अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:
अध्यायः ५ →

 समाहर्तृ-प्रणिधौ जन-पद-रक्षणं उक्तं ।। ०४.४.०१ ।।

 तस्य कण्टक-शोधनं वक्ष्यामः ।। ०४.४.०२ ।।

 समाहर्ता जन-पदे सिद्ध-तापस-प्रव्रजित-चक्र-चर-चारण-कुहक-प्रच्छन्दक-कार्तान्तिक-नैमित्तिक-मौहूर्तिक-चिकित्सक-उन्मत्त-मूक-बधिर-जड-अन्ध-वैदेहक-कारु-शिल्पि-कुशीलव-वेश-शौण्डिक-आपूपिक-पाक्व-मांसिक-औदनिक-व्यञ्जनान्प्रणिदध्यात् ।। ०४.४.०३ ।।

 ते ग्रामाणां अध्यक्षाणां च शौच-आशौचं विद्युः ।। ०४.४.०४ ।।

 यं चात्र गूढ-आजीविनं शङ्केत तं सत्त्रिणाअपसर्पयेत् ।। ०४.४.०५ ।।

 धर्मस्थं विश्वास-उपगतं सत्त्री ब्रूयात् "असौ मे बन्धुरभियुक्तः । तस्यायं अनर्थः प्रतिक्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.०६ ।।

 स चेत्तथा कुर्यादुपदा-ग्राहक इति प्रवास्येत ।। ०४.४.०७ ।।

 तेन प्रदेष्टारो व्याख्याताः ।। ०४.४.०८ ।।

 ग्राम-कूटं अध्यक्षं वा सत्त्री ब्रूयात् "असौ जाल्मः प्रभूत-द्रव्यः । तस्यायं अनर्थः । तेनएनं आहारयस्व" इति ।। ०४.४.०९ ।।

 स चेत्तथा कुर्यादुत्कोचक इति प्रवास्येत ।। ०४.४.१० ।।

 कृतक-अभियुक्तो वा कूट-साक्षिणोअभिज्ञात-अनर्थ-वैपुल्येनऽरभेत ।। ०४.४.११ ।।

 ते चेत्तथा कुर्युः कूट-साक्षिण इति प्रवास्येरन् ।। ०४.४.१२ ।।

 तेन कूट-श्रावण-कारका व्याख्याताः ।। ०४.४.१३ ।।

 यं वा मन्त्र-योग-मूल-कर्मभिः श्माशानिकैर्वा संवदन-करकं मन्येत तं सत्त्री ब्रूयात् "अमुष्य भार्यां स्नुषां दुहितरं वा कामये । सा मां प्रतिकामयताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.१४ ।।

 स चेत्तथा कुर्यात्संवदन-कारक इति प्रवास्येत ।। ०४.४.१५ ।।

 तेन कृत्य-अभिचार-शीलौ व्याख्यातौ ।। ०४.४.१६ ।।

 यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्य-आहार-व्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् "असौ मे शत्रुः । तस्यौपघातः क्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.१७ ।।

 स चेत्तथा कुर्याद्रसद इति प्रवास्येत ।। ०४.४.१८ ।।

 तेन मदन-योग-व्यवहारी व्याख्यातः ।। ०४.४.१९ ।।

 यं वा नाना-लोह-क्षाराणां अङ्गार-भस्म-असंदंश-मुष्टिक-अधिकरणी-बिम्ब-टङ्क-मूषाणां अभीक्ष्ण-क्रेतारं मषी-भस्म-धूम-दिग्ध-हस्त-वस्त्र-लिङ्गं कर्मार-उपकरण-संसर्गं कूट-रूप-कारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् ।। ०४.४.२० ।।

 प्रज्ञातः कूट-रूप-कारक इति प्रवास्येत ।। ०४.४.२१ ।।

 तेन रागस्यापहर्ता कूट-सुवर्ण-व्यवहारी च व्याख्यातः ।। ०४.४.२२ ।।

 आरब्धारस्तु हिंसायां गूढ-आजीवास्त्रयोदश । ।। ०४.४.२३अ ब ।।

 प्रवास्या निष्क्रय-अर्थं वा दद्युर्दोष-विशेषतः ।। ०४.४.२३च्द् ।।