अलङ्कारमणिहारः (भागः ४)/ऐतिह्यालङ्कारः (११९)

विकिस्रोतः तः
Jump to navigation Jump to search

अथैतिह्यसरः (११९)


 यत्रेतिहोचुरित्याद्यमनिर्दिष्टप्रवक्तृकम् । पारंपर्यं प्रवादस्य तत्रैतिह्यमलंकृतिः ॥

 अनिर्दिष्टप्रवक्तृकं इतिहोचुरित्यादिप्रवादपारंपर्यमैतिह्यम् ॥

 यथा--

 सस्यदशायामनमञ् शाखी भूत्वा नमेत्तरुः किमिति । लौकिकगाधां स्मरता बुद्धिमताऽऽबाल्यतो हरिस्सेव्यः ॥ २१३० ॥

 अत्र सस्यदशायामित्यादिलौकिकगाधां स्मरता बुद्धिमता ‘कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह' इत्युक्तरीत्या आ बाल्यादेव हरिस्सेवनीय इत्यर्थः । अत्र लौकिकगाधामित्यनेनानिर्दिष्टप्रवक्तृकप्रवादपारंपर्यरूपता दर्शिता ॥


 यथावा--

 तावत्कर्म न मे स्त्तात्तव शौरे यावता स्मृतिर्नश्येत् । तावत्किमर्थमञ्जनमक्षि विनश्येद्धि यावतेत्याहुः ॥ २१३१ ॥

 अत्रापि तावत्किमर्थमञ्जनमित्याकारकलौकिकगाधायाः प्रतिबिम्बभूतायाः आहुरित्यनेनानिर्दिष्टप्रवक्तृकप्रवादपारंपर्यं दर्शितमिति द्रष्टव्यम् ॥

 यद्यप्येते अष्टौ प्रमाणालंकारा: दीक्षितेभ्यः प्राचीनैर्न कृतविवेकाः । तथाऽप्यनुमानालंकारस्य सर्वैरपि लक्षितत्वात्प्रत्यक्षादिप्रमाणालंकारा अपि लक्षितप्राया एव । न हि प्रत्यक्षादीनामपि प्रमाणतायामनुमानतोऽस्ति विशेषः । न वा विच्छित्तिसदसद्भावकृतं वैलक्षण्यम् । अतोऽनुमानालंकारकथनं प्राचामितरप्रमणालंकारोपलक्षणमित्याशयेन दीक्षितैः कुवलयानन्दे सर्वाण्यपि तानि विविच्य प्रदर्शितानीत्यस्माभिरपि तानि प्रदर्शितानि ॥

इत्यलंकारमणिहारे ऐतिह्यसर एकोनविंशत्युत्तरशततमः.