अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२ अर्थशास्त्रम्
अध्यायः १३
कौटिलीय:
अध्यायः १४ →

 उदर-दास-वर्जं आर्य-प्राणं अप्राप्त-व्यवहारं शूद्रं विक्रय-आधानं नयतः स्व-जनस्य द्वादश-पणो दण्डः । वैश्यं द्वि-गुणः । क्षत्रियं त्रि-गुणः । ब्राह्मणं चतुर्-गुणः ।। ०३.१३.०१ ।।

 पर-जनस्य पूर्व-मध्यम-उत्तम-वधा दण्डाः । क्रेतृ-श्रोतृऋणां च ।। ०३.१३.०२ ।।

 म्लेच्छानां अदोषः प्रजां विक्रेतुं आधातुं वा ।। ०३.१३.०३ ।।

 न त्वेवऽर्यस्य दास-भावः ।। ०३.१३.०४ ।।

 अथवाआर्यं आधाय कुल-बन्धन आर्याणां आपदि । निष्क्रयं चाधिगम्य बालं साहाय्य-दातारं वा पूर्वं निष्क्रीणीरन् ।। ०३.१३.०५ ।।

 सकृद्-आत्म-आधाता निष्पतितः सीदेत् । द्विरन्येनऽहितकः । सकृदुभौ पर-विषय-अभिमुखौ ।। ०३.१३.०६ ।।

 वित्त-अपहारिणो वा दासस्यऽर्य-भावं अपहरतोअर्ध-दण्डः ।। ०३.१३.०७ ।।

 निष्पतित-प्रेत-व्यसनिनां आधाता मूल्यं भजेत ।। ०३.१३.०८ ।।

 प्रेत-विण्-मूत्र-उच्छिष्ट-ग्राहणं आहितस्य नग्न-स्नापनं दण्ड-प्रेषणं अतिक्रमणं च स्त्रीणां मूल्य-नाश-करं । धात्री-परिचारिक-अर्ध-सीतिक-उपचारिकाणां च मोक्ष-करं ।। ०३.१३.०९ ।।

 सिद्धं उपचारकस्याभिप्रजातस्यापक्रमणं ।। ०३.१३.१० ।।

 धात्रीं आहितिकां वाअकामां स्व-वशां गच्छतः पूर्वः साहस-दण्डः । पर-वशां मध्यमः ।। ०३.१३.११ ।।

 कन्यां आहितिकां वा स्वयं अन्येन वा दुषयतो मूल्य-नाशः शुल्कं तद्-द्वु-गुणश्च दण्डः ।। ०३.१३.१२ ।।

 आत्म-विक्रयिणः प्रजां आर्यां विद्यात् ।। ०३.१३.१३ ।।

 आत्म-अधिगतं स्वामि-कर्म-अविरुद्धं लभेत । पित्र्यं च दायं ।। ०३.१३.१४ ।।

 मूल्येन चऽर्यत्वं गच्छेत् ।। ०३.१३.१५ ।।

 तेनौदर-दास-आहितकौ व्याख्यातौ ।। ०३.१३.१६ ।।

 प्रक्षेप-अनुरूपश्चास्य निष्क्रयः ।। ०३.१३.१७ ।।

 दण्ड-प्रणीतः कर्मणा दण्डं उपनयेत् ।। ०३.१३.१८ ।।

 आर्य-प्राणो ध्वज-आहृतः कर्म-काल-अनुरूपेण मूल्य-अर्धेन वा विमुच्येत ।। ०३.१३.१९ ।।

 गृहे-जात-दाय-आगत-लब्ध-क्रीतानां अन्यतमं दासं ऊन-अष्ट-वर्षं विबन्धुं अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भां अप्रतिविहित-गर्भ-भर्मण्यां विक्रय-आधानं नयतः पूर्वः साहस-दण्डः । क्रेतृ-श्रोतृऋणां च ।। ०३.१३.२० ।।

 दासं अनुरूपेण निष्क्रयेणऽर्यं अकुर्वतो द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ।। ०३.१३.२१ ।।

 दास-द्रव्यस्य ज्ञातयो दायादाः । तेषां अभावे स्वामी ।। ०३.१३.२२ ।।

 स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात् ।। ०३.१३.२३ ।।

 गृह्या चेत्कुटुम्ब-अर्थ-चिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः ।। ०३.१३.२४ ।।

 दासं दासीं वा निष्क्रीय पुनर्विक्रय-आधानं नयतो द्वादश-पणो दण्डः । अन्यत्र स्वयं-वादिभ्यः इति दास-कल्पः । ।। ०३.१३.२५ ।।

 कर्म-करस्य कर्म-सम्बन्धं आसन्ना विद्युः ।। ०३.१३.२६ ।।

 यथा-सम्भाषितं वेतनं लभेत । कर्म-काल-अनुरूपं असम्भाषित-वेतनः ।। ०३.१३.२७ ।।

 कर्षकः सस्यानां गो-पालकः सर्पिषां वैदेहकः पण्यानां आत्मना व्यवहृतानां दश-भागं असम्भाषित-वेतनो लभेत ।। ०३.१३.२८ ।।

 सम्भाषित-वेतनस्तु यथा-सम्भाषितं ।। ०३.१३.२९ ।।

 कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-परिचारक-आदिराशा-कारिक-वर्गस्तु यथाअन्यस्तद्-विधः कुर्याद्यथा वा कुशलाः कल्पयेयुस्तथा वेतनं लभेत ।। ०३.१३.३० ।।

 साक्षि-प्रत्ययं एव स्यात् ।। ०३.१३.३१ ।।

 साक्षिणां अभावे यतः कर्म ततोअनुयुञ्जीत ।। ०३.१३.३२ ।।

 वेतन-आदाने दश-बन्धो दण्डः । षट्-पणो वा ।। ०३.१३.३३ ।।

 अपव्ययमाने द्वादश-पणो दण्डः । पञ्च-बन्धो वा ।। ०३.१३.३४ ।।

 नदी-वेग-ज्वाला-स्तेन-व्याल-उपरुद्धः सर्व-स्व-पुत्र-दार-आत्म-दानेनऽर्तस्त्रातारं आहूय निष्तीर्णः कुशल-प्रदिष्टं वेतनं दद्यात् ।। ०३.१३.३५ ।।

 तेन सर्वत्रऽर्त-दान-अनुशया व्याख्याताः ।। ०३.१३.३६ ।।

 लभेत पुंश्चली भोगं संगमस्यौपलिङ्गनात् । ।। ०३.१३.३७अ ब ।।

 अतियाच्ना तु जीयेत दौर्मत्य-अविनयेन वा ।। ०३.१३.३७च्द् ।।