अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 दैवान्यष्टौ महा-भयानि अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसिइति ।। ०४.३.०१ ।।

 तेभ्यो जन-पदं रक्षेत् ।। ०४.३.०२ ।।

 ग्रीष्मे बहिर्-अधिश्रयणं ग्रामाः कुर्युः । दश-मूली-संग्रहेणाधिष्ठिता वा ।। ०४.३.०३ ।।

 नागरिक-प्रणिधावग्नि-प्रतिषेधो व्याख्यातः । निशान्त-प्रणिधौ राज-परिग्रहे च ।। ०४.३.०४ ।।

 बलि-होम-स्वस्ति-वाचनैः पर्वसु चाग्नि-पूजाः कारयेत् ।। ०४.३.०५ ।।

 वर्षा-रात्रं आनूप-ग्रामाः पूर-वेलां उत्सृज्य वसेयुः ।। ०४.३.०६ ।।

 काष्ठ-वेणु-नावश्चौपगृह्णीयुः ।। ०४.३.०७ ।।

 उह्यमानं अलाबु-दृति-प्लव-गण्डिका-वेणिकाभिस्तारयेयुः ।। ०४.३.०८ ।।

 अनभिसरतां द्वादश-पणो दण्डः । अन्यत्र प्लव-हीनेभ्यः ।। ०४.३.०९ ।।

 पर्वसु च नदी-पूजाः कारयेत् ।। ०४.३.१० ।।

 माया-योगविदो वेदविदो वा वर्षं अभिचरेयुः ।। ०४.३.११ ।।

 वर्ष-अवग्रहे शची-नाथ-गङ्गा-पर्वत-महा-कच्छ-पूजाः कारयेत् ।। ०४.३.१२ ।।

 व्याधि-भयं औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः । औषधैश्चिकित्सकाः शान्ति-प्रायश्चित्तैर्वा सिद्ध-तापसाः ।। ०४.३.१३ ।।

 तेन मरको व्याख्यातः ।। ०४.३.१४ ।।

 तीर्थ-अभिषेचनं महा-कच्छ-वर्धनं गवां श्मशान-अवदोहनं कबन्ध-दहनं देव-रात्रिं च कारयेत् ।। ०४.३.१५ ।।

 पशु-व्याधि-मरके स्थान-अर्थ-नीराजनं स्व-दैवत-पूजनं च कारयेत् ।। ०४.३.१६ ।।

 दुर्भिक्षे राजा बीज-भक्त-उपग्रहं कृत्वाअनुग्रहं कुर्यात् । दुर्ग-सेतु-कर्म वा भक्त-अनुग्रहेण । भक्त-संविभागं वा । देश-निक्षेपं वा ।। ०४.३.१७ ।।

 मित्राणि वा व्यपाश्रयेत । कर्शनं वमनं वा कुर्यात् ।। ०४.३.१८ ।।

 निष्पन्न-सस्यं अन्य-विषयं वा सजन-पदो यायात् । समुद्र-सरस्-तटाकानि वा संश्रयेत ।। ०४.३.१९ ।।

 धान्य-शाक-मूल-फल-आवापान्वा सेतुषु कुर्वीत । मृग-पशु-पक्षि-व्याल-मत्स्य-आरम्भान्वा ।। ०४.३.२० ।।

 मूषिक-भये मार्जार-नकुल-उत्सर्गः ।। ०४.३.२१ ।।

 तेषां ग्रहण-हिंसायां द्वादश-पणो दण्डः । शुनां अनिग्रहे चान्यत्रारण्य-चरेभ्यः ।। ०४.३.२२ ।।

 स्नुहि-क्षीर-लिप्तानि धान्यानि विसृजेद् । उपनिषद्-योग-युक्तानि वा ।। ०४.३.२३ ।।

 मूषिक-करं वा प्रयुञ्जीत ।। ०४.३.२४ ।।

 शान्तिं वा सिद्ध-तापसाः कुर्युः ।। ०४.३.२५ ।।

 पर्वसु च मूषिक-पूजाः कारयेत् ।। ०४.३.२६ ।।

 तेन शलभ-पक्षि-क्रिमि-भय-प्रतीकारा व्याख्याताः ।। ०४.३.२७ ।।

 व्याल-भये मदन-रस-युक्तानि पशु-शवानि प्रसृजेत् । मदन-कोद्रव-पूर्णान्यौदर्याणि वा ।। ०४.३.२८ ।।

 लुब्धकाः श्व-गणिनो वा कूट-पञ्जर-अवपातैश्चरेयुः ।। ०४.३.२९ ।।

 आवरणिनः शस्त्र-पाणयो व्यालानभिहन्युः ।। ०४.३.३० ।।

 अनभिसर्तुर्द्वादश-पणो दण्डः ।। ०४.३.३१ ।।

 स एव लाभो व्याल-घातिनः ।। ०४.३.३२ ।।

 पर्वसु च पर्वत-पूजाः कारयेत् ।। ०४.३.३३ ।।

 तेन मृग-पशु-पक्षि-संघ-ग्राह-प्रतीकारा व्याख्याताः ।। ०४.३.३४ ।।

 सर्प-भये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः ।। ०४.३.३५ ।।

 सम्भूय वाअपि सर्पान्हन्युः ।। ०४.३.३६ ।।

 अथर्व-वेदविदो वाअभिचरेयुः ।। ०४.३.३७ ।।

 पर्वसु च नाग-पूजाः कारयेत् ।। ०४.३.३८ ।।

 तेनौदक-प्राणि-भय-प्रतीकारा व्याख्याताः ।। ०४.३.३९ ।।

 रक्षो-भये रक्षो-घ्नान्यथर्व-वेदविदो माया-योगविदो वा कर्माणि कुर्युः ।। ०४.३.४० ।।

 पर्वसु च वितर्दिच्-छत्र-उल्लोपिका-हस्त-पताकाच्-छाग-उपहारैश्चैत्य-पूजाः कारयेत् ।। ०४.३.४१ ।।

 "चरुं वश्चरामः" इत्येवं सर्व-भयेष्वहो-रात्रं चरेयुः ।। ०४.३.४२ ।।

 सर्वत्र चौपहतान्पिताइवानुगृह्णीयात् ।। ०४.३.४३ ।।

 माया-योगविदस्तस्माद्विषये सिद्ध-तापसाः । ।। ०४.३.४४अ ब ।।

 वसेयुः पूजिता राज्ञा दैव-आपत्-प्रतिकारिणः ।। ०४.३.४४च्द् ।।