अलङ्कारमणिहारः (भागः ३)/यथासंख्यालङ्कारः (५२)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


अथ यथासंख्यालङ्कारसरः. (५२)


 उद्देशक्रमतोऽर्थानां संबन्धो यत्र कथ्यते । प्राञ्चस्तत्र यथासंख्यमपरे क्रममूचिरे ॥

 यथासंख्यमिति पदार्थानतिवृत्तिरूपे यथार्थेऽव्ययीभावः । संख्याया अनतिवृत्तिश्च आद्यस्याद्येनैव द्वितीयस्य द्वितीयेनैवेत्यादिक्रमेण संम्बन्धो भवतीति योगार्थ एवं लक्षणम । अन्ये एनं यथासंख्यं क्रमालङ्कार इति व्यवाहार्षुः । स च शाब्दः आर्थश्चेति द्विविधः । तत्रासमस्तानामसमस्तैः क्रमेणान्वये शाब्दः, क्रमिकसम्बन्धस्यातिरोहितत्वात् । यत्र तु समुदायद्वयस्य समासेनाभिधाने सति प्रथममेकस्य समुदायस्यापरेण समुदायेन सामान्यतस्समन्वये सति पश्चादर्थानुगमपर्यालोचनया तत्समुदायिनां क्रमेण संबन्धस्तत्रार्थः ॥

 यथा

 विष्णो विनतजनानां तृष्णां हृदयं सुखं च दुःखं च । प्रुष्णासि प्लुष्णासि च पुष्णासि वृषाद्रिनाथ मुष्णासि ॥ १४१८ ॥

 हे वृषाद्रिनाथ विष्णो ! विनतजनानां तृष्णां प्रुष्णासि पूरयसि । हृदयं प्लुष्णासि सेवसे । तत्र वससीत्यर्थः । स्वस्मिन् स्नेहयसीति वा । ‘प्रुष प्लुष स्नेहनसेवनपूरणेषु' इति क्रैयादिकाभ्यां धातुभ्यां लट् । सुखं पुष्णासि दुःखं मुष्णासि च

'पुष पुष्टौ’ ‘मुष स्तेये’ इमावपि क्रैयादिकावेव । अत्र प्रुष्णासीत्यादिक्रियाणां क्रमेण तृष्णादिष्वन्वयः । इह शाब्दः, असमस्तानामसमस्तैःक्रमेणान्वयात् ॥

 यथावा--

 नयनरुचा वदनरुचा कमलं विमलांशुबिम्बमपि कमले । नूनं जितं भवत्या जलं निविशते महाबिलं चापि ॥ १४१९ ॥

 महाबिलं महत्सुषिरं अन्तरिक्षंच । ‘मेघद्वारं महाबिलम्’ इत्यमरः । इदमपि शाब्दं उत्प्रेक्षागर्भं, पूर्वं तु शुद्धमिति विवेकः ॥

 यथावा--

 यौ श्रीकाळीभक्तौ सुरपोऽत्राद्यः परस्सुरापो भविता । भास्वत्तमोऽथ मत्तस्स्वभास्तदाकारविप्रतीपो यदयम् ॥ १४२० ॥

 यौ श्रीः लक्ष्मीः काळी दुर्गा तयोः भक्तौ उपासकौ, अत्र अनयोर्मध्ये, आद्यः श्रीभक्तः सुरान्पातीति सुरपः देवाधीशः तत्तुल्यो वा अत एव भास्वत्तमः अतिशयेन भास्वान् महातेजश्शाली च भविता । परः काळीभक्तस्तु सुरापः सुराणां देवानां नपातीत्यपः देवारक्षक इत्यर्थः । सुरां पिबतीति तथोक्तः मद्यप इति तत्त्वम् । काळिकोपासकानां वामाचारस्य प्रसिद्धत्वादिति भावः । क्रमेण ‘पा रक्षणे, पा पाने’ इति धात्वोः 'आतोऽनुपसर्गे' इति कः । अत एव मत्तः मदशाली । अवि

द्यमाना भाः यस्य अभाः सुष्ठु अभाः स्वभाः अतिवेलतेजोहीन इत्यर्थः । न हि सुरापस्य ब्रह्मतेजो भवेदिति भावः । मत्तश्चासौ स्वभावश्चेति विशेषणोभयपदकर्मधारयः । कुतोऽनयोर्वैषम्यमित्यत अह-- तदाकारेति । यत् यस्मात् अयं चरमनिर्दिष्टः काळीभक्तः तदाकारविप्रतीपः तदाकारस्य प्रथमनिर्दिष्टश्रीभक्ताकारस्य तदाचारस्येति यावत् विप्रतीपः प्रतिकूलः सदाचारवामाचारयोरतिविप्रकर्षादिति भावः । पक्षे-- अयं सुराप इति शब्दः तदाकारविप्रतीपः तस्य सुरपशब्दस्य आकारेण आवर्णेन मध्यस्थेनेति भावः । विप्रतीपः विरुद्धरूपः । मध्ये आवर्णसद्भावात्सुरपशब्दविरुद्धरूप इति भावः । एवं अयं मत्तस्वभावश्शब्दः तदाकारस्य भास्वत्तमशब्दस्वरूपस्य विप्रतीपः प्रतिलोमः । भास्वत्तम इति शब्द एव प्रातिलोम्येन दृष्टो मत्तस्वभा इति निष्पद्यत इत्यर्थोऽपि चमत्कारातिशयं पुष्णाति । अत्रापि शाब्द एव । पूर्वस्माद्वैलक्षण्यं तु स्फुटमेव ॥

 यथावा--

 अम्ब त्वदाश्रितानामितरेषामपि शरीरिणां भवति । विपुलैश्वर्यं विरलैश्वर्यं चात्रास्ति पुरत एव भिदा ॥ १४२१ ।।

 विपुलैश्वर्यं भूमीश्वरत्वं विरलैश्वर्यं अल्पविभवः । अत्र अनयोः त्वदाश्रितेतराश्रितयोः तद्विभवयोर्वा । पुरतः अग्रत

एव भिदा भेदः अस्ति । स्पष्टमेव प्रकाशत इत्यर्थः । पक्षे अत्र विपुलैश्वर्यविरलैश्वर्यशब्दयोः पुरत एव पुवर्णरवर्णाभ्यामेव भिदेत्यर्थोऽपि चमत्कारी । अत्रापि शाब्द एव ॥

 अर्थं यथासंख्यं यथा--

 जलरुहजलनिधिवसती हृदयोज्ज्वलरत्नहारवनमालौ । हृत्सौधे सध्र्यञ्चौ प्राञ्चौ जायापती विहरतां नः ॥ १४२२ ॥

 अत्र जलरुहजलनिधिवसती इत्यादिसमुदायस्य प्रथमं जायापतिरूपसमुदायान्वये सति पश्चादर्थानुरोधेन जलरुहादेर्जायायां जलनिध्यादेः पत्यौ च समन्वयधीरित्यार्थो यथासंख्यालंकारः ॥

 यथावा--

 तावकमतिविभवाभ्यां बृहस्पतिदिवस्पती समं विजितौ । बृहदिव वैलक्षण्यं प्रकाशयेते मिथस्तदप्येतौ ॥ १४२३ ॥

 बृहस्पतिदिवस्पती गुरुसुत्रामाणौ । तावकानां भागवतानां मतिविभवाभ्यां समं तुल्यं विजितौ । तदपि विजितत्वतौल्येऽपि एतौ बृहस्पतिदिवस्पती मिथः अन्योन्यं वैलक्षण्यं भेदं बृहदिव महदिव प्रकाशयेते विजितत्वरूपेणावैलक्षण्येऽपि तत्महदिव दर्शयेते इत्यर्थः । यद्वा इवशब्दो वाक्यालंकारे । गुरुशिष्यत्वरूपं महद्वैलक्षण्यं दर्शयेते इति हृदयम् । पक्षे बृहस्पतिदिवस्पतिशब्दौ बृह दिव इति वर्णाभ्यामेव वैलक्षण्यं प्रकाशयेते । न त्वन्यवर्णत इत्यर्थः । अत्रापि पूर्ववदेव सर्वं, शब्दपरार्थान्तरवर्णनं तु विशेषः ।

 यथावा--

 दशवदनविभीषणयोर्देव त्वत्प्रातिकूल्यसख्यजु-

षोः । भवतस्स्म शोषशेषौ भगवंस्तत्प्रकृतिगुणभिदावशतः ॥ १४२४ ॥

 हे देव भगवन् ! त्वत्प्रातिकूल्यसख्यजुषोः दशवदनविभीषणयोः शोषशेषौ भवतः स्म अभूताम् । रावणस्य शोषः विभीषणस्य शेष इति भावः । शुषशिषोर्भावे घञ् । तत्र हेतुमाह-- तदिति । तयोः दशवदनविभीषणयोः प्रकृतिगुणानां स्वभावसिद्धगुणानां ‘दम्भो दर्पोऽभिमानश्च' इति, ‘अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यस्थिति:’ इति च गीतानां आसुरसंपद्गुणानां दैवसंपद्गुणानां च भिदावशात् भेदवशात् भवतः स्मेति योजना । भवतेः स्मयोगेन भूते लट् । आसुरसंपदभिजाततया भगवत्प्रातिकूल्येन दशाननस्य नाशः । दैवसंपदभिजाततया तत्सख्येन विभीषणस्यायुरादिश्रेयस्वत्तया पारिशेष्यं चाभूतामित्यर्थः । पक्षे प्रकृती प्रत्ययविधावुद्देश्यभूते धातुरूपे । तयोः गुणौ तद्भिदावशतः घञ्निमित्तकतया ‘पुगन्तलघूपधस्य’ इति विहितगुणयोश्च भेदवशादित्यर्थः । शुष् शिष् इति प्रकृती भिन्ने तयोर्गुणौ ओकारैकारलक्षणौ च भिन्नौ तादृशभेदवशात् शौष इति शेष इति शब्दौ निष्पन्नाविति भावः । अन्यत्तुल्यं पूर्वेण ॥

 अत्रेदं विवेचनीयं-- इदं यथासंख्यमलंकारसरणिमाढौकितुमीष्टे वा न वेति । न ह्यस्मिन् लोकसिद्धे कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोर्मात्रयाऽप्युपलम्भोऽस्ति । येनालंकारव्यपदेशो मनागपि सांप्रतं स्यात् । अतः अपक्रमत्वरूपदोषाभाव एव यथासंख्यम् । एवंचोद्भटमतानुयायिनामुक्तयः कूटकार्षापणवदमनोहारिण्य एव । एतेन यथासंख्यमेव क्रमालंकारसंज्ञया व्यवहरतो वामनस्यापि गिरो व्याख्याता इति नव्याः ॥

इत्यलंकारमणिहारे यथासंख्यसरो द्विपञ्चाशः.