अर्थशास्त्रम्/अधिकरणम् ६/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
अर्थशास्त्रम्
अध्यायः १
कौटिलीय:
अध्यायः २ →

 स्वाम्य्-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्राणि प्रकृतयः ।। ०६.१.०१ ।।

 तत्र स्वामि-सम्पत् ।। ०६.१.०२ ।।

 महा-कुलीनो दैव-बुद्धि-सत्त्व-सम्पन्नो वृद्ध-दर्शी धार्मिकः सत्य-वागविसंवादकः कृतज्ञः स्थूल-लक्षो महा-उत्साहोअदीर्घ-सूत्रः शक्य-सामन्तो दृढ-बुद्धिरक्षुद्र-परिषत्को विनय-काम इत्याभिगामिका गुणाः ।। ०६.१.०३ ।।

 शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिवेशाः प्रज्ञा-गुणाः ।। ०६.१.०४ ।।

 शौर्यं अमर्षः शीघ्रता दाक्ष्यं चौत्साह-गुणाः ।। ०६.१.०५ ।।

 वाग्मी प्रगल्भः स्मृति-मति-बलवानुदग्रः स्व्-अवग्रहः कृत-शिल्पोअव्यसनो दण्ड-नाय्युपकार-अपकारयोर्दृष्ट-प्रतीकारी ह्रीमानापत्-प्रकृत्योर्विनियोक्ता दीर्घ-दूर-दर्शी देश-काल-पुरुष-कार-कार्य-प्रधानः संधि-विक्रम-त्याग-सम्यम-पण-परच्-छिद्र-विभागी संवृतोअदीन-अभिहास्य-जिह्म-भ्रुकुटी-क्षणः काम-क्रोध-लोभ-स्तम्भ-चापल-उपताप-पैशुन्य-हीनः शक्लः स्मित-उदग्र-अभिभाषी वृद्ध-उपदेश-आचार इत्यात्म-सम्पत् ।। ०६.१.०६ ।।

 अमात्य-सम्पदुक्ता पुरस्तात् ।। ०६.१.०७ ।।

 मध्ये चान्ते च स्थानवानात्म-धारणः पर-धारणश्चऽपदि स्व-आरक्षः स्व-आजीवः शत्रु-द्वेषी शक्य-सामन्तः पङ्क-पाषाण-उषर-विषम-कण्टक-श्रेणी-व्याल-मृग-अटवी-हीनः कान्तः सीता-खनि-द्रव्य-हस्ति-वनवान्गव्यः पौरुषेयो गुप्त-गोचरः पशुमानदेव-मातृको वारि-स्थल-पथाभ्यां उपेतः सार-चित्र-बहु-पण्यो दण्ड-कर-सहः कर्म-शील-कर्षकोअबालिश-स्वाम्य्-अवर-वर्ण-प्रायो भक्त-शुचि-मनुष्य इति जन-पद-सम्पत् ।। ०६.१.०८ ।।

 दुर्ग-सम्पदुक्ता पुरस्तात् ।। ०६.१.०९ ।।

 धर्म-अधिगतः पूर्वैः स्वयं वा हेम-रूप्य-प्रायश्चित्र-स्थूल-रत्न-हिरण्यो दीर्घां अप्यापदं अनायतिं सहेतैति कोश-सम्पत् ।। ०६.१.१० ।।

 पितृ-पैतामहो नित्यो वश्यस्तुष्ट-भृत-पुत्र-दारः प्रवासेष्वविसंवादितः सर्वत्राप्रतिहतो दुःख-सहो बहु-युद्धः सर्व-युद्ध-प्रहरण-विद्या-विशारदः सह-वृद्धि-क्षयिकत्वादद्वैध्यः क्षत्र-प्राय इति दण्ड-सम्पत् ।। ०६.१.११ ।।

 पितृ-पैतामहं नित्यं वश्यं अद्वैध्यं महल्-लघु-समुत्थं इति मित्र-सम्पत् ।। ०६.१.१२ ।।

 अराज-बीजी लुब्धः क्षुद्र-परिषत्को विरक्त-प्रकृतिरन्याय-वृत्तिरयुक्तो व्यसनी निरुत्साहो दैव-प्रमाणो यत्-किंचन-कार्य-गतिरननुबन्धः क्लीबो नित्य-अपकारी चैत्यमित्र-सम्पत् ।। ०६.१.१३ ।।

 एवं-भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति ।। ०६.१.१४ ।।

 अरि-वर्जाः प्रकृतयः सप्तएताः स्व-गुण-उदयाः । ।। ०६.१.१५अ ब ।।

 उक्ताः प्रत्यङ्ग-भूतास्ताः प्रकृता राज-सम्पदः ।। ०६.१.१५च्द् ।।

 सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः । ।। ०६.१.१६अ ब ।।

 विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान् ।। ०६.१.१६च्द् ।।

 ततः स दुष्ट-प्रकृतिश्चातुरन्तोअप्यनात्मवान् । ।। ०६.१.१७अ ब ।।

 हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशं ।। ०६.१.१७च्द् ।।

 आत्मवांस्त्वल्प-देशोअपि युक्तः प्रकृति-सम्पदा । ।। ०६.१.१८अ ब ।।

नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ।। ०६.१.१८च्द् ।।