अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ३६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५ अर्थशास्त्रम्
अध्यायः ३६
कौटिलीय:

 समाहर्तृवन्नागरिको नगरं चिन्तयेत् ।। ०२.३६.०१ ।।

 दश-कुलीं गोपो विंशति-कुलीं चत्वारिंशत्-कुलीं वा ।। ०२.३६.०२ ।।

 स तस्यां स्त्री-पुरुषाणां जाति-गोत्र-नाम-कर्मभिः जङ्घ-अग्रं आय-व्ययौ च विद्यात् ।। ०२.३६.०३ ।।

 एवं दुर्ग-चतुर्-भागं स्थानिकश्चिन्तयेत् ।। ०२.३६.०४ ।।

 धर्म-आवसथिनः पाषण्डि-पथिकानावेद्य वासयेयुः । स्व-प्रत्ययाश्च तपस्विनः श्रोत्रियांश्च ।। ०२.३६.०५ ।।

 कारु-शिल्पिनः स्व-कर्म-स्थानेषु स्व-जनं वासयेयुः । वैदेहकाश्चान्योन्यं स्व-कर्म-स्थानेषु ।। ०२.३६.०६ ।।

 पण्यानां अदेश-काल-विक्रेतारं अस्वकरणं च निवेदयेयुः ।। ०२.३६.०७ ।।

 शौण्डिक-पाक्व-मांसिक-औदनिक-रूप-आजीवाः परिज्ञातं आवासयेयुः ।। ०२.३६.०८ ।।

 अतिव्यय-कर्तारं अत्याहित-कर्माणं च निवेदयेयुः ।। ०२.३६.०९ ।।

 चिकित्सकः प्रच्छन्न-व्रण-प्रतीकार-कारयितारं अपथ्य-कारिणं च गृह-स्वामी च निवेद्य गोप-स्थानिकयोर्मुच्येत । अन्यथा तुल्य-दोषः स्यात् ।। ०२.३६.१० ।।

 प्रस्थित-आगतौ च निवेदयेत् । अन्यथा रात्रि-दोषं भजेत ।। ०२.३६.११ ।।

 क्षेम-रात्रिषु त्रि-पणं दद्यात् ।। ०२.३६.१२ ।।

 पथिक-उत्पथिकाश्च बहिर्-अन्तश्च नगरस्य देव-गृह-पुण्य-स्थान-वन-श्मशानेषु सव्रणं अनिष्ट-उपकरणं उद्भाण्डी-कृतं आविग्नं अतिस्वप्नं अध्व-क्लान्तं अपूर्वं वा गृह्णीयुः ।। ०२.३६.१३ ।।

 एवं अभ्यन्तरे शून्य-निवेश-आवेशन-शौण्डिक-औदनिक-पाक्व-मांसिक-द्यूत-पाषण्ड-आवासेषु विचयं कुर्युः ।। ०२.३६.१४ ।।

 अग्नि-प्रतीकारं च ग्रीष्मे ।। ०२.३६.१५ ।।

 मध्यमयोरह्नश्चतुर्-भागयोरष्ट-भागोअग्नि-दण्डः ।। ०२.३६.१६ ।।

 बहिर्-अधिश्रयणं वा कुर्युः ।। ०२.३६.१७ ।।

 पादः पञ्च-घटीनां कुम्भ-द्रोणि-निह्श्रेणी-परशु-शूर्प-अङ्कुश-कच-ग्रहणी-दृतीनां चाकरणे ।। ०२.३६.१८ ।।

 तृण-कटच्-छन्नान्यपनयेत् ।। ०२.३६.१९ ।।

 अग्नि-जीविन एकस्थान्वासयेत् ।। ०२.३६.२० ।।

 स्व-गृह-प्रद्वारेषु गृह-स्वामिनो वसेयुः असम्पातिनो रात्रौ ।। ०२.३६.२१ ।।

 रथ्यासु कुट-व्रजाः सहस्रं तिष्ठेयुः । चतुष्पथ-द्वार-राज-परिग्रहेषु च ।। ०२.३६.२२ ।।

 प्रदीप्तं अनभिधावतो गृह-स्वामिनो द्वादश-पणो दण्डः । षट्-पणोअवक्रयिणः ।। ०२.३६.२३ ।।

 प्रमादाद्दीप्तेषु चतुष्-पञ्चाशत्-पणो दण्डः ।। ०२.३६.२४ ।।

 प्रदीपिकोअग्निना वध्यः ।। ०२.३६.२५ ।।

 पांसु-न्यासे रथ्यायां अष्ट-भागो दण्डः । पङ्क-उदक-सम्निरोधे पादः ।। ०२.३६.२६ ।।

 राज-मार्गे द्वि-गुणः ।। ०२.३६.२७ ।।

 पण्य-स्थान-उदक-स्थान-देव-गृह-राज-परिग्रहेषु पण-उत्तरा विष्टा-दण्डाः । मूत्रेष्वर्ध-दण्डाः ।। ०२.३६.२८ ।।

 भैषज्य-व्याधि-भय-निमित्तं अदण्ड्याः ।। ०२.३६.२९ ।।

 मार्जार-श्व-नकुल-सर्प-प्रेतानां नगरस्य-अन्तर्-उत्सर्गे त्रि-पणो दण्डः । खर-उष्ट्र-अश्वतर-अश्व-प्रेतानां षट्-पणः । मनुष्य-प्रेतानां पञ्चाशत्-पणः ।। ०२.३६.३० ।।

 मार्ग-विपर्यासे शव-द्वारादन्यतश्च शव-निर्णयने पूर्वः साहस-दण्डः ।। ०२.३६.३१ ।।

 द्वाः-स्थानां द्विशतं ।। ०२.३६.३२ ।।

 श्मशानादन्यत्र न्यासे दहने च द्वादश-पणो दण्डः ।। ०२.३६.३३ ।।

 विषण्ण-अलिकं उभयतोरात्रं याम-तूर्यं ।। ०२.३६.३४ ।।

 तूर्य-शब्दे राज्ञो गृह-अभ्याशे स-पाद-पणं-अक्षण-ताडनं प्रथम-पश्चिम-यामिकम् । मध्यम-यामिकं द्वि-गुणम् । अन्तश्-चतुर्-गुणं ।। ०२.३६.३५ ।।

 शङ्कनीये देशे लिङ्गे पूर्व-अपदाने च गृहीतं अनुयुञ्जीत ।। ०२.३६.३६ ।।

 राज-परिग्रह-उपगमने नगर-रक्षा-आरोहणे च मध्यमः साहस-दण्डः ।। ०२.३६.३७ ।।

 सूतिका-चिकित्सक-प्रेत-प्रदीप-यान-नागरिक-तूर्य-प्रेक्षा-अग्नि-निमित्तं मुद्राभिश्चाग्राह्याः ।। ०२.३६.३८ ।।

 चार-रात्रिषु प्रच्छन्न-विपरीत-वेषाः प्रव्रजिता दण्ड-शस्त्र-हस्ताश्च मनुष्या दोषतो दण्ड्याः ।। ०२.३६.३९ ।।

 रक्षिणां अवार्यं वारयतां वार्यं चऽवारयतां क्षण-द्वि-गुणो दण्डः ।। ०२.३६.४० ।।

 स्त्रियं दासीं अधिमेहयतां पूर्वः साहस-दण्डः । अदासीं मध्यमः । कृत-अवरोधां उत्तमः । कुल-स्त्रियं वधः ।। ०२.३६.४१ ।।

 चेतन-अचेतनिकं रात्रि-दोषं अशंसतो नागरिकस्य दोष-अनुरूपो दण्डः । प्रमाद-स्थाने च ।। ०२.३६.४२ ।।

 नित्यं उदक-स्थान-मार्ग-भ्रमच्-छन्न-पथ-वप्र-प्राकार-रक्षा-अवेक्षणं नष्ट-प्रस्मृत-अपसृतानां च रक्षणं ।। ०२.३६.४३ ।।

 बन्धन-अगारे च बाल-वृद्ध-व्याधित-अनाथानां जात-नक्षत्र-पौर्णमासीषु विसर्गः ।। ०२.३६.४४ ।।

 पण्य-शीलाः समय-अनुबद्धा वा दोष-निष्क्रयं दद्युः ।। ०२.३६.४५ ।।

 दिवसे पञ्च-रात्रे वा बन्धनस्थान्विशोधयेत् । ।। ०२.३६.४६अ ब ।।

 कर्मणा काय-दण्डेन हिरण्य-अनुग्रहेण वा ।। ०२.३६.४६च्द् ।।

 अपूर्व-देश-अधिगमे युव-राज-अभिषेचने । ।। ०२.३६.४७अ ब ।।

 पुत्र-जन्मनि वा मोक्षो बन्धनस्य विधीयते ।। ०२.३६.४७च्द् ।।