अर्थशास्त्रम्/अधिकरणम् १/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:
अध्यायः ५ →

 कृषि-पाशुपाल्ये वणिज्या च वार्ता । धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रदानादौपकारिकी ।। ०१.४.०१ ।।

 तया स्व-पक्षं पर-पक्षं च वशी-करोति कोश-दण्डाभ्यां ।। ०१.४.०२ ।।

 आन्वीक्षिकी त्रयी वार्त्तानां योग-क्षेम-साधनो दण्डः । तस्य नीतिर्दण्ड नीतिः । अलब्ध-लाभ-अर्था लब्ध-परिरक्षणी रक्षित-विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ।। ०१.४.०३ ।।

 तस्यां आयत्ता लोक-यात्रा ।। ०१.४.०४ ।।

 "तस्माल्लोक-यात्रा-अर्थी नित्यं उद्यत-दण्डः स्यात् ।। ०१.४.०५ ।।

 न ह्येवंविधं वश-उपनयनं अस्ति भूतानां यथा दण्डः इत्याचार्याः ।। ०१.४.०६ ।।

 नैति कौटिल्यः ।। ०१.४.०७ ।।

 तीक्ष्ण-दण्डो हि भूतानां उद्वेजनीयो भवति ।। ०१.४.०८ ।।

 मृदु-दण्डः परिभूयते ।। ०१.४.०९ ।।

 यथा-अर्ह-दण्डः पूज्यते ।। ०१.४.१० ।।

 सुविज्ञात-प्रणीतो हि दण्डः प्रजा धर्म-अर्थ-कामैर्योजयति ।। ०१.४.११ ।।

 दुष्प्रणीतः काम-क्रोधाभ्यां अवज्ञानाद्वा वानप्रस्थ-परिव्राजकानपि कोपयति । किं-अङ्ग पुनर्गृहस्थान् ।। ०१.४.१२ ।।

 अप्रणीतस्तु मात्स्य-न्यायं उद्भावयति ।। ०१.४.१३ ।।

 बलीयानबलं हि ग्रसते दण्ड-धर-अभावे ।। ०१.४.१४ ।।

 स तेन गुप्तः प्रभवति इति ।। ०१.४.१५ ।।

 चतुर्-वर्ण-आश्रमो लोको राज्ञा दण्डेन पालितः ।। ०१.४.१६अ ब ।।

 स्वधर्म-कर्म-अभिरतो वर्तते स्वेषु वर्त्मसु ।। ०१.४.१६च्द् ।।