अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ३५

विकिस्रोतः तः
← अध्यायः ३४ अर्थशास्त्रम्
अध्यायः ३५
कौटिलीय:
अध्यायः ३६ →

 समाहर्ता चतुर्धा जन-अप्दं विभज्य ज्येष्ठ-मध्यम-कनिष्ठ-विभागेन ग्राम-अग्रं परिहारकं आयुधीयं धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रतिकरं इदं एतावदिति निबन्धयेत् ।। ०२.३५.०१ ।।

 तत्-प्रदिष्टः पञ्च-ग्रामीं दश-ग्रामीं वा गोपश्चिन्तयेत् ।। ०२.३५.०२ ।।

 सीम-अवरोधेन ग्राम-अग्रम् । कृष्ट-अकृष्ट-स्थल-केदार-आराम-षण्ड-वाट-वन-वास्तु-चैत्य-देव-गृह-सेतु-बन्ध-श्मशान-सत्त्र-प्रपा-पुण्य-स्थान-विवीत-पथि-सङ्ख्यानेन क्षेत्र-अग्रम् । तेन सीम्नां क्षेत्राणां च करद-अकरद-सङ्ख्यानेन ।। ०२.३५.०३ ।।

 तेषु चएतावच्चातुर्-वार्ण्यम् । एतावन्तः कर्षक-गो-रक्षक-वैदेहक-कारु-कर्म-कर-दासाश्च । एतावच्च द्वि-पद-चतुष्-पदम् । इदं चएषु हिरण्यल्विष्टि-शुल्क-दण्डं समुत्तिष्ठतिइति ।। ०२.३५.०४ ।।

 कुलानां च स्त्री-पुरुषाणां बाल-वृद्ध-कर्म-चरित्र-आजीव-व्यय-परिमाणं विद्यात् ।। ०२.३५.०५ ।।

 एवं च जन-पद-चतुर्-भागं स्थानिकश्चिन्तयेत् ।। ०२.३५.०६ ।।

 गोप-स्थानिक-स्थानेषु प्रदेष्टारः कार्य-करणं बलि-प्रग्रहं च कुर्युः ।। ०२.३५.०७ ।।

 समाहर्तृ-प्रदिष्टाश्च गृह-पतिक-व्यञ्जना येषु ग्रामेषु प्रणिहितास्तेषां ग्रामाणां क्षेत्र-गृह-कुल-अग्रं विद्युः । मान-संजाताभ्यां क्षेत्राणि भोग-परिहाराभ्यां गृहाणि वर्ण-कर्मभ्यां कुलानि च ।। ०२.३५.०८ ।।

 तेषां जङ्घ-अग्रं आय-व्ययौ च विद्युः ।। ०२.३५.०९ ।।

 प्रस्थित-आगतानां च प्रवास-आवास-कारणम् । अनर्थ्यानां च स्त्री-पुरुषाणां चार-प्रचारं च विद्युः ।। ०२.३५.१० ।।

 एवं वैदेहक-व्यञ्जनाः स्व-भूमिजानां राज-पण्यानां खनि-सेतु-वन-कर्म-अन्त-क्षेत्रजानां प्रमाणं अर्घं च विद्युः ।। ०२.३५.११ ।।

 पर-भूमि-जातानां वारि-स्थल-पथ-उपयातानां सार-फल्गु-पुण्यानां कर्मसु च शुल्क-वर्तन्य्-आतिवाहिक-गुल्म-तर-देय-भाग-भक्त-पण्य-अगार-प्रमाणं विद्युः ।। ०२.३५.१२ ।।

 एवं समाहर्तृ-प्रदिष्टास्तापस-व्यञ्जनाः कर्षक-गो-रक्षक-वैदेहकानां अध्यक्षाणां च शौच-आशौचं विद्युः ।। ०२.३५.१३ ।।

 पुराण चोर-व्यञ्जनाश्चान्तेवासिनश्चैत्य-चतुष्पथ-शून्य-पद-उद-पान-नदी-निपान-तीर्थ-आयतन-आश्रम-अरण्य-शैल-वन-गहनेषु स्तेन-अमित्र-प्रवीर-पुरुषाणां च प्रवेशन-स्थान-गमन-प्रयोजनान्युपलभेरन् ।। ०२.३५.१४ ।।

 समाहर्ता जन-पदं चिन्तयेदेवं उत्थितः । ।। ०२.३५.१५अ ब ।।

 चिन्तयेयुश्च संस्थास्ताः संस्थाश्चान्याः स्व-योनयः ।। ०२.३५.१५च्द् ।।