अर्थशास्त्रम्/अधिकरणम् ६/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ अर्थशास्त्रम्
अध्यायः २
कौटिलीय:

 शम-व्यायामौ योग-क्षेमयोर्योनिः ।। ०६.२.०१ ।।

 कर्म-आरम्भाणां योग-आराधनो व्यायामः ।। ०६.२.०२ ।।

 कर्म-फल-उपभोगानां क्षेम-आराधनः शमः ।। ०६.२.०३ ।।

 शम-व्यायामयोर्योनिः षाड्गुण्यं ।। ०६.२.०४ ।।

 क्षयः स्थानं वृद्धिरित्युदयास्तस्य ।। ०६.२.०५ ।।

 मानुषं नय-अपनयौ । दैवं अय-अनयौ ।। ०६.२.०६ ।।

 दैव-मानुषं हि कर्म लोकं यापयति ।। ०६.२.०७ ।।

 अदृष्ट-कारितं दैवं ।। ०६.२.०८ ।।

 तस्मिन्निष्टेन फलेन योगोअयः । अनिष्टेनानयः ।। ०६.२.०९ ।।

 दृष्ट-कारितं मानुषं ।। ०६.२.१० ।।

 तस्मिन्योग-क्षेम-निष्पत्तिर्नयः । विपत्तिरपनयः ।। ०६.२.११ ।।

 तच्चिन्त्यम् । अचिन्त्यं दैवं ।। ०६.२.१२ ।।

 राजा आत्म-द्रव्य-प्रकृति-सम्पन्नो नयस्याधिष्ठानं विजिगीषुः ।। ०६.२.१३ ।।

 तस्य समन्ततो मण्डली-भूता भूम्य्-अनन्तरा अरि-प्रकृतिः ।। ०६.२.१४ ।।

 तथाएव भूम्य्-एक-अन्तरा मित्र-प्रकृतिः ।। ०६.२.१५ ।।

 अरि-सम्पद्-युक्तः सामन्तः शत्रुः । व्यसनी यातव्यः । अनपाश्रयो दुर्बल-आश्रयो वाउच्छेदनीयः । विपर्यये पीडनीयः कर्शनीयो वा ।। ०६.२.१६ ।।

 इत्यरि-विशेषाः ।। ०६.२.१७ ।।

 तस्मान्मित्रं अरि-मित्रं मित्र-मित्रं अरि-मित्र-मित्रं चऽनन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात् । पश्चात्पार्ष्णि-ग्राह आक्रन्दः पार्ष्णि-ग्राह-आसार आक्रन्द-आसारः ।। ०६.२.१८ ।।

 भूम्य्-अनन्तरः प्रकृति-मित्रः । तुल्य-अभिजनः सहजः । विरुद्धो विरोधयिता वा कृत्रिमः ।। ०६.२.१९ ।।

 भूम्य्-एक-अन्तरं प्रकृति-मित्रम् । माता-पितृ-सम्बद्धं सहजम् । धन-जीवित-हेतोराश्रितं कृत्रिमं ।। ०६.२.२० ।।

 अरि-विजिगीष्वोर्भूम्य्-अनन्तरः संहत-असंहतयोरनुग्रह-समर्थो निग्रहे चासंहतयोर्मध्यमः ।। ०६.२.२१ ।।

 अरि-विजिगीषु-मध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहत-असंहतानां अरि-विजिगीषु-मध्यमानां अनुग्रह-समर्थो निग्रहे चासंहतानां उदासीनः ।। ०६.२.२२ ।।

 इति प्रकृतयः ।। ०६.२.२३ ।।

 विजिगीषुर्मित्रं मित्र-मित्रं वाअस्य प्रकृतयस्तिस्रः ।। ०६.२.२४ ।।

 ताः पञ्चभिरमात्य-जन-पद-दुर्ग-कोश-दण्ड-प्रकृतिभिरेक-एकशः सम्युक्ता मण्डलं अष्टादशकं भवति ।। ०६.२.२५ ।।

 अनेन मण्डल-पृथक्त्वं व्याख्यातं अरि-मध्यम-उदासीनानां ।। ०६.२.२६ ।।

 एवं चतुर्-मण्डल-संक्षेपः ।। ०६.२.२७ ।।

 द्वादश राज-प्रकृतयः षष्टिर्द्रव्य-प्रकृतयः । संक्षेपेण द्वि-सप्ततिः ।। ०६.२.२८ ।।

 तासां यथा-स्वं सम्पदः ।। ०६.२.२९ ।।

 शक्तिः सिद्धिश्च ।। ०६.२.३० ।।

 बलं शक्तिः ।। ०६.२.३१ ।।

 सुखं सिद्धिः ।। ०६.२.३२ ।।

 शक्तिस्त्रिविधा ज्ञान-बलं मन्त्र-शक्तिः । कोश-दण्ड-बलं प्रभु-शक्तिः । विक्रम-बलं उत्साह-शक्तिः ।। ०६.२.३३ ।।

 एवं सिद्धिस्त्रिविधाएव मन्त्र-शक्ति-साध्या मन्त्र-सिद्धिः । प्रभु-शक्ति-साध्या प्रभु-सिद्धिः । उत्साह-शक्ति-साध्या उत्साह-सिद्धिः ।। ०६.२.३४ ।।

 ताभिरभ्युच्चितो ज्यायान्भवति । अपचितो हीनः । तुल्य-शक्तिः समः ।। ०६.२.३५ ।।

 तस्मात्शक्तिं सिद्धिं च घटेतऽत्मन्यावेशयितुम् । साधारणो वा द्रव्य-प्रकृतिष्वानन्तर्येण शौच-वशेन वा ।। ०६.२.३६ ।।

 दूष्य-अमित्राभ्यां वाअपक्रष्टुं यतेत ।। ०६.२.३७ ।।

 यदि वा पश्येत्"अमित्रो मे शक्ति-युक्तो वाग्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीरुपहनिष्यति । सिद्धि-युक्तो वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादं गमिष्यति । स विरक्त-प्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति । विग्रह-अभियुक्तो वा सर्व-संदोहेनएकस्थोअदुर्गस्थो वा स्थास्यति । स संहत-सैन्यो मित्र-दुर्ग-वियुक्तः साध्यो मे भविष्यति । बलवान्वा राजा परतः शत्रुं उच्छेत्तु-कामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यं दास्यति" । मध्यम-लिप्सायां च । इत्येवं-आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चैच्छेत् ।। ०६.२.३८ ।।

 नेमिं एक-अन्तरान्राज्ञः कृत्वा चानन्तरानरान् । ।। ०६.२.३९अ ब ।।

 नाभिं आत्मानं आयच्छेन्नेता प्रकृति-मण्डले ।। ०६.२.३९च्द् ।।

 मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य चौभयोः । ।। ०६.२.४०अ ब ।।

 उच्छेद्यः पीडनीयो वा बलवानपि जायते ।। ०६.२.४०च्द् ।।