अर्थशास्त्रम्/अधिकरणम् १/अध्यायः १

विकिस्रोतः तः
अर्थशास्त्रम्
अध्यायः १
कौटिलीय:
अध्यायः २ →

 ।। ओं नमः शुक्र-बृहस्पतिभ्याम् ।।

 पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्य एकम् इदम् अर्थ-शास्त्रं कृतम् ।। ०१.१.०१ ।।

 तस्यायं प्रकरण-अधिकरण-समुद्देशः ।। ०१.१.०२ ।।

 विद्या-समुद्देशः। वृद्ध-समुद्देशः। इन्द्रिय-जयः। अमात्य-उत्पत्तिः। मन्त्रि-पुरोहित-उत्पत्तिः। उपधाभिः शौच-अशौच-ज्ञानम् अमात्यानाम्। ।। ०१.१.०३अ ।।

 गूढ-पुरुष-प्रणिधिः। स्व-विषये कृत्य-अकृत्य-पक्ष-रक्षणम्। पर-विषये कृत्य-अकृत्य-पक्ष-उपग्रहः। ।। ०१.१.०३ब ।।

 मन्त्र-अधिकारः। दूत-प्रणिधिः। राज-पुत्र-रक्षणम्। अपरुद्ध-वृत्तम्। अपरुद्धे वृत्तिः। राज-प्रणिधिः। निशान्त-प्रणिधिः। आत्म-रक्षितकम्। । इति विनय-अधिकारिकं प्रथमं अधिकरणं ।। ०१.१.०३क ।।

 जनपद-निवेशः। भूमिच्-छिद्र-अपिधानम्। दुर्ग-विधानम्। दुर्ग-निवेशः। सम्निधातृ-निचय-कर्म। समाहर्तृ-समुदय-प्रस्थापनम्। अक्ष-पटले गाणनिक्य-अधिकारः। ।। ०१.१.०४अ ।।

 समुदयस्य युक्त-अपहृतस्य प्रत्यानयनम्। उपयुक्त-परीक्षा। शासन-अधिकारः। कोश-प्रवेश्य-रत्न-परीक्षा। आकर-कर्म-अन्त-प्रवर्तनम्। अक्ष-शालायां सुवर्ण-अध्यक्षः ।। ०१.१.०४ब ।।

 विशिखायां सौवर्णिक-प्रचारः। कोष्ठ-आगार-अध्यक्षः। पण्य-अध्यक्षः। कुप्य-अध्यक्षः। आयुध-अध्यक्षः। तुला-मान-पौतवम्। ।। ०१.१.०४क ।।

 देश-काल-मानम्। शुल्क-अध्यक्षः। सूत्र-अध्यक्षः। सीत-अध्यक्षः। सुरा-अध्यक्षः। सून-अध्यक्षः। गणिका-अध्यक्षः। ।। ०१.१.०४ड ।।

 नाव्-अध्यक्षः। गो-अध्यक्षः। अश्व-अध्यक्षः। हस्त्य्-अध्यक्षः। रथ-अध्यक्षः। पत्त्य्-अध्यक्षः। सेना-पति-प्रचारः। मुद्रा-अध्यक्षः। विवीत-अध्यक्षः। समाहर्तृ-प्रचारः। ।। ०१.१.०४ए ।।

 गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः प्रणिधयः। नागरिक-प्रणिधिः इत्यध्यक्ष-प्रचारो द्वितीयं अधिकरणं ।। ०१.१.०४फ़् ।।

 व्यवहार-स्थापना। विवाद-पद-निबन्धः। विवाह-सम्युक्तम्। दाय-विभागः। वास्तुकम्। समयस्य अनपाकर्म। ऋण-अदानम्। औपनिधिकम्। दास-कर्म-कर-कल्पः। ।। ०१.१.०५अ ।।

 सम्भूय समुत्थानम्। विक्रीत-क्रीत-अनुशयः। दत्तस्य अनपाकर्म। अस्वामि-विक्रयः। स्व-स्वामि-सम्बन्धः। साहसम्। वाक्-पारुष्यम्। दण्ड-पारुष्यम्। द्यूत-समाह्वयम्। प्रकीर्णकं इति। धर्म-स्थीयं तृतीयं अधिकरणं ।। ०१.१.०५ब ।।

 कारु-कर-क्षणम्। वैदेहक-रक्षणम्। उपनिपात-प्रतीकारः। गूढ-आजीविनां रक्षा। सिद्ध-व्यञ्जनैर्माणव-प्रकाशनम्। शङ्का-रूप-कर्म-अभिग्रहः। ।। ०१.१.०६अ ।।

 आशु-मृतक-परीक्षा। वाक्य-कर्म-अनुयोगः। सर्व-अधिकरण-रक्षणं ।। ०१.१.०६ब ।।

 एक-अङ्ग-वध-निष्क्रयः। शुद्धश्चित्रश्च दण्ड कल्पः। कन्या-प्रकर्म। अतिचार-दण्डाः इति कण्टक-शोधनं चतुर्थं अधिकरणं ।। ०१.१.०६क ।।

 दाण्डकर्मिकम्। कोश-अभिसंहरणम्। भृत्य-भरणीयम्। अनुजीवि-वृत्तम्। समय-आचारिकम्। राज्य-प्रतिसंधानम्। एक-ऐश्वर्यं इति योग-वृत्तं पञ्चमं अधिकरणं ।। ०१.१.०७ ।।

 प्रकृति-सम्पदः। शम-व्यायामिकं इति मण्डल-योनिः षष्ठं अधिकरणं ।। ०१.१.०८ ।।

 षाड्गुण्य-समुद्देशः। क्षय-स्थान-वृद्धि-निश्चयः। संश्रय-वृत्तिः। समहीन-ज्यायसां गुण-अभिनिवेशः। हीन-संधयः। विगृह्य आसनम्। संधाय आसनम्। विगृह्य यानम्। संधाय यानम्। ।। ०१.१.०९अ ।।

 सम्भूय प्रयाणम्। यातव्य-अमित्रयोरभिग्रह-चिन्ता। क्षय-लोभ-विराग-हेतवः प्रकृतीनाम्। सामवायिक-विपरिमर्शः। ।। ०१.१.०९ब ।।

 संहित प्रयाणिकम्। परिपणित-अपरिपणित-अपसृताः संधयः। द्वैधी-भाविकाः संधि-विक्रमाः। यातव्य-वृत्तिः। अनुग्राह्य-मित्र-विशेषाः। ।। ०१.१.०९क ।।

 मित्र-हिरण्य-भूमि-कर्म-संधयः। पार्ष्णि-ग्राह-चिन्ता। हीन-शक्ति-पूरणम्। बलवता विगृह्य उपरोध-हेतवः। दण्ड-उपनत-वृत्तम्। ।। ०१.१.०९ड ।।

 दण्ड-उपनायि-वृत्तम्। संधि-कर्म। समाधि-मोक्षः। मध्यम-चरितम्। उदासीन-चरितम्। मण्डल-चरितं इति षाड्गुण्यं सप्तमं अधिकरणं ।। ०१.१.०९ए ।।

 प्रकृति-व्यसन-वर्गः। राज-राज्ययोर्व्यसन-चिन्ता। पुरुष-व्यसन-वर्गः। पीडन-वर्गः। स्तम्भ-वर्गः। कोश-सङ्ग-वर्गः। मित्र-व्यसन-वर्गः इति व्यसन-आधिकारिकं अष्टमं अधिकरणं ।। ०१.१.१० ।।

 शक्ति-देश-काल-बल-अबल-ज्ञानम्। यात्रा-कालाः। बल-उपादान-कालाः। सम्नाह-गुणाः। प्रतिबल-कर्म। पश्चात्कोप-चिन्ता। बाह्य-आभ्यन्तर-प्रकृति-कोप-प्रतीकाराः ।। ०१.१.११अ ।।

 क्षय-व्यय-लाभ-विपरिमर्शः। बाह्य-आभ्यन्तराश्चऽपदः। दुष्य-शत्रु-सम्युक्ताः। अर्थ-अनर्थ-संशय-युक्ताः। तासां उपाय-विकल्पजाः सिद्धयः इत्यभियास्यत्कर्म नवमं अधिकरणं ।। ०१.१.११ब ।।

 स्कन्ध-आवार-निवेशः। स्कन्ध-आवार-प्रयाणम्। बल-व्यसन-अवस्कन्द-काल-रक्षणम्। कूट-युद्ध-विकल्पाः। स्व-सैन्य-उत्साहनम्। स्व-बल-अन्य-बल-व्यायोगः। युद्ध-भूमयः। पत्त्य्-अश्व-रथ-हस्ति-कर्माणि। पक्ष-कक्ष-उरस्यानां बल-अग्रतो व्यूह-विभागः। सार-फल्गु-बल-विभागः। पत्त्य्-अश्व-रथ-हस्ति-युद्धानि। दण्ड-भोग-मण्डल-असंहत-व्यूह-व्यूहनम्। तस्य प्रतिव्यूह-स्थापनं इति सांग्रामिकं दशमं अधिकरणं ।। ०१.१.१२ ।।

 भेद-उपादानानि। उपांशु-दण्डाः इति संघ-वृत्तं एकादशं अधिकरणं ।। ०१.१.१३ ।।

 दूत-कर्म। मन्त्र-युद्धम्। सेना-मुख्य-वधः। मण्डल-प्रोत्साहनम्। शस्त्र-अग्नि-रस-प्रणिधयः। वीवध-आसार-प्रसार-वधः। योग-अतिसंधानम्। दण्ड-अतिसंधानम्। एक-विजयः इत्याबलीयसं द्वादशं अधिकरणं ।। ०१.१.१४ ।।

 उपजापः। योग-वामनम्। अपसर्प-प्रणिधिः। पर्युपासन-कर्म। अवमर्दः। लब्ध-प्रशमनं इति दुर्ग-लम्भ-उपायस्त्रयोदशं अधिकरणं ।। ०१.१.१५ ।।

 पर-बल-घात-प्रयोगः। प्रलम्भनम्। स्व-बल-उपघात-प्रतीकारः इत्यौपनिषदिकं चतुर्दशं अधिकरणं ।। ०१.१.१६ ।।

 तन्त्र-युक्तयः इति तन्त्र-युक्तिः पञ्चदशं अधिकरणं ।। ०१.१.१७ ।।

 शास्त्र-समुद्देशः पञ्चदश-अधिकरणानि साशीति-प्रकरण-शतं सपञ्चाशद्-अध्याय-शतं षट्-श्लोक-सहस्राणिइति ।। ०१.१.१८ ।।

 सुख-ग्रहण-विज्ञेयं तत्त्व-अर्थ-पद-निश्चितं ।। ०१.१.१९अ ब ।।

 कौटिल्येन कृतं शास्त्रं विमुक्त-ग्रन्थ-विस्तरं ।। ०१.१.१९च्द् ।।