अर्थशास्त्रम्/अधिकरणम् ८/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 अविद्या-विनयः पुरुष-व्यसन-हेतुः ।। ०८.३.०१ ।।

 अविनीतो हि व्यसन-दोषान्न पश्यति ।। ०८.३.०२ ।।

 तानुपदेक्ष्यामः ।। ०८.३.०३ ।।

 कोपजस्त्रि-वर्गः । कामजश्चतुर्-वर्गः ।। ०८.३.०४ ।।

 तयोः कोपो गरीयान् ।। ०८.३.०५ ।।

 सर्वत्र हि कोपश्चरति ।। ०८.३.०६ ।।

 प्रायशश्च कोप-वशा राजानः प्रकृति-कोपैर्हताः श्रूयन्ते । काम-वशाः क्षय-निमित्तं अरि-व्याधिभिरिति ।। ०८.३.०७ ।।

 नैति भारद्वाजः ।। ०८.३.०८ ।।

 "सत्-पुरुष-आचारः कोपो वैर-यातनं अवज्ञा-वधो भीत-मनुष्यता च ।। ०८.३.०९ ।।

 नित्यश्च कोपेन सम्बन्धः पाप-प्रतिषेध-अर्थः ।। ०८.३.१० ।।

 कामः सिद्धि-लाभः सान्त्वं त्याग-शीलता सम्प्रिय-भावश्च ।। ०८.३.११ ।।

 नित्यश्च कामेन सम्बन्धः कृत-कर्मणः फल-उपभोग-अर्थः" इति ।। ०८.३.१२ ।।

 नैति कौटिल्यः ।। ०८.३.१३ ।।

 द्वेष्यता शत्रु-वेदनं दुःख-आसङ्गश्च कोपः ।। ०८.३.१४ ।।

 परिभवो द्रव्य-नाशः पाटच्चर-द्यूतकार-लुब्धक-गायन-वादकैश्चानर्थ्यैः सम्योगः कामः ।। ०८.३.१५ ।।

 तयोः परिभवाद्द्वेष्यता गरीयसी ।। ०८.३.१६ ।।

 परिभूतः स्वैः परैश्चावगृह्यते । द्वेष्यः समुच्छिद्यत इति ।। ०८.३.१७ ।।

 द्रव्य-नाशात्शत्रु-वेदनं गरीयः ।। ०८.३.१८ ।।

 द्रव्य-नाशः कोश-आबाधकः । शत्रु-वेदनं प्राण-आबाधकं इति ।। ०८.३.१९ ।।

 अनर्थ्य-सम्योगाद्दुःख-सम्योगो गरीयान् ।। ०८.३.२० ।।

 अनर्थ्य-सम्योगो मुहूर्त-प्रतीकारो । दीर्घ-क्लेश-करो दुःखानां आसङ्ग इति ।। ०८.३.२१ ।।

 तस्मात्कोपो गरीयान् ।। ०८.३.२२ ।।

 वाक्-पारुष्यं अर्थ-दूषणं दण्ड-पारुष्यं इति ।। ०८.३.२३ ।।

 "वाक्-पारुष्य-अर्थ-दूषणयोर्वाक्-पारुष्यं गरीयः" इति विशाल-अक्षः ।। ०८.३.२४ ।।

 "परुष-मुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ।। ०८.३.२५ ।।

 दुरुक्त-शल्यं हृदि निखातं तेजः-संदीपनं इन्द्रिय-उपतापि च" इति ।। ०८.३.२६ ।।

 नैति कौटिल्यः ।। ०८.३.२७ ।।

 अर्थ-पूजा वाक्-शल्यं अपहन्ति । वृत्ति-विलोपस्त्वर्थ-दूषणं ।। ०८.३.२८ ।।

 अदानं आदानं विनाशः परित्यागो वाअर्थस्यैत्यर्थ-दूषणं ।। ०८.३.२९ ।।

 "अर्थ-दूषण-दण्ड-पारुष्ययोरर्थ-दूषणं गरीयः" इति पाराशराः ।। ०८.३.३० ।।

 "अर्थ-मूलौ धर्म-कामौ ।। ०८.३.३१ ।।

 अर्थ-प्रतिबद्धश्च लोको वर्तते ।। ०८.३.३२ ।।

 तस्य-उपघातो गरीयान्" इति ।। ०८.३.३३ ।।

 नैति कौटिल्यः ।। ०८.३.३४ ।।

 सुमहताअप्यर्थेन न कश्चन शरीर-विनाशं इच्छेत् ।। ०८.३.३५ ।।

 दण्ड-पारुष्याच्च तं एव दोषं अन्येभ्यः प्राप्नोति ।। ०८.३.३६ ।।

 इति कोपजस्त्रि-वर्गः ।। ०८.३.३७ ।।

 कामजस्तु मृगया द्यूतं स्त्रियः पानं इति चतुर्-वर्गः ।। ०८.३.३८ ।।

 तस्य "मृगया-द्यूतयोर्मृगया गरीयसी" इति पिशुनः ।। ०८.३.३९ ।।

 "स्तेन-अमित्र-व्याल-दाव-प्रस्खलन-भय-दिन्-मोहाः क्षुत्-पिपासे च प्राण-आबाधस्तस्यां ।। ०८.३.४० ।।

 द्यूते तु जितं एवाक्ष-विदुषा यथा जयत्-सेन-दुर्योधनाभ्याम्" इति ।। ०८.३.४१ ।।

 नैत्य्कौटिल्यः ।। ०८.३.४२ ।।

 तयोरप्यन्यतर-पराजयोअस्तिइति नल-युधिष्ठिराभ्यां व्याख्यातं ।। ०८.३.४३ ।।

 तदेव विजित-द्रव्यं आमिषं वैर-अनुबन्धश्च ।। ०८.३.४४ ।।

 सतोअर्थस्य विप्रतिपत्तिरसतश्चार्जनं अप्रतिभुक्त-नाशो मूत्र-पुरीष-धारण-बुभुक्षा-आदिभिश्च व्याधि-लाभ इति द्यूत-दोषाः ।। ०८.३.४५ ।।

 मृगयायां तु व्यायामः श्लेष्म-पित्त-मेदः-स्वेद-नाशश्चले स्थिते च काये लक्ष-परिचयः कोप-भय-स्थानेषु च मृगाणां चित्त-ज्ञानं अनित्य-यानं चैति ।। ०८.३.४६ ।।

 "द्यूत-स्त्री-व्यसनयोः कैतव-व्यसनम्" इति कौणपदन्तः ।। ०८.३.४७ ।।

 "सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः ।। ०८.३.४८ ।।

 कृच्छ्रे च प्रतिपृष्टः कुप्यति ।। ०८.३.४९ ।।

 स्त्री-व्यसने तु स्नान-प्रतिकर्म-भोजन-भूमिषु भवत्येव धर्म-अर्थ-परिप्रश्नः ।। ०८.३.५० ।।

 शक्या च स्त्री राजहिते-नियोक्तुम् । उपांशु-दण्डेन व्याधिना वा व्यावर्तयितुं अवस्रावयितुं वा" इति ।। ०८.३.५१ ।।

 नैति कौटिल्यः ।। ०८.३.५२ ।।

 सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्री-व्यसनं ।। ०८.३.५३ ।।

 अदर्शनं कार्य-निर्वेदः काल-अतिपातनादनर्थो धर्म-लोपश्च तन्त्र-दौर्बल्यं पान-अनुबन्धश्चैति ।। ०८.३.५४ ।।

 "स्त्री-पान-व्यसनयोः स्त्री-व्यसनम्" इति वातव्याधिः ।। ०८.३.५५ ।।

 "स्त्रीषु हि बालिश्यं अनेक-विधं निशान्त-प्रणिधौ व्याख्यातं ।। ०८.३.५६ ।।

 पाने तु शब्द-आदीनां इन्द्रिय-अर्थानां उपभोगः प्रीति-दानं परिजन-पूजनं कर्म-श्रम-वधश्च" इति ।। ०८.३.५७ ।।

 नैति कौटिल्यः ।। ०८.३.५८ ।।

 स्त्री-व्यसने भवत्यपत्य-उत्पत्तिरात्म-रक्षणं चान्तर्-दारेषु । विपर्ययो वा बाह्येषु । अगम्येषु सर्व-उच्छित्तिः ।। ०८.३.५९ ।।

 तदुभयं पान-व्यसने ।। ०८.३.६० ।।

 पान-सम्पत् संज्ञा-नाशोअनुन्मत्तस्यौन्मत्तत्वं अप्रेतस्य प्रेतत्वं कौपीन-दर्शनं श्रुत-प्रज्ञा-प्राण-वित्त-मित्र-हानिः सद्भिर्वियोगोअनर्थ्य-सम्योगस्तन्त्री-गीत-नैपुण्येषु चार्थघ्नेषु प्रसङ्ग इति ।। ०८.३.६१ ।।

 द्यूत-मद्ययोर्द्यूतं ।। ०८.३.६२ ।।

 एकेषां पण-निमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्ष-द्वैधेन प्रकृति-कोपं करोति ।। ०८.३.६३ ।।

 विशेषतश्च संघानां संघ-धर्मिणां च राज-कुलानां द्यूत-निमित्तो भेदस्तन्-निमित्तो विनाश इत्यसत्-प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र-दौर्बल्यादिति ।। ०८.३.६४ ।।

 असतां प्रग्रहः कामः कोपश्चावग्रहः सतां । ।। ०८.३.६५अ ब ।।

 व्यसनं दोष-बाहुल्यादत्यन्तं उभयं मतं ।। ०८.३.६५च्द् ।।

 तस्मात्कोपं च कामं च व्यसन-आरम्भं आत्मवान् । ।। ०८.३.६६अ ब ।।

 परित्यजेन्मूल-हरं वृद्ध-सेवी जित-इन्द्रियः ।। ०८.३.६६च्द् ।।