अलङ्कारमणिहारः (भागः ३)/सारालङ्कारः (५१)

विकिस्रोतः तः

श्रीः

अलङ्कारमणिहारे तृतीयभागप्रारम्भः.


अथ सारालङ्कारसरः (५१)


 सैवोत्तरोत्तरोत्कर्षे सार इत्युच्यते बुधैः ॥

 सैव शृङ्खला पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कर्षवर्णने सारालङ्कार इत्युच्यते । अयमेवोदारालङ्कार इति सर्वस्वकृता व्यवह्रियते । तथाच तदीयं लक्षणं—— "उत्तरोत्तरमुत्कर्षणमुदारः" इति । इमं चालङ्कारमेकानेकविषयत्वेन द्विविधमामनन्ति । एकविषयतायामवस्थाभेदाश्रयणमावश्यकं, उत्कर्षस्य भेदनियतत्वात् । न ह्यवस्थादिकं भेदं विना किंचिदपि वस्तु स्वापेक्षया स्वयमधिकं भवितुमीष्टे । तत्राप्युत्तरोत्तरमुत्कर्षः स्वरूपेण धर्मेण वा भवतीत्यस्य चातुर्विध्यमिति विमर्शनीकारः ॥

 तत्र एकविषये स्वरूपेणोत्तरोत्तरोत्कर्षो यथा--

 सोऽव्यात्त्रिविक्रमोऽस्मान्यस्योडुततिः क्रमेण वृद्धिं भजतः । आदौ वज्रवतंसो मुक्ताहारस्ततोऽथ मणिकाञ्च्यासीत् ॥ १४०७ ॥

 अत्र एकस्यैव भगवतस्तत्तदवस्थाविशिष्टतया स्वरूपेणोत्तरोत्तरमुत्कर्षः ।

 यथावा--

 उदयंस्त्वत्पदरुचिभाग्विगळितबाल्योऽथ कनककटकश्रीः । प्रौढश्चूडामणिना क्रीडां द्युमणिस्तनोति तव भगवन् ॥ १४०८ ॥

 यथावा--

 बालस्तव पदनखरुचिमथेन्दुरर्धस्समेति फालतुलाम् । संपूर्णो मुखलक्ष्मीं भवति हि शुचिरुत्तरोत्तरोत्कर्षम् ॥ १४०९ ॥

 अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां सूर्याचन्द्रमोभ्यां उत्तरोत्तरावस्थाविशिष्टयोरेवोत्कर्ष उक्त इत्येकविषयत्वम् । अयमर्थान्तरन्यासशिरस्क इति विशेषः ॥

 बलियज्ञभुवं व्रजतस्स्थलकमलमिव व्यभात्तवोपेन्द्र पदम् । उत्क्षिप्तमथ छत्रं सुत्राम्णोऽथ च महद्वितानं जगताम् ॥ १४१० ॥

 अत्र भगवच्चरणस्य पूर्वावस्थायां स्थलकमलवदल्पपरिमाणस्यैव सतः छत्रादिवदुत्तरोत्तरमहत्त्वावस्थाविशिष्टतया उत्कर्ष उक्त इत्येकविषयत्वम् ॥

 धर्मेण यथा--

 दीप इवादौ दव इव ततोऽथ युगविगमरविरिवोज्ज्वलितः । ग्रसति स्म ते प्रतापो विराधमारीचदशमुखान्भगवन् ॥ १४११ ॥

 अत्रैकस्यैव भगवत्प्रतापस्य उज्ज्वलितत्वरूपधर्मपुरस्कारेणोत्तरोत्तरोत्कर्षः ॥

 यथावा--

 अङ्कुरिता पल्लविता कोरकिता कुसुमिता च मम भक्तिः । क्रमतस्त्वयि मधुसूदन महती भूत्वा प्रसौति फलमनघम् ॥ १४१२ ॥

 अत्रैकस्या एव भक्तेः महत्त्वधर्मपुरस्कारेणोत्तरोत्तरोत्कर्षो निबद्धः ॥

 यद्यत्रैकस्मिन्नाश्रये क्रमेणानेकाधेयस्थितिरूपः पर्यायालङ्कारोऽत्र प्रतीयते, तर्हि प्रतीयतां नाम । न हि तावता पूर्वपूर्वापेक्षया उत्तरोत्तरोत्कर्षरूपस्सारो गळहस्त्यते ॥

 अनेकविषयस्स्वरूपेणोत्कर्षो यथा--

 रजताचलमूर्धनि यस्तन्मूर्धनि याऽस्ति साऽपि यत्पदजा । सोऽपिच यत्पदलाक्षालक्षितवक्षा जयत्यसौ लक्ष्मीः ॥ १४१३ ॥

 अत्रानेकेषां स्वरूपेण पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कर्षः ॥

 धर्मेण यथा--

 प्राणिषु मनुजाश्श्रेष्ठा मनुजेषु ब्राह्मणा बुधास्तेषु । त्वच्चक्रलाञ्छितास्तेष्वच्युत तेषु त्वदङ्घ्रिदत्तभराः ॥ १४१४ ॥

 यथावा--

 अज्ञाद्ग्रन्थी श्रेयांस्तस्मात्तद्धारणे कृती तस्मात् । ज्ञानी तस्माद्व्यवसितमतिस्ततोऽप्यच्युत स्वरूपज्ञः ॥ १४१५ ॥

 तद्धारणे कृती ग्रन्थधारणं कृतवानित्यर्थः । कृतशब्दात् ‘इष्टादिभ्यश्च' इति कर्तरि इनिः। ‘क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम्’ इति कर्मणस्तद्धारणशब्दात्सप्तमी । ग्रन्थिनः ग्रन्थाध्ययनकृतः । अनयोरुदाहरणयोः मनुजप्रभृतीनां ग्रन्थिप्रभृतीनां च श्रैष्ठ्यरूपधर्ममुखेनोत्तरोत्तरोत्कर्षः । अनयोश्चाद्य उदाहरणे--

भूतानां प्राणिनश्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराश्श्रेष्ठा नरेषु ब्राह्मणास्स्मृताः ॥

इत्यादिमनुवचनच्छाया पुरस्कृता । द्वितीये तु--

अज्ञेभ्यो ग्रन्थिनश्श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनश्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ।

इति मनुवचनक्रम उक्त इति ध्येयम् । अयं सर्वोऽपि श्लाघ्यधर्मोत्कर्षः ॥

 अश्लाघ्यधर्मोत्कर्षो यथा--

 मलिनो महिषस्तस्माद्बलिभुक्तस्माच्च तिमिरनिकुरुम्बम् । मम हृदयं तस्मादपि विमलयसि यदीदमीश्वरोऽसि त्वम् ॥ १४१६ ॥

 उभयरूपो यथा--

 अवनितलं विपुलतमं गगनं तस्मात्ततोऽपि

जगदण्डम् । तस्माद्गर्ताम्बु ततोऽप्यघं मम हरे कथं हरेरेतत् ॥ १४१७ ॥

 हरेः हृञो लिङ् मध्यमैकवचनम् । अत्र गर्ताम्बुपर्यन्तेषु विपुलतमत्वं श्लाघ्यो धर्मः । प्रकृतार्थे त्वघे अश्लाघ्यः ॥

 अत्रेदमवधेयम्-- एकविषये शृङ्खलाया अचारुतया तदनुप्राणितस्सारो न चारुतां लभते, तस्यास्स्वाभाविकभेदापेक्षित्वेनावस्थादिकृतभेदे अनुल्लासात् । अतएवास्मिन्विषये वर्धमानकनामालङ्कारोऽन्यैरभ्युपगतः । तल्लक्षणं च ‘रूपधर्माभ्यामाधिक्ये वर्धमानकम्’ इति कृतम् । तस्मात्कारणमालादिर्यथा शृङ्खलैकविषया, न तथा सारश्शक्यो वक्तुम्, एकविषये अलङ्कारान्तराभ्युपगमप्रसङ्गात् । ‘सारो गुणस्वरूपाभ्यां वैशिष्ट्ये पूर्वपूर्वतः' इति तु लक्षणं सारस्ययुक्तम् । गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्ट्ये सार इति तदर्थः । स च क्वचिच्छृङ्खलानुप्राणितः, क्वचित्स्वतन्त्र इत्यनेकविषयत्वमेकविषयत्वं च सुस्थम् । एवं शृङ्खलाविषयाणामलङ्काराणां विच्छित्तिवैलक्षण्यस्यानुभवसिद्धत्वात्पृथगलङ्कारत्वे सिद्धे शृङ्खलाया विरोधाभेदसाधर्म्यादिवदनुप्राणयितृतैवोचिता न पृथगलंकारता । तथात्वे अभेदादीनामपि पृथगलंकारतापत्तेः । पूर्णालुप्तादौ तु न विच्छित्तिवैलक्षण्यं, अपितूपमाविच्छित्तिरेवेति संप्रदायः । ननु केयं विच्छित्तिः? उच्यते-- अलंकाराणां परस्परविच्छेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंसर्गेण काव्यनिष्ठा कविप्रतिभा, तज्जन्यत्वप्रयुक्ता चमत्कारिता वा विच्छित्तिरिति गृह्यताम् ॥

इत्यलङ्कारमणिहारे सारसर एकपञ्चाशः.