अर्थशास्त्रम्/अधिकरणम् १/अध्यायः २

विकिस्रोतः तः
← अध्यायः १ अर्थशास्त्रम्
अध्यायः २
कौटिलीय:
अध्यायः ३ →

 आन्वीक्षिकी त्रयी वार्त्ता दण्ड-नीतिश्चैति विद्याः ।। ०१.२.०१ ।।

 त्रयी वार्त्ता दण्ड नीतिश्चैति मानवाः ।। ०१.२.०२ ।।

 त्रयी विशेषो ह्यान्वीक्षिकीइति ।। ०१.२.०३ ।।

 वार्त्ता दण्ड-नीतिश्चैति बार्हस्पत्याः ।। ०१.२.०४ ।।

 संवरण-मात्रं हि त्रयी लोक-यात्रा-विद इति ।। ०१.२.०५ ।।

 दण्ड-नीतिरेका विद्याइत्यौशनसाः ।। ०१.२.०६ ।।

 तस्यां हि सर्व-विद्या-आरम्भाः प्रतिबद्धा इति ।। ०१.२.०७ ।।

 चतस्र एव विद्या इति कौटिल्यः ।। ०१.२.०८ ।।

 ताभिर्धर्म-अर्थौ यद्विद्यात्तद्विद्यानां विद्यात्वं ।। ०१.२.०९ ।।

 सांख्यं योगो लोकायतं चैत्यान्वीक्षिकी ।। ०१.२.१० ।।

 धर्म-अधर्मौ त्रय्यां अर्थ-अनर्थौ वार्त्तायां नय-अनयौ दण्ड-नीत्यां बल-अबले च एतासां हेतुभिरन्वीक्षमाणा लोकस्य उपकरोति व्यसनेअभ्युदये च बुद्धिं अवस्थापयति प्रज्ञा-वाक्य-क्रिया-वैशारद्यं च करोति ।। ०१.२.११ ।।

 प्रदीपः सर्व-विद्यानां उपायः सर्व-कर्मणां ।। ०१.२.१२अ ब ।।

 आश्रयः सर्व-धर्माणां शश्वदान्वीक्षिकी मता ।। ०१.२.१२च्द् ।।