अर्थशास्त्रम्/अधिकरणम् ८/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:
अध्यायः ५ →

 दैव-पीडनं अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति ।। ०८.४.०१ ।।

 "अग्न्य्-उदकयोरग्नि-पीडनं अप्रतिकार्यं सर्व-दाहि च । शक्य-अपगमनं तार्य-आबाधं उदक-पीडनम्" इत्याचार्याः ।। ०८.४.०२ ।।

 नैत्कौटिल्यः ।। ०८.४.०३ ।।

 अग्निर्ग्रामं अर्ध-ग्रामं वा दहति । उदक-वेगस्तु ग्राम-शत-प्रवाहीइति ।। ०८.४.०४ ।।

 "व्याधि-दुर्भिक्षयोर्व्याधिः प्रेत-व्याधित-उपसृष्ट-परिचारक-व्यायाम-उपरोधेन कर्माण्युपहन्ति । दुर्भिक्षं पुनरकर्म-उपघाति हिरण्य-पशु-कर-दायि च" इत्याचार्याः ।। ०८.४.०५ ।।

 नैति कौटिल्यः ।। ०८.४.०६ ।।

 एक-देश-पीडनो व्याधिः शक्य-प्रतीकारश्च । सर्व-देश-पीडनं दुर्भिक्षं प्राणिनां अजीवनायैति ।। ०८.४.०७ ।।

 तेन मरको व्याख्यातः ।। ०८.४.०८ ।।

 "क्षुद्रक-मुख्य-क्षययोः क्षुद्रक-क्षयः कर्मणां अयोग-क्षेमं करोति । मुख्य-क्षयः कर्म-अनुष्ठान-उपरोध-धर्मा" इत्याचार्याः ।। ०८.४.०९ ।।

 नैति कौटिल्यः ।। ०८.४.१० ।।

 शक्यः क्षुद्रक-क्षयः प्रतिसंधातुं बाहुल्यात्क्षुद्रकाणाम् । न मुख्य-क्षयः ।। ०८.४.११ ।।

 सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्व-प्रज्ञा-आधिक्यात्तद्-आश्रयत्वात्क्षुद्रकाणां इति ।। ०८.४.१२ ।।

 "स्व-चक्र-पर-चक्रयोः स्व-चक्रं अतिमात्राभ्यां दण्ड-कराभ्यां पीडयत्यशक्यं च वारयितुम् । पर-चक्रं तु शक्यं प्रैयोद्धुं उपसारेण संधिना वा मोक्षयितुम्" इत्याचार्याः ।। ०८.४.१३ ।।

 नैति कौटिल्यः ।। ०८.४.१४ ।।

 स्व-चक्र-पीडनं प्रकृति-पुरुष-मुख्य-उपग्रह-विघाताभ्यां शक्यते वारयितुं एक-देशं वा पीडयति । सर्व-देश-पीडनं तु पर-चक्रं विलोप-घात-दाह-विध्वंसन-अपवाहनैः पीडयतिइति ।। ०८.४.१५ ।।

 "प्रकृति-राज-विवादयोः प्रकृइति-विवादः प्रकृतीनां भेदकः पर-अभियोगानावहति । राज-विवादस्तु प्रकृतीनां द्वि-गुण-भक्त-वेतन-परिहार-करो भवति" इत्याचार्याः ।। ०८.४.१६ ।।

 नैति कौटिल्यः ।। ०८.४.१७ ।।

 शक्यः प्रकृति-विवादः प्रकृति-मुख्य-उपग्रहेण कलह-स्थान-अपनयनेन वा वारयितुं ।। ०८.४.१८ ।।

 विवदमानास्तु प्रकृतयः परस्पर-संघर्षेणौपकुर्वन्ति ।। ०८.४.१९ ।।

 राज-विवादस्तु पीडन-उच्छेदनाय प्रकृतीनां द्वि-गुण-व्यायाम-साध्य इति ।। ०८.४.२० ।।

 "देश-राज-विहारयोर्देश-विहारस्त्रैकाल्येन कर्म-फल-उपघातं करोति । राज-विहारस्तु कारु-शिल्पि-कुशीलव-वाग्-जीवन-रूप-आजीवा-वैदेहक-उपकारं करोति" इत्याचार्याः ।। ०८.४.२१ ।।

 नैति कौटिल्यः ।। ०८.४.२२ ।।

 देश-विहारः कर्म-श्रमं अवधा-अर्थं अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति । राज-विहारस्तु स्वयं वल्लभैश्च स्वयं-ग्राह-प्रणय-पण्य-अगार-कार्य-उपग्रहैः पीडयतिइति ।। ०८.४.२३ ।।

 "सुभगा-कुमारयोः कुमारः स्वयं वल्लभैश्च स्वयं-ग्राह-प्रणय-पण्य-अगार-कार्य-उपग्रहैः पीडयति । सुभगा विलास-उपभोगेन" इत्याचार्याः ।। ०८.४.२४ ।।

 नैति कौटिल्यः ।। ०८.४.२५ ।।

 शक्यः कुमारो मन्त्रि-पुरोहिताभ्यां वारयितुम् । न सुभगा बालिश्यादनर्थ्य-जन-सम्योगाच्चैति ।। ०८.४.२६ ।।

 "श्रेणी-मुख्ययोः श्रेणी बाहुल्यादनवग्रहा स्तेय-साहसाभ्यां पीडयति । मुख्यः कार्य-अनुग्रह-विघाताभ्याम्" इत्याचार्याः ।। ०८.४.२७ ।।

 नैति कौटिल्यः ।। ०८.४.२८ ।।

 सुव्यावर्त्या श्रेणी समान-शील-व्यसनत्वात् । श्रेणी-मुख्य-एक-देश-उपग्रहेण वा ।। ०८.४.२९ ।।

 स्तम्भ-युक्तो मुख्यः पर-प्राण-द्रव्य-उपघाताभ्यां पीडयतिइति ।। ०८.४.३० ।।

 "सम्निधातृ-समाहर्त्रोः सम्निधाता कृत-विदूषण-अत्ययाभ्यां पीडयति । समाहर्ता करण-अधिष्ठितः प्रदिष्ट-फल-उपभोगी भवति" इत्याचार्याः ।। ०८.४.३१ ।।

 नैति कौटिल्यः ।। ०८.४.३२ ।।

 सम्निधाता कृत-अवस्थं अन्यैः कोश-प्रवेश्यं प्रतिगृह्णाति । समाहर्ता तु पूर्वं अर्थं आत्मनः कृत्वा पश्चाद्राज-अर्थं करोति प्रणाशयति वा । पर-स्व-आदाने च स्व-प्रत्ययश्चरतिइति ।। ०८.४.३३ ।।

 "अन्त-पाल-वैदेहकयोरन्त-पालश्चोर-प्रसर्ग-देय-अत्यादानाभ्यां वणिक्-पथं पीडयति । वैदेहकास्तु पण्य--प्रतिपण्य-अनुग्रहैः प्रसाधयन्ति" इत्याचार्याः ।। ०८.४.३४ ।।

 नैति कौटिल्यः ।। ०८.४.३५ ।।

 अन्त-पालः पण्य-सम्पात-अनुग्रहेण वर्तयति । वैदेहकास्तु सम्भूय पण्यानां उत्कर्ष-अपकर्षं कुर्वाणाः पणे पण-शतं कुम्भे कुम्भ-शतं इत्याजीवन्ति ।। ०८.४.३६ ।।

 अभिजात-उपरुद्धा भूमिः पशु-व्रज-उपरुद्धा वाइति "अभिजात-उपरुद्धा भूमिः महा-फलाअप्यायुधीय-उपकारिणी न क्षमा मोक्षयितुं व्यसन-आबाध-भयात् । पशु-व्रज-उपरुद्धा तु कृषि-योग्या क्षमा मोक्षयितुं ।। ०८.४.३७ ।।

 विवीतं हि क्षेत्रेण बाध्यते" इत्याचार्याः ।। ०८.४.३८ ।।

 नैति कौटिल्यः ।। ०८.४.३९ ।।

 अभिजात-उपरुद्धा भूमिरत्यन्त-महा-उपकाराअपि क्षमा मोक्षयितुं व्यसन-आबाध-भयात् । पशु-व्रज-उपरुद्धा तु कोश-वाहन-उपकारिणी न क्षमा मोक्षयितुम् । अन्यत्र सस्य-वाप-उपरोधादिति ।। ०८.४.४० ।।

 "प्रतिरोधक-आटविकयोः प्रतिरोधका रात्रि-सत्त्र-चराः शरीर-आक्रमिणो नित्याः शत-सहस्र-अहपारिणः प्रधान-कोपकाश्च व्यवहिताः प्रत्यन्तर-अरण्य-चराश्चऽटविकाः प्रकाशा दृस्याश्चरन्ति । एक-देश-घातकाश्च" इत्याचार्याः ।। ०८.४.४१ ।।

 नैति कौटिल्यः ।। ०८.४.४२ ।।

 प्रतिरोधकाः प्रमत्तस्यापरहन्ति । अल्पाः कुण्ठाः सुखा ज्ञातुं ग्रहीतुं च । स्व-देशस्थाः प्रभूता विक्रान्ताश्चऽटविकाः प्रकाश-योदिनोअपहर्तारो हन्तारश्च देशानां राज-सधर्माण इति ।। ०८.४.४३ ।।

 मृग-हस्ति-वनयोः मृगाः प्रभूताः प्रभूत-मांस-चर्म-उपकारिणो मन्द-ग्रास-अवक्लेशिनः सुनियम्याश्च ।। ०८.४.४४ ।।

 विपरीता हस्तिनो गृह्यमाणा दुष्टाश्च देश-विनाशायैति ।। ०८.४.४५ ।।

 स्व-पर-स्थानीय-उपकारयोः स्व-स्थानीय-उपकारो धान्य-पशु-हिरण्य-कुप्य-उपकारो जानपदानां आपद्यात्म-धारणः ।। ०८.४.४६ ।।

 विपरीतः पर-स्थानीय-उपकारः ।। ०८.४.४७ ।।

 इति पीडनानि आभ्यन्तरो मुख्य-स्तम्भो बाह्योअमित्र-अटवी-स्तम्भः [इति स्तम्भ-वर्गह्] ।। ०८.४.४८ ।।

 ताभ्यां पीडनैर्यथा-उक्तैश्च पीडितः । सक्तो मुख्येषु । परिहार-उपहतः । प्रकीर्णो । मिथ्या-संहृतः । सामन्त-अटवी-हृत इति कोश-सङ्ग-वर्गः ।। ०८.४.४९ ।।

 पीडनानां अनुत्पत्तावुत्पन्नानां च वारणे । ।। ०८.४.५०अ ब ।।

 यतेत देश-वृद्ध्य्-अर्थं नाशे च स्तम्भ-सङ्गयोः ।। ०८.४.५०च्द् ।।