन क्लीबेन द्वौ वीरपुरुषौ जेतुमशक्याविति भावः । पक्षे नारिकेलमिति पदं अरिभावात् अविद्यमानरिवर्णत्वात् के विभिन्नमपि के इत्याकारकवर्णो विभिन्नो यस्मिंस्तत् । के इत्याकारकवर्णभ्रंशं प्रापितमिति यावत् । अपिशब्दस्समुच्चये । नालं नालमित्यवशिष्टवर्णद्वयं आस्तेत्यर्थः । क्लीबस्य षण्डस्य अल्पप्राणमयस्य अल्पशक्तिमतः गतिः स्थितिः इयती परपराभवानर्हतैवेति भावः । इतरत्र क्लीबस्य नपुंसकलिङ्गस्य अल्पप्राणवर्णात्मकस्य स्थितिरित्यर्थः । अत्र विषमार्थान्तरन्यासयोरेकवाचकानुप्रवेशः ॥

 यथावा--

 नाके स्थितिमत्क्वचन व्यञ्जनपरिवृत्तितोऽप्यमुक्तार्थम् । श्रीकुचलक्ष्मीस्तेनं परिपाके पतति नारिकेळमधः ॥ २१८२ ॥

 श्रीकुचलक्ष्मीस्तेनं नारिकेळं नाके स्वर्गे क्वचन कस्मिंश्चिदज्ञातप्रदेशे व्यञ्जनपरिवृत्तिः स्वचिह्नविनिमयेन वेषान्तरेणेति यावत् । स्थितिमदपि ‘व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽक्षरे’ इति रत्नमाला । अमुक्तार्थं अपारत्यक्तस्वमुषितार्थकम् । अनेन पतनहेतुदोषातिशय उक्तः । गर्हितार्जितार्थपरित्यागे तु "शासनाद्वा विमोक्षाद्वा स्तेनस्स्तेयाद्विमुच्यते । यद्गर्हितेनार्जयन्ति जप्येन तपसैव च । तस्योत्सर्गेण शुद्ध्यन्ति” इत्युक्तरीत्या दोषातिशयो न स्यादिति भावः । अतएव परिपाके स्वकृतदुष्कर्मपरिणामसमये अधः पतति अधो

गतिं विन्दतीत्यर्थः । पक्षे नारिकेलं नारिकेलमिति पदं नाकेस्थि मत् ना के इति वर्णद्वयाविकृतिस्थितिशालि । क्वचन अवशिष्टाक्षरयोरित्यर्थः । व्यञ्जनयोः हलोः परिवृत्तितः रि ल इत्यक्षरस्थरेफलकारयोर्व्यत्ययादपीति यावत् । न तु तन्निष्ठयोरकाराकाररूपस्वरयोरपीत्यर्थः । तयोर्यथास्थानमेव स्थितत्वादिति भावः । अमुक्तार्थं अपरित्यक्तस्वाभिधेयमित्यर्थः । उक्तरीत्या नारिकेळशब्दस्य नाळिकेरमिति रूपान्तराबाप्तावपि तुल्यार्थकताया एव दर्शनादिति भावः । अत्र नारिकेळाधःपतनस्य श्रीकुचलक्ष्मीस्तेनमित्यादिपदार्थैस्समर्थनात्काव्यलिङ्गं अप्रस्तुतनारिकेळाधःपतनकार्यप्रशंसाया तत्कारणीभूतश्रीकुचसौन्दर्यभूमावगते कार्यनिबन्धनाप्रस्तुतप्रशंसा चैकवाचकानुप्रवेशेन संकीर्यते ॥

 यथावा--

 अहिगिरिविभुना विहितं प्रत्ययमिह कश्चिदातिशायनिकम् । प्राप्तोऽजादिश्लाघ्यं ज्यादेशे ज्येष्ठतां प्रशस्य इयात् ॥ २१८३ ॥

 कश्चित् प्रशस्यः प्रशंसार्हः पुमान् भाग्यवानिति यावत् ।

पक्षे प्रशस्यशब्दः आतिशायनिकं अतिशायनप्रयोजकं प्रकर्षप्रयोजकमित्यर्थः । "प्रयोजनम्" इत्यनेन ठक् । इह प्रयोजनशब्देन हेतुर्विवक्षितः । प्रयोजनं फलं कारणं च” इति व्याख्यानात् । पक्षे अतिशायनार्थक ‘अतिशायने तमबिष्ठनौ’ इति सूत्रेणातिशयविशिष्टार्थवृत्तेर्विहितमित्यर्थः । अतिपूर्वकाच्छेतेर्ल्युट् । अतिशयनमेवातिशायनं अस्मादेव निपातनाद्दीर्घः न तु सौत्रः । तेन लोकेऽपि दीर्घस्साधुः 'अबाधकान्यपि निपातनानि भवन्ति । तेन ह्रस्वोऽपि साधुः’ इति व्याख्यातारः । अतएव अजादिभिः ब्रह्मरुद्रादिभिरपि

श्लाघ्यं पक्षे अच् अज्रूपो य आदिः प्रथमवर्णः तेन श्लाघ्यं इष्ठनमिति यावत् । अतिशायने तमबिष्ठनोरुभयोर्विधानात्कः प्रत्ययोऽत्र ग्राह्य इति संदेहो मा भूदितीदं विशेषणमिति ध्येयम् । अहिगिरिविभुना श्रीनवासेन । अन्यत्र अहिगिरि पातञ्जलभाष्ये विभुना तत्त्वावधारणपटुना विहितं प्रत्ययं स्मृतिसंतानरूपं ज्ञानं ‘स नो देवश्शुभया स्मृत्या संयुनक्तुं’ इति श्रुतिः । ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते, इति स्मृतेश्चेति भावः । शब्दपक्षे प्रत्ययं शाब्दिकसंकेतितं प्रत्ययं प्राप्तस्सन् । ज्यादेशे भूप्रदेशे ‘क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । ज्येष्ठतां अतिशयितप्रशस्यतां इयात् प्राप्नुयात् । प्रथममेवानभिसंहितफलकर्मानुष्ठानादिप्राप्तनैर्मल्यतया प्रशस्यः पुमान् भगवदनुग्रहलब्धस्वच्छतमप्रत्ययत्वे अतिमात्रं प्रशस्यो भवेदिति भावः । शब्दपक्षे प्रशस्यशब्दः अतिशायनिकमिष्ठन्प्रत्ययं लब्ध्वा ज्यादेशे ‘प्रशस्यस्य श्रः । ज्य च' इत्यनेन ज्येत्यादेशे ज्येष्ठतां ज्येष्ठ इत्याकारकं रूपं इयात् प्राप्नुयात् इत्यर्थः । अत्र प्रशंसनीयपुरुषस्य प्रकृतस्य प्रशस्यशब्दस्याप्रकृतस्य च श्लेषः । ज्येष्ठतावाप्तेः पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गं चेत्येतदुभयमेकवाचकानुप्रविष्टम् ॥

 यथावा--

 विधिमन्तरङ्गमपि ते विलोडयत्येव नित्यमपवादः । किमुत परमच्युताखिलगीर्वाणपदानुशासनविधातुः ॥ २१८४ ॥

 हे अच्युत! अखिलगीर्वाणपदानां चतुर्मुखाद्यखिलत्रिदशस्थानानां अनुशासनविधातुः प्रशासनविधायिनः ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इति श्रुतेः

‘शास्ता विष्णुरशेषस्य’ इत्युक्तेश्च । ते तव अपवादः आज्ञा त्वत्कर्तृकं शासनं अपवादः निन्देति वा । त्वत्कर्मकं निन्दनमित्यर्थः । अपवादौ तु निन्दाज्ञे” इत्यमरः । अन्तरङ्गं आत्मजतया अतिमात्रप्रत्यासन्नं ‘पुत्रो वै हृदयम् । आत्मा वै पुत्रनामासि’ इत्यादिश्रुतयोऽत्रानुसंधेयाः । विधिं चतुर्मुखमपि नित्यं विलोडयति कम्पयति । एतच्छनानातिवृत्तौ किं भविष्यतीति महतो भयाद्ब्रह्मादयोऽपि कम्पन्त इति भावः । ‘यदिदं किंच जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतम्’ इत्यादिश्रुतिभ्यः । परं अन्यं मरुत्तरणिपावकत्रिदशनाथकालादिकं किमुत विलोडयतीति किमु वक्तव्यमित्यर्थः । आत्मजस्यैव शासनान्निन्दनाद्वा कम्पने अन्येषां का कथेति भावः । अन्यत्र अखिलानां गीर्वाणपदानां संस्कृतशब्दानामनुशासनं शिक्षणं तद्विधातुः ‘अथ शब्दानुशासनम्’ इति प्रतिज्ञाय महाभाष्यं विधातुरित्यर्थः । ते त्वत्संबन्धी त्वन्निर्णीत इति यावत् । अपवादः अपवादशास्त्रं नित्यं अन्तरङ्गमपि अन्तरङ्गं च विधिं शास्त्रं विलोडयति बाधते । परं परशास्त्रं किमुत बाधत इति किमु वक्तव्यमित्यर्थः । अन्तरङ्गबाधकस्यापवादस्य स्वबाध्यबाध्यबाधकत्वं किमाश्चर्यमिति भावः । यत्परिभाष्यते-- परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः' इति । अत्र वेदान्तशास्त्रीयेऽर्थे शब्दशास्त्रीयव्यवहारारोपात्समासोक्तिः कैमुत्येनार्थसंसिद्धिरूपकाव्यार्थापत्तिश्चेत्युभयमेकवाचकानुप्रविष्टम् ॥

 यथावा--

 त्वयि विन्यस्तात्मभरो नीलमणीमौळिरवरवर्णोऽपि । त्वत्तो विन्दत्युच्चैश्श्रियं श्रियःकान्त दुर्लभामितरैः ॥ २१८५ ॥

 हे श्रियःकान्त! नीलमणीमौळिः इन्द्रनीलकिरीटः अवरवर्णोऽपि त्वत्तो न्यूनश्यामलिमाऽपि । पक्षे शूद्रोऽपि ‘शूद्राश्चावरवर्णाश्च' इत्यमरः । त्वयि विन्यस्तः आत्मनः स्वस्य भरः भारो येन स तथोक्तः त्वया मूर्ध्ना धृतत्वादिति भावः । पक्षे त्वय्यर्पितात्मरक्षाभर इत्यर्थः ॥

अनन्योपायशक्तस्य प्राप्येच्छोरधिकारिता ।
प्रपत्तौ सर्ववर्णस्य सात्विकत्वादियोगिनः ।
सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ॥

 इत्यादिभिः प्रपत्तेस्सर्वाधिकारिकत्वोक्तेः । त्वत्तः उच्चैः पूर्वापेक्षयाऽभ्यर्हितां । पक्षे ब्रह्मादिलोकापेक्षयाऽप्युत्कर्षशालिनीं इतरैः त्वदविधृताभरणान्तरैः दुर्लभां भगवद्दिव्यविग्रहसुषमानवलम्बितया लब्धुमशक्यां, अन्यत्र प्रपन्नेतरैर्दुरापां ‘प्रपन्नादन्येषां न दिशति मुकुन्दो निजपदम्’ इत्याद्युक्तेरिति भावः । श्रियं श्यामलिमरूपां अन्यत्र निश्श्रेयससंपदं विन्दति ॥

 अत्र प्रस्तुते भगवद्धृतेन्द्रनीलमकुटे वर्णनीये विशेषणसाम्यबलादप्रसुतावरवर्णप्रपन्नवृत्तान्तः प्रतीयत इति समासोक्तिः । अवरवर्णस्याप्युच्चैश्रियः प्राप्तेः त्वयि विन्यस्तात्मभर इति पदार्थहेतुकत्वात्काव्यलिङ्गम् । प्राक्सिद्धस्य स्वनीलिम्नो भगवद्दिव्यविग्रहसंनिधिवशेनोत्कर्षवर्णनादनुगुणालङ्कारश्चेत्येतान्येकवाचकानुप्रवेशेन संकीर्यन्ते ॥

 यथावा--

 न त्यक्ष्याम्यच्युतमिति शपथस्सततं विशस्सुघटितश्चेत् । अयमेव भवति सुपथो विपथोऽन्यो योहि विघटिता भविता ॥ २१८६ ॥

 अच्युतः आश्रितरक्षणव्रतच्युतिविरिही भगवान् । तं श्रानिवासं न त्यक्ष्याम्येवेति सर्वं वाक्यं सावधारणमिति न्यायात् । विशः मनुजस्य 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । शपथः प्रतिज्ञा सुघटितश्चेत् सुदृढो यदि--

स त्वं प्रहर वा मा वा मयि व्रजं पुरंदर ।
नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः ॥

 इति विष्णुधर्मे अस्बरीषोक्तरीत्या भगवदैकान्त्यद्रढीयान् यदीति भावः । अयमेव सुपथः शोभनमार्गः भवति । अन्यः अस्मादितरः विपथः विमार्ग एव । यश्शपथः विघटितः शिथिलो भविता ऐकान्त्यात्प्रच्युतो भवितेति भावः ॥

एष निष्कण्टकः पन्था यत्र संपूज्यते हरिः ।
कुपथं तं विजनीयाद्गोविन्दरहितागमम् ॥

इत्यादिकमिह प्रत्यभिज्ञाप्यते । सुपथः विपथः इत्युभयत्रापि न पथिशब्देन समासः ‘न पूजनात्' इति समासान्तनिषेधात् ।

‘पथस्संख्याव्ययादेः’ इति क्लीबताप्रसंगाश्च । किंतु ‘पथे गतौ' इत्यस्मात्पचाद्यचि पथति व्याप्नोतीति व्युत्पादितः पथशब्दोऽस्ति । तेन सह सु वि इत्यनयोस्समासः । तथाच त्रिकाण्डशेषः ‘वाटः पथश्च मार्गस्स्यात्’ इति । तेन प्रकृते न काऽप्यनुपपत्तिः ‘व्यध्वो विपथकापथौ' इति रभसश्चाह । अन्यत्र शपथः शपथशब्दः विशः विगतशकारस्सन् सुघटितः सु इत्याकारकवर्णेन घटितश्चेत् अयमेव शपथशब्द एव सुपथशब्दो भवति । अन्यः विपथः यः विशकारस्सन् विघटितः वि इत्याकारकवर्णेन युक्तस्स्यात् । अत्र प्रकृताप्रकृतश्लेषः सुपथत्वविपथत्वयोः पूर्वोत्तरवाक्यार्थाभ्यां समर्थनात्काव्यलिङ्गद्वयं परिसंख्या चैकवाचकानुप्रवेशेन संकीर्यन्ते ॥

 यथावा--

 अरिरीरितोऽत्रभवताऽऽकारमथ प्रक्रियादशाविधुरः । संवृतमेत्यान्तस्थास्वरवान् भूत्वाऽन्ततो विसृष्टोऽभूत् ॥ २१८७ ॥

 हे भगवन् अत्र अरिः वैरी भवता ईरितः क्षिप्तः निरस्तस्सन्नित्यर्थः । 'विद्धक्षिप्तेरितास्समाः' इत्यमरः । अतएव अथ अनन्तरं प्रक्रियादशया राज्याधिकारावस्थया विधुरः विश्लिष्टः ‘प्रक्रिया त्वधिकारस्स्यात् । दशाऽवस्था' इति चामरः । भवन्निरस्तस्य कथमिव राज्याधिकारभ्रंशो न स्यादिति भावः । संवृतं गुप्तं आकारं आकृतिं एत्य प्राप्य राज्याधिकारभ्रंशप्रयुक्तः त्रपाभूम्ना गूढं क्वापि निलीन इति भवः । अन्तः तिष्ठतीत्यन्तस्थाः । स्थाधातोः क्विप्। 'शंस्था’ इति महाभाष्यप्रयोगात् । यद्वा विच् । अत्र वक्तव्यं सर्वं लक्ष्मीसहस्ररत्नप्रकाशिकायां ‘अन्तस्थोष्मोद्धारात्' इति पद्यविवरणावसरे प्रपञ्चितमस्माभिः । ईदृशो यस्स्वरो ध्वनिः सोऽस्यास्तीत्यन्तस्थास्वरवान् भूत्वा लज्जाभयाभ्यां निमग्नध्वनिर्भूत्वेत्यर्थः । ‘स्वरो नासासमीरणे । उदात्तादावकारादौ षड्जादौ च ध्वनौ पुमान्' इति मेदिनी । अन्ततः विसृष्टः परित्यक्तः अभूत् । निष्पौरुपतया विक्रान्तगोष्ठीतो बहिष्कृतोऽभूदिति भावः ॥

 अन्यत्र-- अत्रभवतेति समस्तं पदम् । अत्रभवता पूज्येन विदुषेति यावत् । ईरितः उक्तः प्रक्रियादशया संधिरूपप्रक्रियावस्थया विधुरः हीनः अरिः अरिशब्दः अरिरिति केवलारिशब्दप्रयोगावसरे अकारस्य अकारान्तरसंधेरदर्शनादिति भावः । अस्मिन् पक्षे भवताकारमित्यत्र भवता अकारमिति छेदः ।

संवृतं संवृतप्रयत्नवन्तं अकारं ह्रस्वाकारं ‘ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्’ इत्युक्तेः प्राप्य प्रक्रियादशायां ह्रस्वस्याकारस्य विवृतप्रयत्नकत्वेन केवलारिशब्दप्रयोगे प्रक्रियादशाभावादकारस्य संवृतप्रयत्नकत्वमेवेति भावः । "एतच्च सूत्रकारेण ज्ञापितम् । तथाहि ‘अ अ’ इति । विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं संपूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव । तथाच सूत्रं ‘पूर्वत्रासिद्धम्’ अधिकारोऽयं, तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा । त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्” इति । सर्वमिदं कौमुदीग्रन्थे व्यक्तम् । अस्मिन् पक्षे अथेत्येतदत्रान्वेति । अथ अकारोच्चारणानन्तरं अन्तस्थास्वरवान् अन्तस्थाः आदन्तोऽयं अन्तस्थाभिश्च संयुतम्' इति पाणिनीयशिक्षादिप्रयोगात् अरिशब्दे अन्तस्थासंज्ञितो वार्णो रेफः । अथ स्वरः रेफोत्तरवर्ती इकारः । ‘यरलवा अन्तस्थाः । अचस्स्वराः' इत्यनुशासनात् । तद्वान् भूत्वा अन्ततः अवसाने विसृष्टः विसर्गवानभूत् अरिशब्दस्य हृस्वाकाररेफेकारविसर्गघटतत्वात्तथोक्तिरिति ध्येयम् । अत्राप्रकृतस्यारिशब्दार्थस्य अप्रकृतस्यारिशब्दस्य च श्लेषः । आद्यकक्ष्यायां अप्रस्तुतपराभूतवैरिवृत्तान्तेन प्रस्तुतभगवत्पराक्रमोत्कर्षः प्रतीत इति कार्यनिबन्धनाप्रस्तुतप्रशंसा । भगवन्निरस्ततया प्रक्रियादशावैधुर्यस्य तस्य च संवृताकारत्वादेश्च समर्थनात्काव्यलिङ्गमाला चैकवाचकानुप्रवेशेन सकीर्यन्ते ॥

 यथावा--

 एकोऽयमनुपसर्जनभावाद्भगवानमध्यमोऽदोऽन्यः । अपि कः परस्तदेष हि सर्वादौ गण्यते बुधवरेण्यैः ॥ २१८८ ॥

 अयं भगवान् श्रीनिवासः एक एव अनुपसर्जनभावात् उपसर्जनमप्रधानं ‘अप्रधानोपसर्ज्जने’ इत्यमरः । तदन्यदनुपसर्जनं तस्य भावात् प्राधान्यादित्यर्थः । अमध्यमः ‘तस्य लोकप्रधानस्य जगन्नाथस्य भूपते’ इत्युक्तरीत्या सकललोकप्रधानतया सर्वोत्तम इत्यभिप्रायः । अदोऽन्यः अमुष्माद्भगवत इतरः । परोऽपि उत्कृष्टोपि कः ? नैवेत्यर्थः । अमुष्मादन्यस्य उत्कर्षसंभावनाऽपि का नामेति भावः । अपिरत्र संभावनायाम् । बुधवरेण्यैः ब्रह्मविदुत्तमैः स एष हि अयं भगवानेव ‘हि हेताववधारणे' इत्यमरः । सर्वादौ सर्वेषां ब्रह्मादीनामपि आदौ अग्रे गण्यते । जगजन्मस्थेमप्रळयकारणत्वेन कीर्त्यते । अन्यत्र एकादिश्शब्दाश्शब्दपराः एकः अयं अमध्यमः मध्यमवर्णविधुरः भगवान् भवानित्यर्थः । अदः अन्यः अपिशब्दो भिन्नक्रमः । कः एकः तत् एषोऽपि शब्दः अनुपसर्जनभावात् अन्योपसर्जनत्वाभावाद्धेतोः बुधवरेण्यैः वैयाकरणैः सर्वादौ सर्वादिगणे गण्यते । एक इत्यादीनां प्रत्येकं गण्यत इत्यनेनान्वयः । ‘संज्ञोपसर्जनीभूतास्तु न सर्वादयः महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात्’ इत्युक्तेरनुपसर्जनीभूतानामेव सर्वादीनां तद्गणे पाठादिति तथोक्तिः । एकेदंभवददोऽन्यकिंपरतदेतच्छब्दाः क्रमेणात्रपद्ये सर्वादिगणपठिता एवोपनिबद्धा इति ध्येयम् । अत्र प्रकृताप्रकृतगोचरश्श्लेषः । प्रकृतार्थकक्ष्यायां भगवतस्सर्वादिगण्यतायाः पूर्ववाक्यार्थेन समर्थनात्काव्यलिङ्गं सर्वादिगणप्रसिद्धसहपाठानामेकादिशब्दानां न्यसनाद्रत्नावळी चैकवाचकानुप्रवेशेन संकीर्यन्ते । प्रसिद्धक्रमविपर्यासेऽपि रत्नावळी भवत्येवेति निरूपितमधस्तात्तदलंकारनिरूपणावसरे ॥

 सर्वादौ नाथ भवानस्मादस्मिंत्समुल्लसति ज

गति । परिदृश्यतामनीदृक्पर इतरस्सम इतोऽस्ति को नाम ॥ २१८९ ॥

 हे नाथ! भवान् सर्वादौ सर्वस्य जगतः आदौ समुल्लसति प्रकाशते । सर्वजगत्कारणभूत इत्यर्थः । अस्मात् एतस्मात् त्वत्तः समुल्लसतीत्यावृत्त्या योजनीयम् । समुल्लसति प्रादुर्भावं प्राप्ते इत्यर्थः । अस्मिन् जगति भुवने अनीदृक् अनेवंविधः त्वमिव न जगत्कारणमित्यर्थः । इतः अस्मात्त्वत्तः परः उत्कृष्टः समस्तुल्यो वा इतरः कोनाम अस्ति? परिदृश्यतां पर्यालोच्यतामित्यर्थः । सर्वजगकारणभूतस्य तव कार्यभूते अस्मिन् ब्रह्मादिस्तम्बपर्यन्ते भुवने ईदृशजगत्कारणताविधुरः त्वत्कार्यभूतः कोऽन्यस्त्वत्तोऽप्युत्कृष्टस्समो वा स्यादिति भावः । 'न तत्समश्चाभ्यधिकश्च दृश्यते' इति श्रुतेः ॥

 अन्यत्र हे नाथ! भवान् भवच्छब्दः सर्वादौ सर्वादिगणे अस्मात् अविद्यमानः ङसिस्थानिकः स्मादित्यादेशो यस्य स

तथोक्तः । अस्मिन् अविद्यमानः ङिस्थानिकः स्मिन्नित्यादेशो यस्य स तथोक्तश्च समुल्लसति । भवच्छब्दस्य सर्वनामगणपठितत्वेऽपि हलन्ततया अदन्तनिमित्तकौ 'ङसिङ्योः स्मात्स्मिनौ' इति विहितौ स्मात्स्मिन्नादेशौ न भवत इति भावः । इतः अस्मिन् सर्वनामगणे सार्वविभक्तिकस्तसिः । परः परशब्दः इतरः इतरशब्दः समः समशब्दः कः किंशब्दश्च । अनीदृशः भवच्छब्द इव स्मात्स्मिन्नादेशविधुरो न भवतीत्यर्थः । उक्तानामेतेषां सर्वनामगणपठितानां परादिशब्दानामजन्ततया स्मात्स्मिन्नादेशयोरवश्यंभावादिति भावः । अत्र प्रकृताप्रकृतश्लेषः वर्ण्यस्य भगवत उपमाऽनिष्पत्तिवचनरूपप्रदीपभेदश्चेत्यनयोरेकवाचकानुप्रवेशसंकरः ॥

 यथावा--

 त्वं सर्वनामवाच्यस्सर्वाद्यन्तस्थितो यदसि विश्वम् । त्वदधरं इतरो योऽच्युत नेममिहत्यं ब्रुवे तथा कमपि ॥ २१९० ॥

 हे अच्युत! त्वं सर्वनामवाच्यः सर्वैर्नामभिः ब्रह्मादिनामभिः वाच्यः असि । तत्र हेतुमाह-- यत् यस्मात्कारणात् सर्वस्य जगतः आदावन्ते च स्थितः । अन्तस्थित इत्यत्र अन्तेमध्येऽपि स्थित इति च योजनीयम् । अत एव विश्वं असि । सर्वजगच्छरीरकोऽसि । ‘यतो वा इमानि भूतानि' इत्यादिश्रुत्युक्तप्रक्रियया जगज्जन्मस्थितिप्रलयनिदानतया सर्वशरीरकत्वाच्छरीरवाचिनां शब्दानां शरीरिपर्यन्ततया ब्रह्मादिसर्वशब्दवाच्योऽसीत्यर्थः । ‘अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयेति' इत्युपक्रम्य ‘नारायणात्समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते’ इत्यन्ता ‘ब्रह्मा नारायणः शिवश्च नारायणः’ इत्युपक्रम्य ‘नारायण एवेदं सर्वंम्' इत्यन्ता च श्रुतिरर्थतोऽनुसंहिता एवं जगद्ब्रह्मणोः कार्यकारणत्वनिबन्धनसामानाधिकरण्यप्रतिपादिकाः ‘तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्’ इत्यादयः श्रुतयोऽपीहानुसन्धेयाः । यः इतरः त्वदधरः तत्तोऽपि न्यूनः । इहत्यं इहेत्यव्ययात् ‘अमेहक्वतसित्रेभ्य एव' इति नियमितः ‘अव्ययात्त्यप्' इति त्यप् । त्वत्कार्यभूतेऽस्मिन् जगत्युत्पन्नं इमं पूर्वोक्तं कमपि ब्रह्माणमपि तथा न ब्रुवे त्वामिव सर्वकारणतया सर्वशरीरकतया च सर्वशब्दवाच्यं सन्तं न वच्मि । तस्य सर्वस्याप्यनेवंभूतत्वादिति भावः । पक्षे विश्वं विश्वशब्दः

त्वत् त्वच्छब्दः अधरः अधरशब्दः इतरः इतरशब्दः यः यच्छ

ब्दश्च सर्वनामवाच्यः सर्वनामसंज्ञकत्वेनोक्त इत्यर्थः । तत्र हेतुमाह-- यत् यस्मात् सर्वादिगणस्यान्ते मध्ये स्थितः 'सर्वादीनि सर्वनामानि’ इत्यनुशासनादिति भावः । इह अस्मिन् सर्वादिगणे नेमं नेमशब्दं त्यं त्यच्छब्दं च ब्रुवे पठामि । तथा कमपि किंशब्दमपि सर्वाद्यन्तस्थितं ब्रुवे इति योजना । किंशब्दस्य सर्वादिगणावसाने पठितत्वात् । समासोक्तिप्रतीपभेदयोरेकवाचकानुप्रवेशसंकरः ॥

 यथावा--

 आदौ सर्वं व्यदधात्तदनु च तद्ब्रह्म विश्वमवति समम् । अन्तस्स्वं परमवरं चादधदिदमन्यदन्ततः किं स्यात् ॥ २१९१ ॥

 तद्ब्रह्म आदौ अग्रे सर्वं व्यदधात् अस्राक्षीत् । तदनु सर्जनातन्तरं समं मया श्रिया सहितं तद्ब्रह्म विश्वं अवति रक्षति ॥

लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया ।
रक्षकस्सर्वसिद्धान्ते वेदान्तेष्वपि गीयते ॥

 इत्युक्तेः । अन्ततः प्रळयावसरे परं ब्रह्मादिकमुत्कृष्टं अवरं तदितरमपकृष्टं च इदं विश्वं अन्तस्स्वं स्वस्मिन्नित्यर्थः आदधत् न्यस्यत् अन्यत् किं स्यात् सर्जनावनकर्तृ ब्रह्मव्यतिरिक्तं संहर्तु वस्तु किमितरत्स्यात् । तस्यैव 'यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतिभिर्जगज्जन्मस्थेमप्रळयहेतुताप्रतिपादनादिति भावः । अत्र "कस्योदरे हरविरञ्चिमुखः प्रपञ्चः को रक्षतीममजनिष्ट च कस्य नाभेः" इत्यादिकमपि स्मर्तव्यम् ॥

 पक्षे-- तद्ब्रह्म आदौ सर्वादिगणस्यारम्भे सर्वं सर्वशब्दं व्यदधात् विधत्ते स्म । तदनु सर्वशब्दन्यासानन्तरमेव विश्वं

विश्वशब्दं च अवति रक्षति न्यस्यतीति भावः । अन्तः विश्व

किंशब्दयोरन्तराळे समं स्वं परं अवरं अन्यश्च समस्वपरावरान्यशब्दान् नात्र क्रमविवक्षा । आदधत् न्यदधात् । दधातेः परस्मैपदिनो लङ् । अन्ततः गणावसाने किं किंशब्दः स्यात् तेन न्यस्तो भवेत् । सर्वादिगणे आदौ सर्वविश्वशब्दयोः अन्तराळे समपरावरान्यशब्दानामवसाने किंशब्दस्य च दर्शनादिति भावः । अत्र परब्रह्माणि प्रस्तुते अप्रस्तुतस्य शाब्दिकमुनेर्वृत्तान्तः प्रतीयत इति समासोक्तिः । श्रुत्युक्तस्य सृष्ट्यादेः शब्दनयसिद्धसर्वादिगणप्रक्रियायाश्च क्रमेण न्यसनाद्रत्नावळी च श्लेषसंकीर्णे एकवाचकानुप्रविष्टे इति द्रष्टव्यम् ॥

 यथावा--

 भवदुभयान्यतरस्य स्वरूपमिह सर्वमुखगणे गणनीयम् । भविता श्रीसख न तथा जात्वपि चरमाल्पकतिपयान्यतमस्य ॥ २१९२ ॥

 हे श्रीसख! इदं च वक्ष्यमाणार्थोपस्कारकम् । भवदुभयान्यतरस्य श्रीश्च भवांश्च भवन्तौ ‘त्यदादीनि सर्वैर्नित्यम्’ इति भवच्छब्दैकशेषः । भवद्रूपं यदुभयं मिथुनं तदन्यतरस्य श्रियाः भवतश्चेति भावः । स्वरूपं सर्वकारणत्वसर्वशेषित्वादिरूपं इह लोके सर्वेषां जनानां मुखगणे वदनसमूहे गणनीयं सर्वैरपि सर्वत्र कण्ठरवेण प्रतिपाद्यमिति भावः । चरमे अर्वाक्तनाः अल्पे निहीनाः ये कतिपयाः चतुर्मुखादयोऽपीति भावः । तेष्वन्यतमस्य यस्यकस्यापीति भावः । स्वरूपं तथा सर्वमुखगणगणनीयं न भविता । सर्वेषामप्यतथात्वादिति भावः ॥

 पक्षे— भवांश्च उभयश्चान्यतरश्च एतेषां समाहारः तस्य

भवदुभयान्यतरस्य । एतेषां शब्दानां स्वरूपं इह शब्दशास्त्रे

सर्वमुखगणे सर्वादिगणे गणनीयं, तेषां तत्र पठितत्वात् । चरमाल्पकतिपयान्यतमस्य चरमाल्पकतिपयान्यतमशब्दानां पूर्ववत्समाहारः । स्वरूपं तथा भवदादिशब्दवत्सर्वादिगणपठितं जात्वपि न भविता । तेषां तत्रापठिततया ‘प्रथमचरम, इति सूत्रेण जस्येव तेषां पृथक्सर्वनामताविधानादिति भावः । अत्र प्रकृताप्रकृतश्लेषपरिसंख्यापरिकराङ्कुराणामेकवाचकानुप्रवेशः ॥

 यथावा--

 ननु सर्वनामताभाग्व्यवस्थितो दक्षिणस्सपूर्वश्च । देवोत्तरो यथाऽयं परोऽवरोऽप्यव्यवस्थितो न तथा ॥ २१९३ ॥

 पूर्वः सर्वजगत्कारणभूतः ‘सदेव सोम्येदमग्र आसीत् । पूर्वमेवाहमिहासम् । कार्याणां कारणं पूर्वम्’ इत्यादिप्रमाणात् । दक्षिणः ‘तदैक्षत बहु स्याम्’ इत्याद्युक्तप्रक्रियया स्वसंकल्पमात्रानुगुणजगत्सर्जनादिचातुर्यशाली । महोदार इत्यप्युपस्कार्यम् । व्यवस्थितः ‘अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा’ इत्याद्युक्तरीत्या सर्वजगत्यन्तः प्रविश्य नियन्ता! अन्तरङ्गैरपि दोषदर्शकैरक्षुभितचित्ततया स्थिरप्रतिज्ञ इत्यप्युपस्कार्यम् ॥

द्यौः पतेत्पृथिवी शीर्येद्धिमवान् शकलीभवेत् ।
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥

 इति तेनैवोक्तत्वात् । सोयं देवोत्तरः देवश्रेष्ठो भगवान् यथा सर्वनामताभाक् सर्वशब्दवाच्यो भवति । अव्यवस्थितः जगत्कारणत्वान्तःप्रविश्यनियन्तृत्वादिव्यवस्थाविधुर इत्यर्थः । चञ्चलचित्ततया प्रतिज्ञातार्थनिर्वहणाक्षम इत्यप्युपस्कार्यम् । अवर:

भगवदपेक्षया न्यूनः परः अन्यः ब्रह्मरुद्रादिरपि न तथा ननु ।

सर्वजगत्कारणत्वादिनिबन्धनां सर्वनामवाच्यतां न भजते खल्विति भावः ॥

 पक्षे-- हे देव! सोऽयं बुद्धिस्थः दक्षिणः दक्षिणशब्दः पूर्वः पूर्वशब्दः उत्तरः उत्तरशब्दः परः परशब्दः अवरः ‘अवरशब्दश्च व्यवस्थितः व्यवास्थां प्राप्तस्स्सन् व्यवस्था च ‘स्वाभिधेयापेक्षावधिनियमः' इत्याहुः । यथा सर्वनामताभाक् सर्वनामसंज्ञां प्राप्तः अव्यवस्थितः व्यवस्थामप्राप्तः पूर्वोक्तः दक्षिणादिशब्दः न तथा सर्वनामसंज्ञाभाङ्न भवतीत्यर्थः । ‘पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्’ इति व्यवस्थायामेव तेषां सर्वनामताभाक्त्वस्य व्यवस्थाहेतुकत्वादतथात्वस्याव्यवस्थितताहेतुकत्वाच्च काव्यलिङ्गद्वयं प्रकृताप्रकृतश्लेषेणैकवाचकानुप्रविष्टम् ॥

 यथावा--

 स्वकरेण तवाङ्घ्रिरुचिं जिहीर्षुरभ्येत्य पुरत एव तया । निर्वासितोऽम्ब धूतो वासरकर एष धूसरकरोऽभूत् ॥ २१९४ ॥

 हे अम्ब! एष वासरकरः भानुः स्वकरेण निजेन हस्तेन किरणेन च । तव अङ्घ्रिरुचिं चरणश्रियं न तु पाणिश्रियं जिहीर्षुः अभ्येत्य अभिमुखमागत्य अभ्यमित्रीणो भूत्वेति भावः । तया रुच्या स्त्रियेति भावः । पुरत एव स्वावासाद्गृहादेव नगरादेव वा ‘अगारे नगरे पुरम्' इत्यमरः । निर्वासितः प्रसिद्धं हि महापराधिनां निष्कासनम् । अतएव धूतः पुनरपि कीदृशो दण्डस्स्याद्वेति कम्पितस्सन् । यद्वा पुरत एव देहादेव निर्वासितः संहृत इत्यर्थः । धूतः देहान्तरं प्राप्यापि प्राग्भववास

नया कम्पित इत्यर्थः । ‘पुरं नपुंसकं गेहे देहे' इति मेदिनी । धूसराः ईषत्पाण्डवः कराः यस्य स तथा अभूत् अतिमात्रमन्दद्युतिरासीदिति भावः । श्वित्रिपाणिरभूदिति च गम्यते ॥

 पक्षे वासरकरशब्दः पुरत एव अग्रभाग एव वासितः वाकारेण संबद्धः स न भवतीति निर्वासितः । निश्चल इत्यादाविव निश्शब्दो नञ्समानार्थकः । अविद्यमानवाकार इत्यर्थः । धूतः वाकारस्थान एव धू इति वर्णेन ऊतः धूसरकर इति निरपद्यतेति वस्तुस्थितिः । अत्र पुरत इत्यादिश्लेषभित्तिकाभेदाध्यवसायोपजीवितं वासरकरस्य धूसरकरत्वरूपानिष्टावाप्तिलक्षणविषमम् । अप्रस्तुतवासरकरकर्तृकश्रीचरणरुचिचौर्यादिकार्येण तत्कारणीभूतायाश्श्रीचरणरुचेः कोऽप्यतिशयो द्योत्यत इति कार्यनिबन्धनाऽप्रस्तुतप्रशंसा च काव्यलिङ्गेन सह एकवाचकानुप्रविष्टे ॥

 यथावा--

 तावकगिर्यपवाहितमब्जेक्षण पापनाशनं बत तीर्थम् । द्रमिडा एव न केवलमभिदधते पावनाशनं सर्वेऽपि ॥ २१९५ ॥

 हे अब्जेक्षण! तावकगिरेः शेषाद्रेः अपवाहितं प्रवाहितं

पावनाशनं तन्नामानं तीर्थं द्रमिडा एव द्रमिडदेशजा एव केवलं पावनाशनं तीर्थमिति नाभिदधते । अपितु सर्वे सर्वदेशजा अपि जनाः अभिदधते । बतेत्याश्चर्ये । द्रमिडानां अनादिपकारस्य वकारतयोच्चारणस्यागस्त्यव्याकरणशिक्षिततया पावनाशनमित्युक्तिर्युक्तैव । अन्यदेशजन्यानां तथोच्चारणमाश्चर्याववहमेवेति भावः । पवनाशनस्य गिरिरूपधरस्य शेषस्य संब

न्धि पावनाशनमिति वा पवनाशनानां ऋषीणां संबन्धीति वा पावनं अशनं प्राशनं यस्येति वा विरोधः परिहार्यः । अतएव निरुक्त्यलंकारः । पक्षे तावकगिरि त्वदीयवाचि अपवाहितं अपं अविद्यमानपकारं वाहितं पकारस्थान एव वकारेण आहितं पापनाशनशब्दं पावनाशनमित्यभिदधते सर्वदेश्या अपीत्यर्थः । अत्र तुल्ययोगितानिरुक्त्योरेकवाचकानुप्रवेशः ॥

 यथावा--

 त्वदनुगृहीतः पुरुषो निगृहीतश्च त्वया बत मुरारे । सहमहिषीकोऽधिवसत्यर्यमशुभ्रं सुभूरिपर्यङ्कम् ॥ २१९६ ॥

 हे मुरारे! त्वया अनुगृहीतः निगृहीतश्च पुमान् सहमहिषीकस्सन् आर्यमा भानुरिव शुभ्रं उद्दीप्र 'शुभ्रमुद्दीप्रशुक्लयाः' इत्यमरः । ‘शुभ्रं स्यादभ्रके क्लीबमुद्दीप्रशुक्लयोः त्रिषु' इति मेदिनी च । सुभूरिपर्यङ्कं शोभनसुवर्णमञ्चं अधिवसति कृताभिषेकाभिर्देवीभिस्सह महीयांसं विभवमनुभवति महाराजो भवतीति भावः ‘भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ञे स्याद्वाच्यलिङ्गकः' इति मेदिनी । त्वयाऽनुगृहीत ईदृशो भवतीति युक्तम् । निगृहीतोऽप्येवंविधो भवतीत्याश्चर्यं बतेन्यनेन सूच्यते । परिहारस्तु-- महिषीभिस्सैरिभीभिस्सह वर्तत इति तथोक्तस्सन् । अर्यमशुभ्रं इत्यत्र अर्यं अशुभ्रमिति छेदः । अशुभ्रं कलुषं सुभूरि अतिमात्रस्फीतं अर्यं र्यवर्णविधुरं पर्यङ्कं पङ्कमित्यर्थः । अधिवसति महिषजन्म विन्दतीति भावः । अत्र तुल्ययोगितायाः श्लेषोज्जीवितायाः तथाविधसमविभावनालंकारयोश्चैकवाचकानुप्रवेशलक्षणस्सकरः ॥

 यथावा--

 त्वत्पदनतेषु येषां गौरवमाभाति गरतयैव सदा । विन्दन्ते ते मन्दा मुकुन्द तद्गौरवं पदं नियतम् ॥ २१९७ ॥

 हे मुकुन्द! त्वत्पदनतेषु त्वच्चरणशरणकृत्सु विषये गौरवं बहुमतिः येषां जनानां गरतयैव विषत्वेनैव आभाति द्वेष्यं भवतीति यावत् । मन्दाः अभाग्याः ते जनाः रौरवं नरकविशेषरूपं तत् दुरन्तदुरितसन्ततिफलभूतदुःखसहस्रानुभावकं पदं स्थानं विन्दन्ते । भगवत्पदन्यस्तभरमहाभागवतावमन्तारो महान्तमेव निरयं प्रपद्यन्त इति निर्गळितोऽर्थः । अन्यत्र येषां जनानां गौरवमिति पदं गरतया गस्य गकारस्य रतया रेफवर्णत्वेन आभाति ते अमन्दा इति छेदः कुशला इत्यर्थः । ते जनाः तत्पदं गौरवपदं रौरवमिति जानन्तीति यावत् । उक्तरीत्या गौरवशब्दस्य रौरवत्वावाप्तेरिति भावः । अत्र वाक्यार्थहेतुकं काव्यलिङ्गं प्रकृताप्रकृतश्लेषः भागवतमहिमगुणेन तदनादरजन्यदोषोदयलक्षण उल्लासालंकारश्चैकवाचकानुप्रविष्टानि ॥

 यथावा--

 भगवन् सदातन त्वां न तदासेति प्रतीपदृग्ब्रूताम् । संबोधयामहे तं पुरुषं त्वादृत्य तेन का हानिः ॥ २१९८ ॥

 हे भगवन् हे सदातन! पुराणपुरुषेत्यर्थः । प्रतीपदृक् शास्त्रसिद्धार्थप्रत्यनीकदर्शी जनः त्वां सदातनमिति भावः । न तदासेति तदा सृष्टेः प्राक्काले नास नासीत् इति ब्रूतां 'नासदा

सीन्नो सदासीत्तदानीम्' इति श्रुतिशकलमात्रापातप्रतीयमानार्थपरितुष्टतया सर्वज्ञंमन्योऽनृजुधीरेवं ब्रूताम्, तत्स्वभावस्थितिरेव तादृशीति भावः । आसेति तिङन्तप्रतिरूपकमव्ययम् । पक्षे सदातनेति वर्णानुपूर्वविपरीतं पश्यतो जनस्य नतदासेति भासत इति प्रतीपदृशस्तथोक्तिर्भवतुनामेत्यर्थः । तं एवं विरुद्धार्थद्रष्टारं विपरीतानुपूर्वीदर्शिनं च पुरुषं तु आदृत्य संबोधयामहे मैवं वादीरिति सान्त्वयित्वा सम्यक्पश्येत्यावेदयामहे शास्त्रार्थम् ॥

अज्ञानाय तु यो ज्ञानं दद्याद्धर्मोपदेशनम् ।
कृत्स्नां च पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥

इत्यज्ञाय ज्ञानदानस्य महाफलत्वश्रवणादिति भावः । तेन तादृशप्रतीपवचनेन का हानिः ? एवं बोधितोऽप्ययं प्रतीपवादितां न त्यजतिचेत्तद्वचनेन तव न काऽपि हानिर्भवेत् प्रत्युत तस्यैवेति भावः । यद्वा तं सदातनत्वेन प्रसिद्धं अत एव पुरुषं 'पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्’ इति निर्वचनगोचरं कालापरिच्छिन्नमित्यर्थः । इदमुपलक्षणं देशवस्तुपरिच्छेदराहित्यस्यापि । त्वा आदृत्येति छेदः । त्वा त्वां तेन नतदासेत्यनेन संबोधयामहे । नताः प्रणताः दासाः ‘दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः' इत्याद्युक्तरीत्या दासभूताः ब्रह्मेशानादयः यस्येति विगृह्य संबुध्यन्तेन तेन पदेन आमन्त्रयामहे इति भावः । तेनेत्यावर्त्यते । तेन प्रतीपवचनेन का हानिः तव न काऽपि हानिः प्रत्युत सर्वेश्वरत्वमेवोक्तं स्यादिति भावः । अत्र प्रतीपदर्शिकथितवचनस्यार्थान्तरपरिकल्पनलक्षणवक्रोक्त्यलंकारेण तादृशवचनरूपदोषेण हानिरूपदोषानुदयवर्णनात्मकोल्लासालंकार

एकवाचकानुप्रविष्टतया संकीर्णः ॥

 यथावा--

 विपरीतदृक्सनातन नतनासेत्याह चेद्ब्रवीतु त्वाम् । कस्सुदृगनवधिककृपोन्नसमाचष्टेऽच्युतावनाटं त्वाम् ॥ २१९९ ॥

 हे सनातन पुराणपुरुष! विपरीतद्दक् यथावस्थितविरुद्धग्राही पुमान् त्वां सामुद्रिकोक्तमहापुरुषलक्षणसर्वस्वशालिनमिति भावः । नता निम्ना नासा यस्य स नतनासः तस्य संबुद्धिः हे नतनास इत्याहचेत् ब्रवीतु कामं ब्रूतां कोऽस्य निरोद्धा न हि विपरीतदृशस्सुदृग्भिर्यथावदुक्तमप्यर्थमुपाददत इति भावः । पक्षे

यवन इव प्रतिलोमवणदर्शा सनातनेति शब्दं नतनासेति ब्रूतामित्यर्थश्चमत्कारातिशयाय । सुदृक् सम्यग्द्रष्टा कः पुमान् हे निरवधिककृप हे अच्युत! उन्नसं 'शुचिस्मितं कोमलगण्डमुन्नसम्' इत्युक्तरीत्या उन्नतनासिकं त्वां अवनाटं नतनासिकं आचष्टे । न कश्चिदपि सुदृक्तथा ब्रूयादिति भावः । 'अवात्कुटाराच्च' इति पूर्वसूत्रात् अनुवृत्तादवशब्दात् ‘नते नासिकायास्संज्ञायां टीटच् नाटच् भ्रटचः' इति नाटच्प्रत्ययः । नासिकाया नतं अवनाटं तद्योगान्नासिका अवनाटा । पुरुषोऽवनाटः । ‘अवटीटोऽवनाटश्चावभ्रटो नतनासिके' इत्यमरः । यद्वा नासयति न स्थापयतीति नासः आसंर्णिजन्तात् पचाद्यच् नशब्देन समासः । नतानां नासः नतनासः प्रणतजननिश्शेषयितेत्यर्थः । तस्य संबुद्धिः हे नतनास! इति ब्रवीतु अनवधिककृपया उन्नः आर्द्रः तस्य संबुद्धिः हे अनवधिककृपोन्न! 'समुन्नमुत्तं च' इत्यमरः । हे अच्युत त्वां एवं परमकारुणिकमिति भावः । अवनाटयतीत्यवनाटः तथोक्तं ‘नट अवस्कन्दने' चुरादिः । अवस्कन्दनं हिंसनं तस्मात् पचाद्यच् । समाचष्टे

वदति परमकरुणाकरं त्वां न कोऽपि सुदृक् हिंसकं ब्रवीतीति । भावः । अत्र विपरीतदृक्त्वस्य नतनासेत्युक्तिं प्रति सुदृक्त्वस्यावनाट इत्यनुक्तिं प्रति च हेतुत्वात्काव्यलिङ्गद्वयम् । विपरीतदृग्गतदुरुक्तिदोषेण भगवतोऽवनाटत्वरूपदोषानुदयलक्षणावज्ञालंकारश्चैकवाचकानुप्रविष्टे ॥

 यथावा--

 मायूरं शेखरितं नन्दकिशोर त्वयेति माद्यत्त्वात् । भूत्वा मुखे सकेकं केयूरीभूय भूषयति बाहुम् ॥ २२०० ॥

 हे नन्दकिशोर! मयूरस्यावयवो मायूरं ‘अवयवे च प्राण्योषधिवृक्षेभ्यः' इत्यवयवरूपार्थे वैकारिकोऽण् । मयूरपिञ्छमित्यर्थः । इदं कर्तृ त्वया शेखरितं शेखरवत्कृतं अलंकृतमित्यर्थः । यद्वा शेखरः कृतं शेखरितं परां काष्ठामुत्कर्षस्य प्रापितमित्यर्थः । अवतंसतया धृतमिति तु तत्त्वम् । इति हेतोः माद्यत्त्वात् माद्यतो भावः माद्यत्त्वं तस्मात् माद्यतेश्शत्रान्ताद्भावे त्वप्रत्ययः । माद्यत्त्वं च निष्कृष्यमाणं मदसंबन्ध एव ‘कृत्तद्धितसमासेषु संम्बन्धाभिधानं त्वतलौ’ इति शाब्दिकोक्तेः । हर्षातिरेकप्रयुक्तमदादित्यर्थः । माः माकारः आद्यो यस्य तत् माद्यं तस्य भावः माद्यत्त्वं तस्मात् तकारस्य ‘अनचि च' इति द्वित्वं । मायूरशब्दस्य तथात्वादिति भावः । ल्यब्लोपे पञ्चमी । माकाराद्यत्त्वं विहायेत्यर्थः । शब्दार्थयोस्तादात्म्यम् । मुखे वदने सकेकं केकया मयूरवाण्या सह सर्तत इति सकेकं स्वावयविभूतमयूरवत् स्वयमपि मदपारवश्यात्केकारवं वितन्वदित्यतिशयोक्तिः । अन्यत्र

मुखे मावर्णविघटिते आदिभागे सकेकं केवर्णेन सहवर्तत इति तथोक्तमित्यर्थः । ‘शेषाद्विभाषा’ इति कप् । भूत्वा केयूरीभूय अङ्गदं संपद्यमानं भूत्वा उक्तरीत्या केयूरपदं भूत्वेति चार्थः । बाहुं तव भुजं भूषयति । स्वशेखरीकरणप्रत्युपचिकीर्षया बहुमानयतीति भावः । अलंकरोतीति वस्तुस्थितिः । केयूरस्य मयूरपिञ्छतादात्म्यसंभावनया तस्य मरकतमणिमयत्वं द्योत्यते । अत्र भगवन्मयूरपिञ्छयोः परस्परोपकारवर्णनादन्योन्यालंकारः उत्प्रेक्षया एकवाचकानुप्रविष्टः ॥

 यथावा--

 मालूरं तत्र कुचयुगजिगीषु तेनान्तरेवगमितलयम् । मायूरं भूत्वाऽथ त्वन्मौळिविलासि नन्दसुतललने ॥ २२०१ ॥

 मालूरं बिल्वफलं मालूरमिति पदं च । तव कुचयुगजिगीषु सत् अतएव तेन कुचयुगेन । अन्तरेव केनाप्यविज्ञातमेवेति भावः । गमितलयं प्रापितप्रलयं सत् अथ अनन्तरं मायूरं मयूरबर्हं भूत्वा । पक्षे अन्तः मध्यभाग एव गमितः उत्सारितः लः लकारो येन तादृशो यः यकारः यस्य तत्तथाभूतं मालूरपदं मध्यस्थलकारोत्सारणेन तत्रैव यकारेण संगमितं सत् मायूरमिति निष्पन्नमित्यर्थः । त्यन्मौळौ विलासि विलसनशीलं भवति । वैरनिर्यातनाय साक्षात्प्रतिपक्षभूतायास्तव शिरोऽधिरोहतीति भावः । नन्दसुतललने इति संबोधनं मायूरपिञ्छं तस्येव तवाऽपि शेखरीभवतीत्यभिप्रायगर्भम् । त्वन्मौळिः तव धमिल्ल इव विलासीति तु तत्त्वम् । ‘मौळिः किरीटे धमिल्ले चूडायामनपुंसकम्' इति मेदिनी । बर्हत्वावस्थां प्राप्य त्वत्कब

रीसाम्यमभजतेति भावः । अत्र विषमप्रत्यनीकपरिकराङ्कुराणामेकवाचकानुप्रवेशः ॥

 यथावा--

 निर्भासिलता त्वत्तनुधुताऽथ तत्परिभवेच्छयाऽवनितनये । स्याद्वाऽलङ्काविष्टा भ्रष्टा स्वार्थाद्भवेत्तु निर्भासिकता ॥ २२०२ ॥

 हे अवनितनये जनकनन्दिनि! इदं च वक्ष्यमाणार्थानुगुण्याय । निर्भासिनी अतिशयेन भासनशीला च सा लता च निर्भासिलता । त्वत्तन्वा तावकमूर्त्या धुता तिरस्कृतेति यावत् । अथ तस्याः त्वत्तन्वाः परिभवेच्छया लङ्काविष्टा स्याद्वा त्वत्पराभवाय एकाक्ष्येककर्णादिवदियमपि लङ्कां प्रविशतु वा । तावताऽपि निर्भाः विगतभाः सिकता वालुका सती स्वार्थात् स्वाभीप्सितत्वत्तनुपराभवरूपात्प्रयोजनाद्ब्रष्टा भवेत् । अनवाप्तमनोरथा प्राप्तानिष्टा च भवेदित्यर्थः ॥

 पक्षे निर्भासिलताशब्दः अलं अविद्यमानलकारं यथास्यात्तथा काविष्टा तत्रैव प्रवेशितककरा सती निर्भासिकतेति निष्पन्ना स्वार्थात् स्वाभिधेयात् प्रकाशमानलतात्वरूपात् भ्रष्टा भवेत् निर्भासिलतेत्यानुपूर्व्या यादृशर्थः प्रत्याय्यते निर्भासिकतेत्यानुपूर्व्याः तादृशार्थप्रत्यायनायोगादिति भावः । अत्राप्रस्तुतप्रशंसाविषमौ एकवाचकानुप्रविष्टौ ॥

 यथावा--

 त्वत्पदनखरुचिमोषणकृतरुचिरपशदतया फणिगिरीन्दो । विशदमयूखोऽपि परं विमयूखो भवति नात्र संदेहः ॥ २२०३ ॥

 हे फणिगिरीन्दो! विशदमयूखः स्वच्छांशुरपि त्वत्पदनखरुचेः मोषणे चौर्ये कृतरुचिः प्ररूढाभिलाषः अतएव अपशदतया जाल्मतया ‘निहीनोऽपशदो जाल्मः' इत्यमरः । परं विमयूखः विगळिततेजाः ‘मयूखस्त्विट्करज्वालासु' इत्यमरः । भवति । पक्षे विशदमयूखशब्दः अपशदतया अपगतौ शदौ शकारदकारौ यस्य स तथोक्तः तस्य भावस्तत्ता तया विमयूख इति निष्पद्यत इत्यर्थः । अत्र विरोधाभासविषमातिशयोक्तीनामेकवाचकानुप्रविष्टता ॥

 यथावा--

 भारतरसाऽखिलाऽच्युत भावत्कैः क्वाप्यवस्थितैर्विमला । प्रतिलोमवर्णभागपि ऋक्षै रात्रीव सारतरभैव ॥ २२०४ ॥

 हे अच्युत! अखिलाऽपि भारतरसा भारतवर्षभूमिः प्रतिलोमवर्णं ‘ब्राह्मण्यां क्षत्रियाज्जातः' इत्याद्युक्तविधं संकीर्णवर्णं

भजतीति तथोक्ताऽपि तमःप्रचुरतया नीलवर्णभागपीति च । क्वाप्यवस्थितैरपि ‘क्वचिक्त्वचिन्महाभाग’ इत्युक्तरीत्या क्वचिक्त्वचिदवस्थितैरपीत्यर्थः । भावत्कैः भवदीयैः ऋक्षैः नक्षत्रैः रात्रीव विमला निर्दोषा स्वच्छा च सती सारतरा श्रेष्ठतरा भा दीप्तिः यस्यास्सा तथोक्तैव भवति । पक्षे अखिला समग्रवर्णा भारतरसा भारतरसेति शब्दव्यक्तिः प्रतिलोमवर्णभागपि प्रतिकूलाक्षरा सती सारतरभेत्येव निष्पद्यत इत्यर्थः । अत्र प्रतिलोमवर्णभाक्त्वरूपप्रतिबन्धकसद्भावेऽपि सारतरभात्वरूपकार्योदयलक्षणविभावनाविशेषस्य उपमायाश्च एकवाचकानुप्रवेशः ॥

 यथावा--

 सकलजगदधिपतिं त्वां वृषगिरिपतिरिति वदन्तु नाम जनाः । विष्णुस्स पर्वतानामधिपतिरिति कथमनादिवाग्ब्रूते ॥ २२०५ ॥

 जनाः पामरा इत्यर्थः । ‘जनो लोके महर्लोकात्परलोकेऽपि पामरे’ इति विश्वः । अत्र निरङ्कुशनिखिलजगदैश्वर्यस्य भगवतश्श्रीनिवासस्य यत्किञ्चित्परिच्छिन्नशैलमात्राधीश्वरत्वं श्रुत्या प्रतिपादितमप्यनुपादेयमेवेति तत्प्रतिक्षेपाय ‘विष्णु पर्वतानामधिपतिः’ इति श्रुतेरुपन्यासाच्छब्दप्रमाणालंकारः पूर्वोत्तरार्धप्रतिपाद्यसमविषमालंकाराभ्यामेकवाचकानुप्रविष्टः ॥

 विपुलभवाम्भोनिधिशुक्तिरोहिताश्चोद्धृतास्ततः काले । मुक्तत्वाद्दिव्यगुणास्सन्मणयोऽच्युत भवन्ति तेऽग्रसराः ॥ २२०६ ॥

 हे अच्युत! विपुलः यो भवाम्भोनिधिः संसारसागरः तस्य शुकू तत्सम्बन्धिनी शोकः इदमुपलक्षणमशनायापिपासाद्यूर्मीणाम् । तया तिरोहिताः आच्छादितस्वाभाविकस्वस्वरूपा इति यावत् । अन्यत्र विपुलं यथा तथा भवः विद्यमानः यः अम्भोनिधिः तस्य याः शुक्तयः मुक्तास्फोटाः तासु रोहिताः स्वातिवर्षजलबिन्दुभिः प्रादुर्भाविता इत्यर्थः । चशब्दो भिन्नक्रमः । ततः कालं ‘विधिपरिणतिभेदाद्वीक्षितस्तेन काले’ इत्युक्तप्रक्रियया यादृच्छिकादिसुकृतपरिपाकावसरे । अन्यत्र--

नद्यां तत्र स्वातिगेऽर्के शुक्तिस्था वर्षबिन्दवः ।
षड्भिर्मासैर्घनीभूता जायन्ते शुद्धमौक्तिकाः ॥


 इत्युक्ते परिपाकसमये नद्यां ताम्रपर्ण्यां तत्र सागरसंगमप्रदेशे इति तदर्थः । उद्धृताः दयानिधिभिराचार्यैरुपायानुष्ठानादिना उज्जीविताः इतरत्र शिल्पिभिरुदञ्चिता इत्यर्थः । इदं कृतसुषिरत्वस्याप्युपलक्षणम् । मुक्तत्वात् प्रकृतिबन्धवियुक्तत्वात् । पक्षे मौक्तिकत्वात् मुक्तायाः भावः मुक्तत्वं 'त्वे च' इति त्वप्रत्यये परे आपो ह्रस्वः । दिव्याः गुणाः येषां ते तथोक्ताः आविर्भूतापहतपाप्मत्वादिब्राह्मगुणाः रमणीयसुवर्णतन्तुप्रौताश्चेत्यर्थः । सन्मणयः ब्रह्मविच्छ्रेष्ठाः रमणीयरत्नानि च ते तव अग्रसराः पुरोवर्तिनः श्रेष्ठहाराश्च भवन्ति । अत्र प्रकृताप्रकृतयोर्विद्वद्रत्नयोश्श्लेषः । उक्तानां विपुलभवाम्भोनिधिशुक्तिरोहितत्वादीनामर्थानां क्रमिकत्वाद्रत्नावळी चैकवाक्यानुप्रविष्टे ॥

 यथावा--

 रुचिमदतस्सौदामनि वल्गस्यभ्रे रमाप्रभाभिहता । पतिताऽधश्शीर्षं त्वं निमदासौ स्या यदा तदाऽवैषि ॥ २२०७ ॥

 सुदाम्ना अद्रिणा एकदिक् सौदामनी । तटित् ‘तेनैकदिक्’ इति प्राग्दीव्यतीये एकदिगित्यर्थे अण् ‘अन्’ इति प्रकृतिभावः । तस्यास्संबुद्धिः हे सौदामनि! शुचिमदतः ममैव द्युतिर्लोकोत्तरेति गर्वात् अभ्रे अन्तरिक्षे वल्गसीति लोकोक्तिः । जलधरे स्फुरसीति तत्त्वम् । रमाप्रभया अभिहता अतएव अधशीर्षं पतिता सती । असौ एवं वल्गन्ती त्वं निमदा निशब्दपूर्वकोऽयं बहुव्रीहिः निवात इत्यादिवत् । निर्गळितरुचिमत्त्वगर्वेत्यर्थः । यदा स्याः तदा अवैषीति लोकोक्तिः । उद्वल्गनफलं तदा जानासि किमिदानीं जानासीति भावः । पक्षे सौदामनीति

संबुद्ध्यन्तश्शब्दः विलोमत्वे निमदासौ इति निष्पद्यत इत्यर्थश्चमत्काराय । अत्र अप्रस्तुतसौदामनीगर्वशान्तिप्रशंसया तत्कारणभूतरमाप्रभायास्ततोऽतिमात्रोज्ज्वलत्त्वं प्रतीयत इति कार्यनिबन्धना अप्रस्तुतप्रशंसा । रमाप्रभाभिहतेत्यस्याधश्शीर्षपतनं प्रति हेतुत्वात्काव्यलिङ्गं लोकोक्तिश्च एकवाचकानुप्रवेशेन संकीर्यन्ते ॥

 यथावा--

 देवि त्वदपाङ्गजितस्तं जेतुं यदि शिवत्वमेवेयात् । तदपि न जेतुं प्रभवेच्छिलीमुखोऽपि तु वलीमुखत्वमियात् ॥ २२०८ ॥

 हे देवि! शिलीमुखः रोलम्बः कलम्बो वा ‘अळिबाणौ शिलीमुखौ' इत्यमरः । तव अपाङ्गेन लोचनाञ्चलेन त्वत्सुतेनानङ्गेनेत्यपि गम्यते । ‘अपाङ्गत्स्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपिच' इति । शिवत्वमेव त्रिलोचनत्वमेव इयात्प्राप्नुयाद्यदि तदपि तदाऽपि जेतुं न प्रभवेत् । अपितु वलीमुखत्वं कपित्वमेव इयात् । शिलीमुखशब्दः शिवत्वं शिवर्णस्य वकारत्वं शिवर्णापनयनेन तत्रैव ववर्णवत्त्वमेयाद्यदि वलीमुख इति निष्पद्येतेति वास्तवार्थः । शब्दार्थतादात्म्यवैभवं न प्रस्मर्तव्यम् । अत्र विषमाप्रस्तुतप्रशंसयोरेकवाचकानुप्रवेशः ॥

 यथावा--

 तावकगुणानुवादी तामरसदळाक्ष तदपवादी च । भवमयपारावारे भविता सुखगो महाप्लवश्चित्रम् ॥ २२०९ ॥

 तपवादी तावकगुणानां तदनुवादिनां वा निन्दकः भवमये ससाररूपे पारावारे सुखगः महाप्लवो भवितेति चित्रम् । त्वद्गुणानुवादी सुखगः गुणानुवादजनितानन्दशाली महाप्लवः भविता महोडुपवदुत्तारको भवितेत्यर्थः । तदपवादी तु भविता असुखग इति छेदः । भवमयपारावारे महान् आप्लवः आप्लवनं यस्य स तथोक्तः नित्यनिमग्न इत्यर्थः । अतएव असुखगः असुखप्राप्ता । यद्वा महान् प्लवः चण्डालः ‘चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः' इत्यमरः । भगवद्गुणनिन्दनस्य नेदं फलमलमिति भावः । अतएव असुखगः उक्तोऽर्थः । यद्वा महान् प्लवः मद्गुकारण्डवादिवत्कश्चित्प्लवनामा शोभनः खगः सुखगः स न भवतीत्यसुसगः अशोभनः पक्षी भविता । अत्र रूपककाव्यलिङ्गतुल्ययोगितानामेकवाचकानुप्रवेशः ॥

 यथावा--

 अरविन्दं रविमन्तर्दधतां भवतात्ततस्तथानन्दम् । तदपि भजत्सद्रवितां हरिनयनं स्यात्तवाम्ब न तु नयनम् ॥ २२१० ॥

 हे अम्ब! अरविन्दं पद्मं अन्तः मनसि रविं भानुं दधतां धत्ताम् । ‘दध धारणे' इति भोवादिकाद्धातोर्लोट् । त्वन्नयनतावाप्त्यै उपास्तामिति भावः । ततः तस्मादुपासनात् तथानन्दं तथा आनन्दो यस्य तत्तथोक्तं । तल्लाभौपयिकहर्षपरिपूर्णं भवतात् भवतु । तदपि तथाऽपि सत् साधु प्रशस्तं वा यथातथा रवितां भानुता भजत् सेवमानं सत् यथाक्रतुनयेन रविमुपासीनस्य तद्भावभाविताया अवश्यंभावः । हरिनयनं एतावताऽपि प्रयासेन भगवन्न

यनमेव भवेत् तस्य भानुनयनतया लोकवेदविदितत्वादिति भावः । न तु तव नयनम् । सौम्यसुन्दरमहोदारदयातरङ्गितं सकलतापमोचनं भवत्या लोचनं न स्यादिति भावः । पक्षे अरविन्दं अरविन्दमितिपदं अन्तः स्वाभ्यन्तरे रविं रेफयुक्तविवर्णं दधताम् । तस्य पदस्य मध्ये उक्तवर्णयोश्श्रवणात् । तथा तद्वत् अनन्दमिति छेदः । अश्च न्दश्च अन्दौ अविद्यमानौ अन्दौ यस्य तत्तथोक्तं अकारन्दकाराभ्यां रहितं भवतात् । तदपि सद्रविता सन्तौ विद्यमानौ रवीति वर्णौ यस्य तत्तथोक्तं तत्तां भजत् अन्यवर्णयोरपाये रवीतिवर्णयोरेवावशेषणादिति भावः । अत्र समविषमसंभावनादीनामेकवाचकानुप्रविष्टता द्रष्टव्या ॥

 यथावा--

 अपि हरिमणिमुखमणयस्त्वद्रुचिसाम्येप्सवस्तयाऽपास्ताः । अधरितशिरोऽपि तेष्विदमरं मरतकं हरे भवेत्कतमम् ॥ २२११ ॥

 हे हरे! हरिमणिः इन्द्रनीलमणिरेव मुखं येषां ते मणयः महानीलाद्याः ‘इन्द्रनीलमहानीलमणिप्रवरवेदिकम्' इत्यादौ नीलरत्नानां बहुविधत्वप्रसिद्धेः । ये मणयः पुल्लिङ्गेन पुमांसो बहुवचनेन बहव इति च गम्यते । त्वद्रुचिसाम्येप्सवः अत एव तया त्वद्रुच्या स्त्रिया एकयैवेति भावः । अपास्ताः उज्ज्वलश्यामलिमानस्त एव निरस्ता इति भावः । तेषु मध्ये इदं मरतकं इदमित्यनेन इन्द्रनीलाद्यपेक्षया मन्दतमनीलमिति द्योत्यते । अरं अतिमात्रं अधरितशिरोऽपीति लोकोक्तिः कतमं भवेत् ? इन्द्रनीलादिष्वपीदं कः पदार्थः तेष्वपि गणयितुमनर्हं क्लीबं च कथं नाम त्वद्रुचिसाम्यसौभाग्यमियादिति भावः । पक्षे मरतकं अधश्शीर्षमपि अरं

रेफरहितं सत् कतममिति सिध्यतीत्यर्थान्तरं विच्छित्तिविशेषाय । विषमकाव्यार्थापत्त्यप्रस्तुतप्रशंसानामेकवाचकानुप्रवेशः ॥

 यथावा--

 मरकतकमेत्वमरतामवाक्छिरोऽप्यस्तु तर्हि कतकं सत् । काजलमेव विमलयेदच्युत सन्मानसं न वपुरिव ते ॥ २२१२ ॥

 हे अच्युत! मरकतं गारुत्मतं अमरतां देवत्वमेव एतु त्वद्दिव्यविग्रहसाम्येप्सया देवत्वमेव लभताम् । न केवलमेतावदेव, अवाक्छिरोऽप्यस्तु अधःकृतशीर्षमपि भवत्विति लोकोक्तिः । तर्हि तथाऽपि कतकं कतकफलमेव स्यात् । देवत्वेऽपि स्वाभीष्टानवाप्तेरधश्शीर्षं तप्त्वाऽपि कतकरूपमेव भवेदित्युत्कटानिष्टप्राप्तिरेवोक्ता । तदाऽपि कतकरूपेऽपि काजलं ईषज्जलमेव प्रसादयेत् । तव वपुरिव दिव्यविग्रह इव सन्मानसं सतां मन एव सन्मानसं अतिगभीरं मानससरः न विमलयेत् यथा मानसमतिगभीरमपि तव दिव्यमङ्गळविग्रहः प्रसादयेत् न तथा मरकतकमुपदर्शितरीत्या महता यत्नेनापि न प्रसादयेत् । किंतु अत्यल्पकुत्सितजलमेवेति निर्गळितोऽर्थः । अनेन मरकतकस्य सर्वात्मना भगवद्विग्रहसाम्यदवीयस्त्वमुक्तम् । वस्तुतस्तु मरकतकमिति पदं अमरत्वं मकाररेफराहित्यं प्राप्य कतकमित्यवशिष्टं विपर्यासेऽपि कतकतयैवावस्थितमित्यर्थः । अत्र प्रतीपविषमव्यतिरेकाणामेकवाचकानुप्रवेशोऽनुसंधेयः ॥

 यथावा--

 जनिसंततिः प्रयाता बह्वी मुग्धा गता मुधाभा

वम् । तव कृपयाऽच्युत मा भून्निजजनिरेषाऽपि वा प्रतीपगतिः ॥ २२१३ ॥

 हे अच्युत! बह्वी जनिसंततिः जन्मपरंपरा ममेति शेषः । मुग्धा भगवन्मायया मोहं प्राप्ता अतएव मुधाभावं अनाराधितत्वच्चरणारविन्दतया व्यर्थत्वमिति भावः । प्रयाता प्राप्ता । एषा निजजनिरपि वा एतन्मम जन्म वा तव कृपया प्रतीपगतिः ‘अनृतेन हि प्रत्यूढाः’ इति श्रुत्युक्तरीत्या भगवन्मायया प्रातिकूल्यं प्रापिता मा भूत् अविदितपरावरतत्त्वयाथात्म्या अननुष्ठितत्वत्प्राप्त्युपाया मा विनङ्क्षीदिति भावः । अत्र--

वृधैव भवतो याता भूयसी जन्मसंततिः ।
तस्यामन्यतमं जन्म संचिंत्य शरणं घ्रज ॥ इति,
संसारचक्रमारोप्य बलिभिः कर्मरज्जुभिः ।
कलेनाकृष्यमाणस्य जङ्गमस्थावरात्मनः ॥
अहो मे महती याता भूयसी जन्मसंततिः ।
अनाराधितगोविन्दचरणाम्भोरुहद्वया ॥
अनास्वादितसत्कर्मज्ञानभक्तिसुधारसा ।
अदृष्टानन्तसंसारसागरोत्तरणप्लवा ॥

इत्यादिना चोक्तोऽर्थोऽनुसन्धेयः ।

 पक्षे मुग्धेति शब्दव्यक्तिः अगतामुधाभावमिति समस्तं पदम् । अगतया अविद्यमानगकारतया गकारे अकार उच्चारणार्थः । ग् इति हल्मात्रलोपेनेत्यर्थः । मुधाभावं मुधाशब्दत्वं प्रयातेति योजना । किंच निजजनिरिति शब्दव्यक्तिः प्रतीपगतिर्मा भूत् प्रातिलोम्येन पठिताऽपि पूर्वानुपूर्व्यैवावतिष्ठत इति

भावः । ‘माङि लुङ्’ इत्यस्य सर्वलकारापवादत्वाल्लडर्थे लुङ् । अत्र शान्तरसस्य मुधैव जनिसंततिः प्रयातेत्यनेन सूचितो निर्वेदस्संचारी भावोऽङ्गमिति प्रेयोऽलंकारः । पूर्वार्धोदितायाः जनिसंततिवृधाभवनचिन्ताया उत्तरार्धप्रतिपादितनिजजनिप्रतीपतानिषेधप्रार्थनं प्रति हेतुत्वात्काव्यलिङ्गं चैकवाचकानुप्रवशेसंकीर्णे ॥

 यथावा--

 आदौ व्याध्युषितमथो बहुलभ्रष्टं कुतोऽलमुपरि पतेत् । यदि विजिगीषु भुजं ते व्यालकुलं व्याकुलं भवेन्नूनम् ॥ २२१४ ॥

 हे हरे! आदौ प्रथममेव व्याधिः उषितो यस्मिन् व्याधिग्रस्तमित्यर्थः । अथो अनन्तरं बहुलं भ्रष्टं अधःपतितं शक्तिविरहादिति भावः । व्यालकुलं भुजङ्गयूधं कर्तृ न त्वेको व्याळः । ते तव भुजं विजिगीषु यदि कुतः कस्माद्धेतोः अलं समर्थं सत् उपरि पतेत् द्वंद्वयुद्धार्थमिति भावः । किंतु व्याकुलं भवेत् जेतुमक्षमत्वादिति भावः । अन्यत्र व्यालकुलं व्यालकुलमिति पदं आदौ व्या इत्याकारकवर्णः अध्युषितो यस्मिन् अथो अनन्तरं बहु यथातथा लभ्रष्टं भ्रष्टलवर्णमित्यर्थः । अथ कुतः कुवर्णात् उपरि अनन्तरं लं लकारं पतेत् गच्छत् यदि पततिस्सकर्मकः । ‘द्वितीया श्रितातीतपतित’ इति समासविधानात् । ‘नरकं पतितः, दिवं गच्छ सुवः पत, पत भूमिमवाक्छिराः’ इत्यादिप्रयोगाच्च । व्याकुलं भवेत् व्यालकुलपदं भ्रष्टप्रथमलकारमात्रं व्याकुलमिति निष्पद्येतेत्यर्थः । अस्मिन् पक्षे तुशब्दोऽवधारणे ।

काव्यलिङ्गविषमयोरेकवाचकानुप्रविष्टत्वमत्र द्रष्टव्यम् ॥

 यथावा--

 दरसंयोगं प्राप्तो जनस्त्वदीयो भवत्यमृतदोग्धा । युक्तमिदं त्वद्विमुखोऽपीदृग्भवतीति नाथ चित्रमिदम् ॥ २२१५ ॥

 हे नाथ! त्वदीयो जनः दरसंयोगं अल्पकालसंसर्गं प्राप्तोऽपि अमृतदोग्धा निश्श्रेयसमार्गोपदेष्टा भवति ।

अहन्यहनि धर्मस्य योनिस्साधुसमागमः ।
मोहजालस्य योनिर्हि मूढैरेव समागमः ॥

 इत्यादिकमिहानुसंधेयम् । इदं युक्तम् । त्वद्विमुखोऽपि ईदृक्दरसंयोगं प्राप्तोऽमृतदोग्धा भवतीति चित्रम् । दकाररेफरूपसंयोगं प्राप्तः अमृतदोग्धा अमृतदोग्धेति वस्तुस्थितिः । समतुल्ययोगितयोरेकवाचकानुप्रवेशः ॥

 यथावा--

 त्वं ननु भवसि वदान्यस्सुधातिशिशिरः पृदाकुशैलेन्दो । विपरीतलक्षणादिह वदान्यमन्यं तु दावमिव मन्ये ॥ २२१६ ॥

 हे पृदाकुशैलेन्दो! त्वं ननु त्वमेव ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमरः । सुधेव अतिशिशिरः अतिवेलकृपाशीतल इत्यर्थः । इन्दुपक्षे सुधया अतिशिशिर इति । वदान्यः ‘प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः' ‘य आत्मदा बलदा’ इति श्रुतात्मपर्यन्तसर्वस्वदाता त्वदन्यो महावदान्यः क इति भावः । यथाचोच्यते श्रीविष्णुधर्मे-

तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ।
तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः ॥

 इति । अन्यं त्वदितरं वदान्यं वदान्यंमन्यं त्वितिभावः । विपरीतलक्षणात् सुधातिशिशिरत्वादिलक्षणविप्रतीपात्तापकरत्वादिलक्षणात् दावं वनहुताशनमिव मन्ये । दुरुपसर्पं दूरतस्त्याज्यं च जानामीति भावः । यद्वा अन्यं विपरीतलक्षणात् विरोधिलक्षणातः सा च जहत्स्वार्थलक्षणैव । यया स्वाभिधेयविपरीतार्थो लक्ष्यते । यथा ‘उपकृतं बहुनाम' इत्यादौ वदान्यं अवदान्यमित्यर्थः । दावं मन्ये उक्त एवार्थः । पक्षे अन्यं न्यवर्णशून्यं वदान्यं वदान्यशब्दं विपरीतं विलोमं यथास्यात्तथा लक्षणात् वीक्षणात् दावं मन्ये दावशब्दं जाने । वदान्यशब्दो न्यवर्णविधुरो वदा इत्यवशिष्टः विलोमतया पठितो दाव इति निष्पद्यते । अस्मिन् पक्षे इवशब्दो वाक्यालंकारे । अत्र भगवत्तदितरयोर्वदान्यत्वे प्राप्ते भगवत्येव तन्नियमनात्परिसंख्या तयोरेवेन्दुत्वदावतुल्यत्वरूपवैलक्षण्यसद्भावाद्व्यतिरेकश्च उपमाभ्यामेकवाचकानुप्रविष्टौ ॥

 यथावा--

 सललिततमवलरिपुमणिफलकासु नरा विशालशालासु । कुरुविन्ददीपरुचिरास्वरविन्दाक्ष त्वदीक्षिता भान्ति ॥ २२१७ ॥

 अत्र प्रतिपाद्यमानोऽर्थस्समृद्धिमद्वस्तुवर्णनात्मकतया उदात्तालंकाररूपः । असंबन्धे संबन्धकथनात्मकतया अतिशयोक्तिरूपश्च । न च सर्वत्र उदत्तस्यासंवन्धे संबन्धकथनरूपत्वं निर्णीत

मिति न विविक्तालंकारद्वयसमावेशोस्तीति वाच्यम्, दिव्यलोकस्थितसंपत्समृद्धिवर्णनादिष्वतिशयोक्त्यसंस्पृष्टस्य उदात्तस्य शौर्यौदार्यदारिद्र्यादिविषयकातिशयोक्तिवर्णनेषूदात्तासंसृष्टाया अतिशयोक्तेश्चान्योन्यविविक्तत्वेन विश्रमात् । तयोश्चेहार्थवशप्राप्तसमावेशयोर्नाङ्गाङ्गिभावलक्षणस्संकरः, एकेनान्यस्यानुत्थितेः । स्वातन्त्र्यपारतन्त्र्यविशेषावगतेश्च । नापि समप्राधान्यं, यैश्शब्दैरिह समृद्धिमद्वस्तु प्रतिपाद्यते तैरेव तस्यैव वस्तुनोऽसंबन्धे सबन्धरूपस्य प्रतिपाद्यमानतया विभिन्नप्रतिपादकशब्दव्यवस्थितार्थभेदाभावात् । नापि संदेहसंकरः, एकालंकारकोट्यां तदन्यालंकारकोटिप्रतिक्षेपाभावात् । तस्मादिहोदात्तातिशयोक्त्योरेकवाचकानुप्रवेशलक्षणस्संकरः । एवमुक्तसमृद्धेर्भगवत्कटाक्षितताहेतुकत्वात्कव्यलिङ्गं चोक्तसंकरैकवाचकानुप्रविष्टमिति विच्छित्तिविशेषश्च ॥

 अत्र समप्राधान्याभाववर्णनं च कुवलयानन्दकृतामनुरोधेन । रसिकरञ्जनीकारस्तु ‘इदं चिन्त्यं । समप्राधान्यसंकरमभ्युपगच्छतो भिन्नशब्दव्यवस्थितार्थभेदस्समप्राधान्यप्रयोजक:। आग्नेयादावुत्पत्तिविधिभेदसत्त्वेऽपि ‘सप्तदश प्राजापत्यान्पशूनालभते' इत्यादौ विधिभेदाभावेऽपि समप्राधान्यव्यवस्थितेः । तद्वदत्रापि प्रतिपादकशब्दभेदाभावेऽपि प्राधान्यसंभवात् । इतोऽपि न समप्राधान्यसंकरसंभवः, एकवाचकानुप्रवेशसंकरस्य निर्विषयतापत्तेः । तत्रानुप्रविष्टयोरलंकारयोरेकजातीयचमत्कारप्रयोजकतया समप्राधान्यस्यैवोपपत्तेः’ इत्यभाणीदित्यलम् ॥

 द्वितीयश्शब्दार्थयोरेकवाचकानुप्रवेशसंकरस्समप्राधान्यनिरूपणावसर एवोदाहृतः । तृतीयश्शब्दार्थयोरेकवाचकानुप्रवेशसंकरो यथा-

 शब्दार्थयोरेकवाचकानुप्रवेशसंकरो यथा--

 ननु भजति प्रत्यय इह तान्तोऽपि जहाति नैव बत सत्वम् । त्त्वदभक्तिभृत्यसत्वं स्वयमेत्य ददाति तस्य तन्तत्त्वम् ॥ २२१८ ॥

 हे भगवन्! इह लोके भजति त्वां सेवमाने पुंसि प्रत्ययः ज्ञानं ‘प्रत्ययोऽधीनविश्वासधीरन्ध्राचारहेतुषु । ख्यातौ सनादौ शपथे’ इति रत्नमाला । तान्तोऽपि कदाचिदाध्यात्मिकादितापरूपकारणवशात् स्वयं ग्लानोऽपि सत्त्वं सत्त्वगुणं प्राशस्त्यं वा नैव जहाति । त्वद्भक्तस्य ज्ञानं ग्लानिदशायामपि सत्त्वगुणसमृद्धिं प्रशस्ततां वा न विसृजतीत्यर्थः । अत्र ज्ञानशब्देन--

तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ।
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥

 इत्युक्तं घ्रह्मविषयकपरोक्षापरोक्षरूपोभयविधज्ञानं विवक्षितम् । भगवदभक्तज्ञानस्य व्यतिरेकमाह-- त्वदिति । त्वदभक्तिभृति त्वयि भक्तिमबिभ्राणे जने तु प्रत्यय इतीहाप्यनुषज्यते । प्रत्ययो ज्ञानं स्वयं आत्मना असत्त्वं सत्त्वगुणाभावं अप्रशस्तत्वं वा एत्य प्राप्य तस्य अभक्तिभृत तान्तत्वं ग्लानिं ददाति । त्वदभक्तनिष्ठं सामान्यशास्त्रादिज्ञानं त्वद्भक्तिविधुरतया स्वयं सत्त्वगुणानाधायकं अप्रशस्तं वा संपद्यमानं स्वाश्रयमेव निश्श्रेयसरूपपरमपुरुषार्थालाभेन ग्लपयतीति भावः । अन्यत्र भजति त्वदभक्तिभृतीत्येतदुभयमपि शब्दपरम् । भजति भजतीत्याकारके शब्दे प्रत्ययः

शतृप्रत्ययः तान्तः तकारान्तः भवति । अपिशब्दो भिन्नक्रमस्समु

च्चये । सत्त्वं सत्संज्ञावत्त्वमपि नैव विजहाति । ‘तौ सत्’ इति शतृशानचोस्सत्संज्ञाविधानादिति भावः । त्वदभक्तिभृति त्वदभक्तिभृच्छब्दे प्रत्यय इत्यस्यात्राप्यनुषङ्गः । प्रत्ययः क्किप्प्रत्ययः स्वयं असत्त्वं सत्संज्ञाभावं शतुरिव क्किपस्सत्संज्ञाया अविधानादिति भावः । यद्वा असत्त्वं अविद्यमानत्वं एत्य क्विपस्सर्वस्यापि 'लशक्वतद्धिते । उपदेशेऽजनुनासिक इत् । हलन्त्यम्’ इति ककारेकारपकारणामित्संज्ञायां 'तस्य लोपः' इत्यनेन वकारस्य 'वेरपृक्तस्य’ इत्यनेन च लोपविधानादिति भावः । तस्य त्वदभक्तिभृच्छब्दस्य तान्तत्वं तकारान्तत्वं ददाति । क्विपः पित्कृत्त्वात् । ‘हृस्वस्य पिति कृति तुक्’ इति भृ इत्यस्य तुगागमे तकारान्तत्वं भवतीति भावः । क्विब्निमित्तकत्वात्तुगागमस्य तान्ततायास्तद्दत्तत्वोक्तिः । अत्र प्रकृताप्रकृतयोर्ज्ञानप्रत्यययोश्श्लेषः । प्रकृतार्थकक्ष्यायां ज्ञानस्य ग्लानतारूपकारणसत्त्वेऽपि सत्त्वपरित्यागरूपकार्यानुदयस्य वर्णनाद्विशेषोक्तिः पूर्वार्धे । उत्तरार्धे तु सामान्यज्ञानस्य भगवद्भक्त्यभरणरूपकारणानुगुणासत्त्वप्राप्त्यादिकार्यवर्णनात्समालंकारः ॥

 महावाक्यार्थस्तु--भगवद्भक्ताभक्तगतप्रत्यययोर्वैलक्षण्यवर्णनात्मकव्यतिरेकरूपः । अप्रकृतार्थकक्ष्यायां तु शतृप्रत्ययस्य तान्तत्वसत्त्वप्राप्त्योः क्विप्प्रत्ययस्यासत्त्वप्राप्तितान्तताप्रदानयोश्चानुरूपयोर्वर्णनात्समालंकारद्वयं चेत्येतेऽर्थालंकाराः तकारपौनरुक्त्यलक्षणवृत्त्यनुप्रासश्चेत्येतेषामेकस्मिन्नेव वाचकेऽनुप्रवेश इत्येकवाचकवाचकानुप्रवेशसंकरः ॥

 न च शब्दालंकारस्य पदावाच्यतया एकस्मिन् वाचके

वाच्यतयाऽनुप्रवेशाभावात्कथं तस्यैकवाचकानुप्रवेश इति वाच्यं,

एकवाचकाश्रितत्वमात्रस्यैव तत्रैकवाचकानुप्रवेशशब्दार्थत्वात् । न चैवमर्थालंकारस्य वाचकवृत्तिताविरहत्कथमेकवाचकानुप्रवेशविषयतेति वाच्यम्, तस्यापि वाच्यतासंबन्धेन तडुपपत्तेरित्याहुः ॥

 यथावा--

 भवति खलु सत्पदविदामिह सद्गतिरादरे क्रियायोगे । अथ सत्क्रिया समस्ताऽप्यसद्गतिरनादरे क्रियायोगे ॥ २२१९ ॥

 सत्पदविदां सदिति यत्पदं वस्तु ब्रह्मरूपं वस्त्वित्यर्थः । 'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधस्स्मृतः' इत्युक्तेः । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । यद्वा ब्रह्मस्वरूपमित्यर्थः । 'तद्विष्णोः परमं पदम्’ इत्यत्र ‘पद्यत इति पदं स्वरूपम्’ इति व्याख्यानात् । तत् विदन्तीति तथोक्ताः । तेषां कर्तरि षष्ठी । परब्रह्मोपासकानामित्यर्थः । वेदनोपासनध्यानादिशब्दानामैकार्थ्यस्य ‘आवृत्तिरसकृदुपदेशात्' इत्यादौ भाष्ये स्थापितत्वात् क्रियायोगे कर्मयोगे अनभिसंहितफलकर्मानुष्ठाने आदरे सति सद्गतिः शरीरावसाने अर्चिरादिमार्गगमनं भवति खलु । खलुश्शास्त्रीयप्रसिद्धौ ॥

विद्यां चाविद्यां च यस्तद्वेदोभयम् सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥
‘तमेतं वेदानुववनेन ब्राह्मणा विविदिषान्त'।
इयाज सोऽपि सुबहून्यज्ञान् ज्ञानव्यपाश्रयः ।
ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ॥

 'ये चेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषमेवाभिसंपद्यन्ते’ इत्यादिप्रमाणानुरोधेन ब्रह्मविदामपि विद्यासहकारित्वेना

श्रमानुगुणकर्मानुष्ठानादरस्यावश्यंभावात्तस्य सद्गतिसाधनत्वादिति भावः । अथ अर्चिरादिमार्गप्राप्त्यव्यवहितमेव समस्तासर्वापि सक्रिया अर्चिराद्यातिवाहिकक्रियमाणस्संमानः भवतीत्यनुषज्यते । वैपरीत्येऽनिष्टमाह--असद्गतिरित्यादिना । क्रियायोगे उक्तविधकर्मानुष्ठाने अनादरे सति असद्गतिर्भवति । ब्रह्मविदामप्याश्रमकर्मलोपे दूषितान्तःकरणतया विद्योत्पत्तेरेवासंभवादसद्गतिर्भवतीति भावः । यद्वा सतः परब्रह्मणश्श्रीनिवासस्य पदे चरणौ विन्दन्ति प्राप्नुवन्तीति तथोक्तानां विन्दतेः क्विप् । प्रपन्नानामित्यर्थः । संबन्धसामान्ये षष्ठी । क्रियायोगे कैंकर्यलाभे आदरे सति सद्गतिः जनानामिति शेषः । अनादरे असद्गतिरेव भवति । भगवत्प्रपन्नजनविषयककैंकर्यादरतदभावाभ्यां भगवदनुग्रहलाभतदभावौ भवत इति भावः । अत्र--

सिद्धिर्भवति वा नेति संशयोऽच्युतसेविनाम् ।
न संशयोऽस्ति तद्भक्तपरिचर्यारतात्मनाम् ॥
अनादृतसुतं गेही पुरुषं नाभिनन्दति ।
तथाऽनर्चिततद्भक्तं भगवान्नाभिनन्दति ॥

इत्यादिकमनुसन्धेयम् ॥

 अन्यत्र-- सत् प्रशस्तं यत् पदं शब्दशास्त्रं तद्विदां व्याकरणवेतॄणामित्यर्थः । आदरे आदररूपार्थे विवक्षिते क्रियायोगे

क्रियाशब्दसंबन्धे सत् गतिः इति छेदः । सत् सदित्याकारकमव्ययं गतिः गतिसंज्ञकं भवतीत्यर्थः । अथ समस्ता सदित्यनेन समासं प्राप्ता । क्रियेति विशेष्यकटाक्षेण स्त्रीत्वम् । क्रिया सत्क्रिया भवति सत्क्रियेति निष्पद्यते । अनादरे अनादररूपार्थे विवक्षिते क्रियाशब्दयोगे । असत् गतिरिति छेदः । असत् अस

दित्याकारकमव्ययं गतिः गतिसंज्ञकं भवति । अथ समस्ता असत्क्रिया भवतीत्यप्युपस्कार्यं । ‘गतिश्च' इत्यनुवर्तमाने ‘आदरानादरयोस्सदसती’ इत्यादरानादररूपार्थयोर्विवक्षितयोस्सदसतोरव्यययोर्गतिसंज्ञायां ‘कुगतिप्रादयः’ इति गते स्समासविधानादिति भावः । अत्र प्रकृताप्रकृतश्लेषः । प्रकृतार्थकक्ष्यायां पूर्वोत्तरार्धगतं समालंकारद्वयं चेत्यर्थालंकारयोर्यमकस्य शब्दालंकारस्य चैकवाचकानुप्रवेशः ॥

 यथावा--

 यो वर्धिष्णुस्सोऽयं श्रयते वृषशैलमाप्तशैत्यागम् । योऽवर्धिष्णुस्सोऽयं श्रयते वृषशैलमाप्तशैत्यागम् ॥ २२२० ॥

 यः वर्धिष्णुः सोऽयं आप्तं शैत्यं यैस्ते अगाः वृक्षाः यस्मिंस्तं वृषशैलं श्रयते । द्वितीयार्धे यः अवर्धिष्णुःसोऽयं प्राप्तः शैत्यागः शै इत्याकारकवर्णस्य त्यागो येन सः वृषशैलं वृषलमित्यर्थः । 'वृषलाश्च जघन्यजाः' इत्यमरः । अत्र समस्यार्थालंकारस्य अर्थावृत्तिरूययमकलक्षणशब्दालंकारस्य चैकवाचकानुप्रविष्टता ॥

 यथावा--

 यो भक्तस्तव मध्ये नाकस्थितिमान् सतां स मौळिर्भायात् । योऽभक्तस्तव मध्ये ना कस्थितिमान् सतां स मौळिर्भायात् ॥ २२२१ ॥

 हे भगवन्! यः तव भक्तः मध्ये नाकस्य मध्येनाकं स्थितिमान् त्रिदिवे वसन्नित्यर्थः । सतां तत्र विद्यमानानां दैवर्षिप्रभृतीनां मौळिः किरीट इव भायात् । इन्द्रत्वेन प्रकाशेतेत्यर्थः । यः

तव अभक्तः सोऽपि तद्वदेव भायादित्याश्चर्यम् । परिहारस्तु-- मध्ये ना कस्थितिमान् इति छेदः । सः ना पुमान् 'पुरुषाः पूरुषा नरः' इत्यमरः । मध्ये अन्तराळे कस्थितिमान् कवर्णस्थितिमान् मौळिः मौकळिरित्यर्थः । शब्दार्थयोस्तादात्म्यम् । काक इव सतां भायात् । भगवदभक्तो ब्रह्मविदां काकतुल्यतया दूरतत्स्याज्यो भवेदिति भावः । यद्वा सः तव भक्तः मध्येनाकं आकाशमध्ये 'आकाशे त्रिदिवे नाकः' इत्यमरः । परमे व्योम्नि वा । स्थितिमान् ‘दिवि नक्षत्रभूतस्त्वम्' इत्युक्तरीत्या त्वत्कृपया प्राप्तज्योतिर्मयशरीर इति भावः । सतां नक्षत्राणां मुक्तानां वा मौळिर्भायात् तेषां मध्ये देदीप्यमानो भवेदितिभावः । त्वदभक्तस्तु मौकळिः काक इव निस्तेजस्कः प्राकृतेष्वपि निहीनतयाऽवस्थितः भायात् प्रतिभायादित्यर्थः । ‘मौकळिः पिकवर्धनः’ इति काकपर्यायेष्वमरः । “मूकलो यमः तस्यापत्यं मौकळिः 'मूकलः प्रेतभर्ता स्यान्मूकलः काननेचरः’ इति शब्दार्णवे” इतेि टीकासर्वस्वकारादयः । अत्र भगवद्भक्तत्वतदभक्तत्वयोर्विशेषणगत्या मौळित्वमौकळित्वे प्रति हेतुत्वात्काव्यलिङ्गद्वयं रूपकसंकीर्णं अर्थावृत्तिरूपकयमकेन सहैकवाचकानुप्रविष्टम् ॥

 यथावा--

 असकौ पीनो भूत्योपचितः पीताम्बरं श्रितो यस्स्यात् । असकौपीनो भूत्योपचितो हरिदम्बरं श्रितोऽपि स्यात् ॥ २२२२ ॥

 यः पीताम्बरं श्रीनिवासं अनेन सर्वसंपत्समृद्धिः सूचिता।

श्रितः स्यात् असकौ असौ जनः । अदश्शब्दस्य ‘अव्ययसर्वा

नाम्नामकच् प्राक्टेः' इत्यकचि 'अदस औ सुलोपश्च' इत्यदस औकारोऽन्तादेशस्सौपरे सुलोपश्च । तदस्सस्सौ’ इति दस्य सः । भूत्या वस्त्राभरणान्नपानादिसंपदा उपचितः समृद्धः अतएव पीनः पुष्टाङ्गः स्यादित्येतदत्रापि संबध्यते । हरिदम्बरं हरितवर्णवसनं दिगम्बरं शिवमिति वास्तवार्थः । ‘हरित् क्लीबं तृणे नाश्वे वर्णे त्रिषु दिशि स्त्रियाम्' इति रत्नमाला । श्रितोऽपि जनः भूत्या उपचितः पीनस्स्यादित्याश्चर्यम् । वस्तुतस्तु भूत्या भस्मना उपचितः दिग्धः कौपीनेन सह वर्तत इति सकौपीनः स न भवती त्यसकौपीनः स्यात् । यथाक्रतुनयेन दिगम्बरमुपासीनो दिगम्बर एव स्यात् तत्सारूप्यं भजेदिति भावः । ‘भूतिर्मातङ्गशृङ्गारे जन्मसंपत्तिभस्मसु । दिग्धवृद्धावुपचितौ' इति च रत्नमाला । ‘भूतिर्भस्मनि संपत्तौ, भवेदुपचितं दिग्धे समृद्धे वाच्यलिङ्गकः' इति मेदिनी च । अत्र शब्दार्थालंकारयोर्यमकसमालंकारयोरेकवाचकानुप्रवेशः ॥

 यथावा--

 प्राकृतदैवतभजनान्मन्ये प्राप्स्यस्यरे नरेश्वरताम् । मुग्ध तथैव यतेथा मन्ये प्राप्स्यस्यरेनरेश्वरताम् ॥ २२२३ ॥

 इदं सकलफलप्रदं भगवन्तं श्रीनिवासमुपेक्ष्य प्राकृतदैवतोपासनेनाधिराज्यं प्रेप्सुं कंचिन्मुग्धं प्रति कस्यचित्प्रौढमते: परिहासवचनम् । अरे मुग्ध! त्वं प्राकृतदैवतानां भगवदतिरिक्तदैवतानां भजनात् उपासनात् नरेश्वरतां सार्वभौमतां प्राप्स्यसि मन्ये प्राप्स्यामीति मन्यस इत्यर्थः । 'एहि मन्ये ओदनं भोक्ष्यसे' इत्यादाविव परिहासद्योतनायायं पुरुषव्यत्ययः । तथाच सूत्रम्-- 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च' इति । "मन्यधा

तुरुपपदं यस्य तस्मिन् धातौ प्रकृतिभूते मध्यमस्स्यात् । मन्यतेस्तूत्तमस्स्यात्स चैकार्थवाचकस्स्यात्" इति तदर्थः । तथैव यतेथाः । अरे मुग्ध ! पुनस्संबोधनं परिहासातिशयं द्योतयति । नरेश्वरतां प्राप्स्यसि लप्स्यसे इति मन्ये अहं जानामीत्यर्थः । हार्दोऽभिप्रायस्तु--अरेनरेश्वरतामिति समस्तं पदम् । अरेः रेवर्णविधुरा या नरेश्वरता नश्वरतेत्यर्थः । तां प्राप्स्यसि भगवत्यौदासीन्येन दुर्देवता यदि भजेथाः तर्हि क्व नरेश्वरता लभ्येत । किंतु नश्वरतैवेति भावः । अत्र अरेनरेश्वरतामिति श्लेषः समालंकारविशेषस्याङ्गं, अयं च संकर: यमकेनैकवाचकानुप्रविष्टः ॥

 यथावा--

 ग्रस्तो जरादिभिस्त्वां विमायमेनं नमेयमाविर्भक्तिः । पुनरपि तव धाम्नि परे विराजमानं न मा जरा विशतु हरे ॥ २२२४ ॥

 हे हरे! जरादिभिः आदिशब्देन गर्भजन्मादिकं गृह्यते । ग्रस्तः अहं विभ्रंशिता माया येन सः विमायः तं निश्शेषप्रकृतिबन्धविनिवर्तकमित्यर्थः । मायाशब्दः प्रकृतिवाची । ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतेः । एनं त्वां आविर्भक्तिः प्रादुर्भूतभक्तिस्सन् नमेयं शरणं व्रजेयम् । एवमुपायं प्रार्थ्य फलं प्रार्थयते । परे तव धाम्नि विराजमानं अकर्मवश्यतया प्रकाशमानं

'स स्वराड्भवति' इति श्रुतिरिहानुसंहिता । मा मां जरा जरोपलक्षितगर्भजन्मादिकं पुनरपि न विशतु । त्वय्यात्मनिक्षेपावधिकमेव हि प्रकृतिबन्धमूलकं गर्भजन्मजरामरणादिपरिवर्तनमिति भावः । अत्र पूर्वार्धवाक्यार्थहेतुकः उत्तरार्धवाक्यार्थ इति काव्य

लिङ्गं द्वितीयतुरीयपादगतवर्णपञ्चकानुलोमप्रतिलोमचित्ररूपशब्दालंकारैकवाचकानुप्रविष्टमिति ध्येयम् ॥

 यथावा--

 श्रीस्पृहयाळु दयाळु ग्रहयाळु जनस्य चरणपतयाळोः । श्रद्धाळुरतन्द्राळुर्भद्रानिद्राळु तद्भजे ब्रह्म ॥ २२२५ ॥

 श्रद्धाळुः अतन्द्राळुः अहं भद्रानिद्राळु जगन्मङ्गळविधानजागरूकमित्यर्थः । अत्र श्रीस्पृहयाळुत्वस्य दयाळुत्वं प्रति तस्य च चरणपतयाळुग्रहयाळुतां प्रति च हेतुत्वात्काव्यलिङ्गं मालारूपं तच्च भजनं प्रति हेतुरिति काव्यलिङ्गान्तरं च वृत्त्यनुप्रासेन सहैकवाचकानुप्रविष्टम् । ‘स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आळुच्' इति सूत्रोदाहरणानि सर्वाण्यप्युपेक्षितक्रमाणि रत्नावळीविशेषरीत्या निबद्धानीति विच्छित्तिविशेषोऽनुसंधेयः ॥

 यथावा--

 फणिगिरिमणिरमणि भवत्फणितिप्रणयो व्यतानि यदनेन । फाणितमभाणि तदयं खण्डविकारो न कारणान्तरतः ॥ २२२६ ॥

 हे फणिगिरिमणिरमणि! यत् यस्मात् अनेन खण्डविकारेण भवत्याः फणितौ वाचि प्रणयः विश्वासः सख्यमिति यावत् ।

व्यतानि व्यरचि । तत् तस्मात् अयं खण्डविकारः खण्डशर्कराविशेषः फाणितशब्देन व्यवाह्रियत । न तु कारणान्तरतः । फणित्या इदं फणितं फणितिप्रणयवत्त्वात्तत्संबन्धीत्यगद्यतेत्यर्थः । फणितिशब्दात् ‘तस्येदम्’ इत्यणि 'यस्येति च' इतीकारलोपे आदि

वृद्धौ फाणितमिति रूपं फाण्यते द्रवीभावं प्राप्यते इत्यादिव्युत्पत्तिभिस्तु फाणितमिति नाभाणीत्यर्थः । अत्र फणिगिरिमणीति रूपकातिशयोक्तिः फाणितमित्यभाणीति निरुक्तिः न कारणान्तरत इत्यपह्नवश्चाप्रस्तुतप्रशंसया संकीर्णाः वृत्त्यनुप्रासेन सहैकवाचकानुप्रविष्टाः ॥

 उक्तानां पञ्चानामपि नरसिंहाकाराणामलंकाराणां क्वचिदेकपद्ये मेळने चारुतातिशयः । यथा--

 स्वाभा तरूपलाल्या सुरुचिरकुरुविन्दबृन्दपटुकटका । हरिमणिना फणिनायकगिरिधरणी लसति कलिततिलका नु ॥ २२२७ ॥

 तरूपलाल्या तरूणामुपलानां च आल्या पङ्क्त्या स्वाभा शोभनप्रकाशा । अन्यत्र स्वाभातरूपलाल्येति समस्तं प्रथमैकवचनान्तं पदम् । सुष्ठु आभातं प्रकाशमानं यद्रूपं--

आरोप्यावेध्यविक्षेप्यपारिहार्यैरभूषितमू ।
यद्भूषितमिवाभाति तद्रूपमिति कथ्यते ॥

इति लक्षितश्शोभाविशेषः । तेन लाल्या लालनीया । सुरुचिराणि कुरुविन्दानां मुस्तानां पद्मरागाणां च बृन्दानि यस्मिंस्तत्तथोक्त पटु अजर्झरं कटकं सानुभागो वलयश्च यस्यास्सा । 'कुरुविन्दाः पद्मरागहिंगुलादर्शमुस्तकाः’ इति रत्नमाला । 'कटकं वलये सानौ राजधानीनितम्बयोः' इति विश्वः । फणिनायकगिरिधरणी हरिरेव हरिमणिः इन्द्रनीलः हरिरेव मणिरिति वा । तेन कलिततिलका नु रचिततिलकेव विलसति--

प्रत्युक्तावुपमाने च विषादोत्प्रेक्षयोरपि ।
नु पादपूरणे ज्ञेयो जिज्ञासायां समुच्चये ॥


इति शेषः । अत्र स्वाभातरूपलाल्येत्यादिश्लेषस्य तन्मूलकातिशयोक्तेश्चाङ्गाङ्गिभावसंकरः । तया चोन्नह्यमाना हरिमणितिलकितत्वोत्प्रेक्षा फणिनायकगिरिधरण्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिगर्भैवोन्नह्यत इत्युत्प्रेक्षासमासोक्त्योरुक्तश्लेषमूलकातिशयोक्त्युत्तम्भितत्वतौल्यात्परस्परापेक्षसौन्दर्यातिशयत्वैककालिकत्वयोरपि सद्भावात्समप्राधान्यम् । एतावत्येव कविसंरम्भे अयं संकरः । कलिततिलका नु इत्युपमायां चेत्संरम्भः तदा फणिनायकगिरिधरण्याः नायकौपम्यंस्य गम्यमानतया एकदेशविवर्त्युपमालंकारः । स श्लेषमूलातिशयोक्त्या अङ्गेन संकीर्यमाण इत्यनयोस्संदेहसंकरः । हरिमणिनेत्यत्र हरिरेव हरिमणिः हरिर्मणिरिवेत्युभयथाऽपि समाससंभवाद्रूपकोपमयोरन्योऽपि संदेहसंकरः । सुरुचिरकुरुविन्दबृन्दपटुकटकेत्यत्र श्लेषमूलातिशयोक्तेरनुप्रासस्य चैकवाचकानुप्रवेशसंकरः । एवं कलिततिलकेत्यत्र उत्प्रेक्षानुप्रासयोश्च हरिमणिनेति संदेहसंकरस्य पूर्वोत्तरार्धगतानुप्रासयोश्च संसृष्टिरिति पञ्चाप्यलंकारा अत्र मिळिता इति सुधीभिर्विभावनीयम् । अयं च पञ्चानामलंकाराणामेकत्र मेळनप्रकारः लक्ष्मीसहस्ररत्नप्रकाशिकाहंससंदेशरसास्वादिन्योश्च केषुचित्पद्येष्वस्माभिः प्रकाशितः ॥

 क्वचित्संकराणामपि संकराद्विच्छित्तिविशेषः । यथा--

 अजिराचितहरिमणिघृणिमसृणान्वज्रांश्च्युतान्गृहे धनिनाम् । उञ्छन्ति जाम्बवधिया यद्बालास्सा रमाकटाक्षश्रीः ॥ २२२८ ॥

 धनिनां श्रीमतां गृहे जात्यभिप्रायकमेकवचनम् । च्युतान्

अनादराद्गळितान् अजिरेषु अङ्गणेषु आचिताः भूमीसमतलतया
आतताः ये हरिमणयः फलकाकारा इति भावः । तेषां घृणिभिः किरणैः मसृणान् स्निग्धान् श्यामलानिति यावत् । वज्रान् हीरमणीन् बालाः क्रीडन्तो माणवकाः जम्ब्वा विकाराः जाम्बवानि जम्बूफलानीति धिया भ्रान्त्या 'जम्ब्वा वा' इति वैकारिकोऽण् । 'फले जम्ब्वा जम्बू स्त्री जम्बु जाम्बवम्' इत्यमरः । उञ्छन्ति एकैकश आददते इति यत् सा विधेयकटाक्षश्रीशब्दकटाक्षेण स्त्रीलिङ्गता । रमायाः श्रीनिवासदिव्यमहिष्याः कटाक्षश्रीः कटाक्षलक्ष्मीरेव । अत्र तावत् श्रीमतां संपत्तिसमृद्धिवर्णनमुदात्तालंकारः । तन्मूलको हरिमणिघृणिमसृणानित्यत्र तद्गुणालंकारः, तत्रैव वक्ष्यमाणभ्रान्युपपादकपदार्थहेतुककाव्यलिङ्गालंकारश्चेति तयोरेकवाचकानुप्रवेशसंकरः । तन्मूलको जाम्बवधियेत्यत्र भ्रान्तिमदलंकारः । ताभ्यां चोदात्तालंकारस्सुन्दरतां लम्भित इति तयोश्च तस्य चाङ्गाङ्गिभावेन संकरः । एवं श्रीमद्भवनसमृद्धेर्हेतुमतो रमाकटाक्षश्रियो हेतोश्चाभेदवर्णनं हेत्वलंकारः । स च रमाकटक्षाश्रियो निरवधिकोत्कर्षपर्यवसायी । एतावन्मात्रे चेत्संरम्भः कवेः तदा उपपादितोदात्तालंकारोपस्कृते हेत्वलंकारे विश्रमः । वर्णनीयाया रमायाः कटाक्षलक्ष्मीः कीदृशीति प्रश्नोत्तरतया निरवधिकैश्वर्यविश्राणनरूपाप्रस्तुतकार्यमुखेन तदीयकटाक्षलक्ष्मीप्रकर्षप्रशंसायां चेत्संरम्भः तदा कार्यनिबन्धनाप्रस्तुतप्रशंसालंकारे विश्रमः । कार्यस्यापि वर्णनीयतयाऽभिसंधौ तु प्रस्तुताङ्कुरे विश्रान्तिः । अत्र विशेषानध्यवसायात्संदेहसंकरः । किंच श्रीमद्भवनवैभववर्णनस्यासंबन्धे संबन्धकथनरूपतया अतिशयोक्तेरुदात्तालंकारेण सहैकवाचकानुप्रवेशसंकरः । निरवधिकौदार्योत्कर्षपर्यवसायिनो हेत्वलंकारस्याद्भुतातथ्यौदार्यवर्णनात्मिकयाऽत्युक्त्या सहैकवाचकानुप्रवेशसंकरः । तन्मूलकस्याप्रस्तुत

प्रशंसालंकारस्य प्रस्तुताङ्कुरालंकारस्य वा श्रीमत्सम्पत्समृद्धिवर्णनात्मकोदात्तालंकारेण सहैकवाचकानुप्रवेशसंकरः । वाचकशब्दस्य प्रतिपादकमात्रपरतया व्यञ्जकसाधारण्यस्य दीक्षितैरेवोक्तत्वात् । तथाचोदात्तातिशयोक्त्योः हेत्वत्युक्त्योः व्यङ्ग्योदात्ताप्रस्तुतप्रशंसाप्रस्तुताङ्कुरान्यतरयोरित्येतेषां त्रयाणामेकवाचकानुप्रवेशसंकराणां समप्राधान्यसंकरः । न ह्येतेषामन्योन्यमितरत्राङ्गत्वमस्ति । ननु संपत्समृद्धिवर्णनात्मकस्योदात्तस्यासंबन्धे संबन्धवर्णनरूपातिशयोक्तेश्चैकवाचकानुप्रवेशस्य हेत्वलंकारसौन्दर्याधायकत्वेनेतराङ्गतायां जागरूकायां कथं त्रयाणां समप्राधान्यसंकर इति वाच्यं, उदात्तालङ्कारस्यैव संपत्समृद्धिवर्णनात्मना हेत्वलंकारचारुताधायकतया अङ्गता । न तत्रातिशयोक्तिसंकरस्याप्युपयोग इति त्रयाणां समप्राधान्यस्योचितत्वात् । एवमत्र श्लोके चतुर्णामपि संकराणां यथायोग्यं संकर: । तथाहि--उदात्ततद्गुणयोरङ्गाङ्गिभावसंकरस्य भ्रान्तिमदुदात्तयोरङ्गाङ्गिभावसंकरस्य चाङ्गाङ्गिभावेन संकरः । तथा भ्रान्तिमदुदात्तयोरङ्गाङ्गिभावसंकरस्य उदात्ताङ्गकहेत्वलंकारादिसंदेहसंकरस्य चाङ्गाङ्गिभावसंकर इति कुशाग्रीयमतिभिरनुसंधेयम् । एवंजातीयकास्सकराः प्रागुपदर्शितेष्वर्थालंकारोदाहरणेषु उपदर्शयिष्यमाणेषु शब्दालंकारोदाहरणेषु च संभवन्तो मनीषिभिरलंकारशास्त्रनिष्णातैस्स्वयमेवाह्येन्त इति विस्तरभयाद्विश्रम्यते । ग्रन्थान्ते श्रीरिति निर्देशोऽत्यन्तमङ्गलार्थ इति सर्वं समञ्जसम् ॥

इत्यलङ्कारमणिहारे सङ्करालङ्कारसर एकविंशत्युत्तरशततमः.