अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:
अध्यायः ५ →

 पति-कुलान्निष्पतितायाः स्त्रियाः षट्-पणो दण्डः । अन्यत्र विप्रकारात् ।। ०३.४.०१ ।।

 प्रतिषिद्धायां द्वादश-पणः ।। ०३.४.०२ ।।

 प्रतिवेश-गृह-अतिगतायाः षट्-पणः ।। ०३.४.०३ ।।

 प्रातिवेशिक-भिक्षुक-वैदेहकानां अवकाश-भिक्षा-पण्य-दाने द्वादश-पणो दण्डः ।। ०३.४.०४ ।।

 प्रतिषिद्धानां पूर्वः साहस-दण्डः ।। ०३.४.०५ ।।

 पर-गृह-अतिगतायाश्चतुर्-विंशति-पणः ।। ०३.४.०६ ।।

 पर-भार्या-अवकाश-दाने शत्यो दण्डः । अन्यत्रऽपद्भ्यः ।। ०३.४.०७ ।।

 वारण-अज्ञानयोर्निर्दोषः ।। ०३.४.०८ ।।

 "पति-विप्रकारात्पति-ज्ञाति-सुख-अवस्थ-ग्रामिक-अन्वाधि-भिक्षुकी-ज्ञाति-कुलानां अन्यतमं अपुरुषं गन्तुं अदोषः" इति आचार्याः ।। ०३.४.०९ ।।

 सपुरुषं वा ज्ञाति-कुलं ।। ०३.४.१० ।।

 कुतो हि साध्वी-जनस्यच्छलं ।। ०३.४.११ ।।

 सुखं एतदवबोद्धुम् । इति कौटिल्यः ।। ०३.४.१२ ।।

 प्रेत-व्याधि-व्यसन-गर्भ-निमित्तं अप्रतिषिद्धं एव ज्ञाति-कुल-गमनं ।। ०३.४.१३ ।।

 तन्-निमित्तं वारयतो द्वादश-पणो दण्डः ।। ०३.४.१४ ।।

 तत्रापि गूहमाना स्त्री-धनं जीयेत । ज्ञातयो वा छादयन्तः शुल्क-शेषं इति निष्पतनं । ।। ०३.४.१५ ।।

 पति-कुलान्निष्पत्य ग्राम-अन्तर-गमने द्वादश-पणो दण्डः स्थाप्या-आभरण-लोपश्च ।। ०३.४.१६ ।।

 गम्येन वा पुंसा सह प्रस्थाने चतुर्-विंशति-पणः सर्व-धर्म-लोपश्च । अन्यत्र भर्म-दान-तीर्थ-गमनाभ्यां ।। ०३.४.१७ ।।

 पुंसः पूर्वः साहस-दण्डः तुल्य-श्रेयसोः । पापीयसो मध्यमः ।। ०३.४.१८ ।।

 बन्धुर्-अदण्ड्यः ।। ०३.४.१९ ।।

 प्रतिषेधेअर्ध-दण्डाः ।। ०३.४.२० ।।

 पथि व्यन्तरे गूढ-देश-अभिगमने मैथुन-अर्थेन शङ्कित-प्रतिषिद्धायां वा पथ्य्-अनुसरणे संग्रहणं विद्यात् ।। ०३.४.२१ ।।

 ताल-अवचर-चारण-मत्स्य-बन्धक-लुब्धक-गो-पालक-शौण्डिकानां अन्येषां च प्रसृष्ट-स्त्रीकाणां पथ्य्-अनुसरणं अदोषः ।। ०३.४.२२ ।।

 प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास्त एवार्ध-दण्डाः इति पथ्य्-अनुसरणं । ।। ०३.४.२३ ।।

 ह्रस्व-प्रवासिनां शूद्र-वैश्य-क्षत्रिय-ब्राह्मणानां भार्याः संवत्सर-उत्तरं कालं आकाङ्क्षेरनप्रजाताः । संवत्सर-अधिकं प्रजाताः ।। ०३.४.२४ ।।

 प्रतिविहिता द्वि-गुणं कालं ।। ०३.४.२५ ।।

 अप्रतिविहिताः सुख-अवस्था बिभृयुः । परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः ।। ०३.४.२६ ।।

 ततो यथा-दत्तं आदाय प्रमुञ्चेयुः ।। ०३.४.२७ ।।

 ब्राह्मणं अधीयानं दश-वर्षाण्यप्रजाता । द्वादश प्रजाता । राज-पुरुषं आयुः-क्षयादाकाङ्क्षेत ।। ०३.४.२८ ।।

 सवर्णतश्च प्रजाता नापवादं लभेत ।। ०३.४.२९ ।।

 कुटुम्ब-ऋद्धि-लोपे वा सुख-अवस्थैर्विमुक्ता यथा-इष्टं विन्देत । जीवित-अर्थं आपद्-गता वा ।। ०३.४.३० ।।

 धर्म-विवाहात्कुमारी परिग्रहीतारं अनाख्याय प्रोषितं अश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं श्रूयमाणं ।। ०३.४.३१ ।।

 आख्याय प्रोषितं अश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत । दश श्रूयमाणं ।। ०३.४.३२ ।।

 एक-देश-दत्त-शुल्कं त्रीणि तीर्थान्यश्रूयमाणम् । श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत ।। ०३.४.३३ ।।

 दत्त-शुल्कं पञ्च तीर्थान्यश्रूयमाणम् । दश श्रूयमाणं ।। ०३.४.३४ ।।

 ततः परं धर्मस्थैर्विसृष्टा यथा-इष्टं विन्देत ।। ०३.४.३५ ।।

 तीर्थ-उपरोधो हि धर्म-वध इति कौटिल्यः इति ह्रस्व-प्रवासः ।। ०३.४.३६ ।।

 दीर्घ-प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं प्रजाता ।। ०३.४.३७ ।।

 ततः पति-सोदर्यं गच्छेत् ।। ०३.४.३८ ।।

 बहुषु प्रत्यासन्नं धार्मिकं भर्म-समर्थं कनिष्ठं अभार्यं वा ।। ०३.४.३९ ।।

 तद्-अभावेअप्यसोदर्यं सपिण्डं कुल्यं वाआसन्नं ।। ०३.४.४० ।।

 एतेषां एष एव क्रमः ।। ०३.४.४१ ।।

 एतानुत्क्रम्य दायादान्वेदने जार-कर्मणि । ।। ०३.४.४२अ ब ।।

 जार-स्त्री-दातृ-वेत्तारः सम्प्राप्ताः संग्रह-अत्ययं ।। ०३.४.४२च्द् ।।