अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३ अर्थशास्त्रम्
अध्यायः १४
कौटिलीय:
अध्यायः १५ →

 गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ।। ०३.१४.०१ ।।

 अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाअनुशयं लभेत । परेण वा कारयितुं ।। ०३.१४.०२ ।।

 तस्य-व्यय-कर्मणा लभेत भर्ता वा कारयितुं ।। ०३.१४.०३ ।।

 "नान्यस्त्वया कारयितव्यो । मया वा नान्यस्य कर्तव्यम्" इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादश-पणो दण्डः ।। ०३.१४.०४ ।।

 कर्म-निष्ठापने भर्तुरन्यत्र गृहीत-वेतनो नासकामः कुर्यात् ।। ०३.१४.०५ ।।

 "उपस्थितं अकारयतः कृतं एव विद्याद्" इत्याचार्याः ।। ०३.१४.०६ ।।

 नैति कौटिल्यः ।। ०३.१४.०७ ।।

 कृतस्य वेतनं नाकृतस्यास्ति ।। ०३.१४.०८ ।।

 स चेदल्पं अपि कारयित्वा न कारयेत्कृतं एवास्य विद्यात् ।। ०३.१४.०९ ।।

 देश-काल-अतिपातनेन कर्मणां अन्यथा-करणे वा नासकामः कृतं अनुमन्येत ।। ०३.१४.१० ।।

 सम्भाषितादधिक-क्रियायां प्रयासं न मोघं कुर्यात् ।। ०३.१४.११ ।।

 तेन संघ-भृता व्याख्याताः ।। ०३.१४.१२ ।।

 तेषां आधिः सप्त-रात्रं आसीत ।। ०३.१४.१३ ।।

 ततोअन्यं उपस्थापयेत् । कर्म-निष्पाकं च ।। ०३.१४.१४ ।।

 न चानिवेद्य भर्तुः संघः कंचित्परिहरेदुपनयेद्वा ।। ०३.१४.१५ ।।

 तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ।। ०३.१४.१६ ।।

 संघेन परिहृतस्यार्ध-दण्डः इति भृतक-अधिकारः ।। ०३.१४.१७ ।।

 संघ-भृताः सम्भूय-समुत्थातारो वा यथा-सम्भाषितं वेतनं समं वा विभजेरन् ।। ०३.१४.१८ ।।

 कर्षण-वैदेहका वा सस्य-पण्य-आरम्भ-पर्यवसान-अन्तरे सन्नस्य यथा-कृतस्य कर्मणः प्रत्यंशं दद्युः ।। ०३.१४.१९ ।।

 पुरुष-उपस्थाने समग्रं अंशं दद्युः ।। ०३.१४.२० ।।

 संसिद्धे तुउद्धृत-पण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः ।। ०३.१४.२१ ।।

 सामान्या हि पथि-सिद्धिश्चासिद्धिश्च ।। ०३.१४.२२ ।।

 प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादश-पणो दण्डः ।। ०३.१४.२३ ।।

 न च प्राकाम्यं अपक्रमणे ।। ०३.१४.२४ ।।

 चोरं त्वभय-पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद् । दद्यात्प्रत्यंशं अभयं च ।। ०३.१४.२५ ।।

 पुनः-स्तेये प्रवासनम् । अन्यत्र-गमने च ।। ०३.१४.२६ ।।

 महा-अपराधे तु दूष्यवदाचरेत् ।। ०३.१४.२७ ।।

 याजकाः स्वा-प्रचार-द्रव्य-वर्जं यथा-सम्भाषितं वेतनं समं वा विभजेरन् ।। ०३.१४.२८ ।।

 अग्निष्टोम-आदिषु च क्रतुषु दीक्षणादूर्ध्वं तृतीयं अंशं । मध्यम-उपसद ऊर्ध्वं अर्धं अंशं । सुत्ये प्रातः-सवनादूर्ध्वं पाद-ऊनं अंशं ।। ०३.१४.२९ ।।

 माध्यन्दिनात्सवनादूर्ध्वं समग्रं अंशं लभेत ।। ०३.१४.३० ।।

 नीता हि दक्षिणा भवन्ति ।। ०३.१४.३१ ।।

 बृहस्पति-सव-वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ।। ०३.१४.३२ ।।

 तेनाहर्-गण-दक्षिणा व्याख्याताः ।। ०३.१४.३३ ।।

 सनानां आ-दश-अहो-रात्रात्शेष-भृताः कर्म कुर्युः । अन्ये वा स्व-प्रत्ययाः ।। ०३.१४.३४ ।।

 कर्मण्यसमाप्ते तु यजमानः सीदेद् । ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ।। ०३.१४.३५ ।।

 असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस-दण्डः ।। ०३.१४.३६ ।।

 अनाहित-अग्निः शत-गुरु-यज्वा च सहस्रगुः । ।। ०३.१४.३७अ ब ।।

 सुरापो वृषली-भर्ता ब्रह्महा गुरु-तल्पगः ।। ०३.१४.३७च्द् ।।

 असत्-प्रतिग्रहे युक्तः स्तेनः कुत्सित-याजकः । ।। ०३.१४.३८अ ब ।।

 अदोषस्त्यक्तुं अन्योन्यं कर्म-संकर-निश्चयात् ।। ०३.१४.३८च्द् ।।