अर्थशास्त्रम्/अधिकरणम् १/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० अर्थशास्त्रम्
अध्यायः ११
कौटिलीय:
अध्यायः १२ →

 उपधाभिः शुद्ध-अमात्य-वर्गो गूढ-पुरुषानुत्पादयेत्कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनान्सत्त्रि-तीष्क्ण-रसद-भिक्षुकीश्च ।। ०१.११.०१ ।।

 पर-मर्मज्ञः प्रगल्भश्छात्रः कापटिकः ।। ०१.११.०२ ।।

 तं अर्थ-मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् "राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीं एव प्रत्यादिश" इति ।। ०१.११.०३ ।।

 प्रव्रज्या प्रत्यवसितः प्रज्ञा-शौच-युक्त उदास्थितः ।। ०१.११.०४ ।।

 स वार्त्ता-कर्म-प्रदिष्टायां भूमौ प्रभूत-हिरण्य-अन्तेवासी कर्म कारयेत् ।। ०१.११.०५ ।।

 कर्म-फलाच्च सर्व-प्रव्रजितानां ग्रास-आच्छादन-आवसथान्प्रतिविदध्यात् ।। ०१.११.०६ ।।

 वृत्ति-कामांश्चौपजपेत् "एतेनएव वेषेण राज-अर्थश्चरितव्यो भक्त-वेतन-काले चौपस्थातव्यम्" इति ।। ०१.११.०७ ।।

 सर्व-प्रव्रजिताश्च स्वं स्वं वर्गं एवं उपजपेयुः ।। ०१.११.०८ ।।

 कर्षको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो गृह-पतिक-व्यञ्जनः ।। ०१.११.०९ ।।

 स कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ।। ०१.११.१० ।।

 वाणिजको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो वैदेहक-व्यञ्जनः ।। ०१.११.११ ।।

 स वणिक्-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ।। ०१.११.१२ ।।

 मुण्डो जटिलो वा वृत्ति-कामस्तापस-व्यञ्जनः ।। ०१.११.१३ ।।

 स नगर-अभ्याशे प्रभूत-मुण्ड-जटिल-अन्तेवासी शाकं यव-मुष्टिं वा मास-द्विमास-अन्तरं प्रकाशं अश्नीयात् । गूढं इष्टं आहारं ।। ०१.११.१४ ।।

 वैदेहक-अन्तेवासिनश्चएनं समिद्ध-योगैरर्चयेयुः ।। ०१.११.१५ ।।

 शिष्याश्चास्यऽवेदयेयुः "असौ सिद्धः सामेधिकः" इति ।। ०१.११.१६ ।।

 समेध-आशास्तिभिश्चाभिगतानां अङ्ग-विद्यया शिष्य-संज्ञाभिश्च कर्माण्यभिजने अवसितान्यादिशेत् अल्प-लाभं अग्नि-दाहं चोर-भयं दूष्य-वधं तुष्टि-दानं विदेश-प्रवृत्ति-ज्ञानम् । "इदं अद्य श्वो वा भविष्यति । इदं वा राजा करिष्यति" इति ।। ०१.११.१७ ।।

 तदस्य गूढाः सत्त्रिणश्च सम्पादयेयुः ।। ०१.११.१८ ।।

 सत्त्व-प्रज्ञा-वाक्य-शक्ति-सम्पन्नानां राज-भाग्यं अनुव्याहरेत् । मन्त्रि-सम्योगं च ब्रूयात् ।। ०१.११.१९ ।।

 मन्त्री चएषां वृत्ति-कर्मभ्यां वियतेत ।। ०१.११.२० ।।

 ये च कारणादभिक्रुद्धास्तानर्थ-मानाभ्यां शमयेत् । अकारण-क्रुद्धांस्तूष्णीं दण्डेन । राज-द्विष्ट-कारिणश्च ।। ०१.११.२१ ।।

 पूजिताश्चार्थ-मानाभ्यां राज्ञा राज-उपजीविनां ।। ०१.११.२२अ ब ।।

 जानीयुः शौचं इत्येताः पञ्च-संस्थाः प्रकीर्तिताः ।। ०१.११.२२च्द् ।।